20 वियदधिकरणम्

विश्वास-प्रस्तुतिः - 2
  1. पूर्वत्राधिक्रियायां पुरुषजनिवचो नित्यतोक्त्या निरूढं
    व्योमोत्पत्तौ तथैव स्थितिरिति वचसोर्व्याहतौ वक्ति कश्चित् ।
    सिद्धान्ती व्योमसृष्टिर्निगमशतमिता नान्यथा सिद्धिरस्यां
    वायुव्योमामृतोक्तिर्जनिविधिविहतेत्युक्तिवैषम्यमाह ॥२२१॥
३४-तमाहोबिल-यतिः - 2
  1. पूर्वत्रेत्यादि । पूर्वत्र अधिक्रियायाम् - पूर्वाधिकरणे । पञ्चरात्राधिकरण इत्यर्थः । पुरुषजनिवचः - पुरुषस्य जीवस्य जनिवचः उत्पत्तिवचनम्, जीवो जायत इति वचनम् नित्यतोक्त्या - ‘स ह्यनादिरनन्तश्च’ इति तन्नित्यत्ववचनेन । निरूढम् - प्रतीयमानादर्थान्तरपरतया अन्यथा नीतं हि । एवं व्योमोत्पत्तौ - वियदुत्पत्तिविषयेऽपि । वचसोः - तदुत्पत्तितन्नित्यत्वसमर्पकयोः ‘आत्मनः आकाशस्सम्भूतः’ ‘एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुः’ ‘वायुश्चान्तरिक्षञ्च एतदमृतम्’ इत्याकारयोर्द्वयोर्वचनयोः । व्याहतौ - अन्योन्यविरोधे सति । तथैव स्थितिरिति - पूर्वाधिकरणे यथा जीवनित्यत्ववचनानुगुण्येन तदुत्पत्तिवचनमान्यपर्यं नीतम्, तथैवाकाशनित्यत्ववचनानुगुण्येनैव तदुत्पत्तिवचनमन्यथा नेयमित्येवमेव वस्तुस्थितिर्युक्तेति । कश्चित् वक्ति - पूर्वाधिकरणवचनयोरेतदधिकरणवचनयोश्च वैषम्यानभिज्ञो वदतीत्यर्थः । सिद्धान्ती तु, व्योमसृष्टिः - आकाशोत्पत्तिः । निगमशतमिता - अनन्यथानेयानेकश्रुतिवचनसिद्धा । अस्याम् - व्योमसृष्टिश्रुतौ । अन्यथासिद्धिः - व्योमोत्पतिं विनाऽर्थान्तरेण सार्थकता । न - न भवति । वायुव्योमामृतोक्तिः - ‘वायुश्चान्तरिक्षञ्च’ इत्याकाशनित्यत्ववचनं तु । जनिविधिविहता - आकाशोत्पत्तिवचनैरनन्यथासिद्धैर्बाधिता । एकस्या एवामृतत्वोक्तेर्वायुविषये औपचारिकत्वस्यावश्यकत्वात् आकाशविषयेऽपि तस्यास्तथैवौपचारिकत्वं युक्तमित्यर्थः । इति - एवमाकारम् । उक्तिवैषम्यम् - आकाशोत्पत्त्यनुत्पत्तिवचनयोः जीवोत्पत्त्यनुत्पत्तिवचनापेक्षया स्फुटं वैलक्षण्यम् । आह - प्रतिपादितवानित्यर्थः ॥
कुमार-वरदः - 2
  1. अधिकरणसङ्गतिस्तु - श्रीपाञ्चरात्राधिकरणे जीवोत्पत्तिवादो जीवाभिमानिसङ्कर्षणादिपरत्वादौपचारिक इत्युक्तम्, तर्हि तेनैव न्यायेन वियदुत्पत्तिवादोऽप्यौपचारिक एव स्यादिति शङ्कयोत्थानमिति । तदर्थविचारस्तु - किं वियदुत्पद्यते नेति । किं ‘आत्मन आकाशस्संभूतः’ इत्याकाशस्योत्पत्तिं प्रतिपादयति नेति । किमत्र सम्भूतिशब्दो मुख्योत्पत्तिपर