विश्वास-प्रस्तुतिः - 14
- ज्ञातृत्वं पुंस इत्थं भवतु तदपि नामुष्य कर्तृत्वसिद्धिः
श्रुत्याद्यैस्तन्निषेधाद्विकृतिविरहतश्चेत्यसद्दृष्टबाधात् ।
कर्तृत्वापह्नवोक्तेरविकृतिवचसोऽप्यान्यपर्यं हि गीतं
कर्ता शास्त्रार्थवत्त्वात्तदयमिह न च स्यादबोद्धुर्नियोगः ॥
३४-तमाहोबिल-यतिः - 14
- ज्ञातृत्वमित्यादि । पुंसो ज्ञातृत्वमित्थं भवतु - जीवात्मनो ज्ञानाश्रयत्वमुक्तप्रकारेण भवतु नाम । तदपि - तथापि । अमुष्य - जीवस्य । कर्तृत्वसिद्धिर्न - कर्तृत्वं न सिध्यति । कुत इति चेत् श्रुत्याद्यैस्तन्निषेधात् - ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥’ ‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥’ इति श्रुतिस्मृतिभ्यां जीवस्य कर्तृत्वनिषेधात् । विकृतिविरहतश्च - ‘अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च’ इत्यादिना विकृतिप्रतिषेधाच्च । इत्यसत् - इत्याशङ्कनमयुक्तम् । दृष्टबाधात् - दृष्टविरोधात् । दृष्टं हि शयनासनादिषु कर्तृत्वं जीवस्य, तन्निषिध्यमानं प्रत्यक्षादिसकलप्रमाणबाधितमित्यर्थः । स्ववचनविरोधं प्रदर्शयति - कर्तृत्वापह्नवोक्तेरिति । यदि कर्तृत्वमपह्नोति नाहं कर्तास्मीति तदा स्ववचनविरोधः, तदैव कर्तृत्वात्, यदि नापह्नोति तदा अस्मदीयत्वात् वयमपि तुष्याम इति भावः । अविकृतिवचसोऽपि - जीवनिर्विकारत्ववचनस्यापि । आन्यपर्यम् - जीवस्य कर्तृत्वं न नित्यसिद्धम्, अपितु प्रकृतिसम्बन्धप्रयुक्तम्, नच तन्मिथ्या, औपाधिकस्य कर्तृत्वस्य सर्वदोपलभ्यमानत्वात् इत्येतदभिप्रायकत्वम् । गीतं हि - ‘तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वात् न स पश्यति दुर्मतिः ॥’ इत्यादिना गीतावचनेनैव प्रतिपादितं हि । तत् - तस्मात् इत्थमुपपादनात् । अयम् - जीवः । शास्त्रार्थवत्त्वात् - शास्त्रस्य प्रयोजनवत्त्वात् ।यथानियोगं कर्तुर्जीवस्य सद्भावे हि शास्त्रस्य प्रयोजनं सिध्येत् ।अन्यथाननुष्ठानलक्षणाप्रामाण्यप्रसङ्गादित्यर्थः । कर्ता - कर्तृत्वयुक्तः । इह - सिद्ध इति शेषः । तर्ह्यचेतनस्य देहस्यैव कर्तृत्वमस्त्वित्यत्राह - नचेति । अबोद्धुः - नियोगमविजानतः । नियोगश्च न स्यात् - यस्तु नियोगं जानाति स एव हि नियोज्यः, अबोद्धुर्देहस्य कथमिव नियोज्यत्वमभिधातुं शक्यत इति भावः ॥
कुमार-वरदः - 14
