विश्वास-प्रस्तुतिः - 17
- कर्ता नह्यन्यतन्त्रस्स्मरति खलु तथा पाणिनिश्चान्यथा चेत्
आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात् ।
मैवं कर्माक्षकालप्रकृ(भृ)तिपरवशे कर्तृतां तत्फलं च
स्वीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः ॥
३४-तमाहोबिल-यतिः - 17
- कर्तेत्यादि । अन्यतन्त्रः - पराधीनः । कर्ता न हि - कर्ता न भवितुमर्हति । तथा च - स्वतन्त्रस्यैव कर्तृत्वमिति । पाणिनिस्स्मरति - व्याकरणसूत्रकारः ‘स्वतन्त्रः कर्ता’ इति सूत्रेण प्रतिपादयति । खल्विति प्रसिद्ध्यर्थः । अन्यथा चेत् - जीवस्य स्वातन्त्र्यं न विद्यते चेत्, परतन्त्रश्चेत् । कुर्यान्न कुर्यादित्याज्ञा तु - सत्कर्म कुर्यात् दुष्कर्म न कुर्यादिति विधिनिषेधरूपं वचनं तु । निगलिते धावनादेशवत् स्यात् - निगलबद्धस्य पुरुषस्य धावनविधानतुल्यमित्यर्थः । मैवम् - एवं शङ्कां मा कार्षीः । कर्माक्षकालप्रभृतिपरवशे - कर्मणां प्राचीनपुण्यपापरूपाणाम् अक्षाणामिन्द्रियाणां कालस्य प्रभृतिशब्दार्थभूतप्रकृतिनियत्योश्च पराधीने जीवे । कर्तृतां तत्फलञ्च स्वीकृत्य - कर्तृत्वं तत्प्रयुक्तसुखदुःखात्मकफलञ्चाद्वेषेणाङ्गीकुर्वतां भवताम् । श्रुतिशतविदिते - ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति’ इत्यादिश्रुतिशतैस्सर्वप्रयोजककर्तृत्वेन सिद्धे । आत्मेशमात्रे - सर्वात्मनियन्तृभूतेश्वरमात्रे । इत्थं द्वेषः - जीवस्य तत्पारतन्त्र्यानङ्गीकारेणान्तत ईश्वरनिरासाय सद्वेषः प्रयासः । दुरन्तः - दुस्साधफलः । प्रयासमात्रमेव, फलन्तु न सिध्यतीत्यर्थः । कर्मादिपारवश्येऽपि जीवस्य यथा कर्तृत्वं न हीयते, तथेश्वरपारतन्त्र्येऽपि । कर्तृत्वं हि द्विविधं प्रयोजककर्तृत्वं प्रयोज्यकर्तृत्वञ्चेति । तत्र ‘अन्तः प्रविष्टः शास्ता जनानाम्’ इत्यादिशास्त्रैरीश्वरस्यैव सर्वप्रयोजककर्तृत्वम् । तथापि तेनेश्वरेण दत्तशक्तिकस्य जीवस्यापि प्रयोज्यकर्तृत्वमस्त्येवेति ‘कर्ता शास्रार्थवत्त्वात्’ इति जीवस्य कर्तृत्वमुच्यत इति न कश्चिद्विरोध इति भावः ॥
कुमार-वरदः - 17
- ‘इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण, उत परमात्मायत्तमिति’ इति भाष्य एव सङ्गतिरुक्ता । तदर्थविचारस्तु - किं जीवस्य कर्तृत्वं परमात्मायत्तमुत स्वायत्तमिति । किं परमात्मायतत्वे विधिनिषेधशास्त्रानर्थक्यं स्यान्नेति । अत्र जीवस्स्वतन्त्रः परतन्त्रो वा । स्वतन्त्रश्चेत् ‘परात्तु तच्छ्रुतेः’ इति पारतन्त्र्यकथनं कथं स्यात् । परतन्त्रश्चेत् कुर्यान्न कुर्यादिति विधिनिषेधशास्त्रे कर्तृत्वं कथं स्यात् । नहि निगलितस्य पुरुषस्य धावनं विधीयत, इति । तदिदमाह - कर्तेति । नहि परतन्त्रः कर्ता भवितुमर्हति । ‘स्वतन्त्रः कर्ता’ इति स्वातन्त्र्यमेव कर्तृत्वं स्मरति पाणिनिः । परतन्त्रं प्रति कुर्यान्न कुर्यादिति प्रवृत्तिनिवृत्तिविधाने दोषमाह - अन्यथा चेदिति । नहि निगलितस्य पुरुषस्य धावनमादिश्यमानं शक्यते कर्तुमिति । एवं जीवस्येश्वरपरतन्त्रस्य करणाकरणविधानं न योयुज्यते । स्वातन्त्र्यपक्षस्तु भवतैव परित्यक्त इत्युभयथाऽपि न घटत इति । उक्तपक्षं प्रतिबन्द्या निराकरिष्यन् स्वरूपमेव तावत्प्रतिक्षिपति - मैवमिति । तदेव विवृणोति - कर्मेति । कर्माधीनं विश्वमिन्द्रियाधीनं कालाधीनं प्रकृत्यधीनं नियत्यधीनमिति च जीवस्य तत्तत्पारतन्त्र्ये सत्यपि जीवस्य कर्तृत्वं न भ्रश्यतीति वदामः । अयमर्थः - द्विविधं हि कर्तृत्वम् - प्रयोजककर्तृत्वं प्रयोज्यकर्तृत्वञ्चेति । तत्र ‘अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा’, ‘य आत्मानमन्तरो यमयति’ इत्यादिप्रमाणबलाद् यद्यपीश्वरस्यैव सर्वप्रयोजककर्तृत्वम्, तथापि तेनैवेश्वरेण दत्तशक्तिकस्य जीवस्यापि प्रयोज्यकर्तृत्वमस्त्येवेति ‘कर्ता शास्त्रार्थवत्त्वात्’ इति जीवकर्तृत्वमुच्यत इति न कश्चिद्विरोधः । अयमत्र शब्दान्वयः - कर्मादीनां सामान्यकारणत्वमभ्युपगम्य तत्परतन्त्रजीवेऽपि कर्तृत्वमभ्युपगच्छद्भिर्भवद्भिरीश्वरप्रतिक्षेपप्रयासः श्रुतिप्रामाण्यप्रद्वेषनिबन्धनः । श्रुतयो हि जीव ईश्वरप्रेरित एव चिन्तितनिमिषितादिकं निखिलमपि कर्म करोतीति निर्मत्सरमेव प्रतिपादयन्ति । स्मृतयोऽपि तामेव श्रुतिमनुधावन्तीति निपुणविदां निर्णयः ॥२३६॥
मूलम् - 17
- कर्ता नह्यन्यतन्त्रस्स्मरति खलु तथा पाणिनिश्चान्यथा चेत्
आज्ञा कुर्यान्न कुर्यादिति तु निगलिते धावनादेशवत् स्यात् ।
मैवं कर्माक्षकालप्रकृ(भृ)तिपरवशे कर्तृतां तत्फलं च
