विश्वास-प्रस्तुतिः - 11
- मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिर्व्यष्टिनामादिकर्ता
जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमो़ऽत्र ।
तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत-
स्तत्तज्जीवान्तरात्मा सृजति च भगवांस्तादृशं कार्यजातम् ॥
३४-तमाहोबिल-यतिः - 11
- मन्वाद्यैरित्यादि । मन्वाद्यैः - वैवस्वतमनुप्रभृतिभिस्स्मृतिकर्तृभिः । असौ सरसिजवसतिः - चतुर्मुखः । व्यष्टिनामादिकर्ता स्मर्यते - ‘नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः ॥’ इत्यादिना व्यष्टिदशायां यन्नामादि नामरूपव्याकरणं तत्कर्ता कथ्यते । व्यष्टिर्नाम जीवानां करणकलेबरसंयोगकरणम् । ‘जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरूपितम् । तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टिः’ इति चिन्तामणिकाराः प्राहुः । जीवेनानुप्रविश्येत्यपि कथितम् - ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ इति श्रुत्या जीवेनानुप्रविश्येत्यप्यभिहितम् । अतः - उक्तहेतुभ्यः । अत्र - व्यष्टिसृष्टौ । प्रेष्यकृत्यक्रमः - चारेणानुप्रविश्य परबलं सङ्कलयानीति प्रेष्यकर्तृकपरबलसङ्कलनादिक्रमः । प्रतीयत इति शेषः । तन्न - तन्न युक्तम् । एको हि प्रवेष्टा त्रिवृतमकृत व्याकरोच्चेत्यधीतः - ‘सेयं देवतेमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत्तासां त्रिवृतंत्रिवृतमेकैकामकरोत्’ इति श्रुत्या एकस्यैव प्रवेष्टृत्वं त्रिवृत्करणकर्तृत्वं नामरूपव्याकर्तृत्वञ्चाभिहितमित्यर्थः । नामरूपव्याकरणस्याण्डसृष्ट्यनन्तरभाविचतुर्मुखकर्तृकत्वेऽण्ड सृष्टिपूर्वभावित्रिवृत्करणेनैककर्तृकत्वासम्भव इति भावः । तर्हि कथं चतुर्मुखकर्तृके परमात्मनः कर्तृत्वमित्याशङ्क्याह - तत्तज्जीवेति । भगवान् - परमात्मा । तत्तज्जीवान्तरात्मा - चतुर्मुखादितत्तज्जीवशरीरी सन् । तादृशं कार्यजातञ्च सृजति - चतुर्मुखादिकर्तृकतया प्रतीयमानं नामरूपव्याकरणादिकञ्च कार्यं करोति । यथा तेजःप्रभृतिशरीरकस्तत्तत्सृष्ट्यादिकमकरोत् तथेत्यर्थः ॥
कुमार-वरदः - 11
- अत्र पेटिकासङ्गतिर्भाष्ये - ‘भूतेन्द्रियादीनां समष्टिसृष्टिर्जीवानां कर्तृत्वञ्च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात् । (पुरस्तादिति तृतीयपाद इत्यर्थः) जीवानां स्वेन्द्रियाधिष्ठानञ्च परमात्मायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम् । (अनन्तरमस्मिन्पाद इत्यर्थः) या त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टिः सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म, उत तेजःप्रभृतिशरीरकस्य परस्याबादिसृष्टिवत् हिरण्यगर्भशरीरकस्य परस्य ब्रह्मण इतीदानीं चिन्त्यते ।’ इति । अयमर्थः - अत्र तृतीयपादादारभ्य इतः पूर्वमेका पेटिका । तत्र भूतेन्द्रियसमष्टिसृष्टिनिरूपणम्, अथ व्यष्टिसृष्टिनिरूपणमिति पेटिकासंङ्गतिः । व्यष्टेश्चोपकरणत्वात् तत्सृष्टिनिरूपणमिति पादसङ्गतिः । पूर्वाधिकरणे ‘खं वायुर्ज्योतिः’ इत्यादौ समष्टिसृष्टेः परमात्मकर्तृकत्वमुक्तम्, अधुना पुनर्व्यष्टिसृष्टिर्जीवात्मकर्तृकतया प्रतिभातीति शङ्कोत्थानेनावान्तरसंङ्गतिः । इदञ्चाभिप्रेतं - जीवोपकरणानां प्राणानामुत्पत्त्यादिकं निरूपितम् । तैर्जीवस्य संयोगकरणं हि व्यष्टिसृष्टिरिति च सङ्गतिः । तदर्थविचारस्तु - किं ब्रह्मणः साक्षात् सर्वकारणत्वं श्रुतम् उपपद्यते उत नेति । तदर्थं व्यष्टिनामरूपव्याकरणं किं हिरण्यगर्भमात्रकर्तृकम् उत तदवस्थब्रह्मकर्तृकम् इति । तदर्थम् ‘अनेन जीवेन’ इति जीवसामान्यस्य कर्तृत्वश्रुतिः किं जीवसमष्ट्याश्रयकेवलहिरण्यगर्भकर्तृकत्वमवगमयति, उत जीवमात्रविशिष्टपरमात्मकर्तृकत्वमिति । तदर्थं किं केवलहिरण्यगर्भकर्तृकत्वे त्रिवृत्करणनामरूपव्याकरणयोः श्रूयमाणयोः एककर्तृत्वं घटितं नेति । तदर्थं किं त्रिवृत्करणे हिरण्यगर्भस्य कर्तृत्वं संभवति नेति । तदर्थं किं त्रिवृत्करणं हिरण्यगर्भोत्पत्तिस्थानभूताण्डसृष्टेरुत्तरकालिकं वा पूर्वकालिकं वेति । तदर्थं किं ‘नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति पाठक्रमोऽण्डान्तर्वर्तित्रिवृत्करणप्रदर्शनमन्नादीनां त्रिवृत्करणश्रुतिश्च त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकतावमगमयति नेति । किमेते त्रयो हेतवः प्रबला उत दुर्बला इति । तेषां प्राबल्ये त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकतावगमकतया तस्य हिरण्यगर्भकर्तृकत्वसम्भवेन त्रिवृत्करणनामरूपव्याकरणयोः कर्त्रैक्यश्रुत्युपपत्तेः ‘अनेन जीवेन’ इति निर्देशस्य हिरण्यगर्भमात्रकर्तृकत्वज्ञापकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भमात्रकर्तृकमिति परब्रह्मणस्साक्षात्सर्वकारणत्वं न स्यात् । पाठक्रमादीनां दुर्बलत्वे त्रिवृत्करणस्याण्डसृष्ट्युत्तरकालिकत्वासिद्धेस्तत्र हिरण्यगर्भस्य कर्तृत्वासम्भवेन त्रिवृत्करणनामरूपव्याकरणयोः कर्त्रैक्यायोगात्तदुपपत्त्यर्थम् ‘अनेन जीवेन’ इति निर्देशस्य जीवसमष्टिशरीरकपरमात्मकर्तृकत्वावगमकतया व्यष्टिनामरूपव्याकरणं हिरण्यगर्भशरीरकपरमात्मकर्तृकमिति परब्रह्मणस्साक्षात्सर्वकारणत्वमुपपन्नमिति सिध्यति । अत्र पूर्वपक्षवादी मन्यते - मन्वार्द्यैमहर्षिभिस्सरसिजवसतिरेव नामरूपव्याकरणकर्तृत्वेन कथ्यते, स्मर्यते च ‘नामरूपञ्च