विश्वास-प्रस्तुतिः - 10
- कैश्चिज्ज्ञानत्वमात्रं कथितमुपधिजा ज्ञातृतैवात्मनोऽन्यै-
स्तत्राम्नाया(त्र श्रुत्या)दिबाधं प्रथयति विविधं ज्ञोऽत इत्यादिसूत्रैः ।
पूर्वन्यायादमुष्मिञ् जनिलयरहिते नित्यबोधेऽत्र चोक्ते
संकोचाद्यर्हबुद्धेर्विकृतिवचनमप्यस्य सद्वारकं स्यात् ॥
३४-तमाहोबिल-यतिः - 10
- कैश्चिदित्यादि । कैश्चित् - मृषावादिभिः । आत्मनः - जीवात्मनः । ज्ञानत्वमात्रम् - ज्ञानमात्रस्वरूपत्वम् । कथितम् । अन्यैः - काणादैः । आत्मनः, उपधिजा - देहाद्युपाधिप्रयुक्ता ज्ञातृतैव । कथिता - उक्ता । लिङ्गव्यत्ययः कार्यः । तत्र - द्वयोरपि पक्षयोः । श्रुत्यादिबाधम् - ‘जानात्येवायं पुरुषः’, ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो र्विद्यते’, ‘विज्ञानं यज्ञं तनुते’, इत्यादि श्रुतिबाधम्, आदिशब्देन जीवात्मनो ज्ञानस्वरूपत्वज्ञातृत्वपरास्स्मृतय उच्यन्ते तासाञ्च बाधम् । ज्ञोऽत इत्यादि सूत्रैस्सूत्रकारो विविधं प्रथयति - प्रख्यापयति । पूर्वन्यायात् - पूर्वाधिकरणोक्तन्यायात् । अमुष्मिन् - जीवात्मनि । जनिलयरहिते - स्वरूपेणोत्पत्तिनाशरहिते प्रतिपन्ने सति । अत्र - ज्ञोऽतः इत्यधिकरणे । नित्यबोधे चोक्ते - ज्ञातृत्वालोपश्रुत्या नित्यज्ञाने च प्रतिपादिते सति । सङ्कोचाद्यर्हबुद्धेः - आदिशब्दो विकासपरः । ‘प्रदीपवदावेशः’ इत्यादिस्थलेषु सूत्रकारैरेव ज्ञानस्य सङ्कोचविकासार्हत्वं साधयिष्यते, अतस्संकोचविकासार्हबुद्धियोगात् । विकृतिवचनमपि - उत्पत्तिनाशवचनमपि । अस्य - जीवात्मनः । सद्वारकं स्यात् – ज्ञानद्वारकमेव भवेत् ॥
कुमार-वरदः - 10
- अत्र सङ्गतिर्भाष्ये - ‘वियदादिवज्जीवो नोत्पद्यत इत्युक्तम् । तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते’ इति । अयमर्थः - अस्मिन्पादे प्रथमद्वितीयाधिकरणयोस्साक्षात्सङ्गतिः; कार्यस्वरूपनिरूपणपरत्वात् । तृतीयस्य त्वापवादिकी नात्मोत्पद्यत इति पूर्वोत्पत्तिप्रतिषेधात् । उत्तरेषां चतुर्णामप्यधिकरणानां प्रासङ्गिकी सङ्गतिः, कार्यजीवस्वरूपनिरूपणप्रसक्तानां चतुर्णामप्यर्थानां परिशोधनात् । तृतीयचतुर्थयोस्तु विशेषतस्सङ्गतिः कथ्यते । पूर्वाधिकरणद्वये हि वियदादीनां स्वरूपान्यथाकरणेन कार्यत्वमुक्तम् । तृतीयाधिकरणे जीवस्य स्वभावान्यथाकरणेन कार्यत्वमिति विशेषितम् । तत्र पूर्वपक्षवादी प्रत्यवतिष्ठते — यदि जीवस्य ज्ञानं स्वभावः, तदा खलु भवदुक्तिरियं सङ्गच्छते । अपि तु ज्ञानं स्वरूपमेव, तेन कथं विभागेन व्यवहार इत्याशङ्क्याधिकरणान्तरमारभ्यते । तदर्थविचारस्तु - किं जीवश्चैतन्यमात्रवपुः उत जडस्वरूप एवागन्तुकचैतन्योऽथवा ज्ञातृत्वरूप इति । किं ज्ञप्तिमात्रवपुष्ट्वे ज्ञानस्वरूपत्वतद्धर्मकत्वपरसर्वश्रुतिसामञ्जस्यम्, उतागन्तुकचैतन्यजडस्वरूपत्वे, उत ज्ञातृत्वैकस्वरूपत्व इति । किं ज्ञातृत्वस्य स्वरूपत्वे सर्वत्रोपलब्धिः प्रसज्यते नेति । तदर्थं किं जीवस्सर्वगत उताणुरिति । अणुत्वे विप्रकृष्टार्थग्रहणाग्रहणे सम्भवतो नेति । एकजातीयद्रव्ययोर्नियतधर्मधर्मिभाव उपपद्यते नेति । एतस्मिन्खल्वधिकरणे जीवस्य ज्ञानस्वरूपमात्रत्वं, जडस्यैव तस्यागन्तुकचैतन्ययोगञ्च प्रतिक्षिप्य, ज्ञानस्वरूपत्वसंवलितं ज्ञातृत्वमेव स्वभाव इति स्थाप्यते । तत्र पूर्वपक्षसिद्धान्तयोरपेक्षितान्यौपनिषदवाक्यानि, ये च तदर्थविशेषास्तानि सर्वाण्यपि भाष्य एव सुव्यक्तमुक्तानीति न विशेषतो वक्तव्यमिह किञ्चिदवशिष्यते । तथाप्येतदधिकरणविषयवेद्यानामनवद्यानामपि तत्रतत्रास्पृष्टावद्यत्वद्योतनाय यत्किञ्चिदिह कथ्यते । अत्र मृषावादिनः प्राहुः - ज्ञानमात्रमेवात्मतत्त्वमिति । कणचरणाक्षपादपक्षनिक्षिप्तचेतसस्तु जडस्वरूपमप्यात्मतत्त्वमागन्तुकचैतन्यगुणकमिति प्रतिपेदिरे । तदिदं पक्षद्वयमप्यनूद्य प्रतिक्षिपति - कैश्चिदित्यादिना । उपधिजा ज्ञातृता - देहाद्युपाधिप्रयुक्तेत्यर्थः । कथितेति लिङ्गव्यत्ययः कार्यः । तत्र द्वयोरपि पक्षयोः श्रुत्यादिबाधं ज्ञोऽत इत्यादिसूत्रैस्सूत्रकारो विविधं प्रथयतीत्यन्वयः । ज्ञ इति ज्ञातृवाचिपदम् । तेन ज्ञानस्वरूपस्यैवात्मनो ज्ञातृत्वमेव स्वभावो इत्युक्तं भवति । एकजातीययोरेव द्रव्ययोराश्रयाश्रयिभावस्सम्भवतीति प्रथमसूत्र एवोक्तमिति भाष्यकारैरेव स्पष्टमभिहितम् । ननु जीवस्वरूपनित्यत्वे तस्य च धर्मभूतज्ञाने स्वाभाविकतया नित्यत्वेन भवद्भिरङ्गीकृते सति स्वरूपस्वभावाभ्यां जीवस्य कार्यत्वाभावात् कथं वेदान्तेषु जीवोत्पत्तिवादा निर्वाह्या इत्याशङ्क्याह - पूर्वेति । पूर्वाधिकरणोक्तप्रक्रियया जीवनित्यत्वे सति, एतदधिकरणप्रक्रियया तज्ज्ञाननित्यत्वे च सति ज्ञानसंकोचविकासाभ्यामुत्पत्तिविनाशव्यवहारो घटत इत्यर्थः । अयमत्र शब्दान्वयः - पूर्वाधिकरणोक्तन्यायादमुष्मिन् जीवात्मनि जनिलयरहिते पुनरत्र नित्यबोधे चोक्ते सति संकोचाद्यर्हबुद्धियोगाद् विकृतिवचनमप्यस्य सद्वारकं ज्ञानद्वारकं स्यादिति । अत्र ज्ञानस्य सङ्कोचविकासार्हत्वं ‘प्रदीपवदावेशः’ इत्यादिषु सूत्रकारैरेव साधयिष्यते ॥२२९॥
