22 आत्माधिकरणम्

विश्वास-प्रस्तुतिः - 6
  1. द्रव्यं सर्वं हि नित्यं कथितमवयविद्रव्यभङ्गेन पूर्वं
    नित्यत्वं सूत्रकारः पुनरपि पुरुषे किं विशिष्याभिधत्ते ।
    सत्यं नामान्तरार्हामिह नुदति दशां चेतनस्यानुपाधेः
    प्रत्यक्त्वज्ञत्वधर्मौ तदिह नियमितौ शाश्वतौ क्षेत्रिणोऽपि ॥
३४-तमाहोबिल-यतिः - 6
  1. अधिकरणानुत्थानाशङ्कां निरस्यति - द्रव्यमित्यादिना प्रथमश्लोकेन । पूर्वम् - आरम्भणाधिकरणादौ । अवयविद्रव्यभङ्गेन - काणादाभिमतस्य कपालादिसमवायिकारणातिरिक्तस्य घटाद्यवयविद्रव्यस्य भङ्गेन निरासेन । सर्वं द्रव्यम् - सत्त्वरजस्तमश्शब्दस्पर्शरूपरसगन्धसंयोगशक्तिभिन्नं सर्वमपि तत्त्वजातम् । नित्यं कथितं हि - नित्यतयोक्तमेव । नित्यस्यैव द्रव्यस्यागन्तुकावस्थारूपोत्पत्तिविनाशप्रतिपादनेन द्रव्यस्वरूपं नित्यमित्युक्तमेवेति भावः । सूत्रकारः - निरर्थकाक्षरशून्यं सूत्रजातं कर्तुं प्रवृत्तः पाराशर्यः । पुरुषे - जीवे । विशिष्य - असाधारण्येन । पुनरपि - एतत्प्रकरणेऽपि । नित्यत्वं किमभिधत्ते - कुतोऽभिधत्ते । उक्तस्यैव पुनर्वचने फलाभावादिति भावः । सत्यम् - पूर्वनित्यत्वोक्तिपुनस्तदुक्तिवैफल्ययोरर्धमङ्गीक्रियत इत्यर्थः । जीवस्वरूपे तादृशावस्थाभावोपन्यसनेन तन्नित्यत्वोक्तेस्साफल्यादर्धं नाङ्गीक्रियत इति भावः । तदेव दर्शयति - इह - एतदधिकरणे । अनुपाधेः - देहाद्युपाधिशून्यस्य स्वरूपमात्रतोऽवस्थितस्येत्यर्थः । चेतनस्य - जीवस्य । नामान्तरार्हाम् - पूर्वनामतोऽन्यनामभजनयोग्याम् । दशाम् - आगन्तुकापृथक्सिद्धधर्मरूपामवस्थाम् । नुदति - निरस्यति । अनुपाधेरित्यनेन देहविशिष्टवेषेणात्मनो ब्राह्मणक्षत्रियादिनामान्तरभजनार्हावस्थायोगेऽपि तादृशमवस्थान्तरं न स्वरूपानुबन्धीति दर्शयति । किं तर्हि जीवात्मनस्स्वरूपानुबन्धीत्यत्राह - प्रत्यक्त्वेत्यादि । तत् - तस्मात् उक्तप्रकारेण वैषम्यस्य प्रदर्शितत्वात् । इह - एतदधिकरणे । प्रत्यक्त्वज्ञत्वधर्मौ - स्वस्मै भासमानत्व,ज्ञानाश्रयत्वरूपौ द्वौ धर्मौ । क्षेत्रिणः - जीवस्य । शाश्वतौ - नित्यौ । नियमितौ - नित्यसम्बद्धतया प्रतिपादितौ । अपिस्समुच्चये । भवद्भिनिर्धर्मतयाऽङ्गीकृतोऽपि सधर्म एवेति भावः । अत्र चिन्तामणिकारा आचार्यकुमारपादाः “प्रत्येतुः प्रत्येतव्यादव्यतिरेकः प्रत्यक्त्वं, तच्च स्वस्मै भासमानत्वम् । परतस्स्वधर्मेण ज्ञानेन स्वस्मै भासमानत्वमिति न्यायवादिनः । वयं तु ब्रूमः - परतस्स्वतश्च स्वस्मै भासमानत्वमिति, परतस्स्वधर्मभूतज्ञानेन स्वतस्स्वात्मनेति । अहमहमिति स्वात्मप्रकाशस्स्वरूपेण, अत्र सुप्तोऽहमीदृशोऽहमिति विशेषाकारविशिष्टप्रकाशो धर्मभूतज्ञानेनेति विभागो द्रष्टव्यः । न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति ज्ञानस्य नित्यत्वेन श्रुतिप्रतिपन्नत्वात्, ‘यथा न क्रियते ज्योत्स्ना’ इति स्मृत्या चोपबृंहितत्वात् तन्नित्यत्वमपि सिद्धमेव । अतः प्रत्यक् ज्ञातेति नाम्नोरन्यथाकरणाभावात् जीवनित्यत्वमिति द्रष्टव्यम्” इति प्राहुः ॥ २२५ ॥
