26 अंशाधिकरणम्

विश्वास-प्रस्तुतिः - 25
  1. जीवादत्यन्तभिन्नः पर इति बहुधा व्याहरत् सूत्रकारो
    भेदाभेदश्रुतीनां घटकनिगमतश्शात्रवं च व्यपोढम् ।
    उक्ताक्षेपे समाधावपि न समधिको हेतुरत्रास्ति सत्यं
    पादांशाद्युक्तिमुह्यद्बहुकुमतिमतक्षिप्तये त्वंशचिन्ता ॥
३४-तमाहोबिल-यतिः - 25
  1. जीवादित्यादि । सूत्रकारः । परः - परमात्मा । जीवादत्यन्तभिन्न इति बहुधा व्याहरत् - भेदव्यपदेशादिप्रतिपादकैस्सूत्रैरनेकप्रकारतयोपापीपदत् । भेदाभेदश्रुतीनाम् - परमात्मजीवात्मनोर्भेदप्रतिपादिकानां ‘पृथगात्मानं प्रेरितारश्च मत्वा’ ‘द्वा सुपर्णा सयुजा सखाया’ इत्यादीनां तयोरभेदप्रतिपादिकानां ‘तत्त्वमसि’, ‘अयमात्मा ब्रह्म’ इत्यादीनाञ्च श्रुतीनाम् । शात्रवञ्च - विरोधश्च । घटकनिगमतः - घटकश्रुत्यनुसारेण, ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरः’ ‘अन्तःप्रविष्टश्शास्ता जनानाम्’ ‘सर्वं समाप्नोषि ततोऽसि सर्वः’ इत्यादिरूपजीवात्मपरमात्मशरीरशरीरिभावप्रतिपादक सोपबृंहणघटकश्रुत्यनुसारेणेत्यर्थः । व्यपोढम् - परिहृतम् । उक्ताक्षेपे - जीवपरमात्मनोः परस्परविरुद्धभेदाभेदान्यतराङ्गीकारविरोध्याक्षेपे । समाधावपि - अनन्यथासिद्धघटकश्रुत्यनुसारबलिष्ठानन्यथासिद्धभेदश्रुत्यनुसारेणान्यथासिद्धानामभेदश्रुतीनामान्यपर्यप्रदर्शनेन परस्परविरोधशमने च । समधिको हेतुरत्र नास्ति - पूर्वमप्रतिपादितो हेतुरपि अस्मिन्नधिकरणे न दृश्यते । इति चेदिति शेषः । सत्यम् - उक्तं तथैव । अंशचिन्ता तु - अस्मिन्नधिकरणे क्रियमाणो जीवस्य परमात्मांशत्वविचारस्तु । पादांशाद्युक्तिमुह्यद्बहुकुमतिमतक्षिप्तये - पादत्वेनांशत्वेन शक्त्यादिरूपतया चोक्तिभिः श्रुतिस्मृतिसिद्धैर्व्यवहारैर्मुह्यन्तो मोहं प्राप्ता जीवपरमात्मनोरेकवस्तुत्वभ्रमं प्राप्ता बहवश्व ये कुमतयः शङ्करयादवप्रकाशभास्करादयः तन्मतक्षेपाय । इत्यवेहीति शेषः । तथाहि ‘पादोऽस्य विश्वा भूतानि’, ‘ममैवांशो जीवलोके जीवभूतस्सनातनः’ ‘विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा’ इत्यादिषु जीवानां ब्रह्मपादांशशक्त्यादिरूपतया व्यवहारो हि दृश्यते, ते तथा बभ्रमुः, तन्निवर्तनाय पुनःपुनर्जीवतत्त्वचिन्तेति भावः ॥२४४॥
कुमार-वरदः - 25
  1. अत्र सङ्गतिप्रदर्शनपूर्वकं संशयप्रकारबाहुल्यं तत्कारणञ्च भाष्य एव सुव्यक्तमुक्तम् । जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम् । इदानीं किमयं जीवः परस्मादत्यन्तभिन्नः, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते । श्रुतिविप्रतिपत्तेः संशयः’ इति । अत्र किं ब्रह्मांश इति किं विशेष्यैकदेशरूपोंऽशः, किं वा विशिष्टैकदेशरूपो विशेषणांश इति विकल्पो भाष्याभिप्रायस्थः । स च वक्ष्यते । इत्थं चेह सङ्गतिरुच्यते - यदि जीवस्य कर्तृत्वं परमात्माधीनं, तदा राजभृत्यादिन्यायेन तस्य परमात्मांशत्वकथनमप्यौपचारिकमेव स्यादिति शङ्कया पूर्वपक्षोत्थानमिति । तदर्थविचारस्तु - जीवः किं परमात्मनोऽत्यन्तभिन्नः, उताज्ञः परमात्मैव, उतोपाधिभेदभिन्नः, उत स्वतो भिन्नाभिन्नः, उत परमात्मनो विशेषणतयांश इति । तदर्थं कस्मिन्पक्षे भिन्नत्वाभिन्नत्वादिविषयसर्वश्रुतिमुख्यत्वमुपपद्यते, कस्मिन्नेति । अधिकरणोत्थानं पूर्वपक्षसिद्धान्तयोर्विशेषहेत्वभावादाक्षिप्यार्धाङ्गीकारेण समादधाति - जीवादिति । जीवादत्यन्तभिन्नः परमात्मेति बहुधा भेदव्यपदेशप्रतिपादकैस्सूत्रैरुपापीपदत् सूत्रकारः । अभेदप्रतिपादकानां च वाक्यानां भेदप्रतिपादकैर्वाक्यैर्विरोधोऽपि घटकश्रुत्या परिहृत एव । नचात्र पूर्वपक्षे सिद्धान्ते वा कश्चिद्विशेषहेतुरुपादीयते । तेन नेदमधिकरणमारभ्यमिति कश्चिदचूचुदत् । अत्र भेदाभेदश्रुतीनां घटकश्रुत्या शात्रवं व्यपोढमिति शरीरात्मभावश्रुतयो विवक्ष्यन्ते । उक्ताक्षेपे पूर्वपक्षे समाधौ सिद्धान्ते च न समधिको हेतुरत्रास्ति विशेषहेतुरत्र नास्तीत्यर्थः । इमं पूर्वपक्षमर्धाङ्गीकारेण निराकरोति - सत्यमिति । तदेव प्रकटयति - पादेति । क्वचित् ‘पादोऽस्य विश्वा भूतानि’ इति विश्वं पादशब्देनोच्यते । क्वचित् — ‘ममैवांशो जीवलोके जीवभूतस्सनातनः’ इत्यंशशब्देन जीव उच्यते । क्वचित् ‘विष्णुशक्तिः परा प्रोक्ता’ इत्यादिना शक्तिशब्देन भगवद्विशेषणभूतं विश्वमुच्यते । एवं तनुरूपशरीरादिशब्दैरपि तत्रतत्र मुह्यतां बहूनां कुमतीनामभिमतार्थक्षेपणाय पौनःपुन्येन चिन्तनमपि साफल्यमेवाधिकृतेरिति न विरोधः ॥२४४॥