उत गौण इति । किमन्यत्र निरवयवस्यानुत्पत्तिदर्शनं निरवयवस्यास्य शब्दैकसमधिगम्यस्योत्पत्तियोग्यतामवगमयति नेति । अत्र पूर्वोत्तराधिकरणयोस्सङ्गतिप्रदर्शनपूर्वकं पूर्वपक्षवाद्यभिमतमनूद्य प्रतिक्षिपति - पूर्वत्रेति । अयमत्र शब्दार्थः - पूर्वस्मिन्नधिकरणे जीवोत्पत्तिवाक्यं पुरुषनित्यत्वप्रतिपादकवाक्येन बाधितमिति प्रसाधितम् । एवमाकाशोत्पत्तिविषयेऽपि वाक्ये नित्यत्वानित्यत्वप्रतिपादकवचसोर्विरोधे तथैव स्थितिरिति नित्यत्ववाक्येनानित्यत्वबाध इति कश्चिद्वदति । एवं पूर्वपक्षयुक्तौ सिद्धान्त्यभिमतमाह - सिद्धान्तीति । अयमर्थः - आकाशोत्पत्तिरनेकश्रुतिप्रतिपन्ना । न चास्यामन्यथासिद्धिरस्ति । अनन्यथासिद्धबहुश्रुतिप्रतिपन्नेऽर्थे जाग्रति एकोऽमुख्यो युक्त्याभासः परवादिकल्पितो जीवितुमेव नार्हतीति भवदुक्तं परित्यजामः । ‘वायुश्चान्तरिक्षञ्चैतदमृतम्’ इति श्रुत्यैवाकाशस्यामृतत्वमुक्तम्, तत्परित्यागे जीवामृतत्वोक्तेरपि परित्यागप्रसङ्ग इत्याशङ्क्य भाष्यकारोक्तवैषम्यं दर्शयति - वाय्वित्यादिना । इदं किलात्र वैषम्यम् - अनेकाः श्रुतयो ह्याकाशस्य जनिमुत्पत्तिं विदधति । एका श्रुतिरमृतत्वमनुवदति । अतो हेतोर्हि भग्ना । सा च वायुसहपाठादत्यन्तमवसीदति । वायोर्ह्यनित्यत्वं सर्वलोकसम्प्रतिपन्नम् । इह पुनर्जीवनित्यत्वमेव सर्ववेदसम्प्रतिपन्नम् । उत्पत्तिवादस्तु क्वाचित्क एव । स चान्यथासिद्धः । तेनान्यथासिद्धबहुश्रुत्यानुगुण्येनात्मनित्यत्वं युक्तम् । वैपरीत्यादयुक्तमाकाशनित्यमिति वैषम्यसिद्धिरिति ॥
मूलम् - 2
  1. पूर्वत्राधिक्रियायां पुरुषजनिवचो नित्यतोक्त्या निरूढं
    व्योमोत्पत्तौ तथैव स्थितिरिति वचसोर्व्याहतौ वक्ति कश्चित् ।
    सिद्धान्ती व्योमसृष्टिर्निगमशतमिता नान्यथा सिद्धिरस्यां
    वायुव्योमामृतोक्तिर्जनिविधिविहतेत्युक्तिवैषम्यमाह ॥२२१॥
विश्वास-प्रस्तुतिः - 3
  1. तेजः प्राथम्यदृष्टेरमृतवचनतोऽनंशकद्रव्यभावात्
    व्योमन्युत्पत्तिवाक् स्यादुपहितविषयैवात्मनीवेति चेन्न ।
    प्राथम्यस्याश्रुतत्वात् प्रथमपठनतः कल्पनेऽन्येन बाधात्
    किंचामर्त्योक्तितुल्यं त्वमृतपदमिहानेकवाक्यैककण्ठ्यात् ॥२२२॥
३४-तमाहोबिल-यतिः - 3