मूलम् - 10
- कैश्चिज्ज्ञानत्वमात्रं कथितमुपधिजा ज्ञातृतैवात्मनोऽन्यै-
स्तत्राम्नाया(त्र श्रुत्या)दिबाधं प्रथयति विविधं ज्ञोऽत इत्यादिसूत्रैः ।
पूर्वन्यायादमुष्मिञ् जनिलयरहिते नित्यबोधेऽत्र चोक्ते
संकोचाद्यर्हबुद्धेर्विकृतिवचनमप्यस्य सद्वारकं स्यात् ॥
विश्वास-प्रस्तुतिः - 11
- ज्ञातृत्वं ज्ञानता च श्रुतिभिरभिदधे नात्र पक्षे पतामः
सर्वत्रात्मा न भायात् किमिति न निगमैर्देहिनोऽणुत्वसिद्धेः ।
स्वाभासैकस्वमूर्तेरविशदमहमस्सर्वदा भानमिष्टं
धीसंकोचात् सुषुप्तिप्रभृतिषु विशदोल्लेखमात्रोपरोधः ॥
३४-तमाहोबिल-यतिः - 11
- ज्ञातृत्वमित्यादि । श्रुतिभिः - पूर्वोदाहृताभिः । ज्ञातृत्वमभिदधे - ज्ञातृत्वमभिहितम् । ज्ञानता चाभिदधे - ज्ञानस्वरूपता चाभिहिता । अत्र - एवं तुल्यप्रमाणप्रतिपन्ने स्वभावद्वये । पक्षे - अन्यतरमात्राङ्गीकाररूपे । न पतामः - न प्रविशामः । उभयोस्तुल्यत्वादिति भावः । आत्मा - व्यापकोऽयं जीवात्मा । सर्वत्र – देहे देहादन्यत्र च । किमिति न भायात् - कुतो न भासेत । विभुर्ज्ञानस्वरूपस्स्वाभाविकज्ञानगुणकश्चायमात्मा सर्वतः कुतो न प्रकाशेतेति शङ्का । इति न - इयं शङ्का न युक्ता । कुत इति चेत् विभुत्वाभावादित्युत्तरमुच्यते, निगमैः श्रुतिभिः । देहिनः - जीवात्मनः । अणुत्वसिद्धेः - अणुत्वेन प्रतिपन्नत्वात् । देहे सर्वदा भासेतेत्यत्र प्रत्युच्यते, स्वाभासैकस्वमूर्तेः - स्वप्रकाशैकस्वरूपस्य । अहमः - अहमित्युल्लिख्यमानस्य जीवात्मस्वरूपस्य । अविशदम् - जाग्रद्दशाप्रसिद्धवर्णाश्रमाद्यनेकविशेषानवभासनेन वैशद्यरहितम् । भानम् - भासनम् । सर्वदा - सर्वावस्थास्वपि, सुषुप्त्यादावपीत्यर्थः । इष्टम् - अङ्गीकृतम् । देहे सर्वदा जीवो भासत एवेति भावः । सुषुप्तिप्रभृतिषु – सुषुप्तिमूर्च्छादिदशासु । धीसङ्कोचात् - धर्मभूतज्ञानस्य तदा सङ्कुचितत्वेन । विशदोल्लेखमात्रोपरोधः - विशदोल्लेखमात्रस्य अत्र सुप्तोऽहमीदृशोऽहमित्यादिजाग्रद्दशाप्रसिद्धविशेषोल्लेखमात्रस्य उपरोधो निवृत्तिः । अविशदावभासस्तु तदानीमपि विद्यत एवेति भावः ॥
कुमार-वरदः - 11