मूलम् - 25
  1. जीवादत्यन्तभिन्नः पर इति बहुधा व्याहरत् सूत्रकारो
    भेदाभेदश्रुतीनां घटकनिगमतश्शात्रवं च व्यपोढम् ।
    उक्ताक्षेपे समाधावपि न समधिको हेतुरत्रास्ति सत्यं
    पादांशाद्युक्तिमुह्यद्बहुकुमतिमतक्षिप्तये त्वंशचिन्ता ॥
विश्वास-प्रस्तुतिः - 26
  1. अंशत्वं रामकृष्णप्रभृतिषु घटतां विग्रहांशा(वता)धिकारा-
    ज्जीवे ब्रह्मांशतोक्तिर्न हि(तु) निरवयवं ब्रह्म वक्तुर्घटेत ।
    ब्रह्मा(त)दिश्चित्समष्टिः प्रतिपुरुषमिह त्वंशता चेत्ययुक्तं
    विश्वस्रष्टुर्बहु स्यामिति बहुभवनध्यातुरेकत्वसिद्धेः ॥
३४-तमाहोबिल-यतिः - 26
  1. अंशत्वमित्यादि । अंशत्वम् - परमात्मांशत्वम् । रामकृष्णप्रभृतिषु - रामकृष्णनृसिंहादिभगवन्मूर्तिषु । विग्रहांशावतारात् - विग्रहस्य परवासुदेवविग्रहस्य योऽंश एकदेशस्तस्यावतारात् अब्धौ तरङ्गाणामिव प्रादुर्भावात् । घटताम् - युज्यतां नाम । निरवयवं ब्रह्म वक्तुः - ब्रह्मवस्तु निरंशमिति वदतो भवतः । जीवे ब्रह्मांशतोक्तिस्तु - जीवात्मनि ब्रह्माख्यवस्त्वेकदेशत्वात्मकांशत्वकथनं तु । न घटेत - न युज्येत । विग्रहैकदेशत्वस्यानङ्गीकारात् ब्रह्मस्वरूपैकदेशत्वस्य च निरवयवब्रह्माङ्गीकारविरुद्धत्वादंशत्वमेव न वक्तव्यमित्यर्थः । तर्हि कथमिति चेद्वदति अतः - पक्षान्तरे उक्तानुपपत्तेः । चित्समष्टिर्ब्रह्म - वृक्षसमष्टेर्वनत्ववत् चित्समष्टेर्ब्रह्मत्वमित्यर्थः । इह - चित्समष्टिरूपे ब्रह्मणि । प्रतिपुरुषन्तु अंशता च - प्रतिवृक्षं वनांशत्ववत् प्रतिजीवं ब्रह्मांशत्वञ्च । इति - एवं शङ्कनम् । अयुक्तम् । बहु स्यामिति - अहमेको बहु भवानीत्येवमाकारेण । बहुभवनध्यातुः - कर्तव्यतया बहुभवनमालोचयतः ॥ विश्वस्रष्टुः - जगत्कारणभूतस्य परमात्मनः । एकत्वसिद्धेः - एकत्वप्रतीतेः । स्यामित्येकत्वं हि प्रतीयते, नहि जीवसमष्टावेको बहुभवनसङ्कल्पयिता विद्यते । समष्टिर्नाम सङ्घातविशेष एव । स तु बहुभवनसङ्कल्पाश्रयो न भवति । सङ्घातरूपसमष्ट्याश्रयाश्च जीवा बहव एव । न तेष्वेकत्वमस्ति येनैकस्य पुरुषस्य बहु स्यामिति बहुभवनसङ्कल्पनं युज्येतेति भावः ॥२४५॥
कुमार-वरदः - 26
  1. अत्र पूर्वपक्षी मन्यते - रामकृष्णादिषु वासुदेवांशत्वं वक्तुं शक्यत एव, अब्धौ तरङ्गाणामिव वासुदेवविग्रहादेवावतारविशेषाणां प्रादुर्भावात् । जीवे तु ब्रह्मांशभावोक्तिर्निरवयवमेव ब्रह्म वक्तुर्भवतो न घटेत । अतश्चित्समष्टिर्ब्रह्म । प्रतिपुरुषमपि ब्रह्मांशत्वं वक्तव्यमिति । तदिदमाह - अंशत्वमित्यादिना अंशता चेत्यन्तेन । तदिदं प्रतिक्षिपति - अयुक्तमिति । अयुक्तत्वमेव विवृणोति विश्वस्रष्टुरिति । अत्र विश्वस्रष्टा कश्चिदेको ‘बहु स्याम्’ इति स्वस्य बहुभवनं सङ्कल्पयति । स चैक एव । नहि जीवसमष्टावेको बहुभवनसङ्कल्पयिता विद्यते । समष्टिर्नाम सङ्घातविशेष एव । स तु बहुभवनसङ्कल्पाश्रयो न भवति । सङ्घातरूपसमष्ट्याश्रयाश्च पुरुषा बहव एव । न तेष्वेकत्वमस्ति । तेनैकस्य पुरुषस्य ‘बहु स्याम्’ इति सङ्कल्पस्तत्पक्षे न सङ्घटत एव ॥२४५॥
मूलम् - 26
  1. अंशत्वं रामकृष्णप्रभृतिषु घटतां विग्रहांशा(वता)धिकारा-
    ज्जीवे ब्रह्मांशतोक्तिर्न हि(तु) निरवयवं ब्रह्म वक्तुर्घटेत ।
    ब्रह्मा(त)दिश्चित्समष्टिः प्रतिपुरुषमिह त्वंशता चेत्ययुक्तं
    विश्वस्रष्टुर्बहु स्यामिति बहुभवनध्यातुरेकत्वसिद्धेः ॥
विश्वास-प्रस्तुतिः - 27
  1. व्योमैकं स्याद्धटाद्यैः पृथगुपधिगणैर्ब्रह्म बह्वंशमेवं
    तत्रोपाधिव्यपाये भवभृदयमियाद्ब्रह्मतामित्ययुक्तम् ।
    स्वानर्थारम्भदौस्थ्यात् प्रतिनियतगुणप्रत्यभिज्ञाद्यदृष्टे-