कुमार-वरदः - 6
  1. अत्र सङ्गतिर्भाष्ये ‘वियदादेः’ इत्यादिनोक्ता । अयमाशयः - वियदधिकरणे तावत्परवादिभिर्नित्यत्वेन परिगृहीतानां वियदादीनामुत्पत्तिः स्थापिता । समनन्तराधिकरणे पुनः कृत्स्नस्यापि कार्यजातस्य पूर्वतत्त्वशरीरकाद्ब्रह्मणस्साक्षादुत्पत्तिरिति नियमितम् । इदानीं पुनः परवादिभिर्नित्यत्वेनाभिमताकाशादेरिवात्मनोऽपि कार्यत्वं स्यादित्याशङ्क्य परिह्रियत इति विशेषसङ्गतिरिति । अथवा पूर्वमचिदुत्पत्तिप्रकारश्चिन्तितः, अधुना जीवोत्पत्तिवादानां प्रकारान्तरप्रदर्शनादन्यथासिद्धिः क्रियत इति । तदर्थविचारस्तु - किं जीव उत्पद्यते नेति । किं ‘तोयेन जीवान्’ इत्यादिश्रुतिर्जीवोत्पत्तिं प्रतिपादयति नेति । किमत्रोत्पत्तिवचनमुत्पत्तिपरमुत भोक्तृत्वार्थज्ञानसङ्कोचविकासपरमिति । किं ‘न जायते म्रियते वा विपश्चित्’ इत्यादिनित्यत्ववचनं जीवसृष्टिवचनस्य ज्ञानसङ्कोचविकासपरतामवगमयति नेति । किमत्र नित्यत्ववचनमाकाशामृतत्ववचनवद्गौणमुत मुख्यमिति । किं मुख्यत्वानङ्गीकारेऽकृताभ्यागमकृतविप्रणाशादि प्रसज्यते नेति । अत्र पूर्वप्रतिपादितार्थेन गतार्थत्वादधिकरणोत्थानस्य नैरर्थक्यमाशङ्क्यैकदेशगतार्थत्वेऽपि तद्विशिष्टार्थाभिधानसामर्थ्यादधिकरणोत्थानस्य सार्थकत्वं समर्थयते - द्रव्यमिति । इयं तत्र चोदकस्याशङ्का - पूर्वमवयविद्रव्यभङ्गात्सर्वमपि द्रव्यं नित्यमेवेति कथितं, तेनाधुना पुनस्सूत्रकारो जीवस्य नित्यत्वं विशिष्य किमभिधत्त इति । उक्तं चोद्यमर्धाङ्गीकारेण परिहरति - सत्यमिति । अयमर्थः - नित्यत्वं तावद् द्रव्यस्य साधारण्येन सिद्धमेव । तथापि तत्तद्धर्मविशिष्टवेषेण विशेषोऽस्ति, त्रिगुणात्मके प्रकृतिद्रव्ये विकारविशेषात्स्वरूपे नामान्तरभजनार्हावस्थाविशेषोऽस्ति । तदेवोच्यते — ‘मही घटत्वं घटतः कपालिका’ इत्यादिना । न तथा जीवस्वरूपे नामान्तरभजनार्हावस्थाविशेषोऽस्ति । तदिदमाह - नामान्तरेति । अनुपाधेरिति - अनेन देहविशिष्टवेषेण ब्राह्मणक्षत्रियादिनामान्तरभजनार्हावस्थाविशेषसद्भाववत्वात् तादृशमवस्थान्तरं न स्वरूपानुबन्धीति दर्शयति । किं तर्हि स्वरूपानुबन्धीत्याशङ्क्य तादृशं रूपद्वयं दर्शयति - प्रत्यक्त्वेति । तत् - तस्मात्, उक्तप्रकारेण वैषम्यस्य प्रदर्शितत्वात् । प्रत्यक्त्वज्ञत्वधर्मौ क्षेत्रिणो जीवस्य शाश्वतौ नियमितौ । अयमर्थः — यदा हि जीवः कर्मवशाद्देहसम्बन्धमनियमेन परिगृह्णाति तदा सर्वदापि प्रत्यक्त्वज्ञत्वधर्मौ स्वरूपं न मुञ्चतः । तेन स्वरूपे नामान्तरभजनार्हावस्थावत्त्वाभावाज्जीवस्य नित्यत्वम्, प्राकृतस्य द्रव्यस्य स्वरूप एव नामान्तरभजनार्हावस्थाभाक्त्वादनित्यत्वमिति विभागः । प्रत्येतुः प्रत्येतव्यादव्यतिरेकः प्रत्यक्त्वम् । तच्च स्वस्मै भासमानत्वम् । परतः स्वधर्मेण ज्ञानेन स्वस्मै भासमानत्वमिति न्यायवादिनः । वयं तु ब्रूमः — परतः स्वतश्च स्वस्मै