18 उत्पत्त्यसंभवाधिकरणम्

विश्वास-प्रस्तुतिः - 210
  1. प्रामाण्यं कर्मकाण्डस्मृतिनयवशतस्सात्त्वतस्यापि सिद्धं
    पादेऽस्मिन् संगतिश्च प्रतिमतदमने नास्त्यमुष्येति चेन्न ।
    प्रत्यर्थित्वं विरोधभ्रममपनयता पञ्चरात्रस्य वार्यं
    दुस्तर्काद्युत्थितोक्त्या तदितरसमयेष्वित्यनुस्यूतसिद्धिः ॥
३४-तमाहोबिल-यतिः - 210
  1. प्रामाण्यमित्यादि । कर्मकाण्डे – कर्मप्रतिपादकपूर्वमीमांसायाम् । स्मृतिनयवशतः – विध्यर्थवादस्मृत्याचारप्रामाण्यप्रतिपादकप्रथमाध्यायस्मृत्यधिकरण एव । सात्वतस्यापि – वेदोपबृंहणभूतस्य पञ्चरात्रस्यापि । प्रामाण्यं सिद्धम् – निश्चितमेव । अतः पञ्चरात्रस्य प्रामाण्यसमर्थनार्थमिदमधिकरणमिति न वाच्यमिति भावः । अमुष्य – श्रीपाञ्चरात्रस्य । प्रतिमतदमने – प्रतिमतानि निरीश्वरसाङ्ख्यादिशैवमतान्तानि वेदविरुद्धमतानि दम्यन्ते निरस्यन्तेऽस्मिन्निति प्रतिमतदमने वेदविरोधिमतनिरसनपरे । अस्मिन् पादे । सङ्गतिश्च नास्ति – अनुस्यूतिश्च नास्ति । इति चेन्न । पञ्चरात्रस्य विरोधभ्रमम् – वेदविरोध्यर्थप्रतिपादनभ्रान्तिम् । अपनयता – निराकुर्वता व्यासेन । प्रत्यर्थित्वम् – पञ्चरात्रस्य वेदप्रतिभटत्वम् । वार्यम् – निवारणीयम् । तदितरसमयेषु –साङ्ख्यादिशैवपर्यन्तेष्वितरमतेषु च । दुस्तर्काद्युत्थितोक्त्या – कुत्सितयुक्तिमूलत्वप्रतिपादनेन । प्रत्यर्थित्वम् – वेदप्रतिभटत्वमेव निवारणीम् । इति – एवं विधया । अुनुस्यूतिसिद्धिः – उभयत्राप्यर्थानुवृत्तिसिद्धिः । अयमर्थः – पञ्चरात्रस्य वेदप्रत्यर्थित्वमत्र वार्यते, पूर्वत्रापि साङ्ख्यादीनां तु कुत्सितयुक्तिमूलत्वेन दुर्बलत्वात् वेदप्रत्यर्थित्वं नास्ति, तथाचोभयत्रापि तन्त्राणां वेदप्रत्यर्थित्वनिराकरणस्याविशिष्टत्वात् उभयत्राप्यर्थानुवृत्तिरिति न कश्चिद्दोष इति । अयमत्र विशेषः – पूर्वत्र साङ्ख्यादिरूपवेदप्रत्यर्थितन्त्रवादी निरस्तः, अत्र पुनः श्रीपाञ्चरात्रस्य वेदप्रत्यर्थित्वमस्तीति वदन् दुर्वादी निरस्यत इति ॥
कुमार-वरदः - 210
  1. अत्र सङ्गतिर्भाष्ये सुव्यक्तमुक्ता ‘कपिलादितन्त्रसामान्यात् भगवदभिहितपरमनिश्श्रेयससाधनावबोधिनि पाञ्चरात्रतन्त्रेऽप्यप्रामाण्यमाशङ्क्य निराक्रियते’ इति । तदर्थविचारस्तु – पञ्चरात्रं किं साङ्ख्यादिवत्क्वचित्प्रमाणमुत कार्त्स्न्येन प्रमाणमिति । किमस्य क्वचित् श्रुतिविरोधोऽस्ति, उत क्वचिदपि नास्तीति । किमत्र जीवोत्पत्त्यादिकं विवक्षितमुत नेति । सङ्कर्षणादिशब्दाः किं जीवादिशब्दविशेषणतया निर्दिष्टा उत जीवादिशब्दाः सङ्कर्षणादिशब्दविशेषणतया निर्दिष्टा इति । तत्र श्रीपाञ्चरात्रप्रामाण्यस्थापने साध्यतया स्वीक्रियमाणे पादार्थानुवर्तनं न सिध्येत् । प्रतिमतदमनं हि पादार्थः । तेन श्रीपाञ्चरात्रस्याप्यस्मिन्नधिकरणे दमनं वर्णनीयमिति पूर्वपक्षोत्थानम् । तदिदमनुवदति – प्रामाण्यमित्यादिना । अयमर्थः – वेदप्रामाण्याद्वेदोपबृंहणभूतश्रीपञ्चरात्रप्रामाण्यमपि पूर्वकाण्डस्मृत्यधिकरण एव सिद्धम् । तेन तदत्र न वर्णनीयम् । अस्य च श्रीपञ्चरात्रप्रामाण्यसाधनस्य प्रतिमतदमनरूपेऽस्मिंस्तर्कपादे सङ्गतिरपि नास्ति, अर्थान्तरत्वादिति । इमामाशङ्कां निराकरोति – नेति । प्रतिमतदमनरूपस्यास्य पादस्यार्थैक्यं प्रकारान्तरेणोपपादयति – प्रत्यर्थित्वमिति । अयमर्थः – श्रीपञ्चरात्रस्य वेदानुकूलत्वात् वेदप्रत्यर्थित्वम् अत्र निवार्यते । पूर्वत्रापि साङ्ख्याधिकरणादौ तेषां तन्त्राणां वेदप्रत्यर्थित्वमेव निवार्यते । श्रीपञ्चरात्रस्य वेदानुकूलत्वात् वेदप्रत्यर्थित्वं नास्ति, साङ्ख्यादीनां कुत्सितयुक्तिमूलत्वेन दुर्बलत्वाद्वेदप्रत्यर्थित्वं नास्ति, तथाचोभयत्रापि तन्त्राणां वेदप्रत्यर्थित्वनिराकरणस्याविशिष्टत्वादुभयत्राप्यर्थानुवृत्तिरिति न कश्चिद्दोषः । अयमत्र शब्दान्वयः – पञ्चरात्रस्य वेदविरोधभ्रममपनयता सूत्रकारेण वेदप्रत्यर्थित्वं निवार्यमेतस्मिन्नधिकरणे । पूर्वेष्वधिकरणेषु साङ्ख्यादीनां दुस्तर्काद्युत्थितोक्त्या दुर्बलत्वेन वेदप्रत्यर्थित्वं निवार्यमिति सप्तस्वधिकरणेषु तर्कपादे वेदप्रत्यर्थित्वनिराकरणरूपानुस्यूतार्थसिद्धिरिति समञ्जसमेतत् । अयमत्र विशेषः – पूर्वत्र साङ्ख्यादिरूपवेदप्रत्यर्थितन्त्रवादी निरस्तः, अत्र पुनः श्रीपञ्चरात्रस्य वेदप्रत्यर्थित्वमस्तीति वदन् दुर्वादी निरस्यत इति ॥
मूलम् - 210
  1. प्रामाण्यं कर्मकाण्डस्मृतिनयवशतस्सात्त्वतस्यापि सिद्धं
    पादेऽस्मिन् संगतिश्च प्रतिमतदमने नास्त्यमुष्येति चेन्न ।
    प्रत्यर्थित्वं विरोधभ्रममपनयता पञ्चरात्रस्य वार्यं
    दुस्तर्काद्युत्थितोक्त्या तदितरसमयेष्वित्यनुस्यूतसिद्धिः ॥
विश्वास-प्रस्तुतिः - 211
  1. दृष्टाऽस्मिन्वेदनिन्देत्यनभिमतमृषेस्सात्त्वते वैदिकत्वं
    मैवं वैशद्यमूलस्तुतिपरवचने वेदवैरस्यहानेः ।
