विश्वास-प्रस्तुतिः - 205
- सर्वं जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः
प्रख्यातं तद्व्रतञ्च क्वचिदुपनिषदीत्यस्तु मानं तदुक्तिः ।
मैवं, देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वि-
त्यादिष्टो ह्येष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥
३४-तमाहोबिल-यतिः - 205
- सर्वं जानातीत्यादि । रुद्रस्सर्वं जानाति श्रुत्यादिषु तथा प्रसिद्धेः । श्रुतिषु – ‘नमस्ते रुद्र मन्यवे’ इत्यादिश्रुतिषु । महितश्च – पूजितश्च । सत्यवादी दृष्टश्च – ‘क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे सम्भूतौ तस्मात् केशवनामवान् ॥’ इत्यादिषु परतत्त्वविषये सत्यवादी दृष्टश्च । तद्व्रतम् – रौद्रव्रतं भस्मधारणादिव्रतम् । उपनिषदि क्वचित् प्रदेशे । प्रख्यातञ्च – प्रसिद्धञ्च । व्रतमेतत्पाशुपतम् इत्युपनिषद्यभिधानम् । इति – हेतोः । तदुक्तिः – तदुक्तिरूपं पाशुपततन्त्रम् । मानम् – प्रमाणम्, अस्तु, मैवम् – एवं न वक्तव्यमित्यर्थः । दैत्यप्रमथनरुचिना – दैत्यप्रमथने असुरमोहने रुचिरभिलाषो यस्य तेन । देवेन – भगवता । मोहशस्त्राणि कुर्वित्यादिष्टो हि – ‘त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय’ इत्यादिरूपेण वचनेन मोहनानि शास्त्राणि पाशुपतादीनि त्वं कुरु" इत्याज्ञप्तो हि । एषः – रुद्रः । निजम् – स्वीयम् । तन्त्रम् – पाशुपताख्यं शास्त्रम् । अकृत – कृतवान् । ततः – तस्मात् कारणात् । पाशुपततन्त्रस्य मोहनार्थं कृतत्वात्, तत् – पाशुपतं तन्त्रम् । शिष्टोपजीव्यं न – शिष्टानां सात्त्विकानामादरणीयं न भवति ॥
कुमार-वरदः - 205
- अत्र पूर्वपेटिकासङ्गतिर्भाष्यकारैरेवोक्ता ‘कपिलकणाद’ इत्यादिना । पूर्वोक्तानां मतानामसामञ्जस्याद्वेदविरोधाच्च निराकरणे कृते तत्पशुपतिमतस्यापि समानमित्युच्यत इति । एवं पाशुपतस्य प्रकृतिकारणवादसम्मत्या साङ्ख्यानन्तरं निराकरणे प्राप्तेऽपि ‘काणादशाक्यपाषण्डैः’ इत्यादिना काणादबौद्धादीनां वेदबाह्यत्वप्रसिद्धिप्राचुर्याद् बौद्धजैनाभ्यां पुनस्साक्षादेव वेदप्रामाण्यानङ्गीकाराच्च स्फुटविरोधेन तान्निरस्य “साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं’’