स्वीकृत्यात्मेशमात्रे श्रुतिशतविदिते द्वेष इत्थं दुरन्तः ॥
विश्वास-प्रस्तुतिः - 18
- साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कुराणां
वैषम्यं त्वाविरिञ्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः ।
साम्यं स्वस्य स्वगीतं श्रुतमपि तदिहाधोनिनीषादिभेद-
स्तादृक्कर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः ॥
३४-तमाहोबिल-यतिः - 18
- नन्वीश्वरस्यैव सर्वकारणत्वे केषाञ्चित् सुखप्रदानं केषाञ्चित् दुःखप्रदानमिति वैषम्यदोषस्स्यादित्याशङ्क्य कारणविभागप्रदर्शनेन परिहरति - साधारण्येनेत्यादि । विभुः - ईश्वरः । सर्वकार्याङ्कुराणामिति पदस्यावृत्तिः कार्या । प्रथमावृत्तौ सर्वेषां कार्याणां जनिमतामङ्कुराणां सलिलमिव । द्वितीयावृत्तौ सर्वेषामङ्कुरोपमितानां कार्याणाम् । साधारण्येन - सामान्याकारेण । हेतुः - कारणम् । प्राणिनाम् - देहिनाम् । वैषम्यन्तु - दृश्यमानं सुखित्वदुःखित्वादिरूपं तारतम्यन्तु । आविरिञ्चात् - विरिञ्चमभिव्याप्य । प्रतिनियतफलैः - व्यवस्थितप्रयोजनैः । कर्मबीजैः - कर्मरूपैरसाधारणकारणैः । भवतीति शेषः । अयमर्थः - लोके हि सर्वाङ्कुराणां साधारणकारणं सलिलं विशेषकारणं तत्तद्बीजमिति दृष्टमेतत्, एवमीश्वरोऽपि अतीतानागतवर्तमानरूपाणामशेषाणामपि कार्याणामेक एव साधारणकारणं, तत्तत्पुरुषाश्रितानि पुण्यपापरूपाणि कर्माणि विशेषकारणानीति न वैषम्यगन्ध ईश्वरस्येति । स्वस्य - ईश्वरस्य । साम्यम् - सर्वभूतेष्वपि तुल्यरूपतयावस्थानम् ।स्वगीतम् - कृष्णत्वेनावतीर्णेन स्वेनैव गीतायां ‘समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः’ इत्यादिवचनेन प्रतिपादितम् । श्रुतमपि - ‘अन्तः प्रविष्टश्शास्ता जनानाम्’ ‘सर्वस्य शरणं सुहृत्’ इत्यादिभिश्श्रुतिभिरपि प्रतिपादितम् । तत् - तस्मात् । इह - ईश्वरे । अधोनिनीषादिभेदः - ‘एष एवासाधु कर्म कारयति तं यमधो निनीषति, एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषति’ इत्यादिश्रुतिसिद्धो जीवविशेषविषयकाधोनयनोर्ध्वनयनेच्छाभेदः । तादृक्कर्मानुरूपं फलम् - तथाविधेश्वरेच्छाहेतुभूततत्तज्जीवकृतमहापराधप्रभूतपुण्यात्मककर्मानुगुणं फलम् । इति - एवम् । एष प्रवाहः - सर्वलोकसाक्षिकः पूर्वपूर्वकर्ममूलकोत्तरोत्तरकर्मपरम्परानुस्यूतिः । अनादिर्नियतः - अनादितयावस्थितः, असङ्कीर्णश्च । अतो मूलकारणप्रश्नस्य नावकाश इति भावः ॥
कुमार-वरदः - 18
- नन्वीश्वरस्यैव सर्वकारणत्वे केषाश्चित्सुखप्रदानं परेषां दुःखप्रदानमिति वैषम्यदोषः स्यादित्याशङ्क्य कारणविभागप्रदर्शनेन परिहरति - साधारण्येनेति । अयमर्थः - लोके हि सर्वाङ्कुराणां साधारणकारणं सलिलम्, विशेषकारणं बीजमित्युक्तमेव दृष्टमेतत् । एवमीश्वरोऽप्यतीतानागतवर्तमानरूपाणामशेषाणामपि कार्याणामेक एव कारणम् । तत्तत्पुरुषाश्रितानि पुण्यपापरूपाणि कर्माणि विशेषकारणानीति न वैषम्यगन्धः । ईश्वरस्य साम्यं ‘समोऽहं सर्वभूतेषु’ इति स्वगीतम् । ‘अन्तःप्रविष्टश्शास्ता जनानां सर्वात्मा’ इति श्रुतिप्रतिपन्नञ्च । तेनानपलपनीयमेव साम्यम् । तर्हि कस्मिंश्चिद्विषये भगवानेव क्रुद्धस्सन्नधोनिनीषां करोति अपरत्र प्रसन्नस्सन्नुन्निनीषामिति किमुच्यत इत्याशङ्क्य श्रुतिद्वयार्थं विविच्य दर्शयति - तदिहेति । यं पूर्वमेवात्यन्तपापप्रवणं भगवानधोनिनीषति तमिदानीमसाधुकर्म कारयति, यं पुनरत्यन्तपुण्यप्रवणमुन्निनीषति तमधुना साधुकर्म कारयतीति । अयमर्थः - पूर्वकर्मानुरूप्येण उत्तरेषु पुण्येषु पापेषु वा भगवानेव प्रवर्तयतीति । पूर्वकर्मानुरूप्यवचनाद्वैषम्यदोषः परिहृत एव । ‘न कर्माविभागादिति चेन्नानादित्वात्’ इति कर्मप्रवाहस्यानादित्वात्प्राचीनकर्मानुगुणतया भगवत एव सर्वदा सर्वत्र सर्वात्मप्रवर्तकत्वमिति न जीवस्य स्वातन्त्र्यम् । न क्वचिदपि परमपुरुषस्य कदाचिदप्यप्रवर्तकत्वम् । नापि च वैषम्यनैर्घृण्यादिकम् । इत्थं परदोषोऽश्रुत एव प्रयातीति सुशोभनमेतत् ॥२३७॥
मूलम् - 18
- साधारण्येन हेतुस्सलिलमिव विभुस्सर्वकार्याङ्कुराणां
वैषम्यं त्वाविरिञ्चात् प्रतिनियतफलैः प्राणिनां कर्मबीजैः ।
साम्यं स्वस्य स्वगीतं श्रुतमपि तदिहाधोनिनीषादिभेद-
स्तादृक्कर्मानुरूपं फलमिति नियतोऽनादिरेष प्रवाहः ॥
विश्वास-प्रस्तुतिः - 19
- काले दुःखोपशान्तिं जनयति भगवान् व्याजमात्रावलम्बी
या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा ।
दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं
निस्सीमानन्दयोगं निरुपधि समये सौति पुंसां तयैव ॥
३४-तमाहोबिल-यतिः - 19
- ननु प्राचीनकर्मानुरूपमीश्वरः फलं ददातीत्युक्तं, तर्हि कर्मैव सुखदुःखप्रदानयोस्तन्त्रम्, तेनेश्वरस्य का करुणा? किञ्च तस्या अपेक्षणम्? कथञ्च तस्यास्संरक्षणोपकारप्रकारः सेत्स्यति? इत्याशङ्क्य सर्वमप्येतत् समाधत्ते - काल इत्यादि । काले - अज्ञातयादृच्छिकानुषङ्गिकप्रासङ्गिकसामान्यबुद्धिमूलसुकृतसम्पत्तिकाले । भगवान् - ज्ञानशक्त्यादिपरिपूर्ण ईश्वरः । व्याजमात्रावलबम्बी - अञ्जल्याद्यल्पव्याजमवलम्ब्य । दुःखोपशान्तिं जनयति । परहितमनसः - परेषां शुभोदर्कव्यापार एव निविष्टमनसः । तस्य - ईश्वरस्य । या दुःखापाचिकीर्षा - या दुःखनिराकरणेच्छा । तस्यानुकम्पा सैव - ईश्वरकृपास्वरूपमिदमित्यर्थः । तस्याः फलमुपकारविशेषं दर्शयति - दत्त इत्यादिना । देहादियोगं दत्ते - ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स तु विज्ञेयः’ इत्युक्तप्रकारेण देहादियोगं तावत् सात्त्विकं दत्ते । निगमं दिशति च - ‘साक्षान्नारायणो देवः’ इत्युक्तरीत्या देशिकरूपेण स्थित्वा वेदमुपदिशति । वेदान्तसारं वक्ति - ‘सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते’ इति साक्षात् प्रधानाचार्यरूपेण वेदान्तशास्त्रसारमपि व्याचष्टे । निरुपधिसमये - देहाद्युपाधिनिवृत्त्यनन्तरसमये । तयैव - कृपयैव प्रधानभूतया । पुंसाम् - जीवात्मनाम् । निस्सीमानन्दयोगं सौति - ‘निरञ्जनः परमं साम्यमुपैति’ ‘भोगमात्रसाम्यलिङ्गाच्च’ इत्याद्युक्तां निरन्तरस्वानुभवरूपमहानन्दप्राप्तिं सम्पादयतीत्यर्थः । एवमीश्वरकृपास्वरूपोपकारप्रकारफलविशेषा इति भावः ॥
कुमार-वरदः - 19
- ‘ननु प्राचीनकर्मानुरूपमीश्वरः फलं ददातीत्युक्तम्, तर्हि कर्मैव सुखदुःखप्रदानयोः तन्त्रम्, तेनेश्वरस्य का करुणा? किञ्च तस्या अपेक्षणम् ! कथञ्च तस्यास्संरक्षणोपकारप्रकारस्सेत्स्यति’ इत्याशङ्क्य सर्वमप्येतत्समाधत्ते - काल इति । अयमर्थः — परानुग्रहः करुणा, सा च स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षा, तस्याश्च प्रयोजनं सत्त्वोत्तरदेहप्रदानादिमुखेन परमपुरुषकैङ्कर्यसाम्राज्यलाभप्रदानपर्यन्तस्सर्वोऽप्युपकारविशेषः । अयमत्र शब्दान्वयः - काले - अज्ञातयादृच्छिकादिसुकृतसम्पत्तिकाले । भगवान् दुःखोपशान्तिं जनयति । स च व्याजमात्रमवलम्ब्य करोति । अल्पीयसा सुकृतेनानन्तफलप्रदानात् सुकृतस्य व्याजत्वसिद्धिः । तेन तत्र करुणावकाशः । करुणाया लक्षणं वैशद्याय दर्शयति या दुःखेति । परहितमनसः पुरुषस्य सैव परदुःखापाचिकीर्षा करुणेत्युच्यते । कृपाफलमुपकारविशेषं दर्शयति - दत्त इति । ‘जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स तु विज्ञेयः’ इत्युक्तप्रकारेण देहादियोगं तावत्सात्त्विकं दत्ते । दिशति च निगमम् - ‘साक्षान्नारायणो देवः’ इत्युक्तरीत्या देशिकरूपेण स्थित्वा निगमं दिशति ॥ ‘सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते’ इति साक्षात्प्रधानाचार्यरूपेण वेदान्तशास्त्रमपि व्याचष्टे । ऐहिकमेतत्फलमनुकम्पायाः सहजायाः । आपवर्गिकमपि व्याचष्टे - निस्सीमेति । निरुपधिसमये देहावसानानन्तरं तयैव परमकृपया निस्सीमानन्दयोगं पुंसां सौति परस्मिन्पदे ‘निरञ्जनः परमं साम्यम्’, ‘भोगमात्रसाम्यलिङ्गाच्च’ इत्युक्तं जनयतीत्यर्थः । एतत्सर्वं कृपाफलत्वान्न परिचोदनीयमित्यर्थः ॥२३८॥
मूलम् - 19
- काले दुःखोपशान्तिं जनयति भगवान् व्याजमात्रावलम्बी
या दुःखापाचिकीर्षा परहितमनसस्सैव तस्यानुकम्पा ।
दत्ते देहादियोगं दिशति च निगमं वक्ति वेदान्तसारं
निस्सीमानन्दयोगं निरुपधि समये सौति पुंसां तयैव ॥
विश्वास-प्रस्तुतिः - 20
- दोषस्स्यान्निग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात्
स्वा(ना)निष्टं ने(ही)श्वरे हि(रस्य) प्रसजति न परानिष्टमस्य प्रतीपम् ।
कारुण्यं सावकाशं क्वचिदिति कथितं साक्षिताद्यञ्च सुस्थं
दृष्टे चैतत्स्वभावे फलद इति धिया युज्यते तत्प्रपत्तिः ॥
३४-तमाहोबिल-यतिः - 20