    संगृह्याम्नायसारं प्रणयति भगवांस्तद्धि भक्तानुकम्पी
    श्रौतस्मार्तादिवच्च व्यभजदिह विभुर्वैदिकं तान्त्रिकं च ॥
३४-तमाहोबिल-यतिः - 211
  1. दृष्टेत्यादि । अस्मिन् – पञ्चरात्रे । वेदनिन्दा – साङ्गेषु वेदेषु निष्ठामलभमानश्शाण्डिस्यः पञ्चरात्रशास्त्रमधीतवानित्यादौ वेदनिन्दा । दृष्टा, इति हेतोः । सात्वते – पञ्चरात्रे । वैदिकत्वम् –वेदानुकूलत्वम् । ऋषेः – व्यासस्य । अनभिमतम् । मैवम् – एवं मा शङ्कनीयम् । वैशद्यमूलस्तुतिपरवचने – वेदवत् प्रकृतिप्रत्ययव्यत्यासाद्यभावेन पञ्चरात्रे यद्वैशद्यं प्रतिपत्तृसौकर्यं तन्मूला या स्तुतिस्तत्परे पूर्वोक्तवचने । पूर्वोक्तवचनस्य वैशद्यमूलस्तुपरत्वादित्यर्थः । वेदवैरस्य हानेः – वेदनिन्दाप्रसक्त्यभावात् । भक्तानुकम्पी भगवान् । आम्नायसारम् – वेदार्थसारांशम् । संगृह्य – विशदतया प्रतिपाद्यमिति स्वीकृत्य । तत् – पञ्चरात्रम् । प्रणयति – विरचयति । इति पञ्चरात्र एव श्रूयते । हि हेतौ । अतो वेदसारार्थसंग्रहरूपस्य वेदनिन्दापरत्वकल्पनं जाड्यकृतमेवेत्यर्थः । विभुः – भगवान् । इह – पञ्चरात्रे । श्रौतस्मार्तादिवच्च – स्मार्तस्यापि कर्मणश्श्रौतत्वेऽपि श्रौतस्मार्तविभागो यथा दृश्यते तथेत्यर्थः । वैदिकं तान्त्रिकञ्च व्यभजत् – ‘वैदिकं तान्त्रिकञ्चैव’ इत्यादौ वैदिकतान्त्रिकतया विभागमकृत । द्वयोरपि वैदिकत्वे कथं विभाग इति चेत्, द्वयोरपि श्रौतत्वे कथं श्रौतस्मार्तविभागः । प्रत्यक्षश्रुतिमूलत्वानुमेयश्रुतिमूलत्वाभ्यामिति चेत् अत्रापि तथैव । यथाहुश्श्रीविष्णुचित्ताचार्याः – ‘वैदिकं तान्त्रिकञ्चेति विभागोऽयमुदीर्यते । वैदिकत्वे समानेऽपि श्रौतस्मार्तविभागवत् ॥’ इति ॥
कुमार-वरदः - 211
  1. अस्मिन्श्रीपाञ्चरात्राधिकरणे वेदविरोधः पञ्चरात्रे नास्तीति प्रतिपाद्यत इत्युक्तं भवता, तन्नोपपद्यते वेदविरोधस्य प्रत्यक्षदृष्टत्वात् अतो महर्षेर्व्यासस्य पञ्चरात्रस्य वैदिकत्वमनभिमतमित्याशङ्कते – दृष्टेति । दूषयति – मैवमिति । तदेव विवृणोति – वैशद्येति । अयमर्थः – वेदवाक्यं प्रकृतिप्रत्ययादिव्यत्यासबाहुल्यादविशदार्थमेव, पञ्चरात्रं तु पुराणादिन्यायेन तादृशव्यत्यासाभावाद्विशदार्थम् । तेन साङ्गेषु वेदेषु निष्ठामलभमानश्शाण्डिल्यः पञ्चरात्रशास्त्रमधीतवानित्युच्यते । नैतावता वेदनिन्दाप्रसङ्गः । पदार्थस्तु – पञ्चरात्रेषु – वैशद्यहेतुकप्रशंसावचने वेदवैरस्य प्रसङ्गाभावादिति । तदेव पुनः प्रकटयति – संगृह्येति । तस्मात् तस्मिन्नेव हि पञ्चरात्रतन्त्रे वेदसारं संगृह्य भक्तानुकम्पी भगवान् विशदमेव प्रकाशयतीति तत्र तत्र श्रूयते, अतो न विरोधप्रसङ्ग इति । तत् – पञ्चरात्रतन्त्रमित्यर्थः । तर्हि पञ्चरात्रस्य वैदिकत्वे सिद्धे, वैदिकं तान्त्रिकमिति वैदिकतान्त्रिकयोर्विभागकथनं कथं युज्यत इत्याशङ्क्य प्रतिबन्द्या परिहरति – श्रौतेति ।
    यथा स्मार्तस्य श्रौतत्वे सत्यपि श्रौतस्मार्तविभागो लोके परिपठ्यते, एवं तान्त्रिकस्यापि वैदिकत्वे सत्यपि वेदिकतान्त्रिकव्यवहारो युज्यत इत्यर्थः । कथं तर्हि विभागः? – इत्थम् । प्रत्यक्षश्रुतिमूलत्वे श्रौतत्व,मनुमितश्रुतिमूलत्वे स्मार्तत्वमिति यथा विभागः, तथा प्रत्यक्षवेदमूलत्वे वैदिकत्वं पञ्चरात्रानुमितश्रुतिमूलत्वे तान्त्रिकत्वमिति न कोऽपि विरोधः । उक्तं च श्रीविष्णुचित्तार्यैः –
    ‘‘वैदिकं तान्त्रिकं चेति विभागोऽयमुदीर्यते । वैदिकत्वे समानेऽपि श्रौतस्मार्तविभागवत् ॥’’ इति ॥
मूलम् - 211
  1. दृष्टाऽस्मिन्वेदनिन्देत्यनभिमतमृषेस्सात्त्वते वैदिकत्वं
    मैवं वैशद्यमूलस्तुतिपरवचने वेदवैरस्यहानेः ।
    संगृह्याम्नायसारं प्रणयति भगवांस्तद्धि भक्तानुकम्पी
    श्रौतस्मार्तादिवच्च व्यभजदिह विभुर्वैदिकं तान्त्रिकं च ॥
विश्वास-प्रस्तुतिः - 212
  1. वेदानां मानतोक्तेस्तदनुसरणतस्स्वस्य तन्मूलतोक्त्या
    व्यावृत्तिर्भाति बाह्यागमत इति न तत्तुल्यभावोक्तिरार्षी ।
    का हानिः क्षुद्रविद्याशबलमिति यथा तादृशे वेदभागे
    मोक्षस्य प्रत्ययार्थं त्वगणिषत परं सात्त्वते सिद्धिभेदाः ॥
३४-तमाहोबिल-यतिः - 212
  1. वेदानामित्यादि । वेदानां मानतोक्तेः – पञ्चरात्रशास्त्र एव वेदानां प्रमाणत्वेनोपन्यासात् । तदनुसरणतः – वेदानुसरणात् । वेदोक्तार्थानां प्रतिपादनादिति यावत् । अनुसरणशब्दस्वारस्येन वेदोक्तानां तत्त्वानां तदुक्तक्रमेणैव कथनं गम्यते । स्वस्य – पञ्चरात्रस्य । तन्मूलतोक्त्या – वेदा एव मूलमिति पञ्चरात्र एव दर्शनात् । बाह्यागमतः – पाशुपतादितन्त्रात् । व्यावृत्तिः – पञ्चरात्रस्य विशेषो भाति । इति – हेतोः । तत्तुल्यभावोक्तिः – बाह्यागमतुल्यत्वेन कथनम् । आर्षी न – ऋषेर्व्यासस्याभिमता न भवति । क्षुद्रविद्याशबलमिति – पञ्चरात्रं वश्याकर्षणमोहनस्तम्भनादिक्षुद्रविद्याभिर्मिश्रमिति हेतोः । का हानिः – का त्यागकथा । तादृशे वेदभागे – अभिचारादिकर्मप्रतिपादके वेदभागे । यथा – यथाधिकारं यथा परिग्रहः तथात्रापीति भावः । परम् – अत्यन्तम् । मोक्षस्य प्रत्ययार्थन्तु – मोक्षशास्त्रे फलसिद्धिविश्वासजननार्थमेव । यद्वा मोक्षप्रतिकोटिक्षुद्रफलप्रदर्शनादल्पास्थिरत्वादितदीयदोषदर्शनेन तेष्वरुचिवर्धनार्थं तद्विलक्षणे मोक्षे रुचिवर्धनार्थम् । सिद्धिभेदाः – ऐहिकफलसिद्धिप्रकाराः । सात्वते – सत् – सत्त्वं, गुणप्रधानत्वात्, तद्वान् परमपुरुषस्सत्वान्, तेन प्रोक्तं शास्त्रं सात्वतं, तस्मिन्पञ्चरात्र इत्यर्थः । अगणिषत – प्रत्यपाद्यन्त । गणयतेः कर्मणि लुङि प्रयोगः । वेदेऽपि दृष्टफलेषु कारीर्यादिषु विश्वासादेव ह्यदृष्टफलेषु ज्योतिष्टोमादिषु विश्वासो जायते, एवमत्रापि मोक्षशास्त्रेऽपि फलसिद्धिविश्वासार्थं दृष्टफलक्षुद्रविद्योपदेशे इति भावः ॥
कुमार-वरदः - 212
  1. ननु ‘पञ्चरात्रं पाशुपतम्’ इति सहपाठो दृश्यते, तत्कथं पञ्चरात्रस्य वैषम्यमुच्यत इत्याशङ्क्याह – वेदानामिति । अयमर्थः – स्फुटदृष्टस्य वैषम्यस्यापलपितुमशक्यत्वादिति । वैषम्यमेव विभज्य दर्शयति – वेदानां मानतोक्तेस्तस्मिन्नेव पञ्चरात्रे वेदप्रामाण्यप्रतिपादनात् । तदनुसरणतः – वेदानुसारात् । स्वस्य तन्मूलतोक्त्या – पञ्चरात्रस्य वेदा एव मूलमिति पञ्चरात्र एव कथनात् । बाह्यागमतः पाशुपतादेः पञ्चरात्रस्य व्यावृत्तिर्विशेषो भातीति तत्तुल्यत्वकथनं बाह्यागमतुल्यत्वकथनमार्षमेव न भवति महर्षेर्व्यासस्याभिमतमेव न भवतीत्यर्थः । तेन पञ्चेतराणि शास्त्राणि रात्रीयन्त इति पञ्चरात्रशब्दनिर्वचनं योयुज्यत इत्युक्तं भवति । तर्हि वश्याकर्षणस्तम्भनमोहनादिक्षुद्रविद्याशबलात् पञ्चरात्रं परित्याज्यमिति चेत् तत्र वेदप्रतिबन्दीं वदिष्यन्नाह – का हानिरिति । क्षुद्रविद्याशबलमिति का हानिरित्यन्वयः । प्रतिबन्दीमेव दर्शयति – यथेति । अभिचारादिकर्मप्रतिपादकवेदभागे यथाऽधिकारं यथा परिग्रहस्तद्वदत्रापीत्यर्थः । तर्हि मोक्षविरोधात्सिद्धिभेदाः किमर्थं कथ्यन्त इत्याशङ्क्य परिहरति – मोक्षस्येति । वेदेषु दृष्टफलेषु कारीर्यादिषु विश्वासादेव ह्यदृष्टफलेषु ज्योतिष्टोमादिषु विश्वासो जायते । एवमत्रापि मोक्षशास्त्रे फलसिद्धिविश्वासार्थं दृष्टफलक्षुद्रविद्योपदेश इति न कोऽपि विरोध इति । सिद्धभेदोऽगणिषतेति कर्मणि लुङ्प्रयोगः । सत् सत्त्वं गुणप्रधानत्वात् तद्वान् परमपुरुषस्सत्वान्, तेन प्रोक्तं शास्त्रं सात्वतमिति ॥
मूलम् - 212
  1. वेदानां मानतोक्तेस्तदनुसरणतस्स्वस्य तन्मूलतोक्त्या
    व्यावृत्तिर्भाति बाह्यागमत इति न तत्तुल्यभावोक्तिरार्षी ।
    का हानिः क्षुद्रविद्याशबलमिति यथा तादृशे वेदभागे
    मोक्षस्य प्रत्ययार्थं त्वगणिषत परं सात्त्वते सिद्धिभेदाः ॥
विश्वास-प्रस्तुतिः - 213
  1. जीवस्योपत्तिमाह प्रथयति च मनो जीवतत्त्वप्रसूतं
    तच्चाहंकारहेतुं व्यपदिशति ततः पञ्चरात्रं न मानम् ।
    मैवं जीवादिवाचो ह्यभिदधति विभोर्व्यूहभेदानिहात-
    स्यात्तत्तत्त्वाभिमानान्नियतिमधिगता तेषु तत्तत्समाख्या ॥
३४-तमाहोबिल-यतिः - 213
  1. जीवस्येत्यादि । जीवस्योत्पत्तिमाह – वासुदेवात् सङ्कर्षणो नाम जीवो जायत इति पञ्चरात्रं जीवस्योत्पत्तिमाह । मनो जीवतत्त्वप्रसूतञ्च प्रथयति – संकर्षणात् प्रद्युम्नसंज्ञं मनो जायत इति तदेव पञ्चरात्रं मनस्सङ्कर्षणसंज्ञकजीवतत्त्वादुत्पन्नं प्रतिपादयति । तच्च – मनश्च । अहङ्कारहेतुं व्यपदिशति – तस्मादनिरुद्धाख्योऽहङ्कारो जायत इति तदेव पञ्चरात्रं मनः अनिरुद्धाख्याहङ्कारकारणत्वेन व्यपदिशति । इदं त्रयमपि वेदविरुद्धम् – जीवस्य ‘नित्यो नित्यानाम्’ इति वेदे नित्यत्वप्रतिपादनात्, मनस आहङ्कारिकत्वेन, अहङ्कारस्य महत्तत्वकार्यत्वेन च प्रतिपादनाच्च । ततः – वेदविरुद्धार्थप्रतिपादनात् । पञ्चरात्रं न मानम् – न प्रमाणमिति । मैवम् । हि – यस्मात् कारणात् । इह – पञ्चरात्रे । जीवादिवाचः – जीवमनोऽहङ्कारशब्दाः । विभोः – भगवतः । त्रीन् व्यूहभेदानभिदधति –सङ्कर्षणप्रद्युम्नानिरुद्धनामकान् त्रीन् भगवद्व्यूहानेव कथयन्ति । तेषाञ्च जननं प्रादुर्भाव एवेति न क्वचिद्विरोधः । कथमन्यत्र प्रसिद्धानां जीवादिशब्दानां सङ्कर्षणादिवाचकत्वमित्यत्राह – तत्तदिति । तत्तत्तत्त्वाभिमानात् – सङ्कर्षणप्रद्युम्नानिरुद्धानां जीवमनोहङ्कारतत्त्वाभिमाननियमात् । तेषु – सङ्कर्षणप्रद्युम्ननिरुद्धेषु । तत्तत्समाख्या – जीवमनोऽहङ्कारसंज्ञा । नियतिम् – तेष्वेव प्रयोगनैयत्यम् । अधिगता – लब्धवती ।अभिमेयवाचकानामभिमानिवाचकत्वं नियतमन्यत्र प्रसिद्धं हीति भावः ॥
कुमार-वरदः - 213
  1. अस्मिन्नधिकरणे चत्वारि सूत्राणि, तत्र द्वयं पूर्वपक्षप्रतिपादकमितरत् द्वयं सिद्धान्तप्रतिपादकमिति विभागः । तत्सूत्रानुरोधेन पूर्वपक्षमाह – जीवस्येति । ‘वासुदेवात्सङ्कर्षणो नाम जीवो जायते’ इति पञ्चरात्रतन्त्रं जीवस्योत्पत्तिमाह । तद्वेदविरुद्धं जीवनित्यत्वस्यैव ‘नित्यो नित्यानाम्’