इति वेदसहपठितपशुपतिमतेऽप्यसामञ्जस्यं वेदविरोधश्चाधुना प्रकाश्यत इति सङ्गत्यविरोध इति केचित् । श्रीविष्णुचित्तार्यास्त्वेवमाहुः – पूर्वमारम्भणाधिकरणे वैशेषिकस्य निरस्तत्वात् पूर्वोक्तार्थविशेषप्रतिपादनेन वैशेषिकाधिकरणं प्रवृत्तम् । तत्र तावद्वेदानित्यत्ववादी निरस्तः । ततःपरं सौगतजैनाधिकरणेऽपि वेदाप्रामाण्यवादिनौ निरस्तौ । अधुना पुनः पाशुपताधिकरणे सकलवेदान्तवेद्यपरमपुरुषपारम्यप्रतिभटवादिनो निरस्यन्त इत्युत्तरोत्तरनिराकरणीयेषु वेदबाह्यतातिशयेन सङ्गतिः’ इति । इयमेव सङ्गतिः पूर्वाचार्यैस्तेषुतेषु ग्रन्थेषु लिखितेतीमामेव प्राज्ञाः परिगृह्णन्ति । तदर्थविचारस्तु – पशुपतिमतं निश्रेयसार्थिभिरुपादेयमुत नेति । किमस्य श्रुतिविरोधोऽस्त्युत नेति । तत्र कपिलकणादसुगतादिमतानां निराकरणीयत्वेऽप्यनिराकरणीयमेव पाशुपतं मतमित्याशङ्कते – सर्वमिति । रुद्रः खलु सर्वज्ञतया श्रुत्यादिषु सुप्रसिद्धः । ‘नमस्ते रुद्र मन्यवे’ इत्यादिभिर्महितश्च । स च ‘क इति ब्रह्मणो नाम’ इत्यादिना परतत्त्वविषये सत्यवादी च दृष्टः । ‘दासभूतास्वतस्सर्वे’ इति च रुद्रवाक्यम् । ‘व्रतमेतत्पाशुपतम्’ इति रौद्रं व्रतमुपनिषद्यपि क्वचित्प्रदेशे प्रख्यातम् । अतस्तदुक्तिः प्रमाणमित्याशङ्क्य निराकरोति – मैवमिति । यद्यपि रुद्रस्सर्वज्ञत्वादिगुणगणोपेतः, तथापि भगवता पुरुषोत्तमेन ‘त्वं हि रुद्र महाबाहो मोहशास्त्राणि कारय’ । इत्यसुरमोहनार्थमादिष्ट एष रुद्रो निजं तन्त्रमकृत । ततस्तत्तन्त्रं शिष्टोपजीव्यं न भवति । यथा भागवतस्यापि पितामहस्य भगवन्नियमनेनासुरमोहनवचनमध्यात्मविदामनुपजीव्यं तद्वदिदमपि । दृश्यते हि सर्वज्ञोऽपि पितामहो
विरोचनस्य विपरीतोपदेशमाहेति । अतो भगवन्नियोगेनासुरमोहनार्थं प्रवृत्तत्वात्तन्मूलमपि तन्त्रं सत्त्वोत्तराणामनादरणीयमेव तमोगुणप्रवर्तकत्वाद्रुद्रस्य । श्रूयते हि लिङ्गपुराण एव –
‘तमसा कालरुद्रस्स्याद्रजसा कनकाण्डजः । सत्त्वेन सर्वगो विष्णुस्सर्वलोकनमस्कृतः ॥’ इति ।
मत्स्यपुराणेऽपि ‘अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते’ इति । इदं पुनर्भगवद्गीतावचनं सर्वलोकप्रसिद्धम् – ‘प्रमादमोहौ तमसो भवतोऽज्ञानमेव च’ इति ।
प्रमाणान्तरमपि महर्षिवचनम् –
‘या वेदबाह्यास्स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ताः निष्फलाः प्रेत्य तमोनिष्ठा हि तास्स्मृताः ॥’ इति ।
एवं ‘पश्यत्येनम् जायमानम्’ इत्यादि-वचन-सहस्र-प्रतिपन्न-तामसत्वेन रुद्रवाक्यमज्ञानहेतुत्वेन आगमपरिपन्थित्वेन चानादर्तव्यमेव । क्वाचित्कसंवादोऽपि श्रुतिविरोधभूयस्त्वादनुपयुक्त एवेति ॥
मूलम् - 205
- सर्वं जानाति रुद्रश्श्रुतिषु च महितस्सत्यवादी च दृष्टः
