21 तेजोधिकरणम्

विश्वास-प्रस्तुतिः - 5
  1. कूटस्थाद्ब्रह्मणस्स्याज्जगदखिलमिदं पुत्रपौत्रादिनीतेः
    एतस्मात् प्राण इत्याद्यपि सुगममिहेत्यादिरूहोऽत्र मोहः ।
    प्राणस्वान्तादिपाठक्रमत इतरसंक्षोभणेऽतिप्रसङ्गात्
    ईक्षानुस्यूतिदृष्टेः प्रथममिव परं सौति तत्तच्छरी(री)रम् ॥२२४॥
३४-तमाहोबिल-यतिः - 5
  1. ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम् । इदानीं व्यवहितकार्याणां तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिमाशङ्क्य तत्तद्वस्तुशरीरकात् ब्रह्मण एव सर्वतत्त्वोत्पत्तिरिति स्थाप्यते – कूटस्थादित्यादि । इदमखिलं जगत् । कू़टस्थात् ब्रह्मणः - मूलकारणभूतात्परमात्मनः । पुत्रपौत्रादिनीतेः - प्रथमं कूटस्थात्पुत्रोत्पत्तिः पश्चात् पुत्रात्पौत्रोत्पत्तिर्यथा तथा । स्यात् - व्यवधानेनोत्पद्यताम् । न तु सर्वं तस्मादव्यवधानेन । न हि पौत्रनप्त्रादयस्सर्वे कूटस्थादव्यवधानेन जायन्ते ।एतस्मात्प्राण इत्याद्यपि - ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥’ इत्यादिवाक्यजातमपि । इह - परम्परया ब्रह्मकारणत्वपक्षेऽपि । सुगमम् - सुसङ्गतमेव । एतस्मात् ब्रह्मणः प्राणादिक्रमेण सर्वोत्पत्तिरित्युक्तेऽपि वाक्यस्य सार्थक्यात् । इत्यादिरूहः - एवमाद्याकारा वाक्यार्थकल्पना । अत्र - ‘एतस्माज्जायते प्राणः’ इति वाक्यविषये । मोहः - विपरीतज्ञानमूल एव । ब्रह्मणस्साक्षात्प्राणोत्पत्तेः प्राणान्मनस उत्पत्तेस्तस्मात्सर्वेन्द्रियोत्पत्तेश्च कल्पनस्य सर्वश्रुतिविरुद्धतया विपरीतज्ञानमूलकत्वमिति भावः । प्राणस्वान्तादिपाठक्रमतः - ‘एतस्माज्जायते’ इति वाक्यात् आपाततः प्रतिपन्नेन प्राणमनस्सर्वेन्द्रियादिरूपपाठक्रमेण । इतरसंक्षोभणे - इतरश्रुतिप्रतिपन्नप्रकृतिमहदहङ्कारादिक्रमान्तरबाधकल्पने । अतिप्रसङ्गात् - सम्प्रतिपन्नसर्ववाक्यार्थानामप्यापातविरोध्येकवाक्यार्थकल्पनया बाधकल्पनप्रसङ्गात् । ईक्षानुस्यूतिदृष्टेः - ईक्षत्यधिकरणे चेतनासाधारणतयोपन्यस्ताया अचेतनानर्हाया ईक्षायाः ईक्षणक्रियायाः, अनुस्यूतेः उत्तरोत्तरवाक्येष्वनुवर्तनस्य, दृष्टेः दर्शनात् । दृश्यते हि ‘तदैक्षत बहु स्यां प्रजायेय’ इतिवत् उत्तरवाक्येष्वपि ‘तत्तेज ऐक्षत’ ‘ता आप ऐक्षन्त’ इतीक्षणक्रियानुवृत्तिः । अतः परमात्मा प्रथममिव - स्वस्मात्साक्षादुत्पन्नप्रकृतितत्त्वमिव । परम् - तदनन्तरोत्पन्नं महदादितत्त्वजातमपि । तत्तच्छरीरी - पूर्वपूर्वतत्त्वान्तरात्मा सन् । सौति - उत्पादयति । एवं सर्वतत्त्वानां तत्तत्कारणतत्त्वशरीरकपरमात्मकार्यत्वपरमिदं ‘एतस्माज्जायते प्राणः’ इति वाक्यं, न तु क्रमान्तरपरमिति भावः ॥