  1. तेजःप्राथम्येत्यादि । तेजःप्राथम्यदृष्टेः - छान्दोग्ये ‘तत्तेजोऽसृजत’ इति भूतसृष्टौ तेजसः प्रथमनिविष्टत्वदर्शनात् । आकाशसृष्ट्यवचनमिति तात्पर्यावसानम् । अमृतवचनतः - ‘वायुश्चान्तरिक्षञ्चैतदमृतम्’ इत्यमृतत्ववचनात् । अनंशकद्रव्यभावात् - निरवयवद्रव्यत्वादित्यर्थः । व्योमनि - आकाशविषये । उत्पत्तिवाक् - उत्पत्तिश्रुतिः । आत्मनीव - जीवात्मविषय इव । यथा भवद्भिः कुम्भकारो जायत इत्यादिरात्मोत्पत्तिवादो देहपरिग्रहविषय इत्यन्यथाक्रियते तद्वत् । उपहितविषयैव स्यात् - घटाद्युपाधिविशिष्टाकाशविषयैव भवेत् । अन्तत उपाधिविषयैव । इति चेन्न - उक्तं न युज्यते । प्राथम्यस्याश्रुतत्वात् - प्रथमं तेजोऽसृजतेति तेजस्सृष्टिप्राथम्यस्य श्रुतावश्रवणात् । प्रथमपठनतः कल्पने - भूतसृष्टौ प्रथमपाठेन तेजःप्राथम्यकल्पने । अन्येन बाधात् - बहुस्मृतीतिहासान्योयपबृंहितेन ‘आत्मन आकाशस्सम्भूतः’ इत्यादिना वाक्येन बाधादित्यर्थः । किञ्च - नित्यत्ववचनञ्चान्यथानयनार्हमित्यर्थः । अनेकवाक्यैककण्ठ्यात् - आकाशोत्पत्तिप्रतिपादकानेकवाक्यैककण्ठ्यस्य एकवाक्येन सम्पादनीयत्वात् । इह - आकाशविषये । अमृतपदन्तु अमर्त्योक्तितुल्यम् - चिरकालवर्तित्वमात्रप्रतिपादकामर्त्यादिपदसदृशम् । तथा चिरकालवर्तित्वमादाय सार्थक्यं भजताम्, न तेनैकेनान्यथासिद्धेनानन्यथासिद्धानेकवाक्यसिद्धा वियदुत्पत्तिरपोह्येति भावः ॥
कुमार-वरदः - 3
  1. अत्राकाशनित्यत्वप्रतिपादने पूर्वपक्षिपरिकल्पितानुक्तान्सुबहून् हेतूननूद्य शिष्यप्रतिबोधनार्थं व्यक्तमेव निराकरोति - तेजःप्राथम्येत्यादिना । अयमत्र पूर्वपक्ष्यभिप्रेतो हेतुसमुदायः - सद्विद्यायां हि ‘तत्तेजोऽसृजत’ इति प्रथममाकाशसृष्टिमनुक्त्वा तेजस्सृष्टिरेवोच्यते । तेनाकाशस्य सृष्ट्यवचनमाकाशनित्यत्वपरमित्येको हेतुः । ‘वायुश्चान्तरिक्षञ्चैतदमृतम्’ इत्यव्यवधानेनामृतत्ववचनादित्यपरः । अनंशकद्रव्यभावादिति तृतीयः । अतो व्योमन्युत्पत्तिवागुपहितविषयैव स्याद्, घटाकाशादिविषयैव स्यादित्यर्थः । तत्र प्रतिबन्दीमाह - आत्मनीवेति । यथा भवद्भिः कुम्भकारो जायते, रथकारो जायत इत्यादिरात्मोत्पत्तिवादो देहपरिग्रहविषय इत्यन्यथाक्रियते तद्वदिहापीति प्रतिबन्दी । अनूदितमेतत्प्रतिक्षिपति - नेति । यत्तु प्रथमं तेजस्सृष्ट्यभिधानदृष्टेरित्युक्तं तन्न । प्राथम्यस्याश्रुतत्वात् । नह्यत्र प्रथमं