- एवं निग्रहानुग्रयोर्द्वयोरपि भगवन्निष्ठत्वे निग्रहांशस्य दोषत्वं स्यादित्याशङ्क्य परिहरति - दोषस्स्यादित्यादिना । यमयितुः - नियन्तुरीश्वरस्य । निग्रहांशो दोषस्स्यात् - परहिंसनव्यापारत्वादित्यर्थः । इति चेन्न, उपमर्दासहत्वात् । ईश्वरस्य - सर्वशासितुः परमात्मनः । अनिष्टं नहि प्रसजति - परनिग्रहमूलकमनिष्टं न प्रसजति स्वनियन्त्रन्तराभावात् । अस्य परानिष्टं न प्रतीपम् - ईश्वरस्य परानिष्टकरणं तत्तत्कर्मानुगुण्येनाभीष्टतया नानिष्टम् । तत्तत्कर्मानुगुणनिग्रहाभावे ईश्वरत्वमेव भज्येत । तर्हि कारुण्यस्य कोऽवकाश इति चेत् कारुण्यं क्वचित् सावकाशमिति कथितम् - भक्तविषये दयाया अवकाश इति प्रतिपादितम् । तथा हि करुणा द्विविधा, नित्या चानित्या च, नित्या करुणा सर्वात्मसत्तादिसंरक्षणरूपिणी, अनित्या पुनस्तत्तदज्ञातसुकृतादिकर्मानुरूपविशेषफलप्रदानरूपा । तदुक्तमाचार्यैरेव ‘मुकुन्दकरुणां वन्दे मुग्धेष्वधिकवत्सलाम् । स्वरूपसंस्तवौ यस्या निर्हेतुकसहेतुकौ ॥’ इति । तेन सर्वात्मविषयं सकलफलप्रदानसङ्कल्परूपं सामान्यकारुण्यं नित्यमेव निर्हेतुकञ्चैतत् । कालविशेषफलप्रदानसङ्कल्परूपं कारुण्यन्त्वनित्यं सहेतुकञ्चेति विभागः । अन्यथा कृत्स्नशास्त्राप्रामाण्यप्रसङ्गात् । अतः क्वचिदधिकारिणि कारुण्यं सावकाशमिति पूर्वश्लोक एवोक्तमित्यर्थः । तर्हीश्वरस्यैव सर्वकर्तृत्वे तत्र तत्र प्रमाणेषूच्यमानं साक्षित्वानुमन्तृत्वादिकं कथमित्यत्राह - साक्षिताद्यं च सुस्थमिति । आद्यशब्देन कर्तृत्वप्रेरकत्वानुमन्तृत्वोदासीनत्वसहकारित्वसर्वस्वामित्वफलित्वादिसङ्ग्रहः । इदं सर्वमपि धर्मजातं तुलायां प्रमाणप्रमेयव्यवहारन्यायेन सर्वलक्षणसमवायादेकस्यैवेश्वरस्य युक्तमित्यर्थः । सर्वावस्थायां सर्वद्रष्टृत्वात् साक्षी, स्वतन्त्रत्वात् कर्ता, प्रयोज्यकर्तुर्जीवस्य कारयितृत्वात् प्रेरकः, प्रवृत्तस्योत्तरोत्तरं प्रवर्तकत्वादनुमन्ता, अङ्कुरादिषु सलिलवत् सर्वेष्वपि कार्येषु सामान्यहेतुत्वादुदासीनः, तत्तत्कर्मानुगुणं सर्वं करोतीति सहकारी, सर्वकृतातिशयभाक्त्वात् सर्वस्वामी, आश्रितसंरक्षणरूपफलस्यापि स्वफलत्वात् फली, ‘फलमत उपपत्तेः’ इति फलप्रदत्वात् फलदः, इत्येवं साक्षित्वादिकं तस्मिन् सुस्थमित्यर्थः । एतत्स्वभावे - अनपराधानां रक्षको भवति सापराधानां शिक्षको भवतीत्येतत्स्वभावे । दृष्टे च - सम्यक्प्रमाणेनावगते सति च । फलद इति धिया - निग्रहानुग्रहरूपफलप्रद इति बुद्ध्या । तत्प्रपत्तिर्युज्यते - प्राणिनां तत्प्रपदनप्रवृत्तिर्युक्तेत्यर्थः । निग्रहानुग्रहकरणस्वभावदर्शनं न प्राणिनां तत्प्रपदनप्रवृत्तिविरुद्धम्, निग्रहानुग्रहसमर्थमेव हि राजानं प्राणिनः प्रपद्यन्ते फलञ्च लभन्ते न पुनरन्यतरासमर्थमिति भावः ॥
कुमार-वरदः - 20
- एवं निग्रहानुग्रहयोर्द्वयोरपि भगवन्निष्ठत्वादनुग्रहांशस्य गुणत्वं निग्रहांशस्य दोषत्वं स्यादित्याशङ्क्य परिहरति - दोष इति । सर्वनियन्तुरीश्वरस्य क्वचिन्निग्रहो दोषः स्यात् । सर्वसमत्वभङ्गादित्याशङ्का । उक्तामाशङ्कां प्रतिक्षिपति - नेति । तत्र हेतुमाह - उपमर्दासहत्वादिति । विकल्पासहत्वादित्यर्थः । विकल्पासहत्वमेव प्रकटयति - नानिष्टमिति । अयमर्थः - दोषो ह्यनिष्ट एव न पुनरिष्टः, तेन किमीश्वरस्य दोषस्स्यादित्यनिष्टं प्रसज्यते? किं वा जीवस्यानिष्टम्? न तावदीश्वरानिष्टप्रसञ्जनं कर्तुमेव शक्यते, सर्वशासितुरीश्वरस्येश्वरान्तराभावेनानिष्टकर्तुरेवाभावात् । न च स्वस्य स्वयमेवानिष्टं करोति; भ्रान्तत्वप्रसङ्गात् । परानिष्टप्रसञ्जनं पुनरिष्टप्रसङ्ग एव । ईश्वरनिग्रहस्य जीवानिष्टरूपत्वेनैव धर्मिग्राहकप्रमाणसिद्धत्वात् । न परानिष्टमस्य प्रतीपमिति - परानिष्टकरणमीश्वरस्य तत्तत्कर्मानुरूपमभीष्टत्वादनिष्टमेव न भवतीत्यर्थः । अन्यथा कर्मानुरूपफलप्रदानाभावे सतीश्वरत्वमेव भज्येत । प्रतिकूलमेव प्रसज्येत । एवं तर्हि निग्रहं कुर्वाणे कारुण्यस्य कोऽवकाश इत्याशङ्क्याह - कारुण्यमिति । अयमर्थः - ईश्वरस्य कारुण्यमस्तीत्यस्माभिरुच्यते न पुनर्निग्रहो नास्तीति; द्वयोरपि प्रमाणसिद्धत्वात् । ‘अतिदूरमभक्तानां भक्तानां पुरतः स्थितः’ इति ह्युच्यते तेन कारुण्यावकाशो वाच्यः । करुणा हि द्विविधा नित्याऽनित्या च । नित्या पुनः करुणा सर्वात्मसत्तादिसंरक्षणरूपिणी । अनित्या पुनस्तत्तदज्ञातसुकृतादिकर्मानुरूपविशेषफलप्रदानरूपा । तदुक्तमाचार्यपादैरेवान्यत्र स्तुत्यारम्भे ‘मुकुन्दकरुणां वन्दे मुग्धेष्वधिकवत्सलाम् । स्वरूपसंस्तवौ यस्या निर्हेतुकसहेतुकौ ॥’ इति ॥ तेन सर्वात्मविषयं सकलफलप्रदानसङ्कल्परूपं सामान्यकारुण्यं नित्यमेव निर्हेतुकञ्चैतत् । तत्तत्काले विशेषफलप्रदानसङ्कल्परूपमनित्यं सहेतुकञ्चेति विभागः । अन्यथा कृत्स्नशास्त्राप्रामाण्यप्रसङ्गात् । कथितमिति - क्वचिदधिकारिणि कारुण्यं सावकाशमिति पूर्वश्लोक एवोक्तमित्यर्थः । तर्हीश्वरस्यैव सर्वकर्तृत्वे तत्र तत्र प्रमाणेषूच्यमानं साक्षित्वानुमन्तृत्वादिकं कथमुच्यत इत्याशङ्क्याह - साक्षितेति । तुलायां प्रमाणप्रमेयव्यवहारन्यायेनैकस्यैवेश्वरस्य कर्तृत्वकारयितृत्वसाक्षित्वानुमन्तृत्वादिसर्वलक्षणसमवायात् सर्वोऽपि व्यवहारो युक्त इत्यर्थः । स्वतन्त्रः कर्ता, प्रयोज्यकर्तुर्जीवस्य कारयितृत्वात् प्रेरकः । प्रवृत्तस्योत्तरोत्तरं प्रवर्तकत्वादनुमन्ता, अङ्कुरादिषु सलिलवत्सर्वेष्वपि कार्येषु सामान्यहेतुत्वादुदासीनः, सर्वावस्थायां सर्वद्रष्टृत्वात् साक्षी, विशेषकार्येषु तत्तत्कर्मानुरूपं प्रवर्तकः कर्मभिस्सर्वं करोतीति सहकारी, सर्वस्वामित्वेन समाश्रितसंरक्षणरूपफलस्यापि स्वफलत्वात्फली, ‘फलमत उपपत्तेः’ इति फलप्रदत्वात् फलद इति न कोऽपि विरोधः । तर्हीश्वरस्य निग्रहानुग्रहसाधारणस्य कथं प्रपदनीयत्वमित्याशङ्क्य परिहरति - दृष्ट इति । ईश्वरस्यैतत्स्वभावे दृष्टे सति - सनाथानां संरक्षको भवत्यनाथानां शिक्षको भवतीत्येतत्स्वभावे दृष्टे सति ॥ इदमेव दर्शनं प्रपदनप्रवृत्तिकारणमित्यर्थः । न पुनरिदं प्रपदनप्रवृत्तेः विरुद्धम् - निग्रहानुग्रहसमर्थमेव राजानं प्रपद्यन्ते प्राणिनः फलञ्च लभन्ते । न पुनरन्यतरासमर्थं कन्यापुरुषादिकम् । फलद इति धिया निग्रहानुग्रहफलद इति धियेत्यर्थः ॥२३९॥
मूलम् - 20
- दोषस्स्यान्निग्रहांशो यमयितुरिति चेन्नोपमर्दासहत्वात्
स्वा(ना)निष्टं ने(ही)श्वरे हि(रस्य) प्रसजति न परानिष्टमस्य प्रतीपम् ।
कारुण्यं सावकाशं क्वचिदिति कथितं साक्षिताद्यञ्च सुस्थं
दृष्टे चैतत्स्वभावे फलद इति धिया युज्यते तत्प्रपत्तिः ॥
विश्वास-प्रस्तुतिः - 21
- प्रत्यङ्ङात्माऽहमर्थः प्रमितिपरवतां कर्तृतादिश्च तस्मिन्
स्वेच्छापूर्वप्रवृत्तेरयमचिदधिकस्तावदी(ते)शानतुल्यः ।
ईशस्तु स्वेच्छयैव प्रयतत इति तन्निघ्नमन्यत्समस्तं
सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् त्रयाणां प्रवृत्तिः ॥
३४-तमाहोबिल-यतिः - 21
- प्रत्यङ्ङात्मेत्यादि । प्रत्यङ् - स्वस्मै भासमानः । आत्मा - आत्मैव । अहमर्थः - अहञ्जानाम्यङ्करोमिति प्रतीयमानोऽहमर्थः । नपुनश्चिन्मात्रं नाप्यहङ्कारस्तयोर्द्वयोरप्यचेतनत्वात् । प्रमितिपरवताम् - प्रमाणमार्गमनुसरताम् । कर्तृतादिश्च - कर्तृत्वभोक्तृत्वादिकश्च । तस्मिन् - तस्मिन्नेव । सम्मत इति शेषः । स्वेच्छापूर्वप्रवृत्तेः - स्वबुद्धिपूर्वप्रवृत्तिलक्षणकर्तृत्वयोगात् । अयम् - जीवः । अचिदधिकः - व्यापाराश्रयत्वमात्रलक्षणकर्तृत्ववतोऽचेतनादन्यः । तावता - बुद्धिपूर्वकप्रवृत्तिलक्षणकर्तृत्वमात्रेण । ईशानतुल्यः - ईश्वरतुल्यः । ईशस्तु - ईश्वर एकः । स्वेच्छयैव प्रयतते - स्वेच्छामात्रप्रयोज्यमीश्वरस्य कर्तृत्वमित्यर्थः । इति - हेतोः । अन्यत् समस्तम् - तद्व्यतिरिक्तं चेतनाचेतनात्मकं सर्वमपि वस्तुजातम् । तन्निघ्नम् - तत्परतन्त्रं तदधीनस्वरूपस्थितिप्रवृत्तिकमित्यर्थः । अत एव जीवस्य कर्तृत्वं पराधीनमित्यर्थः । त्रयाणाम् - ईश्वरजीवात्माचेतनानाम् । प्रवृतिः - व्यापारः । सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् - सारथिरथाश्वरथक्रमेण व्यवस्थितप्रकारा भवेत् । सर्वप्रवर्तकत्वात् सारथिर्भगवान्, रथाश्वो जीवः, यथाश्वस्सारथिना रथे निबद्धस्तत्परतन्त्रस्सन् रथमाकर्षति तद्वज्जीव ईश्वरेण शरीरे निबद्धस्तदधीनश्शरीरधारणादौ प्रवर्तते, रथस्थानीयमचेतनम्, यथा रथः सारथिप्रेरितेनाश्वेनाकृष्यते तद्वदीश्वरप्रेरितेन जीवेन शरीरादिरूपमचेतनमाकृष्यते, अतः प्रयोजककर्तृत्वमीश्वरे व्यवस्थितम्, प्रयोज्यकर्तृत्वम् जीवे नियतम्, ईश्वरप्रेरितजीवप्रेरणाधीनव्यापारमात्राश्रयत्वमचेतने, इति व्यवस्थितं तत्त्वत्रयस्यापि स्वभावत्रयमिति नान्योन्यव्यतिकरोऽन्यतमापह्नवो वा युक्तः । तथाच श्रुतिश्छान्दोग्येऽष्टमेऽध्याये ‘यथा प्रयोग्य आचरणे युक्तः एवमेवायमस्मिन् शरीरे प्राणो युक्तः’ इत्यादिः ॥240॥
कुमार-वरदः - 21