भूतानाम्’ इति । न च स्मृतिमात्रम्, श्रुतिरपि ‘अनेन जीवेन’ इति । अतश्चारेणानुप्रविश्य परबलं सङ्कलयानीति प्रेष्यकृत्यक्रमोऽत्रेति शङ्कते - मन्वाद्यैरिति । उक्तमर्थं प्रतिक्षिपति - तन्नेति । तदेव विवृणोति - एक इति । एक एव हि प्रवेष्टा ‘अनेन जीवेनात्मनानुप्रविश्य’ इति, त्रिवृतमकृत ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ।’ इति, ‘नामरूपे व्याकरोत्’ इति चाधीतः । तेन त्रयाणामेककर्तृकत्वं सिद्धम् । तर्हि कथं चतुर्मुखकर्तृके परमात्मनः कर्तृत्वमित्याशङ्क्याह - तत्तदिति । यथा ‘तत्तेज ऐक्षत’, ‘तदपोऽसृजत’ इत्यादौ तेजःप्रभृतिविशिष्टस्य परमात्मनः कर्तृत्वम् । एवं चतुर्मुखादिविशिष्टस्य परमात्मन एव समष्टिसृष्टिवत् व्यष्टिसृष्टावपि कारणत्वमित्यर्थः ॥
मूलम् - 11
- मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिर्व्यष्टिनामादिकर्ता
जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमो़ऽत्र ।
तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत-
स्तत्तज्जीवान्तरात्मा सृजति च भगवांस्तादृशं कार्यजातम् ॥
विश्वास-प्रस्तुतिः - 12
- या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह
प्रागेवैकोऽन्तरात्मा वपुरितर इति स्थायिभेदाभिधानात् ।
तेनेशस्तद्विशिष्टस्वकरणकतयाऽनुप्रवेशेऽपि कर्ता
जीवे तत्कर्तृतायामिह न हि घटते क्त्वाश्रुतिः कर्तृभेदात् ॥
३४-तमाहोबिल-यतिः - 12
- या जीवेनेत्यादि । जीवेनात्मनेति या श्रुतिः - जीवेनात्मनेतिपदघटिता ‘अनेन जीवेनात्मना’ इत्याकारिका या श्रुतिः । इयमपि ब्रह्मजीवैक्यं नाह - असौ श्रुतिरपि ब्रह्मजीवैक्यं न वदति । एकोऽन्तरात्मा इतरो वपुरिति प्रागेव स्थायिभेदाभिधानात् - एकः परमात्मा सर्वजीवान्तरात्मा, इतरो जीवस्तु वपुस्तच्छरीरभूत इत्येवं पूर्वमेव श्रुतिस्मृतिसूत्रोपबृहंणादिभिर्नित्यसिद्धभेदोपपादनात् । तेन - उक्तोपपादनेन । ईशः - परमात्मा । तद्विशिष्टस्वकरणकतया - जीवविशिष्टस्वात्मकरणकतया । अनुप्रवेशेऽपि - ‘अनुप्रविश्य’ इत्युक्तेऽनुप्रवेशेऽपि कर्ता - कर्ता भवति । जीवविशिष्टस्वात्मनः प्रवेशक्रियायां करणत्वात् तस्य तिङानभिधानात् करणे तृतीयेत्यर्थः । ‘जीवेन’ जीवविशिष्टेन ‘आत्मना’ स्वेन करणभूतेनेत्यर्थः । जीवे तत्कर्तृतायाम् - जीवात्मनि प्रवेशकर्तृतायामङ्गीकृतायाम् । इह - श्रुतिवाक्ये । कर्तृभेदात् - प्रवेशकर्तुर्जीवस्य व्याकरणकर्तुः परस्य च भेदात् । क्त्वाश्रुतिः - अनुप्रविश्येति क्त्वादेशल्यप्श्रुतिः । न घटते हि - तस्यास्समानकर्तृकक्रियाविषयकत्वात् न युज्यत इत्यर्थः । अत्र चिन्तामणिपङ्क्तिः ‘एवं परोक्तमर्थं निरस्य परमात्मन