- पूर्वं खलु ज्ञानमात्रमागन्तुकमिति न्यायवादिभिरुक्तं न पुनर्ज्ञातृत्वम्, मृषावादिभिस्तु ज्ञानत्वं नित्यसिद्धं ज्ञातृत्वं तु तत्त्वतो नास्त्येवाथाप्यविद्यापरिकल्पितमित्युक्तम्, अस्माभिस्तूभयस्मिन्नपि पक्षे पक्षपातं परित्यज्य ज्ञानत्ववत् ज्ञातृत्वमपि स्वाभाविकमित्युच्यत इत्याह - ज्ञातृत्वमित्यादिना । श्रुतिभिः किल ‘जानात्येवायं पुरुषः’ इत्यादिना ज्ञातृत्वमभिधीयते । ‘यो विज्ञाने तिष्ठन्’, ‘विज्ञानं यज्ञं तनुते’ इत्यादिना ज्ञानत्वमप्यभिधीयते । तेन वयमपक्षपातात् ज्ञानत्वं ज्ञातृत्वमुभयमप्यात्मनः परिगृह्णीम इत्यर्थः । अत्र चोदयति - सर्वत्रेति । जीवस्तावन्महदादिशब्दश्रवणाद्विभुरेव तथा च तस्य ज्ञानस्वरूपत्वे स्वाभाविकज्ञानगुणकत्वे च सर्वतः प्रकाशेतेति । परिहरति - नेति । ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ इत्यादिभिर्निगमशतैर्जीवस्याणुत्वसिद्धेः । उक्तमतिप्रसङ्गं विकल्प्य दूषयति स्वाभासेति । ज्ञानस्वरूप आत्मा सुषुप्त्यादावपि नित्यं प्रकाशते । तत्र किं विशदज्ञानं प्रसज्यते? उताविशदज्ञानम्? अविशदं चेदिष्टमेव ; नित्यमेवात्मस्वरूपमात्रप्रकाशस्याङ्गीकारात् । विशदं चेत्तन्न स्यादेव ; अत्र सुप्तोऽहमोदृशोऽहमित्यादिविशदप्रकाशस्य निद्रादिदोषदूषितधर्मभूतज्ञानसंकोचेनाप्रसञ्जनीयत्वात् । तदिदं सर्वमभिप्रेत्याह - धीसङ्कोचादिति । धर्मभूतज्ञानसङ्कोचात् सुषुप्तिप्रभृतिष्वात्मविषयं विशदज्ञानमुपरुध्यते, अविशदं तु स्वरूपज्ञानं सुषुप्तावप्यनुवृत्तमेवेति न कश्चिद्दोषः ॥२३०॥
मूलम् - 11
- ज्ञातृत्वं ज्ञानता च श्रुतिभिरभिदधे नात्र पक्षे पतामः
सर्वत्रात्मा न भायात् किमिति न निगमैर्देहिनोऽणुत्वसिद्धेः ।
स्वाभासैकस्वमूर्तेरविशदमहमस्सर्वदा भानमिष्टं
धीसंकोचात् सुषुप्तिप्रभृतिषु विशदोल्लेखमात्रोपरोधः ॥
विश्वास-प्रस्तुतिः - 12
- धर्मस्थे त्वेवकारे त्रिविधमपि भवेत्तद्व्यवच्छेदकत्वं
धर्मिण्यस्यान्वये स्यात्तदितरविषये तस्य धर्मस्य हानिः ।
जानात्येवेत्यबोद्धा न भवति जडता ज्ञानमात्रोक्तिवार्या
ज्ञानालोपादिवाक्यानुगुणविषयतां यात्यसावेवकारः ॥
३४-तमाहोबिल-यतिः - 12
