30 प्राणाणुत्वाधिकरणम्

विश्वास-प्रस्तुतिः - 6
  1. सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां
    व्याप्तिस्सिद्धेति चेन्न प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः ।
    वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्स्वकार्यैः
    कन्दस्थानां च तत्तत्तनुषु विकृतिमद्द्रव्यभावात् पृथुत्वम् ॥
३४-तमाहोबिल-यतिः - 6
  1. सर्वेष्वित्यादि । सर्वेषु - सर्वेन्द्रियविषये । आनन्त्यवादात् - ‘त एते सर्व एव समास्सर्वेऽनन्ताः’ इत्यनन्तत्ववचनात् । परिमितिनियमानुक्तितश्च - एतस्येन्द्रियस्येदं परिमाणमिति विशेषपरिमितिनियमावचनाच्च । इन्द्रियाणां व्याप्तिस्सिद्धा - सर्वेन्द्रियाणामपि व्याप्तिर्विभुत्वरूपा, सिद्धा प्रामाणिकी । इति चेन्न - एवं यच्छङ्कनं तन्न सुष्ठु । प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः - प्रयतां म्रियमाणानामखिलानां प्राणिनां तनुभ्य उत्क्रान्तेः, गतेर्देशान्तरगमनात्, आगतेः पुनरागमनाच्च, एतेभ्यो हेतुभ्यः । विभुत्ववादोऽयुक्त इत्यर्थः । वृत्त्या - आप्यायनार्थभूतप्रसर्परूपया वृत्त्या । दूरस्थधीस्स्यात् - दूरगतार्थप्रतीतिर्भवेत् । भजनविधिपरे - इन्द्रियोपासनविधिपरे वाक्ये । अनन्ततोक्तिः - इन्द्रियाणामनन्ततोक्तिः । स्वकार्यैः - इन्द्रियकार्यैरित्यर्थः । परिमितान्यपीन्द्रियाणि प्रतिबन्धकाभावेऽसङ्ख्यातान् विषयान् गृह्णन्तीति प्रदीपप्रकाशादिषु दृष्टत्वादिति भावः । तत्तत्तनुषु - तत्तद्देहेषु । कन्दस्थानाच्च - इन्द्रियकन्दभूतहृदयवर्तिनां तेषाम् । विकृतिमद्द्रव्यभावात् - विकारिद्रव्यत्वात् सर्वतोदिक्कप्रसरात् । पृथुत्वम् - महत्त्वं युज्यत इत्यर्थः ॥
कुमार-वरदः - 6
  1. इन्द्रियाणां संङ्ख्योक्ता, इदानीं स्वरूपपरिमाणं चिन्त्यत इति सङ्गतिः ।तदर्थविचारस्तु - किमिन्द्रियाणि सर्वगतानि, उताणुपरिमाणानीति । किं ‘त एते सर्व एव समास्सर्वेऽनन्ताः’ इत्यानन्त्यवचनं सर्वगतत्वमवगमयति नेति । किमानन्त्यश्रवणं ‘अथ यो हैतानन्तानुपास्ते’ इत्युपासनफलव्यापारबाहुल्यपरमुत सर्वगतत्वपरमिति ।किं ‘प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इत्युत्क्रान्तिश्रवणं परिमितत्वे सति अप्रत्यक्षत्वमणुत्वमवगमयति नेति । अत्र पूर्वपक्षमुपन्यस्यति - सर्वेष्विति । सर्व एते समा अनन्ता इति सर्वेषामिन्द्रियाणामानन्त्यपाठात् परिमितिनियमानुक्तितश्च एतस्येन्द्रियस्येदं परिमाणमिति विशेषपरिमितिनियमानुक्तितश्च इन्द्रियाणां व्याप्तिः सिद्धेति चेदिति । एतत्प्रतिक्षिपति - नेति । तत्र हेतुत्रयमाह - प्रयदिति । प्रयतां सर्वेषां तनुभ्य उत्क्रान्तेस्तथा देशान्तरगमनात् पुनरागमनाच्चेत्यर्थः । नन्विन्द्रियाणामणुत्वे दूरगतार्थप्रतीतिः कथं स्यादित्याशङ्क्याह - वृत्त्येति । वृत्तिराप्यायनार्थैर्भूतैः इत्यन्यत्रोक्तम् । वृत्तिः प्रसरणम्, तद्धि आप्यायकैर्भूतैर्जायते ।अयमर्थः - यद्यपीन्द्रियाणामणुत्वम्, तेन स्वरूपविभुत्वाभावेऽप्याप्यायनार्थैर्भूतैर्ब्रह्माण्डोदरवर्तिकृत्स्नवस्तुग्रहणानुरूपं विभुत्वं सङ्घटत इति । यथा चक्षुषो गोलकान्तःस्थितत्वेऽपि तत्प्रकाशात् सर्वतोदिक्कप्रसरादण्डोदरवर्तिवस्तुग्रहणं काणादानाम् । तर्हीन्द्रियोपासनविधिपरे वाक्ये इन्द्रियाणामनन्ततोक्तिः कथमित्याशङ्क्याह - स्वकार्यैरिति । इन्द्रियकार्यैरित्यर्थः ।परिमितान्यपि हीन्द्रियाणि प्रतिबन्धकाभावेऽसंख्यातान्विषयान् गृह्णन्तीति प्रदीपप्रकाशादिवद् दृष्टमेव । ननु सर्वेन्द्रियकन्दभूते हृदय एव तत्तत्तनुष्विन्द्रियाणामवस्थाने कथं पृथुत्वमित्याशङ्क्याह - कन्देति । विकारिद्रव्यत्वात् सर्वतोदिक्कप्रसरात्पृथुत्वं युज्यत इत्यर्थः ॥
मूलम् - 6
  1. सर्वेष्वानन्त्यवादात् परिमितिनियमानुक्तितश्चेन्द्रियाणां
    व्याप्तिस्सिद्धेति चेन्न प्रयदखिलतनूत्क्रान्तिगत्यागतिभ्यः ।
    वृत्त्या दूरस्थधीस्स्याद्भजनविधिपरेऽनन्ततोक्तिस्स्वकार्यैः
    कन्दस्थानां च तत्तत्तनुषु विकृतिमद्द्रव्यभावात् पृथुत्वम् ॥