19 उपोद्घातम्

विश्वास-प्रस्तुतिः - 1
  1. सर्वं साङ्ख्यास्तु नित्यं क्षणिकमखिलमप्यत्र वैभाषिकाद्याः
    नित्यानित्यं समस्तं जिनपरिपठितां सप्तभङ्गीं पठन्तः ।
    नित्यानित्ये विभज्याप्यभिदधति विपर्यस्य वैशेषिकाद्याः
    श्रुत्युत्थांस्तान् निरुन्धन् श्रुतिभिरथ वियत्प्राणपादौ युनक्ति ॥ २२० ॥
३४-तमाहोबिल-यतिः - 1
३४-तमाहोबिल-यतिः - 1
  1. अत्र चत्वारः पक्षाः प्रतिक्षेप्याः - सर्वनित्यत्ववादः सर्वानित्यत्ववादः सर्वनित्यानित्यत्वादो नित्यानित्यविपर्यस्तवादश्चेति । ताननूद्य वियत्प्राणपादाववतारयति - सर्वं साङ्ख्या इत्यादिना । अत्र - वृत्ते द्वितीयपादे । अस्य निरुन्धन्नित्यनेनान्वयः । साङ्ख्यास्तु सर्वं वस्तु नित्यमभिदधति । वैभाषिकाद्या अखिलमपि वस्तु क्षणिकं क्षणमात्रवर्ति क्षणान्तरविनाशीत्यर्थः । अत्राभिदधतीत्यस्यानुषङ्गः । जिनपरिपठितां सप्तभङ्गीं - स्यादस्तीत्यादिरूपां सप्तभङ्गीनीतिं पठन्तो जैनास्समस्तं वस्तु नित्यानित्यं नित्यञ्च तदनित्यञ्चेति । अभिदधतिपदं पूर्ववदनुषज्यम् । वैशेषिकाद्याः काणादप्रभृतयस्तु नित्यानित्ये वस्तुनी विभज्यापि विपर्यस्य व्यत्यस्य नित्यमनित्यत्वेन, अनित्यं नित्यत्वेन चेत्यर्थः । अभिदधति - वैशेषिकाः खलु नित्यं चैतन्यमनित्यमिति वदन्ति, तथा नित्यमीश्वरविग्रहादिकं प्रमाणसिद्धं न सहन्ते । तथा अनित्यमपि नित्यं वदन्ति, यथा घटघटत्वयोस्सम्बन्धं समवायात्मकमनित्यमपि नित्यमेव ब्रुवते । श्रुत्युत्थान् - श्रुत्यबलम्बनेन तत्प्रतिक्षेपायोत्थितान् । तान् - साङ्ख्यादीन् चतुरः प्रतिपक्षान् । श्रुतिभिः - श्रुत्यभिमतैस्सत्तर्कैरित्यर्थः । निरुन्धन् - निरोधाद्धेतोः, तेषां निरोधायेति यावत् । अथ - अनन्तरमेव । वियत्प्राणपादौ - ‘न वियदश्रुतेः’ इति पादं, ‘तथा प्राणाः’ इति पादञ्चेत्यर्थः । युनक्ति - विरचयतीत्यन्वयः । कार्यताप्रकारविशोधनेन स्वपक्षे तादृशदोषाभावप्रतिपादनार्थं वियत्प्राणपादद्वयमनन्तरं विरचितवानित्यर्थः ॥
३४-तमाहोबिल-यतिः - 1
कुमार-वरदः - 1
  1. अत्र पूर्वोत्तरपादसङ्गतिर्भाष्य एव सुव्यक्तमुच्यते - ‘साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम् । इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते’ इति । अत्र पूर्वपादद्वयस्योत्तरपादद्वयेन सङ्गतिरस्स्माभिः पूर्वमेवोक्ता - कारणद्वारकबाह्यविरोधपरिहारपरौ द्वौ पादौ, अपरौ पुनः कार्यद्वारकान्तरविरोधपरिहारपराविति । अतः परं कार्यविषयविरोधपरिहारपरयोः पादयोः परवाद्युक्तप्रक्रियां विभागेनानूद्य तत्प्रतिक्षेपरूपस्वपक्षमन्ते निगमयति - सर्वमिति । अत्र चत्वारः पक्षाः प्रतिक्षेप्याः । द्रव्यञ्चाद्रव्यं च सर्वं नित्यमिति साङ्ख्याः प्रतिवदन्ति । सर्वं क्षणिकमिति वैभाषिकाः । सर्वं नित्यानित्यमिति जिनपरिपठितां सप्तभङ्गीं पठन्तः प्राहुः । द्रव्यात्मना नित्यं पर्यायात्मनाऽनित्यमिति वदन्तोऽपि विपर्यस्य प्रवदन्ति । नित्यमेवानित्यमिति क्वचित् क्वचित्पुनरनित्यमपि नित्यमिति प्राहुः । वैशेषिकाः खलु नित्यमेव चैतन्यमनित्यमिति वदन्ति, तथा नित्यमेवेश्वरविग्रहादिकं प्रमाणसिद्धं न सहन्ते, एवमनित्यमपि नित्ययन्ति । यथाऽनित्ययोर्घटतद्धर्मयोस्सम्बन्धं समवायात्मकमनित्यमपि नित्यमेव ब्रुवते । एवं परपक्षाननूद्य श्रुत्यवलम्बनेनोत्थितांस्तान् श्रुतिभिरेव निरुन्धन् वियत्प्राणपादौ युनक्तीत्यन्वयः ॥
मूलम् - 1
  1. सर्वं साङ्ख्यास्तु नित्यं क्षणिकमखिलमप्यत्र वैभाषिकाद्याः
    नित्यानित्यं समस्तं जिनपरिपठितां सप्तभङ्गीं पठन्तः ।
    नित्यानित्ये विभज्याप्यभिदधति विपर्यस्य वैशेषिकाद्याः
    श्रुत्युत्थांस्तान् निरुन्धन् श्रुतिभिरथ वियत्प्राणपादौ युनक्ति ॥ २२० ॥