- ‘जानात्येवायं पुरुषः’ इति श्रुत्यर्थनिर्णयः क्रियते - धर्मस्थे त्वित्यादि । धर्मस्थे तु - धर्मवाचिपदान्विते । एवकारे त्रिविधमपि तद्व्यवच्छेदकत्वं भवेत् - विवक्षावशादयोगव्यवच्छेदकत्वमन्ययोगव्यवच्छेदकत्वमत्यन्तायोगव्यवच्छेदकत्वञ्चेति त्रिविधमपि धर्मव्यवच्छेदकत्वं भवेत् । अस्य - एवकारस्य । धर्मिणि अन्वये सति - धर्मिवाचकपदेन अन्वये सति । तस्य धर्मस्य, तदितरविषये - धर्मीतरविषये । हानिः - निवृत्तिः । स्यात् - प्रतीता स्यात् । अत्र त्वयोगव्यवच्छेद एव प्रधानतया विवक्ष्यत इत्याह - जानात्येवेति । जानात्येवेति - धर्मवाचिपदान्वितेनानेन एवकारेण । अबोद्धा न भवति - आत्मा कदापयज्ञाता न भवतीति सिध्यति । ज्ञातृत्वमात्मनो नित्यमिति फलितमिति भावः । जडता - आत्मनो जडरूपता तु । ज्ञानमात्रोक्तिवार्या ‘विज्ञानं यज्ञं तनुते’ इति ज्ञानस्वरूपताप्रतिपादकश्रुत्या निवारणीया । तया ज्ञानस्वरूपत्वं सिद्धमित्यर्थः । सिंहावालोकनन्यायेन पुनरप्येवकारार्थं परामृश्योपपादयति - ज्ञानालोपेत्यादि । असावेवकारः - जानात्येवेत्यसावेवकारः । ज्ञानालोपादिवाक्यानुगुणविषयतां याति - ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इत्यादिश्रुतिवाक्यार्थभूतं जीवस्य ज्ञानलोपाभावं निर्धारयन् तदनुगुणार्थपरत्वं भजते । श्रुत्यन्तरानुगुण्याच्चायोगव्यवच्छेद एवास्थार्थो युक्त इत्यर्थः ॥
कुमार-वरदः - 12
- उक्तमेव ज्ञातृत्वं ज्ञानस्वरूपत्वञ्च विशदमेव श्रुतिभिरुपपादयिष्यन् ‘जानात्येवायं पुरुषः’ इति श्रुत्यर्थं तावदाह - धर्मस्थ इति । अत्र जानात्येवेत्येवकारः प्रयुज्यते । एवकारस्य त्रिविधो ह्यर्थविभाग उच्यते । ‘विशेषणविशेष्याभ्यां क्रियया च समन्वितः । अयोगं योगमपरैरत्यन्तायोगमेव च ॥ व्यवच्छिनत्ति धर्मस्य निपातो व्यतिरेकतः ॥’ इति । यद्यप्येवं धर्मस्थेनैवकारेण विवक्षावशात् त्रिविधमप्यवधारणं कर्तुं शक्यते, अथाप्ययोगव्यवच्छेद एव प्रधानतया विवक्ष्यते । धर्मिस्थे त्वेवकारे धर्मस्यान्ययोगव्यवच्छेद इति सुप्रसिद्धमेव । अत्र पुनर्जानात्येवेति धर्मस्थो ह्येवकारो ज्ञातृत्वायोगव्यवच्छेदमेव प्रतिष्ठापयतीत्याह - जानातीति । अबोद्धा न भवति कदाचिदपि ज्ञानशून्यो न भवत्यात्मेत्यर्थः । तेन ज्ञातृत्वं स्थापितम् । ज्ञानस्वरूपत्वमपि श्रुत्यैव स्थापयति - जडतेति । ‘विज्ञानं यज्ञं तनुते’ इति श्रुतिरत्र विवक्ष्यते । एवं श्रुत्यर्थज्ञानत्वमुपपाद्य सिंहावलोकनन्यायेन एवकारार्थं पुनरपि परामृश्योपपादयति - ज्ञानेति । ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति श्रुत्यर्थं जीवस्य ज्ञानलोपाभावमेवकारो निर्धारयन् तदानुगुण्यमेव भजत इति ॥२३१॥