कुमार-वरदः - 5
  1. अत्र सङ्गतिर्भाष्य एव सुव्यक्तमुक्ता - ‘ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम् । इदानीं व्यवहितकार्याणां किं केवलात् तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्तिः आहोस्वित् तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते’ इति । तदर्थविचारस्तु - महदहङ्कारादीनां सर्वेषां तत्त्वानां किं केवलात्पूर्वपूर्वतत्त्वमात्रादुत्पत्तिः उत तत्तद्रूपाद्ब्रह्मण इति । किं ‘आकाशाद्वायुः’ इत्यादिश्रुतिष्वाकाशादिशब्दा आकाशादिमात्रपरा उत तत्तदवस्थब्रह्मपरा इति । किं ‘तेज ऐक्षत’ इत्यादिष्वभिध्यानलिङ्गं तेजःप्रभृतिशब्दानां तत्तदवस्थब्रह्मपरतामवगमयति नेति । किं तेजःप्रभृतिशब्दानां तत्तदवस्थब्रह्मपरत्वे लक्षणा स्यात् नेति । किं तेजःप्रभृतिशब्दानामपर्यवसानवृत्त्या ब्रह्माभिधाने व्युत्पत्तिविरोधादिदोषो भवति नेति । अत्र पूर्वपक्षमनूद्य निराकरोति - कूटस्थादिति । ‘एतस्माज्जायते प्राणः’ इत्यादिश्रुतेर्द्वयी हि गतिस्सम्भाव्यते । एतस्माद्ब्रह्मणः प्रकृत्यादिक्रमेण पृथिवीपर्यन्तं विश्वसृष्टिरित्येका, अपरा तु प्रकृत्यादिपूर्वपूर्वतत्त्वशरीराद् ब्रह्मण एव पृथिवीपर्यन्तं कृत्स्नस्य विश्वस्य सृष्टिरिति । अत्र पूर्वपक्षवादी मन्यते - पुत्रपौत्रादिनीत्या कूटस्थाद्ब्रह्मण एव परम्परया विश्वसृष्टिः ‘एतस्मात्प्राणः’ इत्यस्मिन्वाक्ये कल्पयितव्या । अस्मिन्वाक्ये ‘खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी’ इति पाठक्रमात्क्रम एव प्रतिपाद्यत इति प्रतीयते । ‘आकाशाद्वायुः’ इति श्रौतक्रमस्यात्रापि दृष्टत्वेन श्रुत्यन्तरसंवादात् तत्सहपाठसामर्थ्यात् ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च’ इत्यत्रापि प्रतीयमानः पाठक्रमो विवक्ष्यते, तेन न ब्रह्मणः साक्षात् विश्वसृष्टिरिति । ननु ‘एतस्माज्जायते प्राणः’, ‘तस्मादेतद्ब्रह्म नामरूपमन्नञ्च जायते’ ‘तत्तेजोऽसृजत’ इत्यादिकं त्वत्पक्षे न घटत इत्याशङ्क्य पूर्वपक्षी परिहरति - एतस्मादिति । अयमर्थः - ‘एतस्मात्’ इत्यादिभिश्शब्दैर्हेतुत्वमात्रमुच्यते । तत्तु हेतुत्वं व्यवहिताव्यवहितपक्षयोस्साधारणमित्यस्मत्पक्षेऽपि सुगममेवेति । निराकरोति - इहेत्यादिरूहोऽत्र मोह - इति । अयमर्थः - व्यवहिताव्यवहितयोरव्यवहिते