प्रख्यातं तद्व्रतञ्च क्वचिदुपनिषदीत्यस्तु मानं तदुक्तिः ।
मैवं, देवेन दैत्यप्रमथनरुचिना मोहशास्त्राणि कुर्वि-
त्यादिष्टो ह्येष तन्त्रं निजमकृत ततस्तन्न शिष्टोपजीव्यम् ॥
विश्वास-प्रस्तुतिः - 206
- प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं
चक्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः ।
कण्वस्थाने च लौकायतिकपरिबृढा भारतेऽपि प्रगीताः
कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥
३४-तमाहोबिल-यतिः - 206
- प्राजापत्य इत्यादि । प्राजापत्ये वाक्ये – छान्दोग्येऽष्टमाध्याये ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरम्’ इत्यादिदहरविद्याशेषभूते इन्द्रविरोचनयोरुपदेशप्रकरणे प्रजापतिनोच्यमाने ‘तौ ह प्रजापतिरुवाच’ इत्यादौ । हि प्रसिद्धौ । उपनिषत् – उपनिषत् स्वयमेव । देहात्मवादम् – देह एवात्मेत्युद्यतेऽनेनेति देहात्मवादस्तं देहात्मभावपर्यवसन्नं सन्दर्भविशेषम् । प्रकटम् – प्रसिद्धतया । प्राह – प्रतिपादितवती । तत् – प्रसिद्घम् । लोकायतम् – लोकायतशास्त्रम् । सुरगुरुश्चक्रे – सर्वविद्याधिकृतो बृहस्पतिरेव चकार । मुकुन्दः – सर्वेषां ज्ञानोपदेशादिभिर्मोक्षभूमिप्रापणपर्यन्तैर्व्यापारैर्मोक्षदत्वेन प्रसिद्धो भगवांश्च । मोहनत्वम् – बुद्धावतारमाश्रित्यासुरमोहनत्वम् । अभजत् । इदञ्च प्रसिद्धम् । अपि च भारतेऽपि - पञ्चमवेदतया प्रमाणतमे भारतेऽपि । कण्वस्थाने – कण्वाख्यमहर्ष्याश्रमे । लोकायतिकपरिबृढाः – लोकायतिकश्रेष्ठाः । प्रगीताः – वर्तमानतया प्रतिपादिताः । तत् – तस्मात्कारणात् । पशुपतेः – रुद्रस्यापि । कार्यार्थः –भगवदाज्ञानुपालनार्थः । इह – पाशुपततन्त्रे । विप्रलम्भः – तत्त्वोपायादीनामन्यथावचनेन वञ्चनव्यापारः । तद्वत् – उपनिषदादिवत् । उपपन्न एव – युक्त एव ॥
कुमार-वरदः - 206
- ‘वैष्णवानां यथा शम्भुः’ इति प्रतिपन्नस्य रुद्रस्य कथं मोहकल्पनमित्याशङ्क्य बहुभिर्दृष्टान्तैस्तदेवोपपादयति – प्राजापत्य इति । दहरविद्याशेषभूतप्रजापतिवाक्ये देहात्मवादं प्रकटमेवोपनिषदाह । तच्च लोकायतशास्त्रं सुरगुरुर्बृहस्पतिरेव सकलविद्याधिकारी चकार । भगवानेव बुद्धाद्यवतारमाश्रित्यासुरजनमोहनत्वमभजदिति सुप्रसिद्धम् । अपि च महाभारते महर्षेः कण्वस्याश्रमे वर्तमाना लोकायतिकपरिबृढाः श्रेष्ठाः प्रसिद्धा एव । एवञ्च पशुपतेरपि कार्यार्थो भगवदाज्ञानुपालनार्थो दृष्टान्तत्वेनोक्तोपनिषदादिवदुपपन्न एव विप्रलम्भ इति ॥
मूलम् - 206