मूलम् - 12
- धर्मस्थे त्वेवकारे त्रिविधमपि भवेत्तद्व्यवच्छेदकत्वं
धर्मिण्यस्यान्वये स्यात्तदितरविषये तस्य धर्मस्य हानिः ।
जानात्येवेत्यबोद्धा न भवति जडता ज्ञानमात्रोक्तिवार्या
ज्ञानालोपादिवाक्यानुगुणविषयतां यात्यसावेवकारः ॥
विश्वास-प्रस्तुतिः - 13
- उत्क्रान्तिस्पन्दनाणूपमितिवचनतोऽणीयसश्शक्तिलाभे
धीभूम्ना यौगपद्यं त्ववयवनयतोऽनेकमूर्तिग्रहेऽपि ।
यत्राम्नातं विभुत्वं परविषयमिदं भाति तात्पर्यलिङ्गै-
र्जीवे व्यापित्ववादो मतिमहिमपरस्स्वच्छताद्याशयो वा ॥
३४-तमाहोबिल-यतिः - 13
- उत्क्रान्तीत्यादि । उत्क्रान्तिस्पन्दनाणूपमितिवचनतः - उत्क्रान्तिर्देहान्निष्क्रमणं स्पन्दनं गमनागमनरूपम्, अणूपमितिस्सूक्ष्मद्रव्येणोपमानम्, एतेषां वचनतः - ‘तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः’ इत्युत्क्रान्तिवचनम् । ‘ये वै केचास्माल्लोकात् प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’, ‘तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे’ इति गत्यागतिरूपस्पन्दनवचनम् । ‘वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः’ इत्यणूपमितिवचनम् । एतेभ्यो वचनेभ्यः । अणीयसः - अणुत्वेन सिद्धस्यात्मनः ।शक्तिलाभे - योगादिसामर्थ्यलाभे सति । धीभूम्ना - धर्मभूतज्ञानविकासेन । अनेकमूर्तिग्रहेऽपि - अनेकदेहपरिग्रहेऽपि । अवयवनयतः - एकस्मन्नपि शरीरे ‘पादे मे वेदना’, ‘शिरसि मे सुखमि’ति जीवस्याणोरपि नानावयवप्रयुक्तसुखदुःखानुसन्धानन्यायेन । यौगपद्यन्तु - तत्तच्छरीरप्रयुक्तसुखदुःखप्रतिसन्धानयौगपद्यम् । उपपन्नमिति शेषः । यत्र - यस्मिन्प्रकरणे ‘स वा एष महानज आत्मा’ इत्यादौ । विभुत्वमाम्नातम् - उक्तम् ।इदम् - प्रकरणम् । तात्पर्यलिङ्गैः - ‘यस्यानुवित्तः प्रतिबुद्ध आत्मा’ इत्यादिवाक्यावगतैर्जीवोपास्यत्वादिपरमात्मासाधारणलिङ्गैः । परविषयं भाति - परविषयकमिति प्रतीयते । जीवे - जीवविषये । व्यापित्ववादः - ‘नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतःसुखी’ इत्यादियामुनाचार्यादीनां व्यापित्वप्रवादः । मतिमहिमपरः - ‘स चानन्त्याय कल्पते’ इति श्रुतिसिद्धधर्मभूतज्ञानमहत्त्वपरः ।स्वच्छताद्याशयो वा - सौक्ष्म्यं सर्वाचेतनान्तःप्रवेशसामर्थ्यं वाभिप्रैतीति भावः ॥