भासमानत्वमिति, परतः स्वधर्मभूतज्ञानेन, स्वतः स्वात्मनेति । अहमहमिति स्वात्मप्रकाशः स्वरूपेण, अत्र सुप्तोऽहमीदृशोऽहमिति विशेषाकारविशिष्टप्रकाशो धर्मभूतज्ञानेनेति विभागो द्रष्टव्यः । ‘न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते’ इति ज्ञानस्य नित्यत्वेन श्रुतिप्रतिपन्नत्वात् । ‘यथा न क्रियते ज्योत्स्ना’ इति स्मृत्या चोपबृंहितत्वात्तन्नित्यत्वमपि सिद्धमेव । अतः प्रत्यग्ज्ञातेति नाम्नोरन्यथाकरणाभावाज्जीवनित्यत्वमिति द्रष्टव्यम् ॥ २२५ ॥
मूलम् - 6
  1. द्रव्यं सर्वं हि नित्यं कथितमवयविद्रव्यभङ्गेन पूर्वं
    नित्यत्वं सूत्रकारः पुनरपि पुरुषे किं विशिष्याभिधत्ते ।
    सत्यं नामान्तरार्हामिह नुदति दशां चेतनस्यानुपाधेः
    प्रत्यक्त्वज्ञत्वधर्मौ तदिह नियमितौ शाश्वतौ क्षेत्रिणोऽपि ॥
विश्वास-प्रस्तुतिः - 7
  1. सच्छब्दार्थातिरिक्तं जनिमदखिलमित्यैतदात्म्यादिसिद्धं
    प्रोक्ता सृष्टिश्च जीवे निरवयवनयस्त्वम्बरादौ निरस्तः।
    जीवोत्पत्तिस्ततस्स्यादिति न सदकृताभ्यागमादिप्रसङ्गा-
    न्नित्यत्वाजत्वकण्ठोक्तिभिरपि जननं त्वस्य देहादियोगः॥
३४-तमाहोबिल-यतिः - 7
  1. सच्छब्दार्थेत्यादि । सच्छब्दार्थातिरिक्तम् - ‘सदेव सोम्येदमग्र आसीत्’ ‘सन्मूलास्सोम्येमास्सर्वाः प्रजाः’ इत्याद्युक्तजगत्कारणभूतसच्छब्दार्थब्रह्मातिरिक्तम् । अखिलम् - सर्वमपि चेतनाचेतनात्मकं वस्तु । जनिमत् - उत्पत्तिमत् । इति ऐतदात्म्यादिसिद्धम् - ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिवाक्यानां कृत्स्नस्य कारणब्रह्मात्मकत्वपरत्वेन तद्वाक्यसिद्धमित्यर्थः । जीवे - जीवात्मनि । सृष्टिश्च - उत्पादनञ्च । प्रोक्ता - ‘तोयेन जीवान् व्यससर्ज’ इत्यादिश्रुतिभिः प्रतिपादिता । निरवयवनयस्तु - निरवयवत्वात् नित्यत्वमित्यनुमानं तु । अम्बरादौ - आकाशादौ । निरस्तः — निरवयवत्वेऽप्युत्पत्तिमत्त्वेन व्यभिचारात् निरस्तः । वियदधिकरणेनेति शेषः । ततः - कारणात् । जीवोत्पत्तिस्स्यात् - अस्तु । इति न सत् - इदं न युक्तम् । अकृताभ्यागमादिप्रसङ्गात् - आदिशब्देन कृतविप्रणाश उच्यते । अकृताभ्यागमप्रसङ्गात् कृतविप्रणाशप्रसङ्गाच्चेत्यर्थः । अकृतानां पूर्वजन्मन्यननुष्ठितानां पुण्यपापानामभ्यागम इदानीमस्मिञ्जन्मनि फलानुभवस्तत्प्रसङ्गात्, कृतानां अस्मिञ्जन्मन्यनुष्ठितानां पुण्यपापानां विप्रणाशः फलानुभवं विनैव नाशः, तत्प्रसङ्गाच्चेत्यर्थः । जीवस्य कालविशेषे उत्पत्तिस्वीकारे तत्पूर्वं तस्याभावेन तत्कृतकर्मणामभावात् इदानीञ्च सुखदुःखानामनुभूयमानत्वात् तन्मूलभूतानि सुकृतदुष्कृतानि तेनाकृतान्येवाभ्यागच्छन्तीत्यङ्गीकार्यम्, तथा बहूनि पुण्यपापानि कृत्वा नष्टस्य जीवस्य तानि कर्माणि विफलानि नश्यन्तीत्यङ्गीकार्यम्, एवमङ्गीकारे विषमसृष्ट्या ईश्वरस्य वैषम्यनैर्घृण्ये प्रसज्येयातामिति भावः । नित्यत्वाजत्वकण्ठोक्तिभिरपि - ‘नित्यो नित्यानाम्’ ‘ज्ञाज्ञौ द्वावजौ’ इत्यादिरूपाभिः नित्यत्वजन्माभावप्रतिपादिकाभिश्श्रुतिभिस्स्फुटोक्तिभिरपि । जीवोत्पत्तिस्स्यादिति न सदित्यन्वयः । अस्य - एवं नित्यत्वेन प्रतिपन्नस्य जीवस्य । जननं तु - जन्म तु, किंरूपमिति चेत् । देहादियोगः आदिशब्देन कर्मज्ञानेन्द्रियपरिग्रहः । तथाच देहेन्द्रियादिसम्बन्ध एव जन्मेत्यवेहीत्यर्थः । नाशश्च देहेन्द्रियविश्लेष एवेति सिद्धमिति भावः ॥ २२६ ॥