- प्राजापत्ये हि वाक्ये प्रकटमुपनिषत् प्राह देहात्मवादं
चक्रे लोकायतं तत् सुरगुरुरभजन्मोहनत्वं मुकुन्दः ।
कण्वस्थाने च लौकायतिकपरिबृढा भारतेऽपि प्रगीताः
कार्यार्थं विप्रलम्भस्तदिह पशुपतेस्तद्वदेवोपपन्नः ॥
विश्वास-प्रस्तुतिः - 207
- शैवाद्याख्याविशेषैः पशुपतिसमयस्स्याच्चतुर्धाऽन्यथा वा
श्रुत्याऽन्योन्यं च बाधस्स्फुट इह तदसौ शापदुष्टार्ह उक्तः ।
अग्राह्यान् वैदिकानामनुसृतनिगमास्सस्मरुस्तत्प्रविष्टान्
तत्त्वेऽप्यत्रान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता ॥
३४-तमाहोबिल-यतिः - 207
- शैवाद्याख्याविशेषैरित्यादि । पशुपतिसमयः – पशुपतिसिद्धान्तः । शैवाद्याख्याविशेषैः –शैवपाशुपतकापालकालामुखसंज्ञाविशेषैः । चतुर्धा स्यात् – चतुर्विधोऽस्तु । अन्यथा वा – एकधा वा भवतु । इह – तन्त्रे । श्रुत्या – वेदेन । अन्योन्यश्च – शैवादितन्त्राणां परस्परमपि च । बाधः – अभिधेयापहारः । स्फुटः – व्यक्तः । तत् – तस्मादेव कारणात् । असौ – पशुपतिसमयः । शापदुष्टार्ह उक्तः – गौतमशापदुष्टानामेवार्ह इति मनीषिभिरुक्तः । किञ्च, अनुसृतनिगमाः – वैदिका महर्षयः । तत्प्रविष्टान् – शैवपाशुपतादिसमयप्रविष्टान् । वैदिकानामग्राह्यान् सस्मरुः – वैदिककर्मसु असंग्राह्यान् प्राहुः । अत्र – अस्मिन्पशुपतिसमये । तत्त्वे – जीवेश्वरादिप्रामाणिकार्थविषये । अन्यथात्वमपि – व्यत्यासोऽपि । अनीश्वरस्य पशुपतेरीश्वरत्वादिकल्पनात् तत्त्वव्यत्यासः । न केवलमाचारे किंतु तत्त्वविषयेऽपीति अपिशब्दार्थः । अत एव पशुपतिमतस्य सुगतजिनमतानन्तरोक्तिः – वेदविरुद्धबौद्धार्हतादि मतानन्तरमुपन्यासः । क्रमाप्ता – वेदविरुद्धाचारतत्त्वव्यत्यासपर्वक्रमेण प्राप्ता ॥
कुमार-वरदः - 207
- अत्र खलु पशुपतिसमयश्शैवाद्याख्याविशेषैश्चतुर्धा पठ्यते लोके, स तु तथा चतुर्धा वा भवत्वेकधा वा, न तत्रादरः, वेदविरोधादन्योन्यञ्च विरोधादप्रामाण्यं सुवचमेवेत्याह – शैवादीत्यादिना बाधस्स्फुट इहेत्यन्तेन । तदेवोपपादयति – तदसाविति । तस्मादेव खलु श्रुतिविरोधादेवासौ पशुपतिसमयो गौतमशापदुष्टानामेवार्ह इति मनीषिभिरुक्तः । किञ्च, अनुसृतनिगमा वैदिकाः परमर्षयस्तत्प्रविष्टान् शैवपाशुपतादिमतप्रविष्टानग्राह्यान्सस्मरुः । श्रूयते हि ‘शैवान्पाशुपतान्’ इत्यादिमहर्षिवचनम् । कथमग्राह्यत्वमित्यत्राह – तत्त्वेऽपीति । अत्रास्मिन्पक्षे तत्त्वेऽप्यन्यथात्वम् । न केवलमाचारे, तत्त्वेऽप्यन्यथात्वमित्यपिशब्दार्थः । तेन तत्त्वाचारयोर्द्वयोरपि विरुद्धत्वादत्यन्तवेदविरुद्धत्वमेव । अतो वेदविरुद्धसुगतजिनमतानन्तरोक्तिः पशुपतिमतस्य क्रमप्राप्तेति निगमयति – सुगतेति ॥