कुमार-वरदः - 13
- अस्मिन्खल्वधिकरणे ज्ञानस्वरूपस्यात्मनो विभुत्वे सर्वत्रोपलम्भप्रसङ्ग इत्याद्यनिष्टप्रसङ्गपरिहारार्थं सूत्रकारैरेवाणुत्वं श्रुतिभिरुपपादितम् । महत्त्ववचनस्यान्यथासिद्धिरपि भाष्यकारैरुपपादिता । तदिदं सुखग्रहणाय संगृह्णाति - उत्क्रान्तीति । ‘उत्क्रान्तिगत्यागतीनाम्’ इत्यादिसूत्रोक्तं देहादुत्क्रमणं देशान्तरगमनं पुनरागमनम्, ‘वालग्रशतभागस्य’ ‘आराग्रमात्रो ह्यवरोऽपि दृष्टः’ इत्याद्यणुद्रव्योपमानम्, ‘एषोऽणुरात्मा चेतसा वेदितव्यः’ इति साक्षादणुत्ववचनम्, एवमादितोऽणुत्वेन सिद्धस्यापि जीवस्य शक्तिलाभे योगादिसामर्थ्यलाभे कथमनेकशरीरपरिग्रह इति चोद्यमेव हि परेषामभिमतम्, तत्परिहृतमेव, धर्मभूतज्ञानविकासेन सूत्रकारैरेव ‘प्रदीपवदावेशः’ इत्यादिना प्रसाधितत्वात् । इदमेवैकस्मिन्नपि शरीरे ‘पादे मे वेदना’, ‘शिरसि मे सुखमि’ति जीवस्याणोरपि नानावयवप्रयुक्तसुखदुःखानुसन्धानेन समानमित्याह - अवयवनयत इति । अयमत्रान्वयः - अनेकदेहग्रहणेऽप्यणुतया प्रमाणसिद्धस्य जीवस्य यौगपद्यमनेकावयवेषु सुखदुःखप्रतिसन्धानवदुपपद्यत इति । यथा प्रदीपस्यैकत्रावस्थितस्यापि प्रभया धर्मभूतया तत्तत्प्रकाशकारणत्वम्, एवमणोरपि जीवस्य प्रभास्थानीयेन धर्मभूतज्ञानेन तत्तत्प्रकाशकत्वमपि युज्यत इति सन्तोष्टव्यमायुष्मता । विस्तरस्तूतरत्र भविष्यति । तर्हि तर्कं परित्यजामः, जीवस्य महत्त्वप्रतिपादकश्रुतिमवलम्ब्याणुत्वं निराकुर्म इत्याशङ्क्य यत्र विभुत्वमुच्यते तत्परमात्मविषयतया नेतव्यमित्याह - यत्रेति । परमात्मविषयकत्वनियामकलिङ्गमाह तात्पर्यलिङ्गैरिति । तात्पर्यलिङ्गपरामर्शाभावे ‘पौर्वापर्यापरामृष्टश्शब्दोऽन्यां कुरुते मतिम्’ इति न्यायस्स्यादित्यर्थः । ननु ‘नित्यो व्यापी’ इति जीवस्य व्यापित्वं सर्वाचार्यसम्मतयामुनाचार्यैरेवोच्यते तत्कथमित्याशङ्क्याह - जीव इति । जीवविभुत्ववादः ‘स चानन्त्याय कल्पते’ इति धर्मभूतज्ञानव्याप्त्या वा सौक्ष्म्यात् सर्वाचेतनान्तःप्रवेशसामर्थ्याद्वा भवतीति न कश्चिद्विरोधः ॥२३२॥ इति ज्ञाधिकरणम् ॥ ५७ ॥
मूलम् - 13
- उत्क्रान्तिस्पन्दनाणूपमितिवचनतोऽणीयसश्शक्तिलाभे
धीभूम्ना यौगपद्यं त्ववयवनयतोऽनेकमूर्तिग्रहेऽपि ।
यत्राम्नातं विभुत्वं परविषयमिदं भाति तात्पर्यलिङ्गै-
र्जीवे व्यापित्ववादो मतिमहिमपरस्स्वच्छताद्याशयो वा ॥