कुमार-वरदः - 7
  1. अत्र पूर्वपक्षसिद्धान्तावारचयति - सच्छब्देति । ‘सन्मूलाः’ इत्युपक्रम्य ‘ऐतदात्म्यमिदं सर्वम्’ इत्यभिधानात् सर्वासामपि प्रजानां सन्मूलत्वं सिद्धम् । तेन वियदादिवदात्मनोऽपि कार्यत्वमनुमन्तव्यम् । ‘तोयेन जीवान्व्यससर्ज’ इत्यादौ जीवसृष्टिश्च साक्षात्प्रोक्ता । यत्तु निरवयवत्वान्नित्यत्वमिति तदाकाशे व्यभिचारान्निरस्तमित्याह - निरवयवनय इति । तेन जीवोत्पत्तिः स्यादिति पूर्वपक्षिते तन्निराकरोति - न सदिति । हेतुमाह - अकृतेति । अकृताभ्यागमकृतविप्रणाशौ हि जीवनित्यत्वे हेतुतया न्यायवादिभिरुपादीयेते । यदि जीवस्सादिरनित्यः कृतकश्च तदा पूर्वमेवाकृतं सुकृतं दुष्कृतञ्चाधुनानुभूयात् तथा चाकृताभ्यागमदोषः । तथैव चेदानीं कृतयोस्सुकृतदुष्कृतयोरुत्तरस्मिञ्जन्मनि विनाशस्स्यात् । अत्र सुकृतदुष्कृतयोर्विनाश इति फलानुभवाभावः प्रसज्यते । एवं युक्त्या जीवनित्यत्वमुपपाद्य श्रुत्यादिभिरप्युपपादयति - नित्यत्वेति । ‘नित्यो नित्यानाम्’ इत्यादिका नित्यत्वश्रुतिः, ‘ज्ञाज्ञौ द्वावजौ’ इत्यजत्वश्रुतिः । तर्हि चेतनाचेतनयोर्द्वयोरपि भगवत उत्पत्तिश्श्रुतिस्मृतीतिहासपुराणादिषु श्रूयते तत्कथमित्याशङ्क्याह - जननमिति । पूर्वदेहप्रहाणं मरणम्, उत्तरदेहपरिग्रहो जननमिति न्यायवादिनामपि सम्मतमेतत् । अन्यथा प्रेत्यभावोपपादनायोगात् ॥ २२६ ॥
मूलम् - 7
  1. सच्छब्दार्थातिरिक्तं जनिमदखिलमित्यैतदात्म्यादिसिद्धं
    प्रोक्ता सृष्टिश्च जीवे निरवयवनयस्त्वम्बरादौ निरस्तः।
    जीवोत्पत्तिस्ततस्स्यादिति न सदकृताभ्यागमादिप्रसङ्गा-
    न्नित्यत्वाजत्वकण्ठोक्तिभिरपि जननं त्वस्य देहादियोगः॥
विश्वास-प्रस्तुतिः - 8
  1. देहात्मत्वे जनिस्स्यान्न तदिह घटते जातमात्रस्य रागात्
    ज्ञाने किण्वादिमेघोपलशबलपटप्रक्रियाऽप्यत्र दुस्स्था।
    देहे गेहादितुल्या ममकृतिरनघा दोषतस्त्वैक्यमोहः
    क्षिप्तं चैक्यानुमानं बलवदनुमितेश्शास्त्रतस्तर्कतश्च॥
३४-तमाहोबिल-यतिः - 8
  1. देहात्मत्व इत्यादि । देहात्मत्वे - देहस्यैवात्मत्वे । यदि देह एवात्मा स्यात् तदा । जनिस्स्यात् - देहस्य क्षणपरिणामित्वादात्मनोऽपि जनिस्स्यात् । तत् - देहस्वरूपत्वम् । इह - जीवात्मनि न घटते - न युज्यते । कुतः? जातमात्रस्य रागात् - उत्पन्नमात्रस्य शिशोस्स्तन्याभिलाषात् । स चाभिलाषः पूर्वजन्मानुभवमन्तरेण न सम्भवति तेन पूर्वोत्तरजन्मनोर्जीवानुवृत्तिं प्रतिपद्यामहे । किञ्च यदि देहत्यैव चैतन्यं स्यात् तदा देहावयवेष्वपि