    इति वेदप्रतिपाद्यत्वात् । ‘सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते’ इति तदेव पञ्चरात्रं मनसस्सङ्कर्षणादुत्पत्तिमाह । तच्च वेदविरुद्धमिन्द्रियाणामाहङ्कारिकत्वात् । तच्चाहङ्कारहेतुं व्यपदिशति – तच्च मनः ‘तस्मादनिरुद्धाख्योऽहङ्कारो जायते’ इत्यहङ्कारहेतुं व्यपदिशति पञ्चरात्रम् । तदपि वेदविरुद्धमहङ्कारस्य महत्तत्त्वकार्यत्वात् । ततः पञ्चरात्रं न मानमिति पूर्वपक्षः । तमिमं निराकरोति – मैवमिति । तत्प्रकारं विशदयति – जीवादीति । अत्रहि जीवमनोऽहङ्कारशब्दा जीवमनोऽहङ्काराभिमानिरूपान् संकर्षणप्रद्युम्नानिरुद्धानामकांस्त्रीन् भगवद्व्यूहभेदानेव कथयन्ति तेषां तु जननं प्रादुर्भाव एवेति न क्वचिद्विरोधः । तर्हि जीवादिशब्दैस्संकर्षणादीनामपि व्यत्ययेनाभिधानमपि किं न स्यादित्याशङ्क्य परिहरति – तत्तदिति । अयमर्थः – संकर्षणो जीवमेवाभिमनुते प्रद्युम्नो मनस्तत्त्वमनिरुद्धोऽहङ्कारमेव तेनाभिमाननियमाज्जीवादिव्यवहारनियम इति सुसङ्गतम् । नियतिमिति – संकर्षण एव जीवशब्दस्य नियतिः प्रद्युम्न एव मनश्शब्दस्य अनिरुद्ध एवाहङ्कारशब्दस्येति प्रतिनियम इति ॥
मूलम् - 213
  1. जीवस्योपत्तिमाह प्रथयति च मनो जीवतत्त्वप्रसूतं
    तच्चाहंकारहेतुं व्यपदिशति ततः पञ्चरात्रं न मानम् ।
    मैवं जीवादिवाचो ह्यभिदधति विभोर्व्यूहभेदानिहात-
    स्यात्तत्तत्त्वाभिमानान्नियतिमधिगता तेषु तत्तत्समाख्या ॥
विश्वास-प्रस्तुतिः - 214
  1. जीवोऽत्रानाद्यनन्तः कथित इति तदुत्पत्तिपक्षो न हीष्ट-
    श्शब्दस्संकर्षणादिर्न कथमपि समन्वेति जीवादिमात्रे ।
    श्रौतस्सृष्टिक्रमश्च स्वयमनुपठितस्तद्विरुद्धं न कल्प्यं
    तस्माच्छ्रुत्या मिथो वा न विहतिरिह तत्तन्त्रतात्पर्यदृष्टेः ॥
३४-तमाहोबिल-यतिः - 214
  1. जीवोऽत्रेत्यादि । अत्र – पञ्चरात्रे । जीवः, अनाद्यनन्तः – न विद्यते आदिर्यस्येत्यनादिः उत्पत्तिशून्यः, न विद्यतेऽन्तो यस्येत्यनन्तो नाशशून्यः, अनादिश्चासावनन्तश्चानाद्यनन्तः । कथितः – प्रतिपादितः । इति – हेतोः । तदुत्पत्तिपक्षः – जीवोत्पत्तिपक्षः । नेष्टो हि – नाभिमत इति स्फुटमेव हि । जीवादिशब्दानां जीवाद्यभिमानपरत्वमनाश्रित्य जीवपरत्वकल्पनपक्षे, सङ्कर्षणादिश्शब्दः – सङ्कर्षणप्रद्युम्नानिरुद्धशब्दा इत्यर्थः । कथमपि – केनचित्प्रकारेणापि । जीवादिमात्रे – केवलजीवमनोऽहङ्कारेषु । न समन्वेति – नान्वेतुमर्हति । सङ्क्रर्षणादिशब्दानां जीवमनोऽहङ्कारेषु कथञ्चिदपि समन्वयानार्हत्वात् तथाविशेषणे प्रयोजनाभावात्, अभिमानादिगत्यन्तरकल्पनासम्भवात् जीवानादित्ववादेन प्राकरणिकेन विरोधाच्चेति भावः । श्रौतः – श्रुतिप्रसिद्धः । सृष्टिक्रमश्च – प्रकृतिमहदहङ्कारादिसृष्टिक्रमश्च । स्वयमनुपठितः – पञ्चरात्रानुपठितः । तद्विरुद्धम् – तस्य तत्त्वक्रमस्य विरुद्धमर्थतत्त्वम् । न कल्प्यम् – वासुदेवात्सङ्कर्षणो नाम जीवो जायत इत्यस्मिन्वाक्ये न कल्प्यमित्यर्थः ।तस्मात् – उक्तक्रमेणाविरुद्धार्थपरत्वस्थापनात् । इह – पञ्चरात्रे । श्रुत्या, मिथो वा – समानजातीयतन्त्रान्तरैर्वा । न विहतिः – न विरोधः । तत्र हेतुमाह – तत्तन्त्रतात्पर्यदृष्टेरिति । उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गनिरूपणेन तन्त्रेषु पञ्चरात्रेषु तात्पर्यस्य सम्यगदर्शनादित्यर्थः ॥
कुमार-वरदः - 214
  1. पूर्वत्र जीवोत्पत्तिवादमवष्टभ्य पूर्वपक्षिणा वेदविरोधः उक्तः, तन्नोपपद्यते, जीवनित्यत्वस्य पञ्चरात्रे प्रतिपादितत्वादित्याह – जीव इति । अयमर्थः – ‘अचेतना परार्था च’ इत्यारभ्य श्रीपाञ्चरात्रन्तन्त्र एव ‘व्याप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च’ इति सर्वतः प्रकृतिपुरुषयोस्सम्बन्धमुक्त्वा ‘स ह्यनादिरनन्तश्च’ इति जीवस्यानादित्वमनन्तत्वञ्च साक्षादेव कथितम् । तेन तदुत्पत्तिपक्षो नहीष्टः जीवोत्पत्तिपक्षः पञ्चरात्रे नैवेष्टः । यदि जीवोत्पत्तिरुच्यते तदा सङ्कर्षणो नाम जीवो जायत इत्यन्वयो वक्तव्यः, स च नोपपद्यते जीवस्य सङ्कर्षणत्वाभावात् । एवं मनप्रभृतिशब्दान्वयोऽपि न घटत इति वक्तुमत्रादिशब्दः प्रयुज्यते । अस्मत्पक्षे जीवादिशब्दस्सङ्कर्षणादीनां जीवाद्यभिमानित्वाद्वक्तुं शक्यते । तथाऽपि युष्मत्पक्ष एव स्वीकार्य इत्यस्मिन्नर्थे किं नियामकमित्यत्राह – श्रौत इति । श्रुतिसिद्धः प्रकृतिमहदङ्कारादितत्त्वमेव सर्वत्र पञ्चरात्रतन्त्रेऽप्यनुवर्तते, तेन श्रुतिसिद्धस्य पाञ्चरात्रतन्त्रानुष्ठितस्य तत्त्वक्रमस्य विरुद्धमर्थतत्त्वमत्र वाक्ये ‘वासुदेवात्सङ्कर्षणो नाम जीवो जायते’ इत्यादौ नैव कल्प्यमित्यर्थः । एवं श्रुतिविरोधाभावमुपपादितं निगमयति – तस्मादिति । यत्र क्वापि तन्त्रे
