विश्वास-प्रस्तुतिः - 10
- प्राणोऽपि स्याद्धृषीकं भृशमुपकरणात्तेषु मुख्यत्ववादा-
दुत्क्रान्त्यादौ च साह्यादिति यदि न पृथक्छब्दत(नै)स्तस्य भेदात् ।
कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीति-
र्न प्राणे सात्त्विकाहङ्करणविकृतिता शब्दसाम्यादि मन्दम् ॥
३४-तमाहोबिल-यतिः - 10
- प्राणोऽपीत्यादि । प्राणोऽपि - श्रेष्ठप्राणोऽपि । हृषीकं स्यात् - इन्द्रियं स्यात् । भृशमुपकरणात् - इन्द्रियाणामिव प्राणस्य जीवविषये बहुलमुपकरणात् । तेषु मुख्यत्ववादात् - इन्द्रियेषु प्राणस्य मुख्यत्वप्रतिपादनात् । ‘मुख्यः प्राणः’ इति हि प्राणस्य व्यवहारः । उत्क्रान्त्यादौ साह्याच्च - देहादुत्क्रान्तौ देशान्तरगमनादौ च प्राणसाहाय्यस्य प्रत्यक्षसिद्धत्वात् । इति यदि - एवं शङ्क्यते यदि । न - नैतद्युक्तम् । पृथक्शब्दनैस्तस्य भेदात् - ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इतीन्द्रियेभ्यः प्राणस्य पृथगभिधानेनेन्द्रियेभ्यो भेदप्रतीतेः । मनसोऽपीन्द्रियेभ्यः पृथगभिधानमस्ति तस्य कथमिन्द्रियत्वमिति चेत् तत्राह - मनसि तु कण्ठोक्तादिन्द्रियत्वात् गोबलीवर्दनीतिर्घटते - मनोविषये तु ‘मनष्षष्ठानीन्द्रियाणि’ इति मनस इन्द्रियत्वस्य कण्ठोक्त्या ‘मनस्सर्वेन्द्रियाणि’ इत्यत्र ‘गामानय’ ‘गां बधाने’त्यत्रेवेन्द्रियशब्दस्य मनोव्यतिरिक्तेन्द्रियेषु सङ्कोचः कार्य इत्यर्थः । घटते - युज्यते । किञ्च, सात्विकाहङ्करणविकृतिता - सात्त्विकाहङ्कारविकारद्रव्यत्वरूपमिन्द्रियलक्षणञ्च । प्राणे न - नास्ति । शब्दसाम्यादि - प्राणशब्दवाच्यत्वमात्रेण साम्यमुपकारसाम्यमित्यादि तु । मन्दम् - विफलम् । न ह्यक्षशब्दवाच्यत्वमात्रेण विभीतकादीनामिन्द्रियत्वमस्ति, नापीन्द्रियाणां वृक्षविशेषत्वमस्तीति भावः ॥
कुमार-वरदः - 10
- पूर्वं ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इति जीवोत्क्रमणे प्रधानप्राणसहितानां सर्वेषामपि प्राणानामुत्क्रमणमित्युक्तम् । तत्रेन्द्रियशब्दवाच्यत्वं किं सर्वेषामपि प्राणानामुत प्रधानप्राणव्यतिरिक्तानामिति व्यवहारविशेषनियमार्थं पुनरारभ्यत इति सङ्गतिः । तदर्थविचारस्तु - किं सर्वे प्राणा इन्द्रियाणि, उत मुख्यप्राणव्यतिरिक्ता इति । किं श्रोत्रादिषु मुख्यप्राणे च प्राणशब्द एकनिमित्तेन वर्तत उत निमित्तभेदेनेति । अत्र पूर्वपक्षी मन्यते - प्राणोऽपि हृषीकमिन्द्रियं स्यादिति । भृशमिति । जीवोपकारकत्वमेव हीन्द्रियाणां स्वभावः, तत्तु प्राणे भृशं - बहुलमेवोपकारकत्वमस्तीति । हेत्वन्तरमप्याह - तेष्विति । इन्द्रियेषु मुख्यः प्राण इति प्राणस्य मुख्यत्वप्रतिपादनात् इति । तृतीयमपि हेतुमाह - उत्क्रान्त्यादाविति । उत्क्रान्त्यादौ हि सर्वतः प्रबल एव प्राणः उत्क्रान्त्यादिकं निर्वहतीति लोकदृष्टमेतत् । तेन प्राण एव प्रधानेन्द्रियमिति । उक्तं प्रतिषेधति - नेति । तत्र हेतुमाह - पृथगिति । ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इति, ‘प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इति च प्राण इति पृथगभिधानेन तस्येन्द्रियेभ्यो भेदात् । तर्हि ‘मनस्सर्वेन्द्रियाणि’ इति मनसोऽपि पृथगभिधानादनिन्द्रियत्वं स्यादित्याशङ्क्य समाधत्ते - कण्ठोक्तादिति । ‘मनष्षष्ठानीन्द्रियाणि’ इति मनसः कण्ठोक्तादिन्द्रियत्वात् श्रुतहानिर्मा भूदितीन्द्रियत्वं घटत एव । तर्हीन्द्रियाणीति सामान्येनोक्तत्वात् मनस इन्द्रियत्ववचने पौनरुक्त्यमिति पुनराशङ्क्य परिहरति - गोबलीवर्दनीतिरिति । वैषम्यान्तरमप्याह - न प्राण इति । इन्द्रियलक्षणं हि सात्त्विकाहङ्कारविकृतित्वम्, तन्मनसि विद्यते, तेन लक्षणाभावान्न प्राणस्येन्द्रियत्वम् । अथापि प्राणशब्दवाच्यत्वमात्रेणेन्द्रियत्वं स्यादिति मन्दाशङ्कामुत्थाप्य परिहरति - शब्देति । न ह्यक्षशब्दवाच्यतामात्रेण विभीतकादीनामिन्द्रियत्वमस्ति नापीन्द्रियादीनां वृक्षविशेषत्वमित्यर्थः ॥
मूलम् - 10
- प्राणोऽपि स्याद्धृषीकं भृशमुपकरणात्तेषु मुख्यत्ववादा-
दुत्क्रान्त्यादौ च साह्यादिति यदि न पृथक्छब्दत(नै)स्तस्य भेदात् ।
कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीति-
र्न प्राणे सात्त्विकाहङ्करणविकृतिता शब्दसाम्यादि मन्दम् ॥