    तेजस्सृज्यत इति प्रथमशब्दः श्रूयते । माभूत्प्राथम्यश्रवणम्, अथापि प्रथमपठनमात्रेण तत् कल्प्यत इत्याशङ्क्य प्रतिक्षिपति - प्रथमपठनत इति । अन्येन बाधात् - बहुस्मृतीतिहासपुराणन्यायोपबृंहितेन ‘आत्मन आकाशस्सम्भूतः’ इत्यादिना वाक्येन बाधादित्यर्थः । कल्पनं हि लैङ्गिकम् । ‘तस्माद्वा एतस्मादात्मनः’ इति पञ्चमीनिर्देशात् साक्षादेवाकाशस्य कार्यत्वं श्रुत्यैव प्रतीयत इत्यर्थः । संभूतशब्दोऽपि जननवाची । अमृतपदमवशिष्यते - तच्च चिरकालवर्तित्वमात्रप्रतिपादकामर्त्यादिपदवन्न नित्यत्वमुपपादयति । अत्र विनिगमने कारणमाह - अनेकवाक्यैककण्ठ्यादिति । ‘द्वैधे बहूनां वचनम्’ इति हि न्यायविदो निर्णयन्ति ॥
मूलम् - 3
  1. तेजः प्राथम्यदृष्टेरमृतवचनतोऽनंशकद्रव्यभावात्
    व्योमन्युत्पत्तिवाक् स्यादुपहितविषयैवात्मनीवेति चेन्न ।
    प्राथम्यस्याश्रुतत्वात् प्रथमपठनतः कल्पनेऽन्येन बाधात्
    किंचामर्त्योक्तितुल्यं त्वमृतपदमिहानेकवाक्यैककण्ठ्यात् ॥२२२॥
विश्वास-प्रस्तुतिः - 4
  1. यौ(यु)क्तस्सत्कार्यवादः श्रुतिभिरनुमतो नावयव्यस्ति सृज्यः
    तत्तद्द्रव्येषु नामान्तरभजनसहावस्थया सृष्टिवादः ।
    इष्टाश्शब्दाद्यवस्थास्तव निरवयवद्रव्यवर्गेऽपि तस्मात्
    व्योमन्युत्पत्तिरुक्ता श्रुतिषु तदितरोत्पत्तितुल्या न बाद्ध्या ॥२२३॥
३४-तमाहोबिल-यतिः - 4
  1. युक्त इत्यादि । सत्कार्यवादः - सत एव मृत्पिण्डादेः पृथुबुध्नोदराकारादिरूपावस्थाप्राप्त्या कार्यत्वप्रवादः । युक्तः - युक्तियुक्तः । श्रुतिभिः - ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’, ‘सदेव सोम्येदमग्र आसीत्’ इत्यादिभिश्श्रुतिभिः । अनुमतः - अङ्गीकृतः । सृज्यः - उत्पाद्यतया भवदभिमतः । अवयवी - अवयवातिरिक्तोऽवयवी च । नास्ति - न दृश्यते, अवयवादधिकावयविसद्भावे भाराधिक्यं दृश्येत, नच तथा दृश्यते । तत्तद्द्रव्येषु - विषये । सृष्टिवादः - उत्पत्तिप्रवादस्तु । नामान्तरभजनसहावस्थया - नामान्तरप्राप्तिक्षमा या पृथुबुध्नोदराकारादिरूपावस्था तया । उपपन्न इति शेषः । निरवयवद्रव्यवर्गे - निरवयवतयाभिमते आकाशात्मेश्वरपरमाणुरूपे द्रव्यवर्गे । शब्दाद्यवस्थाः - निश्शब्देऽप्याकाशे शब्दावस्था, ज्ञानादिगुणविधुरेऽपि जीवात्मनि तद्गुणयोगः, तथा तत्कार्ययोगादिविधुरेऽपीश्वरे संयोगादिः, नित्यानामेव परमाणूनां परस्परसंयोगः, पार्थिवपरमाणुषु पाकजगुणोत्पत्तिरित्याद्यवस्थाः । तवापि - निरवयवद्रव्यस्योत्पत्तिमनङ्गीकुर्वतस्तवापीत्यर्थः । इष्टाः - अभिमता एव । तस्मात् - अवस्थाया एवोत्पत्तिरूपत्वात् निरवयवद्रव्येष्वप्यवस्थाङ्गीकाराच्चेत्यर्थः । तदितरोत्पत्तितुल्या - प्राणमनस्सर्वेन्द्रियवायुज्योतिरप्पृथिव्याद्युत्पत्तितुल्या । तुल्यप्रमाणकेष्वर्धजरतीयन्यायो न युज्यत इत्यर्थः । व्योमनि - विषये । श्रुतिषु - बह्वीषु श्रुतिषु । उक्ता - प्रतिपन्ना । उत्पत्तिर्बाध्या न - भवतीति योजना ॥