- नन्वीश्वर एव कर्ता चेत्तर्हि मृत्पिण्डप्रायस्य जीवस्य किं कर्तृत्वम्? तथा च भोक्तृत्वमपि तस्य न स्यात्, अकर्तुरभोक्तृत्वादित्याशङ्क्येश्वरोऽपि कर्ता जीवोऽपि तत्प्रयोज्यत्वेन कर्तेति कर्तृप्रकारविशेषं विभज्य दर्शयति - प्रत्यङ्ङिति । जीवस्य तावत्कर्तृत्वं सुप्रसिद्धमेव । अहं जानाम्यहं करोमीतिप्रत्यगर्थ एव सर्वकार्येषु कर्ता स एवात्मा, न पुनश्चिन्मात्रं नाप्यहङ्कारस्तयोर्द्वयोरप्यचेतनत्वात् । अत एवोच्यते - प्रमितिपरवतामिति । प्रमाणमार्गमनुसरतां सर्वेष्वपि कार्येषु परमात्मपरतन्त्रो जीवः प्रयोज्यकर्तेत्यर्थः । तदिदमाह - कर्तृतादिश्च तस्मिन्निति । ननु रथो गच्छतीत्यादावचितोऽपि कर्तृत्वं प्रतीयते तत्कथमचेतनाधिको जीव इत्याशङ्क्य चिदचितोर्वैषम्यमाह - स्वेच्छेति । स्वबुद्धिपूर्वप्रवृत्तिलक्षणकर्तृत्वयोगाद् व्यापाराश्रयत्वमात्रलक्षणकर्तृत्ववतोऽचेतनादन्यो जीवस्तावतेशानतुल्य इति । बुद्धिपूर्वकप्रवृत्तिलक्षणकर्तृत्वमीश्वरस्यापि तुल्यमित्यर्थः । चेतनाचेतनकर्तृत्वाद्विलक्षणमीश्वरासाधारणकर्तृत्वमुक्त्वा विश्वस्य तत्पारतन्त्र्यं स्वभाव इति निगमयति - ईशस्त्विति । उक्तमर्थं ‘यथा प्रयोग्य आचरणे युक्तः’ इत्यादिश्रुतिप्रसिद्धयुग्यस्यन्दनसारथिक्रमेण स्थापयति - सारथ्यादिक्रमेणेति । सर्वप्रवर्तकत्वात् सारथिर्भगवान् । युग्यो जीवो रथबद्धाश्वस्थानीय इत्यर्थः । स्यन्दनं देहः ईश्वरप्रेरितचेतनप्रेर्यत्वात् । रथे हि सारथिना बद्धा युग्या यथेष्टं रथमाकर्षन्तीत्यर्थः । अयमत्र शब्दार्थः - त्रयाणां चिदचिदीश्वराणां प्रवृत्तिर्युग्यस्यन्दनसारथिक्रमेण प्रतिनियतप्रकारेति ॥२४०॥
मूलम् - 21
- प्रत्यङ्ङात्माऽहमर्थः प्रमितिपरवतां कर्तृतादिश्च तस्मिन्
स्वेच्छापूर्वप्रवृत्तेरयमचिदधिकस्तावदी(ते)शानतुल्यः ।
ईशस्तु स्वेच्छयैव प्रयतत इति तन्निघ्नमन्यत्समस्तं
सारथ्यादिक्रमेण प्रतिनियतगतिस्स्यात् त्रयाणां प्रवृत्तिः ॥
विश्वास-प्रस्तुतिः - 22
- कर्तृत्वं स्यात् कदाचित् करणवति परप्रेरणानिर्व्यपेक्षं
नो चेत् तन्निग्रहाद्यं कथमिति यदि न स्वेष्टपक्षेऽपि साम्यात् ।
स्वेनापथ्यप्रवृत्तं न हि पुनरपि तत् कारयेयुर्दयार्द्रा-
स्तच्चेत्तस्य स्वभावादितरदपि न किं निष्फलोऽधीतभङ्गः ॥
३४-तमाहोबिल-यतिः - 22
- कर्तृत्वमित्यादि । करणवति - जीवे । कदाचित् - प्रथमप्रवृत्तिकाले । कर्तृत्वम् - सुकृतदुष्कृतप्रवृत्तिरूपं कर्तृत्वम् । परप्रेरणानिर्व्यपेक्षं स्यात् - ईश्वरप्रेरणनिरपेक्षं भवेत् । नो चेत् - एवमनङ्गीकारे, प्रथमप्रवृत्तेरपीश्वरप्रेरणसापेक्षत्वे । तन्निग्रहाद्यम् - तस्य ईश्वरप्रेरणेनैव प्रथममपि प्रवृत्तस्य जीवस्य निग्रहाद्यं निग्रहोऽनुग्रहश्च । कथम् - कथमीश्वरेण क्रियते । इति यदि - एवमाशङ्क्यते यदि । न - नैतद्युक्तम् । स्वेष्टपक्षेऽपि साम्यात् - द्वितीयादिप्रवृत्तावेवेश्वरप्रेरणेत्युक्तस्वाभिमतपक्षेऽपि दोषसाम्यात् । तदेवोपर्युच्यते - स्वेनेत्यादिना । दयार्द्राः - दयाशीतलहृदयाः पुरुषाः । स्वेन - स्वयमेव, पूर्वं परप्रेरणं विना । अपथ्यप्रवृत्तम् - अपथ्ये अहितव्यापारे प्रवृत्तं जनम् । पुनरपि तत् नहि कारयेयुः - अनन्तरमप्यपथ्यकरणानुमतिदानेनापथ्यं नहि कारयेयुः । यः प्रथममपथ्ये प्रवर्तयति स निर्दयश्चेत् यः प्रथमं स्वयमपथ्ये प्रवृत्तं पुनरप्यनुमतिदानेन तत्कारयति सोऽपि निर्दय एव, कूपे हि पतन्तं बालकं निवारयितुं समर्थोऽप्यनुमन्यमानो निर्दय एवेति लोकदृष्टमेव । ननु प्रथमं प्रवृत्तौ सत्यां तामनुसृत्येश्वरोऽनुमन्ता तस्मान्न निर्दय इति चेत् प्रथमप्रवृत्तावपि जन्मान्तरीयचरमप्रवृत्तिमनुसृत्यैव प्रवर्तयतीति समस्समाधिरित्यर्थः । तत् - प्रवृत्तप्रवर्तकत्वलक्षणमनुमन्तृत्वम् । अस्य - ईश्वरस्य । स्वभावाच्चेत् - सर्वकार्यहेतुत्वस्वाभाव्यादिति चेत् । इतरदपि - प्रथमप्रवर्तकत्वमपि । किं न - तस्मादेव स्वभावात् कुतो न भवति । तथानङ्गीकारे ‘तेन विना तृणाग्रमपि न चलति’ इत्यादिप्रमाणशतप्रसिद्धं सर्वदा सर्वस्येश्वरपारतन्त्र्यं भज्येत, ततश्चानीश्वरत्वमेव स्यात् । किञ्च, अधीतभङ्गः अधीतस्य सर्वव्यापारहेतुत्वेन श्रुतिसिद्धस्येश्वरतत्त्वस्य भङ्गो निराकरणव्यापारः । निष्फलः - स्वपक्षे निर्दोषत्वासाधकतया निष्प्रयोजन इत्यर्थः । प्रथमप्रवृत्तावीश्वरप्रेरणानधीनत्वकल्पनमनीश्वरत्वमेव फलति नत्वीश्वरस्य दोषापनयनमिति भावः ॥
कुमार-वरदः - 22