    श्छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेस्साम्यशब्दाच्च मुक्तौ ॥
३४-तमाहोबिल-यतिः - 27
  1. औपाधिकब्रह्मवादं निरस्यति - व्योमेत्यादि । एकं व्योम घटाद्यैरुपधिगणैः पृथक् स्यात् - यथा वस्तुत एकमेवाकाशं घटाद्यैरुपाधिभिर्युक्तं सत् भिन्नभिन्नं भवति घटाकाशो मठाकाश इति, एवं ब्रह्माप्युपधिगणैः देहाद्युपाधिगणैर्युक्तं बह्वंशं बहुबद्धजीवात्मकांशयुक्तं स्यात् । उपाधिव्यपाये तत्रायं भवभृत् ब्रह्मतामियात् - उपाधिनिवर्तकज्ञानादिना देहाद्युपाधिनिवृत्तौ सत्यां तदानीमयं जीवो ब्रह्मभावं गच्छति । यथा घटाधुपाधिनाशे उपहितं वियत् शुद्धाभिन्नं भवति तद्वदित्यर्थः । इत्ययुक्तम् - इति कल्पनमसाधु । स्वानर्थारम्भदौस्स्थ्यात् - अयमर्थः । युष्मत्पक्षे ब्रह्म स्वस्य जीवतादात्म्यं जानाति वा? न वा? जानाति चेत् स्वानर्थरूपं संसारं नारभेत अतो जगदारम्भासिद्धिरिति । न जानाति चेत् तत्राह - प्रतिनियतगुणप्रत्यभिज्ञाद्यदृष्टेः - योगिनां सर्वज्ञानां नानाशरीरप्रयुक्तसुखदुःखप्रतिसन्धानवदीश्वरस्यापि पुण्यपापारब्धनानाशरीरप्रयुक्तस्वात्मनिष्ठसुखदुःखप्रतिसन्धानं स्यात्, न चैवं दृश्यते, प्रत्युत सुखदुःखादिगुणाः प्रत्यभिज्ञादयश्च प्रतिनियता एकैकजीवस्यैकैकशरीरप्रयुक्तत्वेन स्वात्मनिष्ठतयैव दृश्यन्ते । अत एकस्य ब्रह्मणोऽनेकशरीरेष्वात्मभावश्चेदेवं प्रतिनियतगुणप्रत्यभिज्ञादिदृष्टिर्न घटेतेति भावः । छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेः - उपाधिना छिन्नांशो वा जीव उताच्छिन्नांश इति च्छिन्नाच्छिन्नांशयोर्या चिन्ता विचारः, तदुदिता तदापादिता या बह्वी विहतिर्दूषणप्राप्तिस्तस्याश्चेत्यर्थः । तथा हि - उपाधिसंसृष्टं ब्रह्म जीव इति भवद्भिरुच्यते, किं तदुपाधिसंसृष्टं ब्रह्म सर्वत्रापि जीवभावेन सुखदुःखादिकमनुभवति, किंवोपाधिना च्छिन्नं ब्रह्म छिन्नांशेन संसरति, अथवा पुनरच्छिन्नमेव ब्रह्म यत्रयत्रोपाधिसंसर्गस्तत्रतत्र संसारदुःखमनुभवति, अथवोपाधिरेव जीवः, किंवान्यः कश्चिदुपाधिसंसृष्टो जीवतामश्नुत इति । सर्वेऽपि पक्षा अयुक्ताः । प्रथमपक्षे सर्वदा सर्वेष्वपि प्रदेशेषु ब्रह्मण उपहितत्वं स्यादित्यत्यन्तदौस्स्थ्यमेव । द्वितीयपक्षे अच्छेद्यस्य ब्रह्मणश्छेदवार्ताऽपि जिह्वाच्छेदनमातनोति । तृतीयेऽपि पक्षे सर्वस्य ब्रह्मप्रदेशस्य कालभेदेनोपाधिसम्बन्धादुपहितत्वमुपाधिवियोगाद्विमुक्तत्वमिति प्रतिक्षणं बन्धमोक्षप्रसङ्गः । उपाधेरेव संसारित्वे चार्वाकपक्षः परिगृहीतः स्यात् । उपाधिसंसृष्टोऽन्य इति पञ्चमपक्षोऽपि पञ्चत्वमेव गच्छति ब्रह्मव्यतिरिक्तस्य कस्यचिदनङ्गीकारादिति भावः । मुक्तौ साम्यशब्दाच्च मुक्तिदशायां, निरञ्जनः परमं साम्यमुपैति, इति साम्यवचनाच्च । अयुक्तमित्यन्वयः । साम्यस्य प्रमाणसिद्धत्वात् तच्च भेदघटितमिति स्वरूपैक्यवादोऽप्युच्छिन्न इति भावः ॥२४६॥
कुमार-वरदः - 27
  1. पूर्वं जीवसमष्टिर्ब्रह्मेतिपक्षं प्रतिक्षिप्याधुना पुनः प्राक्सम्प्रोक्तमेवोपाधिब्रह्मवादं प्रतिक्षिपति - व्योमेति । यथैकमेवाकाशं घटादिभिरुपाधिभेदैः पृथक् स्यात्, एवं ब्रह्मापि देहोपाध्यवच्छेदाद्बह्वंशं स्यात् । तथा सति उपाधिव्यपाये देहविगमे भवभृदयं जीवोऽयं ब्रह्मतामियात्प्राप्नुयात् । यथा घटादिविगमे घटाकाशादिकं महाकाशतां प्राप्नुयादिति । एतत्प्रतिक्षिपति - अयुक्तमिति । तत्र हेतुमाह - स्वानर्थेति । अयमर्थः - युष्मत्पक्षे ब्रह्म जीवस्य स्वतादात्म्यं जानाति? न वा? जानाति चेत् स्वस्वरूपस्यानर्थरूपसंसारं न कुर्यादेवेति न जगदारम्भसिद्धिस्स्यादिति बाधकमाह । तर्हि न जानातीति ब्रूम इत्याशङ्क्याह - प्रतिनियतेति । योगिनां सर्वज्ञानां नानाशरीरप्रयुक्तसुखदुःखादिप्रत्यभिज्ञानं दृष्टमेव । एवमीश्वरस्यापि पुण्यपापारब्धनानाशरीरप्रयुक्तस्वात्मनिष्ठसुखदुःखप्रत्यभिज्ञावश्यम्भावादीश्वरस्य न सा घटेतेति पूर्वोक्तं तदवस्थमेव । एतस्य पक्षस्य प्रतिक्षेपकं हेत्वन्तरद्वयमनुक्रमादाह - छिन्नेत्यादिना । अयमर्थः - उपाधिसंसृष्टं ब्रह्म जीव इति