तत् स्यात् । कार्यगुणानां कारणगुणपूर्वकत्वन्यायात्, तथाङ्गीकारेऽनेकचैतन्यप्रसङ्गेन शरीरोन्माथप्रसङ्गः । अत्र चार्वाकदत्तमुत्तरमनूद्य परिहरति — ज्ञान इत्यादिना । ज्ञाने - चैतन्यविषये । चैतन्यस्य देहावयवेष्वविद्यमानस्यैव देहरूपपृथिव्यप्तेजोवाय्वात्मकसङ्घात एव विद्यमानत्वविषये । किण्वादिमेघोपलशबलपटप्रक्रिया - किण्वं सुरासन्धानमूलद्रव्येष्वेकम् । तदादिषु वस्तुषु प्रत्येकमवस्थानदशायामनुपलब्धाया एव मादकत्वशक्तेः सुरात्वेन सङ्घातदशायां यथोपलब्धिः । मेघोपलः करकः । यथा वा करके विशरणाद्यसङ्घातदशायामनुपलब्धं काठिन्यं करकत्वेन सङ्घातदशायामुपलभ्यते । शबलपटश्चित्रपटः । यथा तन्तुष्वनुपलब्धं चित्ररूपं पटत्वेन सङ्घातदशायामुपलभ्यते । तद्वत् देहावयवेषु प्रत्येकमनुपलब्धमपि ज्ञानं देहात्मना सङ्घातदशायामुपपन्नमेवेति निदर्शनेनाभिमतसाधनप्रक्रिया । अत्यन्तदुस्स्था - दृष्टान्तदार्ष्टान्तिकयोर्वैषम्येणार्थसाधनाय न प्रभवतीत्यर्थः । किण्वादिद्रव्येषु प्रत्येकमवस्थायामपि मदशक्तेर्विद्यमानत्वात् कारणक्रमेण कार्यगुणारम्भस्य वैशेषिकैरुपपादनात् तथैव मेघोपलेऽप्युपपत्तेः । शबलपटे चित्ररूपस्य तन्तुष्वभावेऽपि तज्जातीयस्य शुक्लादिरूपस्य तन्तुषूपलब्धेः । तथाच देहे विद्यमानस्य ज्ञानविशेषस्यावयवेष्वभावेऽपि तज्जातीयज्ञानान्तरसद्भावस्यावश्यकत्वेन अनेकचेतनोपलम्भप्रसङ्गस्तदवस्थ एवेति भावः । देहे - विषये । गेहादितुल्या - ममेदं गेहमिति यथा व्यतिरेकप्रतीतिस्तथा । आदिशब्देन क्षेत्रपुत्रकलत्रसङ्ग्रहः । यथा मम क्षेत्रं मम पुत्रो मम कलत्रमिति प्रतीतिस्तथेत्यर्थः । अनघा - बाधकाभावेन निर्दोषा । ममकृतिः - भेदसाधकममकारोल्लेखयुक्ता प्रतीतिः । अस्तीति शेषः । अतश्च देहात्मनोर्भेदोऽङ्गीकार्य इति भावः । ऐक्यमोहस्तु - स्थूलोऽहं कृशोऽहमित्यादिसामानाधिकरण्येन देहात्मनोरैक्यमोहस्तु । दोषतः - संसर्गविशेषरूपदोषप्रयुक्त इत्यर्थः । यथायःपिण्डवह्न्योर्भिन्नयोरपि संसर्गविशेषेणायो दहतीति भ्रमस्तद्वदित्यर्थः । ऐक्यानुमानञ्च - देह एवात्मा अहम्बुद्धिगोचरत्वात् सम्प्रतिपन्नाहम्बुद्धिगोचरात्मवदिति देहात्मनोरैक्यानुमानञ्च । बलवदनुमितेः ‘दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्’ इत्यादिसूत्रोक्तातिबलिष्ठानुमानात् । शास्त्रतः - ‘नित्यो नित्यानाम्’ इत्यादिशास्त्रात् । तर्कतश्च - ‘वीतरागजन्मादर्शनात्’ इति सूत्राभिप्रेतात्तर्काच्च । क्षिप्तम् - निरस्तम् । योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामीति प्रत्यभिज्ञया यः पूर्वमद्राक्षीत् यश्चेदानीं स्पृशति स एक एव अबाधितैक्यप्रतीतिविषयत्वात् यो देवरथश्चैत्रे मया निरमीयत स एवायं भाद्रपदे दृश्यत इत्याद्यैक्यप्रतीतिविषयरथादिवद् इत्यादिरूपमनुमानशरीरम् । यदि जीवात्मानेकेषु पूर्वोत्तरेषु शरीरेष्वनुवृत्तो न स्यात् तर्हि जातमात्रस्य तस्य स्तन्याभिलाषो न स्यात्, नहि पूर्वमननुभूतेऽभिलाषो दृश्यत इति ‘वीतरागजन्मादर्शनात्’ इति सूत्राभिप्रेतस्तर्कः ॥ २२७ ॥