    जीवोत्पत्त्यादिप्रसङ्गो नास्ति । तस्मात्पञ्चरात्रतन्त्रे श्रुतिविरोधस्समानजातीयतन्त्रान्तरविरोधोऽपीह क्वापि नास्तीति सार्वत्रिकमेव प्रामाण्यमिति निगमनाभिप्रायः । तत्र हेतुमाह – तत्तन्त्रेति । उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गनिरूपणेन तत्तन्त्रेषु श्रीपाञ्चरात्रतन्त्रेषु तात्पर्यस्य सम्यग्दर्शनादित्यर्थः ॥
मूलम् - 214
  1. जीवोऽत्रानाद्यनन्तः कथित इति तदुत्पत्तिपक्षो न हीष्ट-
    श्शब्दस्संकर्षणादिर्न कथमपि समन्वेति जीवादिमात्रे ।
    श्रौतस्सृष्टिक्रमश्च स्वयमनुपठितस्तद्विरुद्धं न कल्प्यं
    तस्माच्छ्रुत्या मिथो वा न विहतिरिह तत्तन्त्रतात्पर्यदृष्टेः ॥
विश्वास-प्रस्तुतिः - 215
  1. सांख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममैच्छन्न तत्त्वं
    तत्त्वाचारौ तु बुद्धक्षपणकपशुपत्युक्तिषु श्रुत्यपेतौ ।
    वेदोपस्कारिविष्णुस्मृतिवदवितथे पञ्चरात्राख्यतन्त्रे
    तत्त्वं त्रय्यन्यसिद्धं चरणमपि समं गृह्यभेदादिनीत्या ॥
३४-तमाहोबिल-यतिः - 215
  1. सांख्या इत्यादि । सांख्याः – कापिलतन्त्रनिष्ठाः । वैशेषिकाश्च – विशेषाख्यातिरिक्तपदार्थवादिनो नैयायिकाश्च । श्रुतिपरिपठितं धर्ममैच्छन् – श्रुत्युक्तमाचारमङ्गीचक्रुः । श्रुतिपरिपठितं तत्त्वं तु नैच्छन् – नाङ्गीचक्रुः । बुद्धक्षपणकपशुपत्युक्तिषु तु – बुद्धजिनपशुपतितन्त्रेषु तु । तत्त्वाचारौ – तत्त्वाचारौ द्वावपि । श्रुत्यपेतौ – श्रुत्युक्तौ न । श्रुतिविरुद्धावित्यर्थः । वेदोपस्कारिविष्णुस्मृतिवत् – वेदोपस्कारिविष्णुस्मृतितुल्यतया वेदोपस्कारिणि । पञ्चरात्राख्यतन्त्रे – पञ्चरात्रतन्त्रे प्रतिपन्नम् । अवितथम् – परमार्थभूतम् । तत्त्वम् – चिदचिदीश्वरूपतत्त्वत्रयम् । चरणमपि – धर्माचरणमपि । गृह्यभेदादिनीत्या – श्रुतिमूलत्वे समानेऽपि बोधायनास्पस्तम्बादिगृह्यभेदोक्तकिञ्चित्परस्पराधिकन्यूनभावभिन्नगर्भाधानादिकर्मपरिग्रहन्यायेन, एकायनश्रुतिमूलपञ्चरात्रसिद्धत्वेनाचारभेदोऽपि स्वीकार्य इति हेतोः । समम् – तत्त्वमाचरणं द्वयमपि तुल्यतया । त्रय्यन्तसिद्धम् – वेदवेदान्तसम्मतमेवेत्यर्थः ॥
कुमार-वरदः - 215
  1. उक्तेष्वष्टस्वधिकरणेषु परस्परवैषम्यमाह – साङ्ख्या इत्यादिना । साङ्ख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममङ्गीचक्रुर्न पुनश्श्रुतिपरिपठितं तत्त्वमित्येकः प्रकारः । प्रकारान्तरमप्युच्यते – तत्त्वाचाराविति । बौद्धाः क्षपणकाः पाशुपताश्च श्रुतिपरिपठितं तत्त्वाचारञ्चान्यथाचक्रुः । अतस्तत्पक्षेषु तत्त्वाचारावुभावपि श्रुतिविरुद्धौ । श्रीमत्पञ्चरात्रतन्त्रे वेदोपस्कारके तदुभयमपि नास्तीत्याह – वेदोपस्कारीति । यथा वेदोपस्कारिरूपे श्रीविष्णुस्मृतौ, तद्वद्वेदोपस्कारके श्रीपञ्चरात्रतन्त्रेऽप्यवितथं तावत् त्रय्यन्तसिद्धं तत्त्वमेवेति सर्वसम्मतम् । आचारोऽपि तथैव त्रय्यन्तसिद्ध एव । तदिदमाह – चरणमपि सममिति । ननु पञ्चरात्रतन्त्रे क्वचिच्चरणभेदो दृश्यते तत् कथमित्याशङ्क्य परिहरति – गृह्यभेदादिनीत्येति । यथाश्वलायनापस्तम्बादिगृह्यभेदात् श्रुतिमूलत्वे समानेऽपि क्वचिदाचारभेदः परिगृह्यते, एवमेकायनश्रुतिमूलपञ्चरात्रतन्त्रनिष्ठानुष्ठानभेदोऽपि श्रुतिमूलत्वादेव प्रामाणिकत्वेन स्वीकार्य इति न क्वापि पञ्चरात्रतन्त्रे श्रुतिविरोधो वा श्रुतिमूलत्वाभावो वेति पञ्चरात्रश्रुत्योरैकरस्यमेवेत्यर्थः ॥
मूलम् - 215
  1. सांख्या वैशेषिकाश्च श्रुतिपरिपठितं धर्ममैच्छन्न तत्त्वं
    तत्त्वाचारौ तु बुद्धक्षपणकपशुपत्युक्तिषु श्रुत्यपेतौ ।
    वेदोपस्कारिविष्णुस्मृतिवदवितथे पञ्चरात्राख्यतन्त्रे
    तत्त्वं त्रय्यन्यसिद्धं चरणमपि समं गृह्यभेदादिनीत्या ॥
विश्वास-प्रस्तुतिः - 216
  1. स्मर्यन्ते पञ्चयज्ञा मुनिभिरपि नमस्कारमन्त्रेण शूद्रे
    तत्राधीतं हविष्कृत्प्रभृतिपदमिहाप्यंशतोऽस्याधिकारः ।
    योज्या दक्षोक्तकालक्रमगतिरभिगत्यादिभेदे तदुक्ते
    ग्राह्या पश्विष्टिसोमप्रभृतिवदखिलं युक्तितस्सङ्कलय्य ॥
३४-तमाहोबिल-यतिः - 216
  1. ननु ‘शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च’ इति पाञ्चरात्रिककर्मानुष्ठाने शूद्रस्याधिकार उच्यते, वैदिके तु न शूद्रस्याधिकारः, अतः कथं वेदाविरोधः पञ्चरात्रस्येत्याह – स्मर्यन्त इत्यादि । मुनिभिरपि – याज्ञवल्यक्यादिमहर्षिभिरपि । शूद्रे नमस्कारमन्त्रेण – देवेभ्यो नमः पितृभ्यो नम इत्यादिरीत्या नमोऽन्ततत्तन्मन्त्रेण । पञ्चयज्ञाः – महायज्ञाः । कार्या इति शेषः । स्मर्यन्ते – ‘नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्’ इति वचनेन प्रतिपाद्यन्ते । तत्र – शूद्रविषये । हविष्कृत्प्रभृतिपदम् – हविष्कृत्पदं बहुयाजिपदञ्चेत्यर्थः । अधीतम् – पठितम् । ‘हविष्कृतादाधावेति शूद्रस्य’ इति हविष्कृत्प्रेषपरे