- चिन्ता॰ - अत्र सङ्गतिर्भाष्ये ‘अयमात्मा ज्ञाता स चाणुपरिमाण इत्युक्तम् । इदानीं किं स एव कर्ता, उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते’ इति । अयमर्थः - ज्ञानचिकीर्षाप्रयत्नवतः कर्तृत्वात् कर्तृत्वोपयुक्तज्ञातृत्वनिरूपणानन्तरं तदेव कर्तृत्वं निरूप्यत इति । भोक्तृत्वमपि कर्तृत्वफलत्वात् कर्तृत्वेन सह निरूपितं भवति । तदर्थविचारस्तु - किमात्मैव कर्ता उत प्रधानमिति । किमात्मनः कर्तृत्व एव ज्योतिष्टोमादिशास्त्राणामर्थवत्त्वमुत प्रधानस्य कर्तृत्व इति । कर्तृत्वनिषेधः किमात्मनः कर्तृत्वे सम्भवति नेति । पूर्वोत्तराधिकरणयोस्सङ्गत्यभिधानपूर्वकं पूर्वपक्षं वदति - ज्ञातृत्वमिति । ज्ञातृत्वमुक्तप्रकारेण भवतु नाम । तथापि नामुष्य जीवस्य कर्तृत्वं सिध्यति श्रुतिस्मृत्यादिभिस्तत्रतत्र जीवात्मनः कर्तृत्वनिषेधात् । ‘हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्’ इति श्रुतिः । स्मृतिरपि ‘प्रकृतेः क्रियमाणानि’ इति । विकृतिविरहतः । अच्छेद्योऽयमदाह्योऽयम् । इत्यादिना विकृतिप्रतिषेधात् कर्तृत्वस्यापि विकृतिरूपत्वादित्यर्थः । उक्तमर्थं प्रतिक्षिपति - असदिति । तत्रहेतुमाह - दृष्टबाधादिति । दृष्टं हि शयनासनभोजनादिषु कर्तृत्वं जीवस्य, तन्निषिध्यमानं प्रत्यक्षादिसकलप्रमाणबाधितमित्यर्थः । न केवलं प्रमाणविरोधः, स्ववचनविरोधस्यापि विद्यमानत्वादितीममर्थं प्रदर्शयति - कर्तृत्वापह्नवोक्तेरिति । यदि कर्तृत्वमपह्नोति नाहं कर्तास्मीति तदा स्ववचनविरोधस्तत्रैव कर्तृत्वात् । यदि नापह्नोति अस्मदीयत्वाद्वयमपि सन्तुष्यामः । तर्ह्यात्मनो विकाराभाववचनं कर्तृत्वाङ्गीकारे कथमुपपद्यत इत्याशङ्क्य तदपि भगवतैवान्यपरत्वेन निर्व्यूढमित्याह - अविकृतीति । अयमत्र ‘कार्यकारणकर्तृत्वे हेतुः’ इत्यादेर्गीतावचनस्य भावः - जीवस्य कर्तृत्वं न नित्यसिद्धम्, अपितु प्रकृतिसम्बन्धप्रयुक्तमिति । न च तन्मिथ्या औपाधिकस्य कर्तृत्वस्य सर्वदोपलभ्यमानत्वादिति । उपपादितमर्थं, सौत्रक्रमेण निगमयति - कर्तेति । तत् तस्मात्, इत्थमुपपादनादित्यर्थः । शास्त्रार्थवत्त्वात् - शास्त्रस्य प्रयोजनवत्त्वादित्यर्थः । कर्तुर्जीवस्य सद्भावे हि शास्त्रस्य प्रयोजनवत्त्वं सिध्यति, अन्यथाननुष्ठानलक्षणाप्रामाण्यप्रसङ्गादित्यर्थः । तर्ह्यचेतनस्य देहस्यैव शास्त्रनियोज्यत्वमित्याशङ्क्य प्रतिक्षिपति - नचेति । यस्तु नियोगं जानीते स एव हि नियोज्यः । अबोद्धुर्देहस्य कथमिव नियोज्यत्वमभिधातुं शक्यत इति ॥ २३३ ॥
मूलम् - 14
- ज्ञातृत्वं पुंस इत्थं भवतु तदपि नामुष्य कर्तृत्वसिद्धिः
श्रुत्याद्यैस्तन्निषेधाद्विकृतिविरहतश्चेत्यसद्दृष्टबाधात् ।