एव नामरूपव्याकरणवत् अनुप्रवेशेऽपि कर्तृत्वं जीवविशिष्टवेषेणेति निगमयति - तेनेति । एवमुपपादनात् तद्विशिष्टो जीवविशिष्ट एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्ता । स्वकरणकतया - जीवशरीरकतया ‘करणं साधकतमक्षेत्रगात्रेन्द्रियेष्वपि’ इति करणशब्दस्य गात्रवाचित्वात् । अथवा स्वस्यैव साधकतमतया । ईश्वरो हि विवक्षातः कारकाणि भवन्तीति न्यायेन साधकतमतया करणतयापि व्यपदेष्टुं शक्यते । स्वतन्त्रतया कर्तृत्वेन व्यवहारः सुप्रसिद्ध एव । जीवस्यैव प्रवेशकर्तृत्वपक्षे प्रधानभूतं दोषमाह - जीव इति । जीवस्य प्रवेशकर्तृत्वे क्त्वाश्रुतिर्न घटते, जीवस्य प्रवेशकर्तृत्वादीश्वरस्य नामरूपव्याकर्तृत्वात्’ इति ॥
कुमार-वरदः - 12
- अत्र परपक्षोक्तप्रक्रियां स्वपक्षेण भङ्क्त्वा ‘अनेन जीवेन’ इति वाक्यार्थं विशिष्य शिष्यशिक्षायै विशदयन् निगमयति - या जीवेनेति । ‘अनेन जीवेनात्मना’ इति श्रुतिर्न जीवब्रह्मणोरैक्यमाचष्टे । प्रागेव - पूर्वमेव । एक एवान्तरात्मा, सर्वं तस्य वपुरिति श्रुतिस्मृतिसूत्रोपबृंहणादिभिर्नित्यसिद्धभेदोपपादनात् । एवं परोक्तमर्थं निरस्य परमात्मन एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्तृत्वं जीवविशिष्टवेषेणेति निगमयति - तेनेति । एवमुपपादनात्तद्विशिष्टो जीवविशिष्ट एव नामरूपव्याकरणवदनुप्रवेशेऽपि कर्ता । स्वकरणकतया - जीवशरीरकया । ‘करणं साधकतमक्षेत्रगात्रेन्द्रियेष्वपि’ इति करणशब्दस्य गात्रवाचित्वात् । अथवा स्वस्यैव साधकतमतया । ईश्वरो हि विवक्षातः कारकाणि भवन्तीति न्यायेन साधकतमतया करणतयापि व्यपदेष्टुं शक्यते । स्वतन्त्रया कर्तृत्वेन व्यवहारस्सुप्रसिद्ध एव । जीवस्यैव प्रवेशकर्तृत्वपक्षे प्रधानभूतं दोषमाह - जीव इति । जीवस्य प्रवेशकर्तृत्वे क्त्वाश्रुतिर्न घटते, जीवस्य प्रवेशकर्तृत्वादीश्वरस्य नामरूपव्याकर्तृत्वादिति ॥
मूलम् - 12
- या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह
प्रागेवैकोऽन्तरात्मा वपुरितर इति स्थायिभेदाभिधानात् ।
तेनेशस्तद्विशिष्टस्वकरणकतयाऽनुप्रवेशेऽपि कर्ता
जीवे तत्कर्तृतायामिह न हि घटते क्त्वाश्रुतिः कर्तृभेदात् ॥
विश्वास-प्रस्तुतिः - 13
- अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं
तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत् ।
मैवं, ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा
भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकर्षस्य (कृष्टेः प्र)दृष्टिः ॥
३४-तमाहोबिल-यतिः - 13
