27 उपोद्घातम्

विश्वास-प्रस्तुतिः - 1
  1. अक्षाद्युत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दं
    तत्संख्यादेः परीक्षाऽप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न ।
    एतेष्वब्रह्मकार्यं किमपि कथयतां बाधनेनार्थवत्त्वात्
    तत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात् ॥
३४-तमाहोबिल-यतिः - 1
  1. अक्षादीत्यादि । अक्षाद्युत्पत्त्यनूक्तौ - अचिद्विशेषाणामिन्द्रियादीनामुत्पत्तिकथने । फलं नहि - प्रयोजनं नास्ति । अत्र - इन्द्रियाद्युत्पत्तिविषये । अधिकाशङ्कनं तु मन्दम् - यत्किञ्चिदधिकाशङ्कापरिहारार्थमधिकरणमारभ्यत इति चेत् तदिदं स्पष्टतया न दृश्यते तत इदं मन्दम् । तत्संख्यादेः परीक्षापि - इन्द्रियादिसंख्याविचारोऽपि । अनुकृतबलिभुग्दन्तचिन्ता - अनुकृता तुल्यतया स्वीकृता बलिभुग्दन्तचिन्ता काकदन्तचिन्ता यया सा तथा काकदन्तपरीक्षातुल्येत्यर्थः । इति चेन्न - इत्याशङ्कनं न युक्तम् । एतेषु - इन्द्रियाद्यचिद्विशेषेषु । किमपि - वस्तु । अब्रह्मकार्यम् - ब्रह्मकार्यं न भवतीति । कथयताम् - वदतां केषाञ्चिद्वादिनाम् । बाधनेन - निरोधनेन । अर्थवत्त्वात् - इन्द्रियाद्युत्पत्तिविचारपरस्यास्य पादस्य प्रयोजनवत्त्वात् । नेति पूर्वेणान्वयः । तत् - तस्मात् । प्रथमचरमयोः - ‘तथा प्राणाः’ इत्यादेः प्राणाद्युत्पत्तिप्रतिपादकस्य प्रथमाधिकरणस्य ‘संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्’ इत्यादेर्नामरूपव्याकरणात्मकव्यष्टिसृष्टिरपि चतुर्मुखशरीरकपरमात्मकर्तृकेति प्रतिपादयतश्चरमाधिकरणस्य च । साक्षात् सङ्गतिस्स्यात् । मध्यमानाम् - उक्ताधिकरणद्वयमध्यवर्तिनां त्वधिकरणानाम् । प्रसङ्गात् सङ्गतिः - अत्र ग्रथनम् ॥
कुमार-वरदः - 1
  1. अत्र प्रयोजनाधिक्याभावेन पादान्तरारम्भमाक्षिप्य समाधत्ते - अक्षादीति । अयमिह शब्दार्थः - आत्मन उत्पत्त्यभावसमर्थनं ज्ञातृत्वसमर्थनमित्यादिकं फलविशेषवत्त्वात् कर्तव्यमेव । अचिद्विशेषरूपस्येन्द्रियादेरुत्पत्तिकथनमत्यन्ताभासप्रयोजनमेव । यत्किञ्चिदधिकाशङ्कापरिहारार्थमधिकरणमारभ्यते चेत् तदपि स्पष्टमिह न दृश्यते । तदिदमाह - मन्दमिति । नन्वस्याधिकफलमिन्द्रियसंख्यादि परिज्ञानमित्याशङ्क्याह - तत्संख्यादेरिति । नहि काकदन्तसंख्यापरिज्ञाने किञ्चित्प्रयोजनमस्ति । तद्वदिन्द्रियाण्यप्येकादश वा षड्वेत्यादिविशेषपरिज्ञाने न किमपि फलमुपलभामहे । आशङ्कितमर्थं प्रतिक्षिपति - नेति । प्रतिक्षेपार्थं प्रकटयति - एतेष्विति । प्रकृतेऽपि प्रपञ्चस्य ब्रह्मकार्यत्वं हि प्रतिज्ञातम् । तत् केषांचिद्ब्रह्मकार्यत्वसमर्थनाभावे श्रुतिविप्रतिपत्त्या कस्यचित् मन्दस्य विप्रतिपत्तिरप्रतिपत्तिर्वा स्यात् । शिष्यानुग्रहार्थैव हि सूत्रकारस्य प्रवृत्तिः । तस्मात् प्राणादिकार्यपरिशोधनार्थः पादारम्भस्सार्थक एव । तत्र स्यात् प्राणकार्यत्वप्रतिपादकस्य प्रथमाधिकरणस्य ‘संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्’ इति चरमाधिकरणस्य च साक्षादिह सङ्गतिः, मध्यमानां प्रासङ्गिकी सङ्गतिरिति विभागः ॥
मूलम् - 1
  1. अक्षाद्युत्पत्त्यनूक्तौ नहि फलमधिकाशङ्कनं त्वत्र मन्दं
    तत्संख्यादेः परीक्षाऽप्यनुकृतबलिभुग्दन्तचिन्तेति चेन्न ।
    एतेष्वब्रह्मकार्यं किमपि कथयतां बाधनेनार्थवत्त्वात्
    तत्साक्षात्संगतिस्स्यात् प्रथमचरमयोर्मध्यमानां प्रसङ्गात् ॥
विश्वास-प्रस्तुतिः - 2
  1. अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणां
    तेजोबन्नोक्तनीतिं द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ ।
    संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात्
    प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः ॥
३४-तमाहोबिल-यतिः - 2
  1. अष्टावित्यादि । अत्र - पादे । अष्टावधिकाराः - अधिकरणान्यष्टौ । इह प्रथमे - तत्र सन्निहिते प्रथमाधिकरणे । इन्द्रियाणां वियन्नीतिरुक्ता - चक्षुर्मनः प्रभृतीनामिन्द्रियाणामाकाशस्येव परमात्मनस्सकाशादुत्पत्तिरभिहिता । चक्षुरादीनां वैशेषिकाद्यैरुत्पत्तिकथनेऽपि मनसस्तैर्नित्यत्वकथनात् तन्निरासः फलमिति भावः । चरमे - ‘संज्ञामूर्तिकॢप्तिः’ इत्यादौ चरमाधिकरणे । व्यष्टिभेदस्य सृष्टौ तेजोऽबन्नोक्तनीतिं द्रढयति - तेजस्सलिलपृथिवीनामुक्ता या पूर्वपूर्वतत्त्वशरीरकपरमात्मकार्यतारूपा नीतिस्तां चतुर्मुखकर्तृकव्यष्टिसृष्टावपि चतुर्मुखशरीरकपरमात्मकर्तृकत्वप्रतिपादनात् द्रढयति । यद्यन्यकर्तृकतया प्रतीयमानापि व्यष्टिसृष्टिस्तत्कर्तृशरीरकर्तृका, तर्ह्यसम्भावितकर्त्रन्तरा समष्टिसृष्टिः परमात्मकर्तृकेत्यत्र का कथेति कैमुतिकन्यायेन पूर्वोक्तं प्रतिष्ठापयतीत्यर्थः । संख्यामानादिचिन्तास्वपि इन्द्रियादीनां या सङ्ख्या सप्तत्वषट्त्वैकादशत्वादिरूपा यन्मानं महत्त्वाणुत्वरूपं आदिशब्देन प्राणत्वेन्द्रियत्वादि सामान्यविशेषधर्मतत्तद्देवताधिष्ठानादि च यत्, तद्विचारेष्वपि । तदुपहितोपासनाद्यैः फलं स्यात् - तत्तत्संख्यापरिमाणादियुक्तेन्द्रियादिविशिष्टपरमात्मोपासनादिभिर्नागृहीतविशेषणेति न्यायेन प्रयोजनं स्यात् । एष पादः - ‘तथा प्राणाः’ इत्यादिरयं पादः । प्रमाता प्राणादिभ्यः पृथगिति विशदीकर्तुमपि - जीवः प्राणेन्द्रियादिभ्यः पृथग्भूत इति स्पष्टतया प्रतिपादयितुमपि प्रवृत्तः । ‘देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥’ इति यामुनाचार्योक्तप्रक्रियया जीवात्मनः प्राणेन्द्रियादिवैलक्षण्यप्रतिपादनमस्य पादस्य प्रयोजनमित्यर्थः ॥
कुमार-वरदः - 2
  1. अत्र पादे पुनरधिकरणसङ्ख्यामधिकरणार्थभेदं तत्तदधिकरणप्रयोजनञ्च विभज्य दर्शयति - अष्टाविति । अष्टावधिकरणान्यत्र पादे प्रोक्तानि । तत्र प्रथमाधिकरणे वियन्नीतिरिन्द्रियाणामुक्ता । यथा वियत्पादे प्रथमं वियत उत्पत्तिरुक्ता, एवं प्राणपाद इन्द्रियाणामुत्पत्तिरुच्यते । यद्यपि चक्षुरादीनामुत्पत्तिः काणादैराक्षपादैरप्युच्यते अथापि मनस उत्पत्तिर्नोच्यते तेन प्रतिक्षेप्यविशेषलाभादधिकरणारम्भस्सप्रयोजन एव । चरमाधिकरणप्रयोजनमाह - तेजोऽबन्नेति । यथा तेजोऽबन्नादिशरीरकः परमात्मा समष्टिसृष्टावुत्तरोत्तरकार्यं करोतीति समर्थितम्, एवं व्यष्टिसृष्टावपि चतुर्मुखादिशरीरकः परमात्मा तत्तत्कार्यं करोतीति समर्थनात् सप्रयोजनमेव चरमाधिकरणमिति भावः । तर्हि मध्ये संख्यापरिमाणादिकं किमर्थं चिन्त्यते कार्यकारणभावप्रतिपादनानुपयोगादित्याशङ्क्याह - संख्येति । इन्द्रियसंख्यापरिमाणादिचिन्तनेऽपि तत्तद्विद्याविशेषेषु तत्तत्सङ्ख्यापरिमाणादियुक्तेन्द्रियादिविशिष्टपरमात्मोपासने नागृहीतविशेषणेतिन्यायेन सप्रयोजनत्वात् सर्वमपि पादे चिन्तनं सफलमेव । प्रकारान्तरेणापि साफल्यमाह - प्राणादिभ्य इति । ‘देहेन्द्रियमनःप्राणाधीभ्योऽन्योऽनन्यसाधनः’ इत्यादिना यामुनचार्यदिभिर्देहादिभ्यः परत्वेन जीवात्मा निर्दिश्यते । तत्र प्रयोजनवानेव परिमाणसङ्ख्यादिविशेषविचार इति सफल एष सर्वोऽपि पादः ॥
मूलम् - 2
  1. अष्टावत्राधिकाराः प्रथममिह वियन्नीतिरुक्तेन्द्रियाणां
    तेजोबन्नोक्तनीतिं द्रढयति चरमे व्यष्टिभेदस्य सृष्टौ ।
    संख्यामानादिचिन्तास्वपि तदुपहितोपासनाद्यैः फलं स्यात्
    प्राणादिभ्यः प्रमाता पृथगिति विशदीकर्तुमप्येष पादः ॥