मूलम् - 207
- शैवाद्याख्याविशेषैः पशुपतिसमयस्स्याच्चतुर्धाऽन्यथा वा
श्रुत्याऽन्योन्यं च बाधस्स्फुट इह तदसौ शापदुष्टार्ह उक्तः ।
अग्राह्यान् वैदिकानामनुसृतनिगमास्सस्मरुस्तत्प्रविष्टान्
तत्त्वेऽप्यत्रान्यथात्वं सुगतजिनमतानन्तरोक्तिः क्रमाप्ता ॥
विश्वास-प्रस्तुतिः - 208
- निष्ठा सर्वेषु नारायण इति वचनाद्धेत्वहन्तव्यतोक्ते-
र्मानत्वोक्त्या च तन्त्रान्तरमपि महितं वेदवद्भारतादौ ।
नातो बौद्धादिवत्तन्निरसनमिति चेत् सत्यमंशे तु बाध-
स्स्यान्नासौ पञ्चरात्रे क्वचिदपि तदिह स्वीकृतिर्वेदतुल्या ॥
३४-तमाहोबिल-यतिः - 208
- निष्ठेत्यादि । सर्वेषु निष्ठा नारायण इति वचनात् – साङ्ख्यादिषु सर्वेष्वेतेषु तन्त्रेषु ‘निष्ठा नारायणः परः’ इति महाभारते वचनात् । हेत्वहन्तव्यतोक्तेः – ‘न हन्तव्यानि हेतुभिः’ इति तत्रैव वचनात् । मानत्वोक्त्या च – ‘आत्मप्रमाणान्येतानि’ इति प्रमाणत्वोपन्यासेन च । तन्त्रान्तरमपि – पाशुपततन्त्रमपि ।भारतादौ । वेदवत् – वेदेन तुल्यम् । महितम् – पूजितम् । अतः – हेतोः । बौद्धादिवत् – बौद्धादितन्त्रतुल्यतया । तन्निरसनम् – सर्वांशेऽपि तन्निरसनम् । न - न युक्तम् । इति चेत् । सत्यम् – इदमर्धाङ्गीकारे । अङ्गीकारस्यैव विवरणम् – अंशे त्विति । अंशे तु बाधस्स्यात् – विरुद्धांशे बाधस्स्यात् ।अविरुद्धांशस्वीकारोऽपि स्यादित्यर्थः । तर्हि पञ्चरात्रेऽपि क्वचिद्बाधः क्वचिदबाधश्च स्यादित्याशङ्क्य निरस्यति –नासाविति । असौ – वेदविरुद्धांशः । पञ्चरात्रे क्वचिदपि न – न दृश्यते । तत् – सर्वांशेऽपि वेदाविरुद्धत्वात् । इह – पञ्चरात्रे । स्वीकृतिः – स्वीकारः । वेदतुल्या – वेदसमः । वेदविरुद्धांशास्तित्वारोपेण पञ्चरात्रस्यास्वीकारे पञ्चरात्रविरुद्धांशास्तित्वारोपेण वेदस्याप्यस्वीकारः स्यादिति वेदतुल्येत्यनेन व्यज्यते ॥
कुमार-वरदः - 208
- अथ पशुपतिमतपरिग्रहे कारणविशेषाननूद्य निराकरोति – निष्ठेति । महाभारते साङ्ख्यादिषु सर्वेष्वेषु तन्त्रेषु ‘निष्ठा नारायणः परः’ इति वचनात् ‘न हन्तव्यानि हेतुभिः’ इत्युक्तेः, ‘आत्मप्रमाणान्येतानि’ इति मानत्वोक्त्या च पाशुपततन्त्रमपि वेदवन्महितं भावनीयमेव । अतो हेतोर्बौद्धादिवन्न तन्निरसनं प्राप्तमित्याशङ्क्य सत्यमित्यर्धाङ्गीकारेण निराचकार । कथमर्धाङ्गीकार इत्यत्राह – अंशे तु बाधस्स्यादिति । अंशे वेदविरुद्धे बाधः स्यात् । अविरुद्धांशे स्वीकारोऽपि स्यादित्यर्थः । तर्हि क्वाचित्कवेदविरोधयुक्तात्पाशुपतात्पञ्चरात्रस्य विशेष इत्यर्थः । उक्तार्थस्य प्रयोजनमाह – तदिति । सर्वत्र वेदविरोधाभावादिह पञ्चरात्रे स्वीकारो वेदतुल्य इति ॥