श्रौतसूत्रे शूद्रविषये हविष्कृत्पदं प्रयुक्तम् । तथा सामगानां गृह्यसूत्रे श्रोत्रियागारादग्निग्रहणप्रकरणे ‘बहुयाजिनोऽगाराच्छूद्रवर्जम्’ इति सूत्रवाक्ये शूद्रस्य बहुयाजित्वाभावे शूद्रवर्जमित्यप्रसक्तप्रतिषेधापत्त्या शूद्रेऽपि बहुयाजित्वमकामेनापि स्वीकार्यमिति बहुयाजिपदं शूद्रविषये पठितम् । केषुचित् वैदिकेषु कर्मसु शूद्रस्याधिकारोऽस्तीति स्वीक्रियत इति चेत् इहापि – पञ्चरात्रोक्तकर्मजातविषयेऽपि । अस्य – शूद्रस्य । अंशतः – स्ववर्णानुरूपकर्मानुष्ठानांश एव । अधिकारः – योग्यतास्ति । नतु ब्राह्मणादियोग्यकर्मस्वपि शूद्रस्याधिकारोऽस्तीत्युक्तवचनेनोच्यत इति भावः )। दक्षोक्तकालक्रमगतिः – दक्षेण । ‘दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते । द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा । षष्ठे च सप्तमे चैवमष्टमे च पृथक्पृथक् । भागेष्वेतेषु यत्कृत्यं तत्प्रवक्ष्याम्यशेषतः ॥’ इत्यादिवचनेन उक्ता कालानामष्टधा विभक्तानामेकैकदिवसभागभूतानां कालावयवानां क्रमगतिः –पूर्वकालिककर्मानुष्ठानानन्तरमुत्तरकालिककर्मानुष्ठानमित्येवं क्रमेणानुस्यूतिरपि । तदुक्ते – पञ्चरात्रोक्ते । अभिगत्यादिभेदे – अभिगमनोपादानेज्यास्वाध्याययोगाख्यप्रतिनियतकृत्यभेदयुक्तदिवसभागविशेषे । योज्या – दक्षोक्ताष्टविधकालकृत्यानामेव पञ्चकालकृत्यत्वात् कालविभागभेदमात्रस्याकिञ्चित्करत्वात् ऐकरस्येनैव योजनीया । पञ्चरात्रोक्तानां स्मृत्युक्तानाञ्च कर्मणां परस्परं भेदे तु द्विविधानामपि तुल्यप्रमाणकत्वेनानुष्ठेयत्वात्, अखिलम् – स्मृत्युक्तं पञ्चरात्रोक्तञ्चाखिलं कर्म । पश्विष्टिसोमप्रभृतिवत् – ‘अग्नीषोमीयं पशुमालभेत’ ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ ‘सोमेन यजेत’ इत्यादिवचनविहितपशुद्रव्यकपुरोडाशद्रव्यकसोमरसद्रव्यकयागवत् । प्रभृतिशब्देन दर्वीहोम उच्यते । युक्तितः – युक्त्या – तत्तदुचितकालक्रमयोगादिचिन्तनेन । सङ्कलय्य – एकीकृत्य । ग्राह्यम् – कर्तव्यत्वेनाङ्गीकरणीयम् । न त्वन्यतरत् हेयमित्यर्थः । तथाच श्रीपाञ्चरात्ररक्षायां ‘यत्त्वपरमुक्तं व्यासदक्षाद्युपदिष्टवर्त्मनापि स्ववर्णाश्रमोचितभगवदाज्ञानुपालनरूपदिनचर्यासिद्धिः, अतश्चोभयसम्भेदे कर्मणां परस्परोपरोधप्रसङ्गश्चेति । तत्र तावदविदितश्रौतस्मार्तवृत्तान्तानामयं परस्परोपरोधचोद्यावतारः, एवं ह्यत्र परिहृतं श्रीकृष्णमुनिभिः – ‘पश्विष्टिदर्विहोमानां ससोमानां समुच्चयः । यथा बहूनामेकस्मिन् तथैवास्यापि कर्मणः ॥’ इति इत्याद्याचार्यश्रीसूक्तिः ॥
कुमार-वरदः - 216
  1. ननु ‘ब्राह्मणैः क्षत्रियैर्वैश्यैश्शूद्रैश्च कृतलक्षणैः । अर्चनीयश्च सेव्यश्च नित्ययुक्तैस्स्वकर्मसु । सात्वतं विधिमास्थाय गीतस्सङ्कर्षणेन यः ॥’
    इति महाभारते पाञ्चरात्रिकधर्मानुष्ठाने शूद्राधिकार उच्यते, अपशूद्राधिकरणे तु वैदिकधर्मे शूद्रस्यानधिकार उक्तः, तत्कथं पञ्चरात्रस्य वेदविरोधाभाव इत्याशङ्क्य प्रतिबन्द्या परिहरति – स्मर्यन्त इति । ‘नमस्कारेण मन्त्रेण पञ्चयज्ञान्समापयेत्’ । इति स्मृतावपि शूद्रस्य पञ्चमहायज्ञाधिकार उक्तः । तथा ‘हविष्कृदाधावेति शूद्रस्य’ इति शूद्रस्यापि श्रुतिसिद्धधर्मानुष्ठानप्रकारः प्रख्याप्यते । तदिदमाह – तत्राधीतं हविष्कृत्प्रभृतिपदमिति । तत्कथं भवानङ्गीकुरुत इति प्रतिबन्दी । तत्र परिहारमाशङ्क्य तुल्यमित्याह – इहापीति । अयमर्थः – शुद्रस्याग्निविद्यासापेक्षेष्वेव कर्मसु नाधिकारः, वैदेकेष्वपि सत्यवचनादिवत् स्वजात्यनुरूपेषु शुद्रस्याप्यधिकारोऽस्ति, न सर्वत्राधिकारोऽस्माभिरुच्यत इति न क्वापि विरोधः । अंशत इति – स्वाधिकारानुरूपानुष्ठानस्थलनिर्देशः । ननु प्रातरारभ्याहोरात्रमपि वैदिककर्मानुष्ठानं कर्तव्यमिति धर्मशास्त्रेष्वभिधीयते, तथाच सति पञ्चरात्रोक्तपञ्चकालकर्मानुष्ठानस्य कः काल इत्याशङ्क्य परिहरति – योज्येति । नहि सर्वोऽपि कालः स्मृतिभिर्नित्यनैमित्तिकविधायीनिभिरुपरुध्यते । अपितु यावाननुष्ठानकालस्तावानेव परिगृह्यते । तथा चाभिगमनादीनामपि स्मृतिविहितधर्मानुष्ठानकालाविरोधेनानुष्ठानसम्भवादनुष्ठानं योयुज्यत एव । अयमत्र शब्दार्थः – दक्षादिभिः परमर्षिभिरुक्ता पञ्चकालक्रमगतिरपि नित्यानुष्ठानकालेन सह योज्या, निपुणं निरूपयतामविरोधेन योजयितुं शक्यत इत्यर्थः । तदेतच्छ्रौतदृष्टान्तक्रमेण दर्शयति – ग्राह्यमिति । यथा श्रुतमेव पश्विष्टिसोमप्रभृतिकं धर्मजातं यथाकालमेकेनैवाधिकारिणानुष्ठीयते तद्वच्छ्रौतनित्यनैमित्तिकादिकं पञ्चरात्रतन्त्रप्रोक्तं धर्मजातमखिलं योग्यप्रकारेण सङ्कलय्य सङ्ग्राह्यमित्यर्थः ॥
मूलम् - 216
  1. स्मर्यन्ते पञ्चयज्ञा मुनिभिरपि नमस्कारमन्त्रेण शूद्रे
    तत्राधीतं हविष्कृत्प्रभृतिपदमिहाप्यंशतोऽस्याधिकारः ।
    योज्या दक्षोक्तकालक्रमगतिरभिगत्यादिभेदे तदुक्ते