कुमार-वरदः - 4
  1. वैशेषिकाः खलु ‘आकाशो नोत्पद्यते, निरवयवद्रव्यत्वात्’ इत्यनुमानं प्रयुञ्जते, तदसत्, व्यर्थविशेषणत्वात्, सर्वस्यापि हि द्रव्यस्य नित्यत्वेनैव प्रामाणिकत्वात् द्रव्यत्वमात्रं तु त्वत्पक्षेणानैकान्तिकम् । ननु घटाद्युत्पत्तिस्तर्हि कथमुच्यते? सत्कार्यवादादेवेति ब्रूमः । न पुनर्घटादिद्रव्यस्योत्पत्तिः सदेव हि मृत्पिण्डादिकं पृथुबुध्नोदराकारादिरूपं प्राप्य घटादिकमित्युच्यते । तच्च युक्तियुक्तमेव । असमवायिकारणावस्थापन्नद्रव्यविशेषमन्तरेण कार्यावस्थायामपि द्रव्यान्तरस्यानुपलम्भात् । अयं च पक्षः श्रुतिभिरप्यनुमतः । तेन निरवयवद्रव्यत्वादिति व्यर्थविशेषणमेव । तेन तेषुतेषु द्रव्येषु नामान्तरभजनार्हावस्थया सृष्टिवाद इति सुशोभनमेतत् । तदिदमाह - युक्त इत्यादिना । युक्तः - युक्तियुक्त इत्यर्थः । श्रुतिभिरनुमत इति - ‘सदेव सोम्येदमग्र आसीत्’ इति ह्युच्यते । ‘यथा सोम्यैकेन’ इति दृष्टान्तश्चास्मिन्नेव पक्षे सङ्घटते । एवं द्रव्योत्पत्तिवादमनङ्गीकृत्यावस्थान्तरोत्पत्त्या कार्यत्वमुपपादयिष्यन् सा पुनरवस्थान्तरोत्पत्तिः निरवयवद्रव्यवर्गेऽपि परवादिनापि न परित्याज्येत्याह - इष्टा इति । निश्शब्दे ह्याकाशे शब्दावस्थोत्पद्यते, एवं ज्ञानादिगुणविधुरेऽपि जीवे तद्गुणयोगः, तथा तत्कार्ययोगादिविधुरेऽपीश्वरादौ संयोगादिः, नित्यानामेव परमाणूनां परस्परसंयोगः, पार्थिवपरमाणुषु पाकजगुणोत्पत्तिः, इत्यादि स्वयमेव भाव्यम् । अयमत्र विशेषः - उपादानस्वरूपे नामान्तरभजनार्हावस्थान्तरापत्तौ कार्यत्वं वदन्ति । अन्यथाऽवस्थान्तरप्राप्तिरूपमिति । एवमुपपादितमर्थं वैशद्याय निगमयति - तस्मादिति । श्रुतिष्वाकाशाद्युत्पत्तिरुक्ता वायुवह्निजलपृथिव्युत्पत्तितुल्यत्वान्न बाध्येत्यर्थः । अयमर्थः - निरवयवत्वादुत्पत्तिनिराकरणे सिद्धसाधनम्, नामान्तरभजनार्हावस्थोत्पत्तिनिराकरणे लोकवेदयुक्त्युपलम्भविरोध इति ॥
मूलम् - 4
  1. यौ(यु)क्तस्सत्कार्यवादः श्रुतिभिरनुमतो नावयव्यस्ति सृज्यः
    तत्तद्द्रव्येषु नामान्तरभजनसहावस्थया सृष्टिवादः ।
    इष्टाश्शब्दाद्यवस्थास्तव निरवयवद्रव्यवर्गेऽपि तस्मात्
    व्योमन्युत्पत्तिरुक्ता श्रुतिषु तदितरोत्पत्तितुल्या न बाद्ध्या ॥२२३॥