कर्तृत्वापह्नवोक्तेरविकृतिवचसोऽप्यान्यपर्यं हि गीतं
कर्ता शास्त्रार्थवत्त्वात्तदयमिह न च स्यादबोद्धुर्नियोगः ॥
विश्वास-प्रस्तुतिः - 15
- किञ्च स्वोक्त्यादिभग्नो निगदितुरहमः कर्तृताया निषेधो
यद्यन्यस्याहमर्थात्तदिदमुपनिषद्वेदिनस्सिद्धसाद्ध्यम् ।
भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्रं
प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाच्च कर्ता ॥
३४-तमाहोबिल-यतिः - 15
- किञ्चेत्यादि । किञ्च - युक्त्यन्तरञ्चास्ति । कर्तृताया निषेधः - आत्मनः कर्तृत्वं नास्तीति कर्तृत्वनिषेधः । निगदितुरहमो यदि - वक्तुरहमर्थस्य चेत् । स्वोक्त्यादिभग्नः - स्ववचनादिभिर्विरोध इति प्रागेवोक्तम् । अहमर्थादन्यस्य यदि - अहमर्थादात्मनोऽन्यस्याहङ्काराद्यचिद्वस्तुनो यदि स निषेधः । तदिदम् - अहङ्काराद्यकर्तृत्ववचनम् । उपनिषद्वेदिनः - देहातिरिक्तात्मयाथात्म्यवेदिनो वेदान्तिनः । सिद्धसाध्यम् - सिद्धं साध्यं यस्यानुमानस्य तत् सिद्धसाध्यं सिद्धसाधनमित्यर्थः । भोक्तृत्वस्याप्यभावे - एवं भोक्तृत्वानङ्गीकारेऽपि । बन्धमोक्षादिशास्त्रं वितथं प्रसजति - पुण्यापुण्यकर्ममूलकसुखदुःखभोक्तृत्वमेव हि बन्धः, कर्मनिवृत्त्या तन्निवृत्तिर्हि मोक्षः, यदि भोक्तृत्वमेव न स्यात्, तदा बन्धस्यैवाभावात् तन्मोक्षणशास्त्रमनर्थकमेवेति भावः । प्राणादानात् - ‘सः यथा महाराजः’ इति प्रकृत्य ‘एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते’ इति प्रतिपन्नात् प्राणानां स्वभोगोपकरणतया ग्रहणात् । विहारात् - तैस्साकं क्रीडनात्, चरणादिव्यापारादिति वाऽर्थः । प्रकृतिसमधिकोऽस्मीति योगाच्च - अचेतनेऽसम्भावितात् प्रकृतेरन्योऽस्मीत्येवंरूपात् समाधेश्च । कर्ता - आत्मा कर्तैव ॥
कुमार-वरदः - 15
- अथ कर्तृत्वनिषेधवादिनं विषयभेदेन विकल्प्य दूषयित्वा तत्रतत्र कर्तृत्वसहपठितं भोक्तृत्वमपि विशदमेव स्थापयति - किञ्चेति । अयमत्र विकल्पः - अहमः कर्तृत्वं नास्तीति वदन् वक्तुः स्वस्य वा अहमर्थवचनादौ कर्तृत्वं निषेधति? किं वा अचिद्वस्तुविशेषस्याहङ्कारस्य? यदि पूर्वः पक्षः परिगृह्यते, तदा स्ववचनविरोध इति प्रागेवोक्तम् । यद्युत्तरः पक्षः, तदा अहङ्कारस्य प्रकृतिकार्यत्वेनाकारणत्वादकर्तृत्ववचनं सिद्धसाधनमेव । अहमर्थादन्यस्य यदीति - आत्मनोऽन्यस्याहङ्कारस्य यद्यकर्तृत्वमुच्यत इत्यर्थः । उपनिषद्वेदिनः - देहातिरिक्तात्मयाथात्म्यवादिनो वेदान्तिन इत्यर्थः । न