- अग्न्यादावित्यादि । अण्डमध्यस्थितिमत्यग्न्यादौ रूपभेदैस्त्रिवृत्त्वं कथितम् – अण्डमध्यवर्तिन्यग्न्यादौ रोहितादिरूपविशेषैस्त्रिवृत्त्वमभिहितं ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इत्यादिना । तेजोऽबन्नाशितोक्तावपि - तेजोरूपमब्रूपमन्नरूपञ्च यदशितं भुक्तं तस्योक्तावपि ‘अन्नमशितं त्रेधा विधीयते आपः पीतास्त्रेधा विधीयन्ते तेजोऽशितं त्रेधा विधीयते’ इत्यादौ तद्विशेषकथनप्रकरणेऽपि । इदम् - त्रिवृत्करणम् । विशदम् - व्यक्तम् । तेन - एवमण्डान्तर्वर्तिवस्तुषु त्रिवृत्करणप्रदर्शनेन । वेधाः - चतुर्मुखः । त्रिवृत्कृत् - त्रिवृत्करणकर्ता अस्तु । मैवम् - एवं न शङ्कितव्यम् । असौ ब्रह्माण्डसृष्टिरत्रिवृत्कारपूर्वा कथं भवतु - ‘नानावीर्याः पृथग्भूतास्ततस्ते संहतिं विना । नाशक्नुवन्प्रजास्स्रष्टुं असमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ताः ह्यण्डमुत्पादयन्ति ते ॥’ इत्यादिना अत्रिवृत्कृतानां भूतानामण्डसृष्ट्यसामर्थ्यकथनात् कथमत्रिवृत्करणपूर्वा अण्डसृष्टिर्भवतीत्यर्थः । भुक्तेऽन्नादौ त्रिधा परिणतिरुक्ता - ‘अन्नमशितम्’ इत्यादौ भुक्तस्यान्नादेः पुरीषादिरूपेण त्रेधा परिणाम उच्यते; नतु त्रिवृत्करणम् । त्रिवृत्करणं नाम त्रयाणामेकीकरणं न पुनर्विभागः । इतरत् - अग्न्यादौ रोहितादिरूपकथनं तु । सन्निकर्षस्य - भूतान्तरसन्निकर्षस्य । दृष्टिः - प्रदर्शनम् । शुश्रूषोः श्वेतकेतोरेकस्मिन्भूते भूतान्तरसन्निकर्षप्रदर्शनार्थमिदमिति भावः ॥
कुमार-वरदः - 13
- नन्वण्डमध्यस्थितिमत्यग्न्यादौ रूपभेदैस्रिवृत्वमुक्तम्, ‘यदग्ने रोहितं रूपम्’ इत्यादिना । ‘अन्नमशितं त्रेधा विधीयते’ इत्यादाविदमेव त्रिवृत्करणं विशदमुक्तमिति चतुर्मुखस्यैव त्रिवृत्करणकर्तृत्वमिति कश्चिन्मन्दः प्राह - अग्न्यादावित्यादिना । तत्प्रतिक्षिपति - मैवमिति । तदेव विवृणोति - ब्रह्माण्डेति । ‘नानावीर्याः’ इति श्लोके त्रिवृत्कृतानामेव भूतानां सृष्टिसामर्थ्यमित्युक्तम्, अण्डसृष्टेः पूर्वं त्रिवृत्करणाभावे कथं ब्रह्माण्डसृष्टिर्भवतु । यत्तु ‘अन्नमशितं त्रेधा विधीयते’ इति तेन त्रेधा परिणतिमात्रमुच्यते न पुनस्रिवृत्करणम् । त्रिवृत्करणं हि नाम त्रयाणामेकीकरणं नपुनर्विभागः । इयं त्रिधोक्ता परिणतिः । इतरत् भूतेषु भूतान्तरसन्निकर्षस्य दृष्टिः प्रदर्शनमित्यर्थः ॥
मूलम् - 13
- अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं
तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत् ।
मैवं, ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा
भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकर्षस्य (कृष्टेः प्र)दृष्टिः ॥
विश्वास-प्रस्तुतिः - 14
- अक्षाणां जन्मसंख्यापरिमितय इह प्राणवायोस्स्वरूपं