सम्प्रत्यय इति हि न्यायविदां निर्णयः । तेन ब्रह्मण एवाव्यवहितकारणत्वे सम्भवति व्यवहितकल्पना न लघीयसी । किंञ्च ‘एतस्माज्जायते’ इत्यत्रैतस्मादिति पदस्यानुषङ्गेण वाक्यार्थयोजनायां संभावितायां ‘एतस्माज्जायते प्राणः प्राणान्मनो मनस इन्द्रियाणीन्द्रियेभ्यः खम्’ इत्यादिकया वचनव्यक्त्या पूर्वपूर्वानुषङ्गविपरिणामाभ्यामर्थोपवर्णनमन्याय्यमेव । अपिच एतस्माद्ब्रह्मण इत्यत्र ब्रह्मण एव कारणभूतात्प्राणस्य साक्षादुत्पत्तिरुच्यते, मनःप्रभृतीनां परम्परयोत्पत्तिरिति वैरूप्यम् । अवैरूप्ये सम्भवति वैरूप्येण निर्वाहोऽपि जघन्य एव । किञ्च ‘पृथिव्यप्सु प्रलीयते’ इत्यादिना सुबालोपनिषादादौ बहुस्मृतीतिहासपुराणाद्युपबृंहितं क्रमान्तरं प्रतीयते । तेन एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च इत्यादिक्रमकॢप्तिर्बाध्यत एव । नहि क्वचिदपि स्मृतीतिहासपुराणादिषु प्राणान्मनस्सृष्टिर्मनस इन्द्रियसृष्टिरिन्द्रियेभ्य आकाशसृष्टिरित्यस्ति । अत्राप्यन्यथासिद्धिमाशङ्क्य परिहरति - प्राणेत्यादिनाऽतिप्रसङ्गादित्यन्तेन । अयमर्थः - अयं खलु भवतोऽभिप्रायः ‘खं वायुः’ इत्यत्र श्रुत्यन्तरसिद्धक्रम एव प्रतीयते; तत्सहपाठलिङ्गात् ‘मनस्सर्वेन्द्रियाणि’ इत्यत्रापि पाठक्रम एवानुसर्तव्यः, तेन सुबालोपनिषदादिप्रसिद्धं क्रमान्तरमेव बाध्यत इति, तदिदमसारम् - सम्प्रतिपन्नबहुवाक्यानुसारेणासम्प्रतिपन्नैकवाक्यार्थोपवर्णनं हि न्याय्यम् । न पुनर्वैपरीत्येन परिकल्पनम् । न्यायविरुद्धार्थपरिकल्पने सर्वशास्त्रव्याकोपात् । तेनात्र क्रमो न विवक्ष्यते । अपितु पूर्वपूर्वतत्त्वविशिष्टाद्ब्रह्मण एव विश्वोत्पत्तिरिति । इममर्थं श्रुतिरेवोपबृंहयतीति हेत्वन्तरमप्याह - ईक्षेति । ‘तदैक्षत’ ‘तत्तेज ऐक्षत’ ‘ता आप ऐक्षन्त’ इत्यादिषु कारणभूते ब्रह्मणीक्षणमेवानुस्यूतं दृश्यते । तच्च तत्तत्तत्वविशिष्टाद्ब्रह्मण एव विश्वोत्पत्तौ युज्यत इतीक्षत्यधिकरणादौ सर्वत्रापि शास्त्रे समर्थितम् । उक्तमर्थं निगमयति - प्रथममिति । यथा प्रकृतिशरीरं ब्रह्म महत्तत्त्वं सृजति, तथा महच्छरीरं ब्रह्माहङ्कारं सृजति, इत्यादिक्रमेण पृथिवीपर्यन्तं योजनीयमिति ॥
मूलम् - 5
  1. कूटस्थाद्ब्रह्मणस्स्याज्जगदखिलमिदं पुत्रपौत्रादिनीतेः
    एतस्मात् प्राण इत्याद्यपि सुगममिहेत्यादिरूहोऽत्र मोहः ।
    प्राणस्वान्तादिपाठक्रमत इतरसंक्षोभणेऽतिप्रसङ्गात्
    ईक्षानुस्यूतिदृष्टेः प्रथममिव परं सौति तत्तच्छरी(री)रम् ॥२२४॥