भवद्भिरुच्यते । किमुपाधिसंसृष्टं ब्रह्म सर्वत्रापि जीवभावेन सुखदुःखादिकमनुभवति? किं वा उपाधिना छिन्नं ब्रह्म च्छिन्नांशेन संसरति? अथवा पुनरच्छिन्नमेव ब्रह्म यत्रयत्रोपाधिसंसर्गस्तत्रतत्र संसारदुःखमनुभवति? अथवा उपाधिरेव जीवः? किंवान्य एव कश्चिदुपाधिसंसृष्टो जीवतामश्नुत इति । सर्वे पक्षा न सङ्घटन्ते । प्रथमपक्षे तावत्सर्वदा सर्वेष्वपि प्रदेशेषु ब्रह्मण उपहितत्वं स्यादित्यत्यन्तदौस्थ्यमेव । द्वितीयपक्षे पुनरच्छेद्यस्य ब्रह्मणश्छेद्यत्ववादो जिह्वाच्छेदनमेव तनोति । तृतीयेऽपि पक्षे सर्वस्य ब्रह्मप्रदेशस्य कालभेदेनोपाधिसम्बन्धादुपहितत्वमुपाधिवियोगाद्वियुक्तत्वमिति प्रतिक्षणं बन्धमोक्षप्रसङ्गः । उपाधेरेव संसारित्वे चार्वाकपक्षः परिगृहीतस्स्यात् । उपाधिसंसृष्टोऽन्य इति पञ्चमपक्षोऽपि पञ्चत्वमेव गच्छति ब्रह्मव्यतिरिक्तस्य पुरुषस्य कस्यचिदस्वीकारादिति । साम्यशब्दाच्च मुक्ताविति - मुक्तौ । ‘निरञ्जनः परमं साम्यमुपैति’ इति साम्यवचनात् स्वरूपैक्यवादो न युज्यत इत्यर्थः ॥२४६॥
मूलम् - 27
  1. व्योमैकं स्याद्धटाद्यैः पृथगुपधिगणैर्ब्रह्म बह्वंशमेवं
    तत्रोपाधिव्यपाये भवभृदयमियाद्ब्रह्मतामित्ययुक्तम् ।
    स्वानर्थारम्भदौस्थ्यात् प्रतिनियतगुणप्रत्यभिज्ञाद्यदृष्टे-
    श्छिन्नाच्छिन्नांशचिन्तोदितबहुविहतेस्साम्यशब्दाच्च मुक्तौ ॥
विश्वास-प्रस्तुतिः - 28
  1. मायोदन्वत्यपारे प्रतिफलति मृषावीचिषु ब्रह्मचन्द्र-
    श्छायांशास्तस्य जीवा इति कतिचिदुशन्त्येत(दालोचनीय)दुन्मत्तगीतम् ।
    न ब्रह्म द्रष्टृ तेषामचिदपि हि तथा स्वेन कल्प्यो न जीवः
    कॢप्तेः प्राक् स्वात्महानेस्त्रितयसमधिकः कल्पकस्त्वत्र मृग्यः ॥
३४-तमाहोबिल-यतिः - 28
  1. एवं भास्करपक्षं प्रतिक्षिप्य मृषावादिपक्षं प्रतिक्षिपति - मायोदन्वतीत्यादि । अपारे मायोदन्वति - अविद्याख्यसागरे । मृषावीचिषु - मिथ्याभूतासु वीचिस्थानीयासु बुद्धिषु । ब्रह्मचन्द्रः - चन्द्रतुल्यं ब्रह्म । प्रतिफलति - प्रतिबिम्बति । तस्य च्छायांशाः - प्रतिबिम्बांशाः । जीवाः - जीवा इत्युच्यन्ते । इति - एवम् । कतिचिदुशन्ति - केचिदिच्छन्ति, अङ्गीकुर्वन्तीत्यर्थः । एतदालोचनीयम् - सूक्ष्मदृष्ट्या विचारणीयम् । लोके चन्द्रप्रतिबिम्बानां द्रष्टुभिरेव दर्शनं दृश्यते । कः पुनरिह द्रष्टा? किं ब्रह्मैव? किंवा ब्रह्मव्यतिरिक्तमचिद्द्रव्यमेव किञ्चित्? अथवा जीव एव? यद्वा त्रितयव्यतिरिक्तः कश्चिदन्यः? इति विकल्पेन दूषणमुच्यते - न ब्रह्मेत्यादिना । तेषां ब्रह्म न द्रष्टृ - तेषां पक्षे ब्रह्मणो द्रष्टृत्वं नास्तीत्यर्थः । यद्वा तेषां ब्रह्मप्रतिबिम्बानां जीवानाम् । अचिदपि तथा हि - अचितोऽपि द्रष्टृत्वं नास्ति हीत्यर्थः । द्रष्टृशब्दस्य जीवविशेषणत्वपक्षे द्रष्टेति लिङ्गविपरिणामः कार्यः । स्वेन कल्प्यो जीवो न द्रष्टा - द्रष्टा खलु दृश्यकॢप्तिः, जीवस्य द्रष्टृत्वे द्रष्टा स्वेन कल्प्यो जीवो न स्वस्य द्रष्टा भवितुमर्हति । कुत इति चेत् कॢप्तेः प्राक् स्वात्महानेः - कल्पनात् पूर्वं कल्पकेन भवितव्यम् । अत्र कल्प्यस्यैव कल्पकत्वे कल्पनात्पूर्वं कल्पकस्वरूपालाभात् तस्य कल्पकत्वात्मकं द्रष्टृत्वं न सम्भवतीत्यर्थः । त्रितयसमधिकः कल्पकस्तु अत्र मृग्यः - अविद्याजीवब्रह्मभ्योऽन्यो जीवत्वकल्पको मृषावादिपक्षे शून्य इत्यर्थः ॥२४७॥
कुमार-वरदः - 28
  1. एवं भास्करपक्षं निराकृत्य मृषावादिपक्षं प्रतिक्षिपति - मायेति । अविद्याख्यसागरे मिथ्याभूतासु वीचिस्थानीयासु बुद्धिषु चन्द्रस्थानीयं ब्रह्म प्रतिफलति तस्य च्छायांशा जीवाः प्रतिबिम्बस्थानीया जीवा इत्यर्थः । एवं केचिदिह मृषावादिपक्षनिष्ठा वदन्ति । एतत्प्रतिक्षिपति - एतदालोचनीयमिति । तदेव तदङ्गीकृतं विकल्पासहत्वेन प्रकटयति - न ब्रह्मेत्यादिनोत्तरार्धेन । चन्द्रप्रतिबिम्बानां द्रष्टृभिरेव दर्शनं दृश्यते । कः पुनरिह द्रष्टा? किं ब्रह्मैव, किं वा ब्रह्मजीवव्यतिरिक्तमचिद्द्रव्यमेव किञ्चित्, अथवा जीव एव, यद्वा त्रितयव्यतिरिक्तः