    ग्राह्या पश्विष्टिसोमप्रभृतिवदखिलं युक्तितस्सङ्कलय्य ॥
विश्वास-प्रस्तुतिः - 217
  1. जातावाचार्यशब्दः क्वचिदिति न तथाऽऽचार्यदेवो भवेत्या-
    द्याम्नाते तत्प्रतीतिस्स्मृतिषु नियमिताल्लक्षणात्तत्प्रवृत्तेः ।
    तद्वत् स्यात् सात्त्वतादावगतिकविषये रूढिभङ्गो न दोषः
    विप्रादेरत्र शास्त्रे स्थितिरपि बहुधा भारतादौ प्रसिद्धा ॥
३४-तमाहोबिल-यतिः - 217
  1. जातावित्यादि । उत्तरार्धे सात्वतादावित्यन्तं पूर्वपक्षोपन्यासः, तदुपरि अगतिकविषय इत्यादिसिद्धान्तग्रन्थः । आचार्यशब्दः । क्वचित् जातौ – शिल्पिरूपजातिविशेषविषये । प्रयुक्त इति शेषः । इति – हेतोः । आचार्यदेवो भवेत्याद्याम्नाते – ‘आचार्यदेवो भव’ इति वाक्याधीते आचार्य शब्दे । तथा – आचार्येण सद्म निर्मापयेत्’ इत्यादाविव । तत्प्रतीतिः – शिल्पिजातिप्रतीतिः । न – न भवति हि । स्मृतिषु – ‘उपनीय तु यश्शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यञ्च तमाचार्यं प्रचक्षते ॥’ इत्यादिषु । नियमितात् – निबद्धात् । लक्षणात् – उपनीयाध्यापनादिरूपाचार्यलक्षणात् । तत्प्रवृत्तेः – तद्युक्ताचार्यविशेषबोधदर्शनादित्यर्थः । सात्वतादौ – पञ्चरात्रादितन्त्रेऽधिकारिप्रतिपादनप्रकरणे तदुक्तकर्माधिकारिविषयतया प्रयुक्तो ब्राह्मणादिशब्दः । तद्वत् स्यात् – औपचारिकस्स्यात् भग्नरूढिस्स्यात् । अत्रोत्तरम् – अगतिकविषय इत्यादि । अगतिकविषये – यत्र खलु रूढिभङ्गमन्तचरेणान्या गतिर्नास्ति तद्विषये । रूढिभङ्गः – रूढिशक्तित्यागेन केवलयौगिकार्थस्वीकारः । न दोषः – नायुक्तः । अत्र तु पञ्चरात्रे विप्राणामधिकारवचने रूढिभङ्गो न कार्यः । अत्र शास्त्रे – पञ्चरात्रे । विप्रादेः – मुख्यब्राह्मणादेः । स्थितिरपि – तदुक्तकर्मानुष्ठातृतयावस्थानमपि । भारतादौ – ‘पञ्चरात्रविदो विप्रास्तस्य गेहे महात्मनः । प्रापणं भगवद्भुक्तं भुञ्जते चाग्र्यभोजनम् ॥’ इत्यादौ महाभारते बहुधा प्रसिद्धा ॥
कुमार-वरदः - 217
  1. अत्र कश्चिदाह – ‘पञ्चरात्रतन्त्रेष्वधिकारवचनं न जातितो विप्राणाम्, अपितु गुणविशेषादौपचारिकविप्राणां ‘न शूद्रा भगवद्भक्ता विप्रा भागवतास्स्मृताः’ इत्यौपचारिकनिर्देशस्तत्रतत्र दृश्यते’ इति । एतदेव दृष्टान्तेन दर्शयति – जाताविति । लोके खलु शिल्पिष्वाचार्यशब्दो जातावेव प्रयुज्यते, अथापि ‘आचार्यदेवो भव’ इत्यादौ उपनीयाध्यापनादिरूपाचार्यलक्षणोपेतत्वादेव प्रयुज्यते । तत्प्रतीतिः – जातिप्रतीतिरित्यर्थः । तदिदमाह – स्मृतिष्विति । स्मर्यते हि ‘उपनीय तु यश्शिष्यम्’ इत्यादि । एवं दृष्टान्तमुक्त्वा तद्वत्सात्वतादौ कर्माधिकारिणां विप्रब्राह्मणादिशब्द औपचारिकस्स्यात्, तथाच न पञ्चरात्रस्य विप्राधिकारोऽस्तीतीमामाशङ्कां परिहरति – अगतिकविषय इति । अयमत्र निर्णयः – यत्र खलु रूढिभङ्गमन्तरेण गतिर्नास्ति तत्र रूढिभङ्गो न दोषः । वयमप्यनुमन्यामहे । इह पुनः पञ्चरात्रे विप्राणाम् अधिकारवचने रूढिभङ्गो न कार्यः । पञ्चरात्रे मुख्यविप्राणामेव बहुषु प्रदेशेष्वधिकारवचनादित्याह – विप्रादेरिति । उक्तं हि महाभारते –
    ‘पञ्चरात्रविदो विप्रास्तस्य गेहे महात्मनः । प्रापणं भगवद्भुक्तं भुञ्जते चाग्र्यभोजनम् ॥’
    इति । इदं मुख्यविप्रविषयम् । नहि मुख्ये सम्भवत्यमुख्यकल्पना न्याय्येति मुख्यानुसरणमेव युज्यते । यथा ‘विप्राद् द्विषड्गुणयुतात्’ ‘विप्राणां ज्ञानतो ज्यैष्ठ्यम्’ इत्यादिषु । आदिशब्दाद्गौतममन्वादिपुराणप्रसिद्धिरपि संगृह्यत इति ॥
मूलम् - 217
  1. जातावाचार्यशब्दः क्वचिदिति न तथाऽऽचार्यदेवो भवेत्या-
    द्याम्नाते तत्प्रतीतिस्स्मृतिषु नियमिताल्लक्षणात्तत्प्रवृत्तेः ।
    तद्वत् स्यात् सात्त्वतादावगतिकविषये रूढिभङ्गो न दोषः
    विप्रादेरत्र शास्त्रे स्थितिरपि बहुधा भारतादौ प्रसिद्धा ॥
विश्वास-प्रस्तुतिः - 218
  1. योगास्साङ्ख्यव्युदासात् कणचरदमनादक्षपादानुयाता
    बौद्धोन्माथेन लोकायतमुषितधियो जैनभङ्गात्तदुत्थाः ।
    पत्युस्तन्त्रे पशूनां प्रकटितविहतौ तादृशापष्ठुनिष्ठाः
    ध्वस्तास्तत्तुल्यतर्कागमशरणतया साकमस्मिन् कुदृग्भिः ॥
३४-तमाहोबिल-यतिः - 218
  1. नन्वत्र साङ्ख्यादय एव निरस्ताः, नपुनर्योगादयः, अतः कथमस्य पादस्य कार्स्न्येन परपक्षप्रतिक्षेपरूपत्वमित्याशङ्क्य तत्तदेकैकवादिनिरसनात् सदृशानामन्येषामपि अर्थान्निरासः प्रत्याय्य इत्याह – योगा इत्यादिना । साङ्ख्यव्युदासात् योगाः – योगतन्त्रनिष्ठाः । ध्वस्ता इत्यन्वयः । कणचरचमनात् – कणादनिरसनात् । अक्षपादानुयाताः – अक्षपादो गौतमः, तमनुयातास्तन्मतानुसारिणः । ध्वस्ता इत्यनुषङ्गः । बौद्धोन्माथेन – बौद्धनिरासेन । लोकायतमुषितधियः – चार्वाकमतेन लुण्टितबुद्धयः, चार्वाका इत्यर्थः । ध्वस्ता इति पूर्ववत् । जैनभङ्गात् तदुत्थाः – भेदाभेदवादित्वसाम्येन जैनोत्था भाट्टादयः । ध्वस्ता इति पूर्ववत् । पशूनां पत्युतन्त्रे प्रकटितविहतौ – पशुपतितन्त्रे प्रकटितदोषे सति । तादृशापष्ठुनिष्ठाः – पशुपतितन्त्रतुल्यशाक्याद्यपष्ठुसमयनिष्ठाः । तत्तुल्यतर्कागमशरणतया – पाशुपततुल्यव्याप्तिशून्यश्रुतिविरुद्धतर्कपौरुषतन्त्रावलम्बितया । कुदृग्भिस्साकम् – शङ्करभास्करयादवप्रकाशादितन्त्रनिष्ठैस्सह । अस्मिन् – निखिलपरपक्षप्रतिक्षेपपरेऽस्मिन् पादे । ध्वस्ताः – निर्मूलिताः । तत्तन्मतनिरास एव तेषां विध्वंसनतुल्य इति भावः ॥
