33 ज्योतिराद्यधिष्ठानाधिकरणम्

विश्वास-प्रस्तुतिः - 9
  1. भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा
    तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे ।
    नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः
    प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये ॥
३४-तमाहोबिल-यतिः - 9
  1. भोक्तॄणामित्यादि । भोक्तॄणाम् - जीवानाम् । देवतानामपि - अग्न्यादिदेवतानामपि । तनुकरणाधिष्ठितिः - शरीरेन्द्रियाधिष्ठानम् । जीवानां शरीरेन्द्रियाधिष्ठानम्, देवतानां चक्षुरादीन्द्रियाधिष्ठानमिति भेदः । ईशतन्त्रता न - परमात्माधीनं न भवति । तत्स्वातन्त्र्यप्रदानात् तेषां जीवदेवतानां स्वातन्त्र्यं तत्स्वातन्त्र्यं यद्वा तस्मिन् शरीरेन्द्रियाधिष्ठाने स्वातन्त्र्यं तत्स्वातन्त्र्यं तस्य प्रदानात् । ईश्वरः खलु सामान्येन सर्वेषामपि चेतनानां ज्ञानचिकीर्षाप्रयत्नशक्तिप्रदानेन स्वातन्त्र्यमापादयति । ते चेश्वरेण दत्तस्वातन्त्र्या जीवाः करणकलेबराद्यधिष्ठाने स्वयमेव प्रवर्तन्त इति युक्तमिति । इति न - इदं न युक्तम् । हि - यस्मात् कारणात् । सर्वे तनुभृतस्तच्छरीरम् - सर्वेऽपि जीवाः परमात्मशरीरभूताः । अयमर्थः - सर्वे जीवा ईश्वरस्य शरीरमेव । शरीरञ्च नियताधिष्ठेयं नियतविधेयं नियतशेषमिति वृद्धा निरणैषुः । तेन नियतपरतन्त्रा एव जीवा इति । तत्पारतन्त्र्ये नित्ये - ईश्वरपारतन्त्र्ये एवं सार्वकालिके सति । क्वचिदपि राजसामन्तनीतिर्न भवेत् - क्वापि विषये राजदत्तस्वातन्त्र्यकसामन्तन्यायो न भवेत् । सामन्ताः खलूच्छ्वासनिश्वासचिन्तितनिमिषितादिकार्येषु स्वातन्त्रा अपि राजाज्ञामप्यनुवर्तन्ते न चैवमीश्वरपरतन्त्रेषु स्वातन्त्र्यगन्धोऽप्यस्तीति भावः । तत्र दृष्टान्त उच्यते प्राणन्यायात् - प्राण उच्छ्वासनिश्वासादिरूपस्तन्न्यायात् । नहि जागरावस्थायामेव प्राणिति अपितु सुषुप्त्यवस्थायामपि, नहि सुषुप्त उच्छ्वासनिःश्वासादौ स्वतन्त्रबुद्ध्या प्रवर्तते अपि त्वीश्वरप्रेरित एवेति तन्न्यायः सर्वकार्येष्वपीति भावः । तत् - तस्मात् । जीवव्यापाराणां सर्वेषामपि परमात्मायत्तत्वात् । चेतनानाम् - जीवादीनां पूर्वोक्तानाम् । स्वशक्ये - स्वशक्यविषयेऽपि । प्रभुत्वम् - प्रवृत्तिरूपं कर्तृत्वम् । परवशम् - परमात्माधीनमिति । इह - अस्मिन्नधिकरणे । सिध्यतीति शेषः ॥
कुमार-वरदः - 9
  1. अत्र सङ्गतिर्भाष्ये ‘सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणञ्चोक्तम् । तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वञ्च पूर्वमेव ‘अभिमानिव्यपपदेशस्तु विशेषानुगतिभ्याम्’ इत्यनेन सूत्रेण प्रसङ्गादुपपादितम् । जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम् । ‘एवमेवैष एतान्प्राणान्गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते’ इत्यादिश्रुतिसिद्धञ्च । तदिदं जीवस्याग्न्यादितेवतानाञ्च प्राणविषयमधिष्ठानं किं स्वायत्तमुत परमात्मायत्तमिति विशये’ इति । तदर्थविचारस्तु - ज्योतिरादीनामग्न्यादीनां जीवस्य चेन्द्रियाधिष्ठानं किं परमात्मायत्तमुत स्वायत्तमिति । किं तेषां तत्रतत्र नैरपेक्ष्यप्रतीतिस्समीचीना, उत भ्रान्तिमूलेति । किं नैरपेक्ष्यप्रतीतौ बाधकं प्रमाणमस्ति न वेति । तत्र पूर्वपक्षमालपति - भोक्तॄणामिति । तत्तच्छरीरे भोक्तॄणां जीवानां चक्षुराद्यधिष्ठातॄणामग्न्यादिदेवतानामपि देहेन्द्रियाद्यधिष्ठानं नेश्वराधीनम् । तत्स्वातन्त्र्यप्रदानादिति । अयमर्थः - ईश्वरः खलु सामान्येन सर्वेषामपि चेतनानां ज्ञानचिकीर्षाप्रयत्नादिप्रदानेन स्वातन्त्र्यमापादयति । तेनेश्वरेण दत्तस्वातन्त्र्या जीवाः करणकलेबराद्यधिष्ठाने स्वयमेव प्रवर्तन्त इति युक्तम् । तन्निराकरोति - नेति । तदेव विवृणोति - तनुभृत इति । अयमर्थः - सर्वे तनुभृतो जीवा ईश्वरस्य शरीरमेव । शरीरञ्च नियताधिष्ठेयं नियतविधेयं नियतशेषञ्चेति निरणैषुः । तेन नियतपरतन्त्रा एव जीवाः । ‘तत्सृष्ट्वा । तदेवानुप्राविशत्’, ‘तेन विना तृणाग्रमपि न चलति’ इत्यादिप्रमाणशतप्रतिपन्नत्वात् । तेन राजसामन्तनीतिः क्वचिदपीश्वरपरतन्त्रे न स्यादेव । सामन्ताः खलूच्छ्वासनिःश्वासचिन्तितनिमिषितादिकार्येषु स्वतन्त्रा अपि राजाज्ञामप्यनुवर्तन्ते । न चैवमीश्वरपरतन्त्रेषु स्वातन्त्र्यगन्धोऽप्यस्ति । तत्र दृष्टान्तमाह - प्राणन्यायादिति । नहि जागरावस्थायामेव प्राणिति, अपितु सुषुप्त्यवस्थायामपि । नहि सुषुप्त उच्छ्वासादौ स्वतन्त्रबुद्ध्या प्रवर्तते, अपि त्वीश्वरप्रेरित एवेति हि भवतामपि सिद्धान्तः । तर्हि कार्यवर्गेषु कर्तुः प्रभुत्वमस्ति, जीवस्य करणप्रेरणादिषु स्वातन्त्र्याभावे कथं तत्प्रभुत्वमित्याशङ्क्य परिहरति - प्रभुत्वमिति । जीवानां स्वशक्यविषये प्रभुत्वमपि परमात्मपरतन्त्रमेव, प्रयोज्यकर्तृत्वात् । ईश्वरस्यैव प्रयोजककर्तृत्वात् । समुद्रलङ्घनादावशक्यकार्ये कर्तृत्वप्रसङ्गोऽपि नास्तीति वक्तुं स्वशक्य इत्युक्तम् ॥
मूलम् - 9
  1. भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा
    तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे ।
    नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः
    प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये ॥