विश्वास-प्रस्तुतिः - 8
- उक्तः प्राणस्त्रिलोक्या सम इति स जगद्व्यापकोऽस्त्वित्ययुक्तं
जीवाक्षन्यायतस्तत्सहपठिततदुत्क्रान्तिगत्यादिबाधात् ।
स्तुत्यर्था सर्वसाम्यश्रुतिरिह करणक्षेत्रधृत्यादिहेतौ
देहेऽनल्पोपकारस्स्फुरति च दशधा वृत्तिभेदैर्विभक्तः ॥
३४-तमाहोबिल-यतिः - 8
- उक्त इत्यादि । प्राणः त्रिलोक्या सम इति - लोकत्रयेण तुल्य इति । उक्तः - ‘सम एभिस्त्रिभिर्लोकैः’ इति श्रुत्या प्रतिपादितः । इति - अस्माद्धेतोः । सः - प्राणः । जगद्व्यापकोऽस्तु - विभुस्स्यादित्यर्थः । इत्ययुक्तम् - इति शङ्कनमयुक्तम् । जीवाक्षन्यायतः - जीवस्येन्द्रियाणाञ्चोक्तेन न्यायेन । तत्सहपठिततदुत्क्रान्तिगत्यादिबाधात् - तत्सहपठितस्य जीवेन्द्रियैस्सह पठितस्य तस्य प्राणस्य उत्क्रान्तिगत्यादीनां ‘प्राणोऽनूत्क्रामति’ इत्याद्युक्तानां देहोत्क्रमणदेशान्तरगमनपुनरागमनानां बाधात् विरोधादित्यर्थः । प्राणस्य विभुत्वे तदुत्क्रान्त्यादिश्रुतिर्बाधिता स्यादिति भावः । करणक्षेत्रधृत्यादिहेतौ - करणानां चक्षुरादीन्द्रियाणां क्षेत्रस्य शरीरस्य च धृतिर्यथापूर्वमवस्थानं, आदिशब्देन स्वस्वकार्यप्रवृत्तिरुच्यते, तेषां हेतौ कारणभूते । ‘यो ह वै ज्येष्ठञ्च’ इत्यादिछान्दोग्यश्रुतौ प्राणस्य तथात्वप्रसिद्धेरित्यर्थः । इह - प्राणे । सर्वसाम्यश्रुतिः - पूर्वोदाहृता त्रैलोक्यसाम्यश्रुतिः । स्तुत्यर्था - करणकलेबरधारणादिबहूपकारहेतुत्वप्रयुक्तस्तुतिप्रयोजना । भवतीति शेषः । देहे, वृत्तिभेदैः - प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जयात्मकावस्थाभेदैः । दशधा विभक्तः - नानात्वेनावगतः । अनल्पोपकारश्च स्फुरति - महोपकारश्च प्रत्यक्षेणोपलभ्यते । अतस्तत्स्तुतिर्युज्यत इति भावः ॥
कुमार-वरदः - 8
- ‘श्रेष्ठश्च’ इत्यत्र श्रेष्ठप्राणस्यापि ब्रह्मकार्यत्वं तुल्यन्यायसिद्धं प्रतिपादितम् । तस्य च ‘न वायुक्तिये पृथगुपदेशात्’ इत्यत्र स्वरूपविशेषो वर्णितः।अधुना पुनरणुत्वमुपवर्ण्यते । तदर्थविचारस्तु - किं प्राणस्सर्वगतोऽथवाऽणुरिति । किं ‘सम एभिस्त्रिभिर्लोकैः’ इत्यानन्त्यव्यपदेशः विभुत्वमवगमयति नेति । किं ‘प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इति प्राणस्य गतिश्रवणमानन्त्यश्रवणस्य प्राणायत्तस्थितित्वेन स्तुत्यर्थत्वेन गौणत्ववगमयति नेति । अत्र ‘सम एभिस्त्रिभिर्लोकैः’ इति त्रैलोक्यसाम्यवचनात् स जगद्व्यापको भवत्विति पूर्वपक्षमाह - उक्त इत्यादिना । तत्प्रतिपक्षिपति - अयुक्तमिति । तत्र हेतुमाह - जीवेति । जीवस्य इन्द्रियाणाञ्च देहादुत्क्रान्तिश्श्रूयते तथा प्राणस्यापि, तेन विभुत्वं न घटते; उत्क्रान्तिगत्यागतीनां बाधादित्यर्थः । ‘सम एभिस्त्रिभिर्लोकैः’ इत्यादिः सर्वसाम्यश्रुतिरिह कथमित्याशङ्क्य स्तुत्यर्थत्वेन निर्वहति - स्तुत्यर्थेति ।स्तुतावपि हेतुमाह - करणेति । अयमर्थः - करणक्षेत्रधृत्यादिहेतौ प्राणे देहविषये बहूपकारकत्वमस्ति । स च वृत्तिभेदैर्दशधा विभक्तः प्राणः ।दृश्यते हि प्राणापानव्यानोदानसमानरूपेण पञ्चविधो वायुः । तधा नागकूर्मकृकरदेवदत्तधनञ्जयभेदेनापि पञ्च वायवो ह्यायुर्वेदादिप्रसिद्धा योगतन्त्रे विस्तृताश्च, ते चोपकारकत्वभेदाद् भिन्नाः । तेन स्तुतिविषयत्वं युज्यत इति ॥
मूलम् - 8
- उक्तः प्राणस्त्रिलोक्या सम इति स जगद्व्यापकोऽस्त्वित्ययुक्तं
जीवाक्षन्यायतस्तत्सहपठिततदुत्क्रान्तिगत्यादिबाधात् ।
स्तुत्यर्था सर्वसाम्यश्रुतिरिह करणक्षेत्रधृत्यादिहेतौ
देहेऽनल्पोपकारस्स्फुरति च दशधा वृत्तिभेदैर्विभक्तः ॥