कुमार-वरदः - 218
  1. नन्वत्र साङ्ख्यादयो निरस्ता न पुनर्योगादयः, कथमस्य पादस्य कार्त्स्न्येन परपक्षप्रतिक्षेपरूपत्वमित्याशङ्क्य तत्तदेकैकवादिनिरसनात्सदृशानामन्येषामर्थान्निरासस्स्यादित्याह – योगा इति । साङ्ख्यव्युदासाद्योगा ध्वस्ता इत्यन्वयः । कणचरदमनादक्षपादानुयाताः । जैनभङ्गात्तदुत्थाः – भेदाभेदवादित्वसाम्येन तदुत्था - जैनोत्था भाट्टाः । पशूनां पत्युस्तन्त्रे प्रकटितविहतौ सति तादृशापष्ठुनिष्ठास्सौगतादयो वादिनोऽस्मिन्पादे कुदृग्भिश्शङ्करभास्करयादवप्रकाशादितन्त्रनिष्ठैस्साकं ध्वस्ता इत्यन्वयः । एतेषां ध्वंसहेतुमाह – तत्तुल्येति । अत्र प्रतिक्षिप्तपक्षतुल्यतर्कागमशरणत्वात्स्वयमपि प्रतिक्षिप्ता इत्यर्थः ॥
मूलम् - 218
  1. योगास्साङ्ख्यव्युदासात् कणचरदमनादक्षपादानुयाता
    बौद्धोन्माथेन लोकायतमुषितधियो जैनभङ्गात्तदुत्थाः ।
    पत्युस्तन्त्रे पशूनां प्रकटितविहतौ तादृशापष्ठुनिष्ठाः
    ध्वस्तास्तत्तुल्यतर्कागमशरणतया साकमस्मिन् कुदृग्भिः ॥
विश्वास-प्रस्तुतिः - 219
  1. पादेऽस्मिन् कापिलस्थैः कणभुगनुगतैर्वृद्धवैभाषिकाद्यै-
    र्योगाचाराभिधानैस्सुगतमतरहश्शून्यवादप्रसक्तैः ।
    अर्हत्सिद्धान्तभक्तैः पशुपतिसमयस्थायिभिश्चोपरोधं
    क्षिप्त्वाऽथो पञ्चरात्रे श्रुतिपथमवदत् पञ्चमाम्नायदर्शी ॥
३४-तमाहोबिल-यतिः - 219
  1. पादेऽस्मिन्नित्यादि । पञ्चमाम्नायदर्शी – ‘भारतः पञ्चमो वेदः’ इत्युक्तरीत्या पञ्चमाम्नायतया प्रसिद्धं श्रीमन्महाभारतं प्रणीतवान् व्यासः ।अस्मिन्पादे – परपक्षप्रप्रतिक्षेपपरेऽस्मिन्पादे । अधिकरणक्रमेणेति शेषः । कापिलस्थैः – कपिलमतनिष्ठैस्साङ्ख्यैः । कणभुगनुगतैः – कणादानुसारिभिर्वैशेषिकैः । वृद्धवैभाषिकाद्यैः – वैभाषिकद्वित्वप्रदर्शनार्थो वृद्धशब्दः । ते हि एकद्व्यादिस्वभावपरमाणुमूलकजगत्सृष्टिवादिनस्तत्तदेकैकस्वभाव परमाणुमूलकजगत्सृष्टिवादिनश्चेति द्विविधाः । अयञ्च भेदः ‘एकद्व्यादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः’ इति तदधिकरणश्लोके च स्पष्टमुक्तः । वृद्धवैभाषिका आद्या येषां नवीनवैभाषिकाणामित्युक्ते बहुव्रीहेरन्यपदार्थप्रधानतया वृद्धवैभाषिकग्रहणं न स्यात् । अतो वृद्धवैभाषिकाश्च आद्याश्च वृद्धवैभाषिकाद्या इति द्वन्द्वसमास आश्रयणीयः । आद्यशब्दस्य वैभाषिकेषु प्रथमपरिगणनीयत्वपरतया कथञ्चिन्नवीनवैभाषिकपरत्वं वक्तव्यमिति केचित् । योगाचाराभिधानैः – योगाचारसंज्ञैर्बौद्धविशेषैः । सुगतमतरहश्शून्यवादप्रसक्तैः – बौद्धमतरहस्यभूते शून्यवादे सर्वशून्यत्ववादे माध्यमिकसिद्धान्ते प्रसक्तैरत्यन्तानुरक्तैर्माध्यमिकैरित्यर्थः । अर्हत्सिद्धान्तभक्तैः – अर्हतो जिनस्य सिद्धान्तस्सम्प्रदायस्तत्र भक्तैरासक्तैर्जैनैः । पशुपतिसमयस्थायिभिश्च – पशुपतिसिद्धान्तनिष्ठैः पाशुपतैश्च । उपरोधम् – श्रुतिमार्गनिरोधम् । क्षिप्त्वा – निरस्य । अथो – पश्चात्, अन्तिमे पञ्चरात्राधिकरण इत्यर्थः । पञ्चरात्रम् – श्रीपञ्चरात्रशास्त्रम् । श्रुतिपथम् – श्रुतेः पन्था यस्य पन्थास्तादृशम् । वेदमार्गानुसारीति यावत् । अवदत् – असारान्निरस्य सारं प्रादर्शयदिति भावः ॥ ॥ इति द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः ॥
कुमार-वरदः - 219
  1. अस्मिन्पादे प्रत्येकमधिकरणार्थान् विभज्य दर्शयति – पादेऽस्मिन्निति । कापिलस्थैरिति साङ्ख्याधिकरणे । कणभुगनुगतैरिति वैशेषिकाधिकरणे । वृद्धवैभाषिकाद्यैरिति वैभाषिकाधिकरणे । अत्र वृद्धशब्दप्रयोगो वैभाषिकद्वित्वप्रदर्शनार्थः । केचिदेकद्व्यादिस्वभावैः परमाणुभिर्द्व्यणुकादिसृष्टिमाहुः, अपरे पुनस्तत्तदेकैकस्वभावैरिति पूर्वमेव विभागः प्रदर्शितः । योगाचाराभिधानैरिति योगाचाराधिकरणे । सुगतमतरहस्यरूपशून्यवादप्रसक्तैर्माध्यमिकाधिकरणे इत्यर्थः । जैनाधिकरणे पुनरर्हत्सिद्धान्तभक्तैः । पाशुपताधिकरणे पशुपतिसमयस्थायिभिश्च वेदोपरोधं क्षिप्त्वाथो पञ्चरात्राधिकरणे पञ्चमाम्नायदर्शी भारतप्रवक्ता व्यासश्श्रुतिपथमवददिति योजना ॥
मूलम् - 219
  1. पादेऽस्मिन् कापिलस्थैः कणभुगनुगतैर्वृद्धवैभाषिकाद्यै-
    र्योगाचाराभिधानैस्सुगतमतरहश्शून्यवादप्रसक्तैः ।
    अर्हत्सिद्धान्तभक्तैः पशुपतिसमयस्थायिभिश्चोपरोधं
    क्षिप्त्वाऽथो पञ्चरात्रे श्रुतिपथमवदत् पञ्चमाम्नायदर्शी ॥