कश्चिदन्य इति विकल्पाः । नाद्यः; ब्रह्मणो द्रष्टृत्वाभावादित्याह - न ब्रह्म द्रष्टृ तेषामिति । तेषां पक्षे ब्रह्मणो द्रष्टृत्वं नास्तीत्यर्थः । द्वितीयोऽपि पक्षो न कक्षीकार्य इत्याह - अचिदपि हि तथेति । तस्यापि द्रष्टृत्वं नास्तीत्यर्थः । तर्हि जीव एव जीवादिकं कल्पयतीति तृतीयः पक्षः परिशिष्यते । सोऽपि नेत्याह - स्वेनेति । तत्र हेतुमाह - कॢप्तेः प्रागिति । जीवकॢप्तेः पूर्वं जीव एव नास्ति, स कथं जीवं कल्पयेदित्यर्थः । तर्हि चतुर्थः पक्षः परिगृह्यतामित्याशङ्क्य तस्य पक्षस्य युष्मत्सिद्धान्तबहिर्भावादाशङ्कनीयत्वमेव नास्तीत्याह - त्रितयेति । नाविद्याजीवब्रह्मभ्योऽन्यं कञ्चित्प्रपञ्चकल्पकत्वेन कल्पयन्ति मृषावादिन इति ॥२४७॥
मूलम् - 28
  1. मायोदन्वत्यपारे प्रतिफलति मृषावीचिषु ब्रह्मचन्द्र-
    श्छायांशास्तस्य जीवा इति कतिचिदुशन्त्येत(दालोचनीय)दुन्मत्तगीतम् ।
    न ब्रह्म द्रष्टृ तेषामचिदपि हि तथा स्वेन कल्प्यो न जीवः
    कॢप्तेः प्राक् स्वात्महानेस्त्रितयसमधिकः कल्पकस्त्वत्र मृग्यः ॥
विश्वास-प्रस्तुतिः - 29
  1. सन्मात्रं ब्रह्म सर्वानुगतमिह पुनर्नित्यसिद्धास्त्रयोंऽशाः
    जीवेशाचित्प्रभेदादिति च कतिचनेदं च नोदञ्चनीयम् ।
    सत्तामात्रानुवृत्तेस्तदधिकवपुषश्शासितुर्ब्रह्मतोक्ते-
    र्ब्रह्मत्रैविध्यवाक्यं निरवयवतया निश्चितेऽन्याशयं स्यात् ॥
३४-तमाहोबिल-यतिः - 29
  1. यादवप्रकाशपक्षः प्रतिक्षिप्यते - सन्मात्रमित्यादि । सन्मात्रं ब्रह्म सर्वानुगतम् - चिदचिदीश्वरात्मकतत्त्वत्रयेऽपि सत् सदित्यनुगतमेव वर्तते । इह पुनः - पक्षे सन्मात्रब्रह्मणि तु । जीवेशाचित्प्रभेदात् त्रयोंऽशा नित्यसिद्धाः । इति च कतिचन - यादवप्रकाशपक्षस्थाः । उशन्तीत्यध्याहारः । इदञ्च नोदञ्चनीयम् - इदञ्च न ग्राह्यमित्यर्थः । सत्तामात्रानुवृत्तेः - व्यक्तिषु जातेरिव चिदचिदीश्वरतत्त्वत्रयेऽपि सत्तासामान्यमात्रस्यानुवृत्तेः । न पुनस्सतस्त्रिष्वनुवृत्तिर्दृश्यत इत्यर्थः । तर्हि सत्तैव ब्रह्मास्त्वित्यत्राह - तदधिकेति । तदधिकवपुषश्शासितुब्रह्मतोक्तेः - सत्तातिरिक्तस्य विश्वशासितुः पुरुषस्य वेदान्तेषु ब्रह्मत्ववचनात् । ब्रह्मत्रैविध्यवाक्यम् - ‘त्रिविधं ब्रह्ममेतत्’ इति ब्रह्मत्रैविध्यवाक्यन्तु । निरवयवतया निश्चिते - प्रबलप्रमाणैर्निरवयवत्वेन निश्चिते ब्रह्मणि विषये । अन्याशयं स्यात् - चेतनाचेतनविशिष्टं ब्रह्म विशेषणविशेष्यभेदेन त्रिविधमित्येतदर्थकं भवेत् । नहि निरवयवे ब्रह्मणि स्वरूपभेदकथनं सम्भाव्यत इति भावः ॥२४८॥
कुमार-वरदः - 29
  1. अथ यादवप्रकाशपक्षमनूद्य प्रतिक्षिपति - सन्मात्रमिति । सन्मात्रं ब्रह्म चिदचिदीश्वरतत्त्वत्रयेषु सदित्यनुगतमेव वर्तते । इह सन्मात्रब्रह्मणि जीवेश्वराचिद्भेदात् त्रयोंऽशा नित्यसिद्धा इति कतिचन यादवप्रकाशमतानुसारिणः प्राहुः । तन्मतं प्रतिक्षिपति - इदश्च नोदञ्चनीयमिति । इदं न ग्राह्यमित्यर्थः । अग्राह्यत्वे हेतुमाह - सत्तेति । व्यक्तिषु जातिरिव चिदचिदीश्वरतत्त्वत्रये सत्तासामान्यमनुवर्तते । न पुनस्सदित्येकं द्रव्यं त्रिष्वनुवर्तत इत्यर्थः । वेदान्तेषु सत्तातिरिक्तस्य विश्वशासितुः पुरुषस्य ब्रह्मत्वमुच्यत इत्याह - तदधिकवपुष इति । तेन चेतनाचेतनयोरन्तर्यामितया विश्वनियामकं ब्रह्मतत्त्वमनुवर्तत इति वेदान्तसिद्धान्तसम्मतमित्यर्थः । तर्हि ‘भोक्ता भोग्यं प्रेरितारम्’ इति ब्रह्मत्रैविध्यकथनं कथमित्याशङ्क्य परिहरति - ब्रह्मत्रैविध्येति । नात्र तुल्यतया तत्त्वत्रयं ब्रह्मत्रैविध्यमित्युच्यते, अपितु चेतनाचेतनविशिष्टब्रह्मणि विशेषणविशेष्यांशभेदेन त्रैविध्यमुच्यत इति न कोऽपि विरोधः । अन्याशयत्वे हेतुमाह - निरवयवतया निश्चित इति । नहि निरवयवे सर्वव्याप्ते ब्रह्मणि स्वरूपभेदकथनं प्रमाणपदवीमुपढौकते ॥२४८॥
मूलम् - 29
  1. सन्मात्रं ब्रह्म सर्वानुगतमिह पुनर्नित्यसिद्धास्त्रयोंऽशाः
    जीवेशाचित्प्रभेदादिति च कतिचनेदं च नोदञ्चनीयम् ।
    सत्तामात्रानुवृत्तेस्तदधिकवपुषश्शासितुर्ब्रह्मतोक्ते-