कुमार-वरदः - 8
  1. उक्तार्थप्रतिषेधरूपं लोकायतपक्षं पुरस्कृत्य युक्तिभिस्तिरस्करोति - देहात्मत्व इति । अयमत्र शब्दार्थः - यदि देह एवात्मा स्यात् तदा देहस्य क्षणपरिणामित्वादात्मनोऽपि जनिस्स्यात् । तच्च न घटते । ‘वीतरागजन्मादर्शनादि’ति न्यायवादिभिर्निरस्तत्वादित्याह - जातेति । सद्य एवोत्पन्नो बालः स्तन्याभिलाषं करोति । स चाभिलाषः पूर्वजन्मानुभवमन्तरेण न सम्भवति । तेन पूर्वोत्तरजन्मनोर्जीवानुवृत्तिं प्रतिपद्यामहे । तत्र यदि देह एव चैतन्यं स्यात्, तदा देहावयवेष्वपि चैतन्यमवश्यम्भावि भवेत् । कारणगुणप्रक्रमेण कार्यगुणारम्भस्य न्याय्यत्वात्, रूपादयो हि स्पर्शवद्विशेषगुणास्तेनैव क्रमेणारभन्त इति दृष्टमेतत् । तेन देहे देहावयवेषु च चैतन्याङ्गीकारेऽनेकचेतनोपलम्भप्रसङ्गः । चेतनानां च नानामनस्कत्वात् शरीरोन्माथप्रसङ्ग इत्यादिकं दूषणजातमनुसन्धेयम् । अत्र चार्वाकोक्तमनूद्य परिहरति - ज्ञान इत्यादिना । इयं किल चार्वाकसूत्रपरिपाटी - ‘पृथिव्यप्तेजोवायुरिति तत्त्वानि । तेभ्यश्चैतन्यं किण्वादिभ्यो मदशक्तिवत्’ इति । अयमत्र सूत्रार्थः — पृथिव्यादीनामसंहतानां चैतन्ययोगो नास्त्येव । संहतावस्थायामेव चैतन्यम् । एवं करचरणादीनां देहावस्थामापन्नानामेव चैतन्यम् । तथाच देहस्यैव चैतन्यगुणयोगाद् देह एव चेतनः । यथा क्रमुकताम्बूलचूर्णानां संहतानामेव रागाश्रयत्वं । न पुनः प्रत्येकम् । किण्वादिभ्यो मदशक्तिवदिति । मदहेतुभूतद्रव्यजनकानां बहूनां किण्वादीनां न प्रत्येकं मदहेतुत्वशक्तिः । अपितु संहतानामेव । एवं संहतानामेव करचरणादीनां ज्ञानाश्रयत्वान्नानेकचेतनोपलम्भप्रसङ्गदोष इति । मेघोपलेति - जलस्य प्रत्येकं काठिन्याभावेऽपि करकात्मना परिणतस्यैव काठिन्ययोगः । शबलपटेति - सितरक्तकृष्णानां तन्तूनां चित्ररूपाभावेऽपि पटे खलु तदारब्धे चित्ररूपं दृश्यते । एवमन्यदप्युदाहर्तव्यम् । अत्र दुस्स्थेति दृष्टान्ताद्दार्ष्टान्तिकवैषम्यं दर्शयति । तथाहि - क्रमुकताम्बूलचूर्णेषु अवयव्यवस्थायां यो राग उपलभ्यते स पुनरवयवेष्वप्यस्ति । कारणक्रमेण कार्यगुणारम्भस्य वैशेषिकैरुपपादनात् । तथा च तदानीमनेकरागयुक्तद्रव्यसद्भाववत् देहेऽप्यनेकचैतन्यवद्द्रव्यसद्भावप्रसङ्गादिकं तदवस्थमेव । तेन मेघोपलदृष्टान्तोऽपि निरस्तः । यस्तु शबलपटदृष्टान्तः सोऽपि निरस्तप्राय एव । शबलपटे हि चित्ररूपस्य तन्तुष्वभावेऽपि तज्जातीयस्य रूपसामान्यस्य शुक्लादिजातीयस्य कस्यचिदवयवेषु सद्भावोऽस्त्येव । तथाचात्रापि देहे विद्यमानस्य ज्ञानविशेषस्यावयवेष्वभावेऽपि तज्जातीयं ज्ञानान्तरमस्तीत्यनेकचेतनोपलम्भप्रसङ्गस्तदवस्थ एव । विस्तरस्तु परमतभङ्गे द्रष्टव्यः । अत्र चार्वाकोक्तं युक्तिविरोधं परिहृत्य तदुक्तस्य देहात्मवादस्य प्रत्यक्षविरोधं स्वयमप्याह - देह इति । यथा मम गृहं, मम क्षेत्रं, मम पुत्रो, मम कलत्रमित्यादिषु