मूलम् - 208
- निष्ठा सर्वेषु नारायण इति वचनाद्धेत्वहन्तव्यतोक्ते-
र्मानत्वोक्त्या च तन्त्रान्तरमपि महितं वेदवद्भारतादौ ।
नातो बौद्धादिवत्तन्निरसनमिति चेत् सत्यमंशे तु बाध-
स्स्यान्नासौ पञ्चरात्रे क्वचिदपि तदिह स्वीकृतिर्वेदतुल्या ॥
विश्वास-प्रस्तुतिः - 209
- दृश्यन्ते संगृहीता जगति हि समयास्ते च राज्ञाऽनुपाल्या-
स्तस्मान्नः पक्षपातः क्वचिदनुचित इत्यर्भकप्रायचोद्यम् ।
मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश्च धर्म्ये
निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टेः ॥
३४-तमाहोबिल-यतिः - 209
- दृश्यन्त इत्यादि । हि – प्रसिद्धौ । जगति – लोके । समयाः – सर्वेऽपि सिद्धान्ताः । सङ्गृहीताः – तत्तत्समयनिष्ठैः परिगृहीता एव दृश्यन्ते । अयमर्थः प्रसिद्ध एव हि । ते च – सर्वे समयाः । राज्ञा अनुपाल्याः – प्रजापालनं राज्ञः परमो धर्मः इति वचनानुरोधेन परिपालनीयाः । तस्मात् कारणात् । नः – अस्माकम् । क्वचित् – क्वचितन्त्रे । पक्षपातः – प्रेमानुबन्धः ‘पक्षः प्रेम च पार्श्वञ्च गरुच्च’ इति नैघण्टुकाः । अनुचितः – उचितो न भवति । इति – एवमाशङ्कनम् । अर्भकप्रायचोद्यम् – बालचोद्यम् । अन्ये – वेदविरुद्वास्समयाः । मुग्धैः – अज्ञैः । गृहीताः – परिगृहीताः । कुतः? वेदविरुद्वत्वादेव । राज्ञां सर्वसमयसंरक्षणोक्तिः कथमिति चेत् तत्राह – भवत्वित्यादि । समयसंरक्षणोक्तिश्च – सर्वे सिद्धान्ता राज्ञा रक्षणीया इति वचनं च । धर्म्ये – धर्मादनपेते । वेदाविरुद्धधर्मप्रतिपादकसमयविषये भवतु । राज्ञां सर्वसमयसंरक्षणोक्तेरेवमर्थ इत्युच्यते । न पुनर्वेदविरुद्धसमयसंरक्षणम् । तर्हि ‘सर्वेषामपि तन्त्राणां निष्ठा नारायणः परः’ इत्युच्यते, कथं क्वचित् त्याज्यत्वमित्यत्राह – निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा – नारायणेतरस्य परत्वेन ग्रहणं यत् तस्य विहतौ तत्परा । अयमर्थः – ‘निष्ठा नारायणः परः’ इति परमर्षिणैवोच्यते । स तु स्वसिद्धान्तमेवाह । साङ्ख्यादीनां सर्वेषामपि तन्त्राणां प्रधानप्रतिपाद्यो नारायण एव