    र्ब्रह्मत्रैविध्यवाक्यं निरवयवतया निश्चितेऽन्याशयं स्यात् ॥
विश्वास-प्रस्तुतिः - 30
  1. मेरोरंशः किरीटप्रभृतिरिति नयान्नित्यभिन्नेंऽशतोक्ति-
    स्साजात्याल्पत्वमूला गमयितुमुचितेत्यागमासन्नपक्षे ।
    अंशोक्तिस्स्यादमुख्या स हि निपुणधियामेकवस्त्वेकदेश-
    स्तस्माज्जीवो विशिष्टे भगवति गुणवत्तत्प्रकारोंऽश उक्तः ॥
३४-तमाहोबिल-यतिः - 30
  1. मेरोरित्यादि । किरीटप्रभृतिर्मेरोरंश इति नयात् - एवमुक्तिन्यायेन । नित्यभिन्ने परमात्मतो नित्यविलक्षणे जीवे । अंशतोक्तिः - अंशत्वादिवचनम् । साजात्याल्पत्वमूला गमयितुमुचिता - ज्ञानानन्दत्वेन साजात्यात् स्वयमल्पत्वाच्च ब्रह्मांशत्वं जीवस्य सुवर्णमयत्वेन मेरुसजातीयस्य स्वतोऽल्पस्य किरीटस्य मेर्वंशत्ववत् इत्येतदभिप्रायतया नेतुमुचिता । इत्यागमासन्नपक्षे - एवंरूपे आगमसंवादिनः पक्षेऽपि । अंशोक्तिरमुख्या स्यात् - औपचारिकी गौणी स्यात् । नहि किरीटादेर्मेरुस्वरूपांशत्वं सम्भवति तस्य तदंशत्वोक्तिरमुख्यैव तद्वदिति भावः । अंशशब्दस्य को मुख्यार्थ इत्यत्राह - स हीत्यादिना । स हि - अंशो हि । निपुणधियाम् - सूक्ष्मबुद्धीनाम् । एकवस्त्वेकदेशः एकवस्त्वेकदेशतया सम्मत इत्यर्थः । तस्मात् - एवमुपपादनात् । जीवः, विशिष्टे भगवति - चेतनाचेतनविशिष्टे परमात्मनि । गुणवत् - गुणैस्तुल्यतया तदपृथक्सिद्धविशेषणत्वेन । तत्प्रकारांश उक्तः - विशिष्टे वस्तुनि विशेष्यस्येव विशेषणस्यापि तदेकदेशत्वेनांशत्वस्य मुख्यत्वात् तथा प्रकारांशो विशेष्यांश इति परीक्षकव्यवहाराच्च विशिष्टवस्त्वेकदेशप्रकाररूपत्वेन जीवस्य ब्रह्मांशत्वमुक्तमित्यर्थः ॥२४९॥
कुमार-वरदः - 30
  1. कश्चिद्वेदान्तासन्नवादी प्राह - मेरोरंशः किरीटप्रभृतिरितिवद्ब्रह्मांशो जीव इति ज्ञानानन्दत्वेन ब्रह्मसाम्यात् स्वयमल्पत्वाच्चाभिधीयत इति । एतत्पक्षमनूद्य प्रतिक्षिपति मेरोरंश इत्यादिना । अस्मिन्नागमासन्नपक्षे दोषोऽस्तीत्याह - अंशोक्तिरिति । नहि मेरोरंशः किरीट इत्यत्र किरीटस्य मेरुस्वरूपांशत्वमस्ति । तेनांशोक्तिरमुख्या स्यात् । मुख्यामुख्यविभागदर्शनार्थमंशशब्दार्थमेव व्युत्पादयति - स हीति । अंशो हि निपुणधियामेकवस्त्वेकदेशः । किरीटस्तु मेरोर्न स्वरूपैकदेशः तत्सजातीयद्रव्यान्तरत्वात् । तद्वज्जीवोऽपि न ब्रह्मस्वरूपैकदेश इत्यर्थः । कथं तर्हि जीवो ब्रह्मांश इति परिचोदनापरिहारेणांशत्वमेव निर्धारयति - तस्मादिति । तस्मादेवमुपपादनात् । चेतनाचेतनविशिष्टे ब्रह्मणि जीवस्तदपृथक्सिद्धविशेषणत्वेन ब्रह्मांश इत्युच्यत इति वेदान्तनिर्णयः ॥२४९॥
मूलम् - 30
  1. मेरोरंशः किरीटप्रभृतिरिति नयान्नित्यभिन्नेंऽशतोक्ति-
    स्साजात्याल्पत्वमूला गमयितुमुचितेत्यागमासन्नपक्षे ।
    अंशोक्तिस्स्यादमुख्या स हि निपुणधियामेकवस्त्वेकदेश-
    स्तस्माज्जीवो विशिष्टे भगवति गुणवत्तत्प्रकारोंऽश उक्तः ॥
विश्वास-प्रस्तुतिः - 31
  1. उक्तं नित्योपलब्धिप्रभृति परमते पूर्वमेव ह्यनिष्टं
    भूयस्तादृक्प्रसङ्गः प्रकथित इह किं भोगसङ्कीर्णता(दिः)देः ।
    मैवं, पूर्वं हि बाह्यप्रसृतिमशमयत्साम्प्रतं ब्रह्मवाद-
    व्याजोत्सिक्तान् कुदृष्टीन् परिहृतिरिति च स्याद्भविष्य(न्नये)न्मतेषु ॥
३४-तमाहोबिल-यतिः - 31
  1. उक्तमित्यादि । परमते - शाङ्करादीतरसिद्धान्ते । नित्योपलब्धिप्रभृति अनिष्टम् - नित्योपलब्धिप्रसङ्गादिदूषणम् । पूर्वमेवोक्तं हि - बाह्यवादिप्रतिक्षेपसमय एवोक्तम् । भूयः - पुनः । इह - एतदधिकरणे । भोगसङ्कीर्णतादिस्तादृक्प्रसङ्गः - भोगसाङ्कर्यादिरूपस्तादृशानिष्टप्रसङ्गः । किं प्रकथितः - कुतोऽभिहितः । पुनरुक्तौ वैयर्थ्यादिति भावः । मैवम् - एवं मा शङ्कनं कार्षीः । पूर्वं बाह्यप्रसृतिम् - बाह्यानां प्रसृतिं दुर्मार्गम् । अशमयद्धि । साम्प्रतम् - एतदधिकरणे । ब्रह्मवादव्याजोत्सिक्तान् - ब्रह्मवादव्याजेनोत्सिक्तान् मत्तान् । कुदृष्टीन् । अशमयदित्यस्य शमयतीति विपरिणामः कार्यः । यद्वा - अशमयदित्येव श्लोककरणात्पूर्वकालत्वाल्लङुपपत्तिः । इति - एवम् । परिहृतिः युक्तीनामैक्येऽपि दूष्यवादिभेदात् पुनर्वचनमित्येवं परिहारः । भविष्यन्नयेषु च स्यात् - भाव्यधिकरणेषु चानुसन्धेय इत्यर्थः ॥२५०॥