तत्सौक्ष्म्यं देवतादेस्तदुभयविषयाधिष्ठितौ पारतन्त्र्यम् ।
प्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्व्यष्टिनामादि चाद्या-
त्पञ्चीकर्तुः स्वनाभिप्रभवकवचितादूचिरे प्राणपादे ॥
३४-तमाहोबिल-यतिः - 14
- अक्षाणामित्यादि । अक्षाणां जन्मसंख्यापरिमितयः - इन्द्रियाणां जन्म तेषामेकादशत्वसंख्या अणुत्वरूपा परिमितिश्च । प्रथमद्वितीयतृतीयाधिकरणार्था इमे । प्राणवायोस्स्वरूपम् - चतुर्थाधिकरणार्थः । तत्सौक्ष्म्यम् - तस्य प्राणवायोरणुत्वरूपं सूक्ष्मत्वम् । अणुश्चेति पञ्चमाधिकरणार्थः । देवतादेः - अग्न्यादिदेवतानां जीवात्मनश्च । तदुभयविषयाधिष्ठितौ - मुख्यामुख्यप्राणविषयाधिष्ठाने । पारतन्त्र्यम् - परमात्माधीनत्वम् । ‘ज्योतिराद्यधिष्ठानम्’ इत्यादिषष्ठाधिकरणार्थः । प्राणस्य अनिन्द्रियत्वम् - इन्द्रियत्वाभावः । अयं ‘त इन्द्रियाणि’ इत्यादिसप्तमाधिकरणार्थः । बहुविधिचिदचिद्व्यष्टिनामादि च - बहुविधचिदचिद्व्यष्टिरूपं यत् नामादिशब्दितं रूपञ्च । नामरूपव्याकरणमित्यर्थः । स्वनाभिप्रभवकवचितात् - स्वनाभिप्रभूतचतुर्मुखशरीरकात् । आद्यात् पञ्चीकर्तुः - समष्टिसृष्टौ तेजोऽबन्नादिशरीरकत्वेन तत्तत्कार्यसृष्टिहेतोः पञ्चीकरणहेतुभूतात् परमपुरुषात् परब्रह्मभूतादेव भवतीत्येतेऽर्थाः । इह प्राणपादे ऊचिरे - अधिकरणक्रमेणोक्ता इत्यर्थः ॥
कुमार-वरदः - 14
- अत्र पादेऽधिकरणाष्टकार्थान्विभज्य व्याचष्टे - अक्षाणामित्यादिना । इन्द्रियाणां जन्म तेषामेकादशत्वं संख्या परिमाणञ्चाणुत्वं मुख्यप्राणस्य स्वरूपं तस्यैव मुख्यप्राणस्याणुत्वं देवतानां जीवानाञ्च मुख्यामुख्यप्राणाधिष्ठाने पारतन्त्र्यं तत्र मुख्यप्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्व्यष्टिनामरूपव्याकरणं स्वनाभिप्रभवचतुर्मुखशरीरकादाद्यात् समष्टिसृष्टौ तेजोऽबन्नादिशरीरकत्वेन तत्तत्कार्यसृष्टिहेतोः पञ्चीकरणहेतुभूतात् परमपुरुषात् परब्रह्मभूतादेव भवतीत्येतेऽर्था विशदमूचिरे प्राणपाद इति ॥
मूलम् - 14
- अक्षाणां जन्मसंख्यापरिमितय इह प्राणवायोस्स्वरूपं
तत्सौक्ष्म्यं देवतादेस्तदुभयविषयाधिष्ठितौ पारतन्त्र्यम् ।
प्राणस्यानिन्द्रियत्वं बहुविधचिदचिद्व्यष्टिनामादि चाद्या-
त्पञ्चीकर्तुः स्वनाभिप्रभवकवचितादूचिरे प्राणपादे ॥
विश्वास-प्रस्तुतिः - 15
- नित्यत्वं व्योम्नि वाताद्यणुषु च पुरुषेऽप्यज्ञतादीनपार्थान्
श्रोत्रादौ भूतताद्यं मनसि च विभुतां नित्यतत्त्वान्तरत्वम् ।
प्राणेष्वात्मादिभावं स्वपदनियमनस्वैरितां स्वर्गिबृन्दे
वेधस्युन्मुक्तयन्त्रक्रममपि वदतां पादयुग्मेऽत्र भङ्गः ॥
३४-तमाहोबिल-यतिः - 15
