28 प्राणोत्पत्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 3
  1. अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषां
    नात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः ।
    मैवं तत्सृष्टिदार्ढ्याद्बहुवचनमिदं पाशनीत्यैव नेयं
    प्राणर्षित्वे परात्मन्यपि हि सुघटिते तन्निरुक्त्यादिसाम्यात् ॥
३४-तमाहोबिल-यतिः - 3
  1. अग्रे सत्तामित्यादि । अग्रे - सृष्टेः प्राक् । ऋषीणाम् - केषाञ्चिदृषिशब्दवाच्यानाम्, सत्ताम् - विद्यमानताम् । अभिदधती - प्रतिपादयन्ती । श्रुतिः - ‘असद्वा इदमग्र आसीत्, तदाहुः किं तदासीदिति, ऋषयो वाव ते अग्रेऽसदासीत्, तदाहुः के ते ऋषय इति, प्राणा वाव ऋषयः’ इति श्रुतिः । तेषाम् - ऋषित्वेनोक्तानाम् । प्राणतां वक्ति - ‘प्राणा वाव ऋषयः’ इति प्राणशब्दवाच्यत्वं प्रतिपादयति । अत्र - अस्मिन्प्रकरणे । वाच्यम् - ऋषिप्राणशब्दवाच्यम् । ब्रह्म नैव - ब्रह्म न भवितुमर्हति । कुतः? बहुवचनहतेः
  • ऋषयः, प्राणाः इति बहुवचनविरोधात् । बहुत्वस्य परमात्मन्यभावादिति भावः । तेन - प्राणर्षिशब्दवाच्यानाम् इन्द्रियाणां सृष्टेः प्रागपि विद्यमानत्ववचनेन । नित्याक्षसिद्धिः - अक्षाणाम् इन्द्रियाणां नित्यत्वसिद्धिरित्यर्थः । मैवम् - एवं न मन्तव्यम् । तत्सृष्टिदार्ढ्यात् - ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इत्यादिश्रुतिस्मृतिभिस्तेषामिन्द्रियाणां सृष्टेः प्रामाणिकत्वात्, मैवमित्यनेनान्वयः । इदं वहुवचनम् - ‘प्राणाः’ ‘ऋषयः’ इति बहुवचनं तु । पाशनीत्यैव नेयम् - पाशाधिकरणन्यायेन ‘अदितिः पाशान्’ इत्यत्र पाशपदगतबहुवचनमिवौपचारिकतया तान्त्रिकैर्निर्णीतं, तद्वदिति भावः । प्राणर्षित्वे - प्राणत्व-ऋषित्वे । तन्निरुक्त्यादिसाम्यात् - सर्वप्राणिप्राणनहेतुत्व-ज्ञानवृद्धत्वरूपावयवार्थनिर्वचनस्य तुल्यत्वात् । आदिशब्देन रूढिः प्रयोगप्राचुर्यं वा विवक्षितम् । तदुभयस्यापि परमात्मन्यपि तुल्यत्वादित्यर्थः । परात्मन्यपि - परमात्मविषयेऽपि । सुघटिते हि - सुसङ्गते इत्यर्थः ॥
कुमार-वरदः - 3
  1. अत्र पादसङ्गतिर्भाष्ये ‘ब्रह्मव्यतिरिक्तस्य वियदादेः कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां, जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता । तत्प्रसङ्गेन जीवस्वरूपं शोधितम् । सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते’ इति । तदर्थविचारस्तु - किमिन्द्रियाणि जीववन्नोत्पद्यन्ते, उत वियदादिवदुत्पद्यन्त इति । किं “एतस्मात्जायते प्राणो मनस्सर्वेन्द्रियाणि च” इति वाक्यं तेषामुत्पत्तिं प्रतिपादयति नेति । किम् “असद्वा इदमग्रे” इत्यादिवाक्यं सृष्टेः प्राक् इन्द्रियाणां सद्भावमवगमयति नेति । किं प्राणशब्द इन्द्रियपर उत परमात्मपर इति । किं ‘प्राणा वाव ऋषयः’ इत्यत्र ऋषिशब्दः प्राणशब्दस्य परमात्मपरतामवगमयति नेति । अत्र पूर्वपक्षमनूद्य निराकरोति - अग्र इत्यादिना । ‘असद्वा इदमग्र आसीत् । तदाहुः किं तदासीदिति । ऋषयो वाव ते अग्रेऽसदासीत्, तदाहुः के ते ऋषय इति, प्राणा वाव ऋषयः’ इति जगदुत्पत्तेः पूर्वम् ऋषीणां सद्भावमुक्त्वा तेषां प्राणत्वमपि अभिधीयते । न चात्र ऋषिशब्देन ज्ञानवृद्धत्वात् ब्रह्मैव वाच्यमिति वक्तुं शक्यते । ऋषय इति प्राणा इति च बहुवचनविरोधात्, तेन नित्येन्द्रियसिद्धिरिति पूर्वपक्षानुवादः । निराकरोति - मैवमिति । श्रुतिस्मृतीतिहासपुराणेषु शतशः प्रदेशेषु इन्द्रियाणां सृष्टिवचनदार्ढ्यात् प्रतिसंहारकाले तत्सद्भाववचनं न घटत एव । तर्हि बहुवचनविरोध इत्युक्तमवशिष्यते, तदपि न ‘अदितिः पाशान्’ इतिवद्बहुत्वस्यौपचारिकत्वात् ।पाशाधिकरणे हि पाशबहुत्वं पाशैकत्वस्य प्रमाणसिद्धत्वात् पाशावयवबहुत्वपरमिति निरणैषुर्न्यायबृद्धाः । तेन चेतनाचेतनविशिष्टब्रह्मांशभूतविशेषणबहुत्वात् बहुवचनमपि युज्यत एव । तदिदमाह - बहुवचनमिति । ननु प्राणत्वमिन्द्रियेषु प्रसिद्धम्, ऋषित्वमपि ज्ञापकत्वात् कथञ्चिदुपपद्यते, न परमात्मनीत्याषङ्क्याह - प्राणर्षित्वे इति । सर्वप्राणिप्राणनहेतुत्वात् प्राणत्वं तावदुपपद्यत एव । परमात्मनि तावदृषित्वमपि ज्ञानवृद्धत्वात्सुतरामुपपद्यते ।तदिदमाह - तदिति । निरुक्तिश्चेत्तुल्या, रूढिश्चेत्सापि च तथा । अस्माभिरपि ब्रह्मण्येव रूढिरिति वक्तुं शक्यत्वादिति । यद्वा प्रयोगप्राचुर्यमादिशब्देन विवक्ष्यत इति ॥
मूलम् - 3
  1. अग्रे सत्तामृषीणां श्रुतिरभिदधती प्राणतां वक्ति तेषां
    नात्र ब्रह्मैव वाच्यं बहुवचनहतेस्तेन नित्याक्षसिद्धिः ।
    मैवं तत्सृष्टिदार्ढ्याद्बहुवचनमिदं पाशनीत्यैव नेयं
    प्राणर्षित्वे परात्मन्यपि हि सुघटिते तन्निरुक्त्यादिसाम्यात् ॥