कुमार-वरदः - 31
  1. अत्र पौनरुक्त्यमाशङ्क्य प्रतिक्षेप्यवादिभेदात्तन्नेति परिहरति - उक्तमित्यादिना । पूर्वमेव बाह्यवादिप्रतिक्षेपसमये नित्योपलब्ध्यनुपलब्धिप्रसङ्गादिकं तर्कजातमुक्तम् । अधुना जीवस्य ब्रह्मस्वरूपांशत्वे भोगसङ्करप्रसङ्गादिकमुपक्षिप्य प्रतिक्षिप्यते । तत्पौनरुक्त्यं किं न स्यादित्याशङ्कां परिहरति मैवमिति । अत्रोभयत्र प्रकारभेदेन परिहारं प्रकटयति - पूर्वमिति । पूर्वं हि बाह्यनिराकरणप्रसङ्गेन सर्वमुक्तम् । अधुना पुनर्ब्रह्मवादव्याजेनोत्सिक्तान्कुदृष्टीन् प्रशमयतीति विभागः । अयं परिहारो यत्रयत्र पौनरुक्त्यप्रसङ्गस्तत्र तत्र सर्वत्रापि कर्तव्य इत्याह - परिहृतिरिति ॥२५०॥
मूलम् - 31
  1. उक्तं नित्योपलब्धिप्रभृति परमते पूर्वमेव ह्यनिष्टं
    भूयस्तादृक्प्रसङ्गः प्रकथित इह किं भोगसङ्कीर्णता(दिः)देः ।
    मैवं, पूर्वं हि बाह्यप्रसृतिमशमयत्साम्प्रतं ब्रह्मवाद-
    व्याजोत्सिक्तान् कुदृष्टीन् परिहृतिरिति च स्याद्भविष्य(न्नये)न्मतेषु ॥
विश्वास-प्रस्तुतिः - 32
  1. मिथ्याज्ञानादिचक्रे मरुति भगणवद्घूर्णमानस्य जन्तोः
    प्रत्यक्तत्त्व(ाव)प्रबोधाद्भवपरिहरणे सर्वतन्त्राविगीते ।
    शुद्धात्मज्ञानगर्भां परभजनभिदामङ्गभेदांश्च वक्ष्यन्
    मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम् ॥
३४-तमाहोबिल-यतिः - 32
  1. मिथ्याज्ञानादीत्यादि । मिथ्याज्ञानादिचक्रे - अविद्याकर्मवासनारुचिप्रकृतिसम्बन्धानां पुनःपुनः परिवर्तनेन त एव चक्रं तदात्मके । मरुति - झञ्झानिले । भगणवत् - नक्षत्रगणवत् । यथा नक्षत्रगणो महावातभ्राम्यच्छिंशुमारचक्रप्रविष्टस्तत्रैव पुनःपुनर्भ्रमति तथेत्यर्थः । घूर्णमानस्य - बम्भ्रम्यमाणस्य । जन्तोः - जीवात्मनः । प्रत्यक्तत्त्वावबोधात् - आत्मतत्त्वावबोधात् । भवपरिहरणे - संसारपरिहरणे । सर्वतन्त्राविगीते - सर्वसिद्धान्तसम्मते सत्यपि । शुद्धात्मज्ञानगर्भां परभजनभिदां - परमात्मशरीरभूतस्वात्मोपासनरूपतया वा स्वात्मशरीरकपरमात्मोपासनरूपतया वा देहातिरिक्तविशुद्धात्मज्ञानगर्भां परमात्मभक्तिभिदाम् । अङ्गभेदांश्च तादृशपरभक्त्यङ्गभूतांश्च कर्मशमदमादीन् । वक्ष्यन् - तृतीयाध्यायतृतीयचतुर्थपादयोः प्रतिपादयिष्यन् । सूत्रकार इति शेषः । मीमांसारम्भसिध्यद्वपुषमपि जीवं पुनश्शोधयामास - पूर्वमीमांसारम्भ एव कर्मकर्तृविचारे देशान्तरकालान्तरभाविफलानुभवयोग्यस्थायिस्वरूपतया सिद्धस्वरूपमपि जीवात्मानं ज्ञातृत्वकर्तृत्वभोक्तृत्वपरमात्माधीनत्वादियुक्ततया पुनश्शोधयामास ॥२५१॥
कुमार-वरदः - 32
  1. अत्र सर्वाद्यपाद एव मीमांसारम्भे जीवस्वरूपस्य प्रसाधितत्वात् किमर्थमधुना जीवस्वरूपशोधनं क्रियत इत्याशङ्क्य पूर्वोत्तरसङ्गतिविशेषाभिधानेन परिहरति - मिथ्येति । अयमत्र शब्दान्वयः अविद्याकर्मवासनारुचिप्रकृतिसम्बन्धात्मके चक्रे मरुति नक्षत्रगणवत् घूर्णमानस्य जीवस्य प्रत्यक्तत्त्वावबोधात् आत्मतत्त्वावबोधात् संसारपरिहरणे सर्वसिद्धान्तसम्मते सत्यपि पुनरत्र सूत्रकारस्तृतीयाध्याये शुद्धात्मज्ञानगर्भां परभजनभिदां परमात्मशरीरभूतस्वात्मोपासनरूपतया वा स्वात्मशरीरकपरमात्मोपासनरूपतया वा देहातिरिक्तविशुद्धात्मज्ञानगर्भां परमात्मभक्तिभिदां तदङ्गभेदांश्च कर्मविशेषांश्च वक्ष्यन् । मीमांसारम्भसिध्यद्वपुषमपि जीवं पुनश्शोधयामासेति न पौनरुक्त्यदोषप्रसङ्गः । तत्र हि देशान्तरकालान्तरादिभाविफलानुभवयोग्यं स्थायिजीवस्वरूपमात्रं प्रसाधितम् । इह पुनर्ज्ञातृत्वकर्तृत्वभोक्तृत्वपरमात्माधीनत्वादियुक्तो जीवो विशोध्यत इति विशेषः ॥२५१॥
मूलम् - 32
  1. मिथ्याज्ञानादिचक्रे मरुति भगणवद्घूर्णमानस्य जन्तोः
    प्रत्यक्तत्त्व(ाव)प्रबोधाद्भवपरिहरणे सर्वतन्त्राविगीते ।
    शुद्धात्मज्ञानगर्भां परभजनभिदामङ्गभेदांश्च वक्ष्यन्