- नित्यत्वमित्यादि । व्योम्नि - आकाशे । नित्यत्वम् - वदतामित्यनुकर्षः । वाताद्यणुषु च - वायवीयादिपरमाणुष्वपि । नित्यत्वं वदतामिति द्वयोरनुषङ्गानुकर्षौ । पुरुषेऽपि - जीवात्मन्यपि । अज्ञतादीनपार्थान् - ज्ञानरूपत्वाभावेन पाषाणवन्मूढत्वज्ञातृत्वाभावादीन् दुरर्थान् । वदतामिति पूर्ववत् । श्रोत्रादौ - श्रोत्रेन्द्रियप्रभृतिवस्तुषु । भूतताद्यम् - आकाशस्वरूपत्वादिकम् । वदतामित्यत्रापि सिद्धम् । मनसि विभुतां नित्यतत्त्वान्तरत्वञ्च - अणुत्वं विहाय व्यापकत्वं नित्यत्वं, इन्द्रियत्वं विहाय तत्त्वान्तरत्वञ्च, वदतामिति सिद्धम् । प्राणेषु - मुख्यामुख्यप्राणेषु । आत्मादिभावम् - जीवात्मस्वरूपत्वादिकम् । स्वर्गिबृन्दे स्वपदनियमनस्वैरिताम् - स्वनियाम्यनियमने स्वातन्त्र्येण कर्तृत्वम्, तद्वत् जीवानामपि स्वकरणाधिष्ठानस्वातन्त्र्यम् । वेधसि - निर्जराणामधिपेऽपि पितामहे । उन्मुक्तयन्त्रक्रमम् - दण्डप्रेरितमुक्तकुलालचक्रादियन्त्रक्रमेण स्वातन्त्र्येण नामरूपव्याकरणादिस्वकार्यकर्तृत्वम् । वदतामपि - दुर्वादिनामिति शेषः । अत्र पादयुग्मे - अस्मिन् वियत्पादे प्राणपादे च । भङ्गः - निरासः । प्रत्येतव्य इति शेष ॥
कुमार-वरदः - 15
- पूर्वपादाभ्यामेव परपक्षप्रतिक्षेपः कृतः, उत्तरयोरनयोः पादयोः किमवशिष्टं प्रतिक्षेप्यमित्यनुयुञ्जानस्य कस्यचिदत्यन्तबालकस्यात्रापि प्रतिक्षेप्यपक्षान् क्रमेण प्राह - नित्यत्वमित्यादिना । वियदधिकरणे तावत् व्योम्नि नित्यत्वं वातादिपरमाणुषु नित्यत्वं पुरुषे ज्ञानरूपत्वाभावेन पाषाणवत् मूढत्वं श्रोत्रादावाकाशत्वादिकं मनसि विभुत्वं नित्यतत्वान्तरत्वं प्राकृतवस्तुव्यतिरेकेण नित्यतत्त्वान्तररूपत्वं मुख्यामुख्यप्राणेष्वात्मादिभावं, स्वर्गिबृन्दे - देवतासमूहे, स्वनियाम्यनियमने स्वातन्त्र्येण कर्तृत्वं, तद्वज्जीवानामपि स्वकरणाधिष्ठानस्वातन्त्र्यं निर्मुक्तयन्त्रक्रमेण निर्जराणामधिपेऽपि पितामहे स्वातन्त्र्येण नामरूपव्याकरणकर्तृत्वमपि वदतां वादिनामेतस्मिन्पादयुग्मे भङ्गः इत्यर्थः ॥
मूलम् - 15
- नित्यत्वं व्योम्नि वाताद्यणुषु च पुरुषेऽप्यज्ञतादीनपार्थान्
श्रोत्रादौ भूतताद्यं मनसि च विभुतां नित्यतत्त्वान्तरत्वम् ।
प्राणेष्वात्मादिभावं स्वपदनियमनस्वैरितां स्वर्गिबृन्दे
वेधस्युन्मुक्तयन्त्रक्रममपि वदतां पादयुग्मेऽत्र भङ्गः ॥
विश्वास-प्रस्तुतिः - 16
- तर्कैरापातसत्यैरविहतिकथने व्याहतिः स्थापिता स्यात्
सम्यग्भिर्वस्तु(वृत्त्या)गत्या तदिति यदि तदा स्वाभिमानोपरोधः ।
तेनाद्ध्यायो विरोधप्रशमनकृदसौ बौद्धबन्धोर्विरुद्ध-
स्सौत्री तर्काप्रतिष्ठा श्रुतिपथविमुखस्वैरवादेषु योज्या ॥
३४-तमाहोबिल-यतिः - 16