व्यतिरेकप्रत्ययाद् भेदसिद्धिः, एवं मम देह इति व्यतिरेकस्य स्पष्टदृष्टत्वाद् बाधकाभावेन निर्दोषत्वाच्च देहात्मनोर्भेदोऽङ्गीकर्तव्य एव । तदिदमाह - अनघेति । निर्दोषत्वादित्यर्थः । ममात्मेत्यत्र तु ममेत्यस्मच्छब्दस्यात्मेति स्वरूपविषयस्यात्मशब्दस्य चैकार्थ्यावश्यम्भावाद्व्यतिरेकप्रत्यय औपचारिक इत्यर्थः । तर्हि स्थूलोऽहं कृशोऽहमिति सामानाधिकरण्येनैक्यं प्रतीयते तत्कथमित्याशङ्क्याह - दोषत इति अनेकश्रुतिस्मृतिविरुद्धत्वाद् देहात्मबुद्धिः भ्रान्तिरित्यर्थः । तर्ह्यनुमानादेव देहात्मैक्यं प्रसाधयामीति चार्वाकमतं निराकरोति - क्षिप्तमिति । देह एवात्मा, अहम्बुद्धिगोचरत्वात्, सम्प्रतिपन्नाहम्बुद्धिगोचरात्मवत् इत्यादिभिर्देहात्मत्वमनुमीयते, तत्त्वनैकान्तिकमेव । न ह्येकरूपबुद्धिगोचरतामात्रेण तत्तदैक्यसम्भवः । नहि रजतबुद्धिगोचरतामात्रेण शुक्तिकायां रजतत्वं सम्भवति । तेन बाधितबुद्धिगोचरो मिथ्या, अबाधितबुद्धिगोचरस्तथ्यमिति निर्णेतव्यम् । तेनाबाधितप्रत्ययगोचरत्वाभावाद्देह आत्मा न भवत्येव । देहात्मैक्यानुमानक्षेपे हेतुत्रयमाह - बलवदनुमितेरित्यादिना । ‘दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्’ इत्यादिसूत्रोक्ताधिकबलानुमानात्, ‘नित्यो नित्यानाम्’ इत्यादिशास्त्रात्, ‘वीतरागजन्मादर्शनात्’ इति सूत्राभिप्रेततर्कबलाच्चेति ॥२२७॥
मूलम् - 8
  1. देहात्मत्वे जनिस्स्यान्न तदिह घटते जातमात्रस्य रागात्
    ज्ञाने किण्वादिमेघोपलशबलपटप्रक्रियाऽप्यत्र दुस्स्था।
    देहे गेहादितुल्या ममकृतिरनघा दोषतस्त्वैक्यमोहः
    क्षिप्तं चैक्यानुमानं बलवदनुमितेश्शास्त्रतस्तर्कतश्च॥
विश्वास-प्रस्तुतिः - 9
  1. देहं देहातिरेके तदवधिनियतप्राणबुद्ध्यक्षरूपं
    धीसन्तानं च नित्यं प्रलयविलयिनं स्थास्नुमप्यापवर्गात् ।
    डिण्डीराभं सदब्धाववितथविकृतौ जीवमिच्छन्त इत्थं
    निर्धूता दूरमत्र श्रुतिभिरितरवद्बाधदोषोज्ज्ञिताभिः॥
३४-तमाहोबिल-यतिः - 9
  1. देहात्मवादं निरस्य तत्सजातीयसर्वपक्षान्तराण्यपि उक्तैरनुक्तैश्च हेतुभिर्निराकरोति - देहमित्यादिना । जीवम् - जीवात्मानम् । देहम् - देहस्वरूपम् । इच्छन्तः - अङ्गीकुर्वन्तश्चार्वाका इत्यर्थः । देहातिरेके - जीवस्य देहातिरिक्तत्वेऽपि । तदवधिनियतप्राणबुद्ध्यक्षरूपम् - देहावधिनियतप्राणरूपं देहावधिनियतबुद्धिरूपं देहावधिनियतेन्द्रियरूपम् । अक्षमिन्द्रियम् । इच्छन्त इत्यनुषङ्गः । चार्वाकविशेषा इत्यर्थः । नित्यं धीसन्तानञ्च - नित्यधीसन्तानात्मकम् । इच्छन्त इति पूर्ववत् । बौद्धैकदेशिन इत्यर्थः । धीसन्तानं प्रलयविलयिनम् - प्रलयकालनाशिनम् । इच्छन्तो बौद्धविशेषाः । आपवर्गात् — आमोक्षम् । स्थास्नुमपि - स्थिरञ्च, नित्यमित्यर्थः । इच्छन्तो मृषावादिनः । अवितथविकृतौ - अवितथा तत्तत्कार्योपयुक्ता विकृतिर्विकारः परिणाम इत्यर्थः, यस्य तस्मिन्नवितथविकृतौ । सदब्धौ - सन्मात्रब्रह्मरूपसागरे । डिण्डीराभम् - फेनतुल्यम् । इच्छन्तो यादवप्रकाशीयाश्च । इतरवत् - एवं जीवमन्यथान्यथाङ्गीकुर्वद्भिः वाद्यन्तरैस्तुल्यम् । बाधदोषोज्झिताभिः - बाधः प्रबलप्रमाणेनोपरोधः, दोषः अयोवह्न्योरिव संसर्गविशेषादिरूपो भ्रमकारणं, ताभ्यामुज्झिताभिः त्यक्ताभिः तद्रहिताभिरित्यर्थः । प्रत्यक्षे दोषस्सम्भाव्यते, अनुमाने च बाधः, श्रुतौ तदुभयगन्धोऽपि नास्तीति भावः । श्रुतिभिः ‘नित्यो नित्यानाम्’ इत्यादिश्रुतिभिः सत्तर्कसहितस्मृतीतिहासपुराणोपबृंहिताभिः । इत्थम् - पूर्वोक्तक्रमेण । अत्र - एतदधिकरणे । दूरं निर्धूताः - दूरतो निरस्ता इत्यर्थः ॥२२८॥
    इत्यात्माधिकरणम् ॥ ५६ ॥
कुमार-वरदः - 9
  1. एवं युक्त्युपबृंहितश्रुत्यादिभिश्चार्वाकस्य प्रधानप्रतिपाद्यं देहात्मवादं निराकृत्य तत्सजातीयानि पक्षान्तराण्यप्युक्तैरनुक्तैश्च हेतुभिर्निराकर्तुमुपक्रमते - देहमिति । केचिदाहुर्देह एवात्मेति । अपरे त्वात्मनो देहातिरेकेऽपि देहावधिनियतप्राणबुद्ध्यक्षरूप आत्मेति । यावद्देहभावीत्यर्थः । एवं चार्वाकपक्षमुक्त्वा सौगतपक्षमप्याह - धीसन्तानमिति । नित्यं धीसन्तानं केचिदाहुः । यथा सौगताः ‘अथ्थि भिख्खवो अकिदअं असंखअं एदस्स जन्तुणो सन्तण्णमाणस्स णाणावठ्ठाणं सम्पज्जइ’ इति । (छाया - अस्ति भिक्षवोऽकृतकमसंक्षयमेतस्य जन्तोस्सन्तन्यमानस्य ज्ञानावस्थानं सम्पद्यते) तेन नित्यधीसन्तान आत्मेति प्राहुस्सौगतैकदेशिनः । अपरे तु शून्यवादिनमनुसरन्तो द्विधा प्राहुः । आत्मनामाप्रलयमवस्थानमित्येके । अत्रापि विभागो द्रष्टव्यः । क्षणिकज्ञानसन्तानस्यामोक्षमवस्थानमिति सौगताः । मृषावादिनस्त्वामोक्षाज्जीवभाव इति वदन्तस्स्थायित्वमप्यङ्गीकृत्यामोक्षावस्थानमभ्युपगच्छन्ति । निपुणं निरूपयतां तदुक्तं स्थायित्वमप्यनादरणीयमेव; बीजाङ्कुरन्यायेनाविद्याजीवभावयोरस्थायित्वस्य स्वयमेवाभिधानात् । विवरणपक्षे तु जीवभावस्यामोक्षस्थायित्वादपुरुषार्थत्वमेव । विस्तरस्तु शतदूषण्याम् । भेदाभेदपक्षमाह डिण्डीरेति । यादवप्रकाशीयाः खलु सन्मात्रब्रह्मरूपे सागरे पुनरवितथविकृतौ तत्तत्कार्योपयुक्तविकारवति डिण्डीराभं फेनप्रायं जीवमिच्छन्ति । स्वाभाविकभेदाभेदवादिनो हि सन्मात्रब्रह्मणि सागरप्राये फेनतरङ्गबुद्बदन्यायेन चिदचिदीश्वरतत्त्वत्रयसृष्टिमाचक्षते । एवं परपक्षाननूद्य सर्वेऽपि वादिनः सत्तर्कसहितस्मृतीतिहासपुराणोपबृंहिताभिर्नित्यत्वश्रुतिभिर्निरस्ता इत्याह - निर्धूता इति । बाधदोषोज्झिताभिरिति - आकाशादिनित्यत्वश्रुतयः प्रबलतरश्रुत्यन्तरबाधिताः, आत्मनित्यत्वश्रुतयस्तु प्रबलतरयुक्त्यन्तरानुगृहीतश्रुत्यन्तरसंवादेन निर्बाधा इत्यर्थः ॥२२८॥

इत्यात्माधिकरणम् ॥ ५६ ॥

मूलम् - 9
  1. देहं देहातिरेके तदवधिनियतप्राणबुद्ध्यक्षरूपं
    धीसन्तानं च नित्यं प्रलयविलयिनं स्थास्नुमप्यापवर्गात् ।
    डिण्डीराभं सदब्धाववितथविकृतौ जीवमिच्छन्त इत्थं
    निर्धूता दूरमत्र श्रुतिभिरितरवद्बाधदोषोज्ज्ञिताभिः॥