    मीमांसारम्भसिध्यद्वपुषमपि पुनश्शोधयामास जीवम् ॥
विश्वास-प्रस्तुतिः - 33
  1. कॢप्तिर्व्योमादिकेऽपि क्रमभुवि च विभोः प्राच्यतत्त्वैर्विशिष्टा-
    ज्जीवस्यौपाधिकौ तु प्रजननविलयौ चिद्घनज्ञातृताऽस्य ।
    कर्तृत्वं पारतन्त्र्यं गुणतनुनयतो विश्वरूपांशता चे-
    त्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त ॥
३४-तमाहोबिल-यतिः - 33
  1. द्वितीयाध्यायतृतीयपादाधिकरणार्थानां विभज्य दर्शनम् कॢप्तिरित्यादि । व्योमादिकेऽपि कॢप्तिः - परवादिभिर्नित्यत्वेनोक्ते व्योमादिकेऽपि कॢप्तिस्सृष्टिः । ‘न वियत्’ इत्यादिप्रथमाधिकरणार्थोऽयम् । क्रमभुवि च - ‘आकाशाद्वायुः । वायोरग्निः । अग्नेरापः ।’ इत्युक्तरीत्या क्रमेणोत्पद्यमानेऽपि वस्तुनि । प्राच्यतत्वैर्विशिष्टात् विभोः कॢप्तिः - पूर्वपूर्वतत्त्वैश्शरीरभूतैर्विशिष्टात् परमात्मन एव सृष्टिः । कॢप्तिपदस्यानुषङ्गः । ‘तेजोऽतस्तथा ह्याह’ इत्यादिद्वितीयाधिकरणार्थोऽयम् । जीवस्य प्रजननविलयौ तु औपाधिकौ - जीवात्मन उत्पत्तिनाशौ देहोपाधिप्रयुक्तौ । ‘नात्मा श्रुतेः’ इत्यादितृतीयाधिकरणार्थः । अस्य चिद्घनज्ञातृता - जीवात्मनो ज्ञानस्वरूपत्वयुक्ता ज्ञातता । ‘ज्ञोऽत एव’ इत्यादिचतुर्थाधिकरणार्थः । कर्तृत्वम् - अस्येत्यनुषङ्गः । जीवात्मनः कर्तृत्वम् । अयं ‘कर्ता शास्त्रार्थवत्त्वात्’ इत्यादिपञ्चमाधिकरणार्थः । पारतन्त्र्यम् - पराधीनस्वरूपप्रवृत्तिकत्वम् । अयं ‘परात्तु तच्छ्रुतेः’ इत्यादिषष्ठाधिकरणार्थः । गुणतनुनयतः - गुणानां शरीरस्य च यो नयः अपृथक्सिद्धविशेषणत्वेन तत्प्रकारत्वं तस्मादित्यर्थः । विश्वरूपांशता च - विश्वशरीरकपरमात्मात्मकविशिष्टवस्त्वेकदेशत्वरूपांशत्वञ्च । अयम् ‘अंशो नानाव्यपदेशात्’ इत्यादिसप्तमाधिकरणार्थः । इति - एवम्भूतानि । सप्त - सप्त तत्त्वानि । आम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि - वेदान्तवाक्यानामन्योन्यविरोधपरिहारपरेण ‘न वियत्’ इत्यादिपादेनावगन्तव्यानीत्यर्थः ॥२५२॥

इति श्रीमद्रङ्गनाथशठमथनयतिराजकटाक्षलब्धोभयवेदान्तहृदयस्य भारद्वाजस्य श्रीनिवासराघवदासस्य (श्रीमदहोबिल मठमहास्थाननिर्वहणधुरन्धर श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य परमहंसपरिव्राजकाचार्य सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य श्रीभगवद्रामानुजसिद्धान्तनिर्धारणसार्वभौम श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवक श्रीवण्शठकोपश्रीशठकोपरामानुजयतीन्द्र महादेशिकस्य) कृतौ अधिकरणसारावलीव्याख्यायां पदयोजनाख्यायां द्वितीयस्याध्यायस्य तृतीयः पादः ॥

कुमार-वरदः - 33
  1. उक्ताधिकरणसप्तकार्थान् विभज्य दर्शयति — कॢप्तिरित्यादिना । परवादिभिर्नित्यत्वेनोक्ते व्योमादिकेऽपि कॢप्तिः सृष्टिः प्रथमाधिकरणे प्रतिपाद्यते । द्वितीयाधिकरणे तु पूर्वपूर्वतत्त्वविशिष्टात्परमात्मनः साक्षादेवोत्पत्तिरुच्यते - क्रमभुवीति । ‘आकाशाद्वायुः’ इत्यादिना क्रमेणोक्तेऽपीत्यर्थः । कॢप्तिः प्रतिपाद्यत इत्यनुषज्यते । तृतीये पुनरधिकरणे जीवस्य प्रजननविलयौ देहोपाधिप्रयुक्तौ व्यक्तौ । चतुर्थाधिकरणे पुनरस्य जीवस्य ज्ञानघनत्वसहितं ज्ञातृत्वमुक्तम् । पञ्चमादिष्वधिकरणेषु कर्तृत्वादित्रयमुच्यते । गुणतनुनयत इति - यथा गुणगुणिनावपृथक्सिद्धौ, यथा च देहदेहिनौ, तथा जीवाः परमपुरुषस्यापृथक्सिद्धविशेषणत्वादंशा इत्यर्थः । आम्नायेति - वेदवाक्यानामन्योन्यविरोधपरिहरणपरे वियत्पादे सप्तार्थाः प्रत्यधिकरणं विभज्य प्रतिपाद्यन्त इत्यर्थः ॥२५२॥

इति निखिलतार्किकचूडामणिना सर्वतन्त्रस्वतन्त्रेण श्रीमद्वरदार्यापरनाम्ना कुमारवेदान्ताचार्यण विरचिते शारीरकाधिकरणचिन्तामणौ द्वितीयस्याध्यायस्य तृतीयः पादः ॥

मूलम् - 33
  1. कॢप्तिर्व्योमादिकेऽपि क्रमभुवि च विभोः प्राच्यतत्त्वैर्विशिष्टा-
    ज्जीवस्यौपाधिकौ तु प्रजननविलयौ चिद्घनज्ञातृताऽस्य ।
    कर्तृत्वं पारतन्त्र्यं गुणतनुनयतो विश्वरूपांशता चे-
    त्याम्नायान्योन्यबाधव्यपनयनवियत्पादसाध्यानि सप्त ॥