विश्वास-प्रस्तुतिः - 7
- प्राणः प्रागुक्तनीत्या परजनित इति स्थापिते वायुमात्रं
देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहाऽस्य ।
द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्यात्
तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि ॥
३४-तमाहोबिल-यतिः - 7
- प्राण इत्यादि । प्राणः - श्रेष्ठप्राणः । प्रागुक्तनीत्या - इन्द्रियविषये उक्तेन न्यायेन । परजनित इति स्थापिते - परमात्मनोत्पादित इति स्थापिते सति । सः - श्रेष्ठप्राणः । देहान्तर्वायुमात्रम् देहान्तस्स्थितवायुमात्रस्वरूप एव । तत्क्रिया वा - वायुव्यापारस्वरूपो वा । इति न - इति वक्तुं न युक्तम् । अस्य - प्राणस्य । सह - ‘खं वायुः’ इत्युक्तवायुना सह । पृथगुत्पत्तिवादात् - पृथगुत्पत्तिवचनात् । प्राणस्य वायुमात्रस्वरूपत्वे तत्क्रियास्वरूपत्वे वा वायुना सह पृथगुत्पत्तिर्वक्तव्या नहि । द्रव्यवर्गे पठनतः - मनइन्द्रियादिद्रव्यवर्गे पठनात् । द्रव्यत्वमुचितम् - प्राणस्यापि द्रव्यात्मकत्वमेव युक्तं, नतु क्रियात्मकत्वमित्यर्थः । तेजस्त्वे - ‘वायोरग्निः’ इत्युक्तरीत्या वायोस्तेजस्त्वावस्थायाम् । वाय्ववस्थात्यजनवत् - वायुत्वावस्थात्यागवत् । इह - प्राणे। कदापि - कदाचिदपि । तत्त्यागहानेः - वायुत्वावस्थात्यागाभावात् । एषः - प्राणः । तत्त्वान्तरं न स्यात् - वायुकार्यं तेजो यथा वायोस्तत्त्वान्तरं तथा तत्त्वान्तरं न भवति । किन्तु वायुविशेष एव प्राण इति भावः ॥
कुमार-वरदः - 7
- पूर्वेणैव तुल्यन्यायतया सिद्धं श्रेष्ठस्यापि प्राणस्योत्पाद्यत्वमुपजीव्य तत्तत्स्वरूपविशेषचिन्ता क्रियते । तदर्थविचारस्तु - किं श्रेष्ठप्राणो वायुमात्रतत्वं तत्क्रिया वा, अथ कञ्चन विशेषमापन्नो वायुरिति । अत्र पूर्वोक्तनीत्या प्राणस्यापि श्रेष्टस्य परजनितत्वं स्थापितमेव । तस्य स्वरूपमेवाधुना विचार्यते । किं देहान्तर्वायुमात्रं, किं वा तत्क्रियामात्रामिति । एतदनुवदति - प्राण इति । उभयमपि नेत्याह - नेति । तत्र हेतुमाह - पृथगिति । ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इति प्राणस्य ‘खं वायुर्ज्योतिः’ इत्युक्तवायुना सह पृथक् उत्पत्तिवादात् द्रव्यवर्गे पठनाच्च द्रव्यत्वमेव समुचितम् । इत्थं वायुत्वं वायुक्रियात्वञ्च निरस्तम् । तर्हि तत्त्वान्तरत्वं स्यादित्याशङ्क्य परिहरति - नेति । तत्त्वान्तरत्वाभावे हेतुमाह - तेजस्त्व इत्यादिना । यथा वायुत्वावस्थापरित्यागेन तेजस्त्वावस्थाप्राप्तिः, एवं वायुत्वावस्थापरित्यागेन प्राणत्वावस्थाप्राप्तिरस्ति चेत् तत्त्वान्तरत्वं स्यात्, न चैवमस्ति, तस्माद्वायुविशेष एव प्राण इति ॥
मूलम् - 7
- प्राणः प्रागुक्तनीत्या परजनित इति स्थापिते वायुमात्रं
देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहाऽस्य ।
द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्यात्
तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि ॥