पर्यवसानभूमिरिति वेदविदां व्यासादीनां सिद्धान्तः । तेन तदन्यग्रहणमल्पज्ञानां स्वकपोलकल्पितमिति तदेव तदन्यग्रहणं ‘निष्ठा नारायणः परः’ इति निवार्यते । ननु प्रसक्तं हि निवार्यं, प्रसक्त्यभावे कथं वारणमित्यस्योत्तरमाह – तद्विरुद्धोक्तिदृष्टेरिति । नारायणपारम्यविरुद्धोक्तेर्लोके दृष्टत्वात् । अयमर्थः – सर्वेषामपि तन्त्राणां नारायण एव पर्यवसानभूमिरिति वेदवित्सिद्धान्तः, इममर्थमविजानानास्तद्विरुद्धं प्रलपन्ति, तन्निवारणार्थं निष्ठा नारायण इत्युच्यत इति ॥
कुमार-वरदः - 209
- अत्र सर्वेषामपि समयानां साधारण्येन सङ्ग्राह्यत्वमाशङ्क्य निराकरोति – दृश्यन्त इत्यादिना
श्लोकेन । जगति सर्वे समयास्संगृहीता एव दृश्यन्ते तत्तत्समयनिष्ठैः । ते च सर्वे समयाः प्रजापरिपालनं
राज्ञः परमो धर्म इति वचनानुरोधेन राज्ञा विशेषेण परिपालनीयाः । तस्मादस्माकं पक्षपातः क्वचित्समये समुचितो न भवतीत्याशङ्क्य तदिदं बालचोद्यमित्याह – अर्भकेति । तत्र हेतुमाह – मुग्धैरिति । अन्ये वेदविरुद्धास्समया मुग्धैरज्ञैः परिगृहीताः । कुतः? वेदविरुद्धत्वादेव । तर्हि राज्ञां सर्वसमयसंरक्षणोक्तिः कथमिति चेत् तत्राह – भवत्विति । राज्ञां सर्वसमयसंरक्षणोक्तेरेवमर्थ इत्युच्यते न पुनर्वेदविरुद्धसर्वसमयसंरक्षणम् । तर्हि ‘सर्वेषामपि तन्त्राणां निष्ठा नारायणः परः’ इत्युच्यते, कथं क्वचित्त्याज्यत्वमित्याशङ्क्याह – निष्ठैक्योक्तिरिति । अयमर्थः – ‘निष्ठा नारायणः परः’ इति
परमर्षिणैवोच्यते । स तु स्वसिद्धान्तमेवाह । साङ्ख्यादीनां सर्वेषामपि तन्त्राणां प्रधानप्रतिपाद्यो नारायण एव पर्यवसानभूमिरिति वेदविदां व्यासादीनां सिद्धान्तः । तेन तदन्यग्रहणमल्पज्ञानां स्वकपोलकल्पितमिति तदेव तदन्यग्रहणं ‘निष्ठा नारायणः परः’ इति निवार्यते । ननु प्रसक्तस्यैव हि निवारणं कार्यम् ‘इतरप्रसङ्गाभावे कथं निवार्यत इत्याशङ्क्योत्तरमाह – तद्विरुद्धेति । नारायणपारम्यविरुद्धोक्तेर्लोके दृष्टत्वात् । अयमर्थः – सर्वेषामपि तन्त्राणां नारायण एव पर्यवसानभूमिरिति वेदवित्सिद्धान्तः, इममर्थमजानानास्तद्विरुद्धमेव प्रलपन्ति तन्निवारणार्थं ‘निष्ठा नारायणः’ इत्युच्यते इति ॥
मूलम् - 209
- दृश्यन्ते संगृहीता जगति हि समयास्ते च राज्ञाऽनुपाल्या-
स्तस्मान्नः पक्षपातः क्वचिदनुचित इत्यर्भकप्रायचोद्यम् ।
मुग्धैरन्ये गृहीता भवतु समयसंरक्षणोक्तिश्च धर्म्ये
निष्ठैक्योक्तिस्तदन्यग्रहविहतिपरा तद्विरुद्धोक्तिदृष्टेः ॥