- तर्कैरित्यादि । आपातसत्यैः - आपातं व्यावहारिकं सत्यं येषां तै र्व्यावहारिकैरित्यर्थः । तर्कैः । अविहतिकथने - एतदध्यायसिद्धाविरोधस्थापने । द्वितीयाध्यायविवक्षिताविरोधस्थापकतर्काणां व्यावहारिकसत्यत्वे । व्याहतिः स्थापिता स्यात् - विरोध एव स्थापितस्स्यात् । विरोधशमकानां तर्काणां व्यावहारिकसत्यत्वे वस्तुतस्तेषामसत्यत्वेन तदपनेयविरोध एव स्थापितो भवति । वस्तुवृत्त्या सम्यग्भिः – वस्तुतस्सत्यभूतैः । तर्कैरित्यनुषङ्गः । तत् - विरोधशमनम् । इति यदि - इत्येवमङ्गीकारो यदि तदा स्वाभिमानोपरोधः - निर्विशेषचिन्मात्रमेव सत्यमिति यस्स्वाभिमानस्तस्योपरोधो निवृत्तिः । भवेदिति शेषः । तेन - व्यावहारिकाणां पारमार्थिकानाञ्च तर्काणामसम्भवेन । विरोधप्रशमनकृदसावध्यायः - समन्वये परैरुद्भावितानां विरोधानां प्रशमनकारी असौ द्वितीयोऽध्यायः । बौद्धबन्धोर्विरुद्धः - मायावादिनोऽभिमतविरोधीत्यर्थः । सौत्री - ‘तर्काप्रतिष्ठानात्’ इति सूत्रोक्ता । तर्काप्रतिष्ठा - तर्काणामप्रतिष्ठा अनवस्थितिः । श्रुतिपथविमुखस्वैरवादेषु योज्या - वेदमार्गविरुद्धकेवलतर्कावलम्बिस्वतन्त्रवादेषु घटनीया । ‘आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ॥’ इति वचनेन वेदेतिकर्तव्यतारूपतर्काणां प्रतिष्ठापनात् वेदविरुद्धतकर्णामेवाप्रतिष्ठेति योज्यमित्यर्थः ॥
कुमार-वरदः - 16
- अविरोधाध्यायस्य मृषावादिपक्षविरुद्धत्वमेवेत्याह - तर्कैरित्यादिना । अयमत्र विकल्पः - किं व्यावहारिकसत्यैस्तर्कैरविरोधः कथ्यते किं पारमार्थिकसत्यैरिति । नाद्यः - अविरोधस्थापकानां तर्काणां व्यावहारिकसत्यत्वे परमार्थतो व्याहतिः स्थापितैव स्यात् । नापरः - वस्तुवृत्त्या सम्यग्भिस्तर्कैर्यद्यविरोधं वदसि - तदा स्वाभिमानोपरोधः । चिन्मात्रव्यतिरिक्तार्थस्य पारमार्थ्योपपादनेऽपसिद्धान्तः । तदिदमाह - सम्यग्भिरिति । एवं दूषणमुक्त्वा फलितमाह - तेनेति । अविरोधाध्यायोऽयं बौद्धबन्धोर्मृषावादिनो हि विरुद्ध एव । कथं तर्हि ‘तर्काप्रतिष्ठानात्’ इति सूत्रकारेण निरस्तैस्तर्कैर्भवतां परपक्षप्रतिक्षेप इत्याशङ्क्याह - सोत्रीति । द्वयं खलु तर्कजातं श्रुतिविरुद्धमविरुद्धञ्चेति । तेन तर्काप्रतिष्ठानवचनं ‘आर्ष धर्मोपदेशञ्च’ इत्युक्तप्रकारेण वेदविरुद्धतर्कविषयतया योज्यम् । न पुनर्वेदेतिकर्तव्यतारूपतर्कविषयमिति कृतमनेन कृपणजननिरासप्रयासेन ॥
मूलम् - 16
- तर्कैरापातसत्यैरविहतिकथने व्याहतिः स्थापिता स्यात्
सम्यग्भिर्वस्तु(वृत्त्या)गत्या तदिति यदि तदा स्वाभिमानोपरोधः ।
तेनाद्ध्यायो विरोधप्रशमनकृदसौ बौद्धबन्धोर्विरुद्ध-
स्सौत्री तर्काप्रतिष्ठा श्रुतिपथविमुखस्वैरवादेषु योज्या ॥