- अत्र केचिदाहुः ‘जीवस्य प्रथमप्रवृत्तावीश्वरः कारयिता न भवति, स्वयमेव जीवः प्रवर्तते, ईश्वरस्तदानीमुपेक्षते, यदीश्वर एव तत्र प्रयत्नतः प्रवर्तकः स्यात् तदा आदावपि प्रवर्तकत्वात् निर्घृणो विषमश्च स्यादीश्वरः, जीवो न निग्राह्यस्स्यात् ; स्वयमकर्तृत्वात्’ इति । तदिदमनुवदति - कर्तृत्वमित्यादिना यदीत्यन्तेन । तदिदं प्रतिक्षिपति - नेति । तत्र हेतुमाह - स्वेष्टपक्षेऽपि साम्यादिति । साम्यमेव प्रकटयति - स्वेनेति । अयमर्थः - यस्तावदपथ्ये प्रवर्तयति स हि निर्दय एव स्यात्, तथा च प्रथममपथ्ये प्रवर्तयन्नीश्वरो निर्दयस्स्यादिति हि भवतोच्यते । एवं यस्स्वयमपथ्ये प्रवर्तते तस्यानुमन्तापि निर्दय एव हि । लोके दृष्टमेतत्, कूपे हि पतन्तं बालकं निवारयितुं समर्थोऽप्यनुमन्यमानो निर्दय एवेति । इदमपि प्रसिद्धमेव । तस्मादीश्वरस्य पापप्रवृत्तावनुमन्तृत्वेऽपि निर्दयत्वमापतेदेव भवद्रीत्या । ननु प्रथमप्रवृत्तौ तामनुसृत्यैवेश्वरोऽनुमन्ता तस्मान्निर्दयो न भवतीति यदि वदसि तर्हि प्रथमप्रवृत्तावपि जन्मान्तरीयचरमप्रवृत्तिमनुसृत्यैव प्रवर्तयतीति निर्दयत्वं नापतेदिति समस्समाधिः । नन्वीश्वरस्य सर्वकार्यहेतुत्वस्वाभाव्यात् प्रवृत्तप्रवर्तकत्वलक्षणमनुमन्तृत्वमङ्गीकार्यमिति यदि, तर्हि तेनैव न्यायेन प्रथमप्रवर्तकत्वमपि न किमङ्गीकार्यम्? तदनङ्गीकारे ‘तेन विना तृणाग्रमपि न चलति’ इत्यादिप्रमाणशतप्रसिद्धं सर्वदा सर्वस्येश्वरपारतन्त्र्यं भज्येतेतीश्वरत्वमेव न स्यात् । किञ्च निष्फलोऽयमधीतभङ्गः सर्वकार्यकर्तृत्वं सर्वेश्वरत्वमधीतं निरर्थकमेव भवान्निराकरोतीत्यर्थः ॥२४१॥
मूलम् - 22
- कर्तृत्वं स्यात् कदाचित् करणवति परप्रेरणानिर्व्यपेक्षं
नो चेत् तन्निग्रहाद्यं कथमिति यदि न स्वेष्टपक्षेऽपि साम्यात् ।
स्वेनापथ्यप्रवृत्तं न हि पुनरपि तत् कारयेयुर्दयार्द्रा-
स्तच्चेत्तस्य स्वभावादितरदपि न किं निष्फलोऽधीतभङ्गः ॥
विश्वास-प्रस्तुतिः - 23
- क्षेत्रज्ञानां समानां विषमयतनता तादृशादृष्टभेदा-
न्नादृष्टं त्वन्यदिष्टं नियमनभिदया शासि(हीशि)तुस्तत्र भाव्यम् ।
साक्षित्वाद्यञ्च नेतुस्समनिगममितं प्रेरकत्वं न रुन्धे
भाष्यादिग्रन्थलेशोऽप्यवहितमनसामैदमर्थ्यं भजेत ॥
३४-तमाहोबिल-यतिः - 23
- किञ्च कल्पादौ प्रथमप्रवृत्तिरीश्वरनिरपेक्षेति वदन् प्रवृत्तिमेवोपपादयितुं न शक्नोतीत्याह - क्षेत्रज्ञानामित्यादिना । कल्पादौ समानां क्षेत्रज्ञानां विषमयतनता - अन्योन्यविलक्षणपुण्यपापप्रवृत्तिमत्त्वम् । तादृशादृष्टभेदात् - तत्तत्प्रवृत्त्यनुगुणादृष्टभेदादेव भवतीति वक्तव्यम् । अदृष्टं तु अन्यत् - ईश्वरसङ्कल्पादन्यत् । नेष्टम् - तवाप्यनभिमतम् । तत्र - तस्मिन्काले । ईशितुः - ईश्वरस्य । नियमनभिदया हि भाव्यम् - अदृष्टशब्दाभिधेयेन नियमनभेदेनैव भवितव्यम् । अदृष्टहेतुकप्रवृत्तिवैषम्यं वदता भवता प्रथमप्रवृत्तावपीश्वरहेतुत्वमेव स्थापितं भवतीति भावः । नेतुः - ईश्वरस्य । साक्षित्वाद्यञ्च - साक्षित्वोदासीनत्वामनुमन्तृत्वादिकं कर्तृ । समनिगममितं प्रेरकत्वं न रुन्धे - तुल्यप्रमाणप्रमितमीश्वरस्य सर्वदा प्रेरकत्वं न बाधत इत्यर्थः । अवहितमनसाम् - सूक्ष्मावधाननिविष्टबुद्धीनाम् । भाष्यादिग्रन्थलेशोऽपि - एतदधिकरणभाष्यतत्त्वसारश्लोकादिग्रन्थांशोऽपि, ऐदमर्थ्यम् - अयमेव एतावता योऽस्माभिरुपपादितः अर्थो यस्य स इदमर्थः, तस्य भावः ऐदमर्थ्यं तत् भजेत । प्राथम्यस्य दुरुपपादत्वात् कर्मप्रवाहमूलकसर्वप्रवृत्तिहेतुत्वस्यैवेश्वरे प्रामाणिकत्वात् तत्परत्वमेव भाष्यतत्त्वसारादिग्रन्थवाक्यानां युक्तमिति सूक्ष्मबुद्धिभिर्भाव्यमिति भावः ॥
कुमार-वरदः - 23
- कल्पादौ प्रथमप्रवृत्तिरीश्वरनिरपेक्षेति वदन् प्रवृत्तिमेवोपपादयितुं न शक्नोतीत्याह - क्षेत्रज्ञानां समानामिति । युष्मदभिमतप्रथमप्रवृत्तिवेलायां जीवानां विषमप्रवृत्तिस्तावन्न जीवस्वरूपनिबन्धना; जीवस्वरूपस्य तुल्यस्वेन वैषम्यनिबन्धनत्वायोगात् । तेन प्राचीनकल्पकृतकर्मनिबन्धनेति वक्तव्यम्, कर्म च वेदान्तसिद्धान्ते नेश्वरसङ्कल्पादन्यदिति कर्मनिबन्धनं प्रवृत्तिवैषम्यं वदन्नीश्वराधीनत्वमेव स्थापयतीत्यर्थः । निर्मूलमेव प्रवृत्तिवैषम्यमिति तु चार्वाकपक्षे निक्षिप्येत । अयमत्र शब्दान्वयः - कल्पादौ समानां क्षेत्रज्ञानां विषमयतनता तदनुगुणादृष्टभेदादेव भवति । ततः किमित्यत्राह - नादृष्टमिति । ईश्वरसङ्कल्पादन्यददृष्टमिति किञ्चिन्नेष्टमित्यर्थः । फलितमाह - नियमनेति । तत्र तस्मिन् काले अदृष्टशब्दाभिधेयेनेश्वरस्य नियमनेन भवितव्यमित्यर्थः । तेनादृष्टहेतुकप्रवृत्तिवैषम्यं वदता भवता प्रथमप्रवृत्तावपीश्वरहेतुत्वमेव स्थापितं भवतीत्यर्थः । तर्हीश्वरस्य साक्षित्वोदासीनत्वानुमन्तृत्वादिकं तस्यैव प्रवर्तकत्वे कथं घटत इति चोद्यमवशिष्यते, तच्च न; सर्वेषामपि प्रामाणिकत्वेन पूर्वमेव लक्षणसमन्वयस्य कथनादित्याह - साक्षित्वाद्यमिति । इदं साक्षित्वाद्यं तुल्यप्रमाणप्रमितमीश्वरस्य सर्वदा प्रेरकत्वं न रुन्धे न बाधत इत्यर्थः । ननु भाष्यादिषु ग्रन्थेषु ‘तत्रोपेक्ष्य ततोऽनुमत्य’ इत्यादिषु प्रथमक्षणे तावदुपेक्षा द्वितीयादिक्षणेष्वनुमतिरिति विशेषनिर्देशो दृश्यते तत्कथमीश्वरस्य कर्तृत्वं कारयितृत्वञ्चेत्याशङ्क्याह - भाष्यादीति । सर्वदा स्वातन्त्र्येण कर्तुरेवेश्वरस्य कारयितृत्वादिधर्मान्तरलक्षणसमावेशात् सर्वमप्युपपद्यते । नहि प्रथमप्रवृत्तिरिति काचिद्दशास्ति प्रवृत्तिप्रवाहस्यानादित्वात्, अथापि प्राथम्यवचनं तत्तत्कालविशेषावच्छिन्नकर्तृत्वादिपरमिति न कश्चिद्विरोधः ॥२४२॥