ह्यहङ्कारस्य कर्तृत्वं वयमनुमन्यामहे । इत्थं कर्तृत्वमुपपाद्य तत्तुल्यन्यायेन भोक्तृत्वमप्युपपादयति - भोक्तृत्वस्येति । कर्तृत्वभोक्तृत्वे हि वीवधघटन्यायेन सहैवावतिष्ठेते इति सर्वलोकसिद्धमेतत्, यः पुण्यमेव वा पापमेव वा करोति स एव तत्फलमुपभुङ्क्ते नापर इति सार्वलौकिकी प्रसिद्धिः । भोक्तृत्वाभावे सकलमपि बन्धमोक्षादिशास्त्रं वितथमेव प्रसजेत् । किञ्च कर्तृत्वं सर्वथा न परित्याज्यं, पामरपरीक्षकाविशेषेणोच्छ्वासनिश्श्वासादिसर्वव्यापारेषु कर्तृत्वस्यैव सुप्रसिद्धत्वात् । प्राणादानादिति प्राणव्यापारे हेतुत्वमुच्यते । विहारादिति चरणादिव्यापारकर्तृत्वम् । प्रकृतिसमधिकोऽस्मीति योगादिति प्रकृतिविलक्षणात्मध्यानादित्यर्थः । चार्वाकव्यतिरिक्ता हि सर्ववादिनो देहातिरिक्तमात्मानं ध्यायन्ति तत्रैव तेषां कर्तृत्वमपरित्याज्यमित्यर्थः ॥२३४॥
मूलम् - 15
- किञ्च स्वोक्त्यादिभग्नो निगदितुरहमः कर्तृताया निषेधो
यद्यन्यस्याहमर्थात्तदिदमुपनिषद्वेदिनस्सिद्धसाद्ध्यम् ।
भोक्तृत्वस्याप्यभावे प्रसजति वितथं बन्धमोक्षादिशास्त्रं
प्राणादानाद्विहारात् प्रकृतिसमधिकोऽस्मीति योगाच्च कर्ता ॥
विश्वास-प्रस्तुतिः - 16
- व्यापारज्ञानवाञ्छाप्रशकनयतनायोगयुक्तिस्तु मन्दा
कार्ये सामग्र्यपेक्षे विधितदितरयोर्लोकसिद्धा प्रवृत्तिः ।
सार्थं शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा
ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः ॥
३४-तमाहोबिल-यतिः - 16
- व्यापारेत्यादि । व्यापारज्ञानवाञ्छाप्रशकनयतनायोगयुक्तिस्तु - व्यापारो देहव्यापारः, ज्ञानम् - कर्तृत्वानुबन्धिज्ञातृत्वम्, वाञ्छा - भोक्तुमभिलाषः, प्रशकनं -
शक्तिः, यतनं - प्रयत्नः, तेषां अयोगयुक्तिः - व्यापारादयो जीवे न विद्यन्त इत्युपपादनम् । मन्दा - अर्थसाधनासमर्था । यतः कार्ये सामग्र्यपेक्षे विधितदितरयोः प्रवृत्तिर्लोकसिद्धा - प्रवृत्तिरूपे निवृत्तिरूपे वा कार्ये स्वोचितकारणकलापसापेक्षे सत्येव विधिनिषेधशास्त्रार्थयोस्तदनुगुणप्रवृत्तिस्सर्वलोकसिद्धा । सर्वलोकप्रसिद्धविधिनिषेधशास्त्रार्थप्रवृत्त्युपयुक्तकारणकलापघटकत्वेनावश्यकानां व्यापारज्ञानवाञ्छाप्रशकनयतानानामयोगोपपादनं मन्दमिति भावः । हितोक्त्या - उत्तरकालिकसुखहेतुव्यापारबोधनेन । शास्त्रं सार्थम् - विधिनिषेधरूपं शास्त्रं सप्रयोजनम् । हितञ्च, कर्तुरधिकारिणः, तेन कर्त्रभावे शास्त्रमेव भज्येतेति भावः । सा - प्रसिद्धा । शास्त्रयोग्या दशा - विधिनिषेधशास्त्रार्थानुष्ठानोपयोगिनी मनुष्यशरीरादिसम्बन्धावस्था च । नियतिनियमिता - प्राचीनकर्मपरिपाकविशेषरूपनियतिसम्पादिता सिध्यति । तत् - तस्मात् । अयं पुमान् - अयं जीवात्मा । इह - शास्त्रे अधिकरणे वा । सर्वैः प्रमाणैः - प्रत्यक्षादिसकलप्रमाणैरपि । ज्ञाता कर्ता भोक्ता च भाति - प्रथमतः किञ्चिद्वस्तु ज्ञातुं ततस्तत्साधनमनुष्ठातुं पश्चात्तल्लाभजं सुखमनुभोक्तुञ्च प्रभवतीति प्रतीयत इत्यर्थः ॥
इति कर्त्रधिकरणम् ॥
कुमार-वरदः - 16
- इत्थं ज्ञातृत्वकर्तृत्वभोक्तृत्वादीनि जीवनिष्ठानीत्युपपाद्य तदुपयुक्तं गुणजातमपि तन्निष्ठमेवेति विशदं प्रकाशयन् शास्त्रस्यार्थवत्त्वं जीवस्य कर्तृत्वादिषु सिद्धेष्वेव सिध्यतीत्युपपाद्य पूर्वोत्तराधिकरणार्थमुपसंहरति - व्यापारेति । लोके हि विधौ निषेधे वा कर्तुरधिकारिणो व्यापारादिकं विशेषणजातं सामग्र्यनुप्रविष्टमेव । सामग्र्या हि सर्वकार्योत्पत्तिरिति न्यायवादिनो वदन्ति । तेन कुर्यान्न कुर्यादिति विधिनिषेधशास्त्राधिकारिणो नरस्योपयुक्तानि विशेषणान्यपरित्याज्यानीत्यर्थः । व्यापारः - देहव्यापारः कर्तृत्वानुबन्धी । ज्ञानं ज्ञातृत्वमेव । वाञ्छा भोक्तुमभिलाषः । प्रशकनं शक्तिः । सा पुनस्सार्वत्रिकी । यतनं प्रयत्नः । एते जीवे न सन्तीत्ययोगोपपादनं मन्दप्रलाप एव । मान्द्यमेवोपपादयति - कार्य इति । प्रवृत्तिरूपे निवृत्तिरूपे वा तत्तत्कार्ये स्वोचितसामग्रीसापेक्षे सति विधिशास्त्रे निषेधशास्त्रे च तत्तदनुगुणप्रवृत्तिस्सर्वलोकप्रसिद्धा । तेन ज्ञातृत्वकर्तृत्वभोक्तृत्ववत् तदनुगुणं गुणजातमपि जीवस्यावर्जनीयमित्यर्थः । अत्र ‘कर्ता शास्त्रार्थवत्त्वात्’ इति सूत्रार्थं प्रकटयन् प्राचीनकर्मपरिपाकविशेषात् शास्त्रानुष्ठानयोग्यावस्था जीवस्य सिध्यतीत्याह — सार्थमिति । हितोक्या सार्थं शास्त्रं, हितञ्च कर्तुरधिकारिणः । तेन कर्तृत्वाभावे शास्त्रमेव भज्येत । सा च शास्त्रयोग्या दशा नियतिनियमिता प्राचीनकर्मपरिपाकविशेषात् सिध्यतीत्यर्थः । तेनान्यस्यापि भवेदित्यादिकं चोद्यजातमपाकृतम् । तस्मात् सर्वेः प्रमाणैर्ज्ञाता कर्ता भोक्ता च पुमान् भातीति निगमयति - ज्ञातेति ॥२३५॥ इति कर्त्रधिकरणम् ॥५८॥
मूलम् - 16
- व्यापारज्ञानवाञ्छाप्रशकनयतनायोगयुक्तिस्तु मन्दा
कार्ये सामग्र्यपेक्षे विधितदितरयोर्लोकसिद्धा प्रवृत्तिः ।
सार्थं शास्त्रं हितोक्त्या नियतिनियमिता शास्त्रयोग्या दशा सा
ज्ञाता कर्ता च भोक्ता तदयमिह पुमान् भाति सर्वैः प्रमाणैः ॥