मूलम् - 23
- क्षेत्रज्ञानां समानां विषमयतनता तादृशादृष्टभेदा-
न्नादृष्टं त्वन्यदिष्टं नियमनभिदया शासि(हीशि)तुस्तत्र भाव्यम् ।
साक्षित्वाद्यञ्च नेतुस्समनिगममितं प्रेरकत्वं न रुन्धे
भाष्यादिग्रन्थलेशोऽप्यवहितमनसामैदमर्थ्यं भजेत ॥
विश्वास-प्रस्तुतिः - 24
- कर्ता देवः फलानां न तु करणभृतः प्रेरकश्चेत्ययुक्तं
सर्वश्रुत्यादिकोपान्न भवति न फलं कर्मणः पापचर्या ।
कर्माधीनं तु चिन्ताद्यपि हि भवभृतो भाषितं भाष्यकारै-
र्जन्तूनां देवतानामपि करणगणाधिष्ठितं वक्ष्यतीत्थम्(ति) ॥
३४-तमाहोबिल-यतिः - 24
- कर्तेत्यादि । देवः - ईश्वरः । फलानां कर्ता - फलप्रद एव । करणभृतस्तु - जीवस्य । प्रेरकश्च न - अनुष्ठानकाले प्रेरयिता न भवति इत्युक्तम् । सर्वश्रुत्यादिकोपात् - ‘य आत्मनि तिष्ठन्’, ‘अन्तः प्रविष्टश्शास्ता जनानाम्’ इत्यादिसर्वश्रुतिस्मृतिविरोधात् । पापचर्या - पापाचरणञ्च । कर्मणः फलं न न भवति - पूर्वानुष्ठितपापकर्मणः फलमेव भवति । नञ्द्वयेन प्रकृतार्थलाभः । पापचर्येति पुण्यस्याप्युपलक्षणम् । ‘पापं प्रज्ञां नाशयति क्रियमाणं पुनःपुनः । नष्टप्रज्ञः पापमेव कर्तुमारभते पुनः ॥ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनःपुनः । वृद्धप्रज्ञः पुण्यमेव कर्तुमारभते पुनः ॥’ (महाभारते 5.35.52,53) इत्यादिशास्त्रेण पुण्यपापानां स्वस्वपूर्वपूर्वपुण्यपापफलत्वादीश्वरस्य फलप्रदत्वमात्राङ्गीकारेऽपि सर्वप्रवृत्तिहेतुत्वं सिद्धमिति भावः । भवभृतः - जीवस्य । चिन्ताद्यपि - चिन्तितनिमिषितादिसर्वप्रवृत्तिजातमपि । कर्माधीनं तु - पूर्वकर्माधीनमिति । भाष्यकारैर्भाषितं हि - श्रीभाष्यवेदार्थसङ्ग्रहादिष्विति शेषः । जन्तूनाम् - प्राणिनाम् । देवतानामपि - अग्निवायुसूर्यादीनां देवतानामपि । करणगणाधिष्ठितम् - भावे निष्ठा, चक्षुरादिकरणाधिष्ठानम् । इति - परमात्मप्रेरणायत्तमिति । वक्ष्यति - ‘ज्योतिराद्यधिष्ठानं तु तदामननात् प्राणवता शब्दात्’ इति सूत्रव्याख्यानप्रकरण इति शेषः । अतस्सर्वप्राणिनामपि सर्वप्रवृत्तीनामीश्वप्रेरणमूलकत्वं सिद्धमिति नार्धजरतीयन्यायकल्पनं युक्तमिति भावः ॥
कुमार-वरदः - 24
- अत्र प्रकारान्तरेण विकल्प्य दूषयित्वा प्रकृतमेवार्थं प्रतिष्ठापयति - कर्तेति । ईश्वरस्य सार्वकालिकं कर्तृत्वं प्रतिक्षिपन् फलप्रदत्वमपि किं प्रतिक्षिपसि? यदि न? फलप्रदत्वस्यापि प्रतिक्षेपे सर्वशास्त्रव्याकोपात् फलप्रदत्वमङ्गीकृत्य प्रथमक्षणे कर्तृत्वप्रतिक्षेप एव वक्तव्यः, तच्च हास्यम् - जीवस्य प्रथमं पुण्यपापप्रवृत्त्योः पूर्वजन्मानुष्ठितकर्मफलत्वात् । तेन पुण्यपापविषयजीवकर्तृत्वे ईश्वरस्य कारयितृत्वेन कर्तृत्वाभावे पूर्वकर्मफलप्रदायित्वमीश्वरस्य कथं भवेत् । तेन फलप्रदत्वाङ्गीकारे सर्वदा कर्तृत्वं कारयितृत्वं चाङ्गीकृतमेव । तदनङ्गीकारे फलप्रदत्वस्य का वार्ता? उत्तरोत्तरप्रवृत्तीनां पूर्वपूर्वप्रवृत्तिफलत्वात् । अयमत्र शब्दान्वयः - देवः फलानां कर्ता करणभृतो जीवस्यानुष्ठानकाले प्रेरको न भवतीत्ययुक्तम् । तत्र हेतुमाह - सर्वेति । तदेव विवृणोति - न भवतीति । पापचर्या पूर्वकृतस्य कर्मणः फलं न न भवति । फलमेव भवतीत्यर्थः । ‘द्वौ नञौ प्रकृतमर्थं सूचयत’ इति न्यायात् । पापचर्येति पुण्यस्याप्युपलक्षणम् । न केवलं पुण्यपापरूपं कर्म पूर्वकर्मफलम्, चिन्तितनिमिषितादिकं तु सर्वमपि पूर्वकर्मफलमिति भाष्यकारैरेव सुव्यक्तमभिहितमित्याह - कर्माधीनं त्विति । नकेवलमेतावदेव, सर्वेषामपि जन्तूनां देवतानाञ्च तत्तच्चक्षुरादिकरणाधिष्ठानं परमात्मप्रेरणायत्तमिति भाष्यकार एवोत्तरत्र विशदं प्रकाशयतीत्याह - जन्तूनामिति । करणगणाधिष्ठितमिति भावे निष्ठा । अधिष्ठानमित्यर्थः ॥२४३॥
इति परायत्ताधिकरणम् ॥५९॥
मूलम् - 24
- कर्ता देवः फलानां न तु करणभृतः प्रेरकश्चेत्ययुक्तं
सर्वश्रुत्यादिकोपान्न भवति न फलं कर्मणः पापचर्या ।
कर्माधीनं तु चिन्ताद्यपि हि भवभृतो भाषितं भाष्यकारै-
र्जन्तूनां देवतानामपि करणगणाधिष्ठितं वक्ष्यतीत्थम्(ति) ॥