16 एकस्मिन्नसंभवाधिकरणम्

विश्वास-प्रस्तुतिः - 202
  1. संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं
    तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा ।
    वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या
    तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः ॥
३४-तमाहोबिल-यतिः - 202
  1. संवादादित्यादि । जिनमुनिवचसः – जिनाख्यऋषिवचनरूपस्य जैनशास्त्रस्य । क्वापि भागे – क्वचित् अहिंसा परमो धर्म इत्यादिवाक्यभागे । संवादात् – वेदेनैकत्वात् । शेषमपि, वाक्यजातं मानमस्तु –तुल्यन्यायतया प्रमाणमस्तु । तस्मात् – वेदसंवादित्वसिद्धप्रमाणभावत्वात् । तेन – जिनमुनिवचसा । उपनिषदुपरोध्या भवत्विति । कचोल्लुच्छनानाम् – जैनानाम् । दुराशा – दुष्टाशा । दुराशेत्युक्त्वा प्रसक्तस्य दुष्टत्वस्य प्रतिबन्द्या उपपादनं वक्तुं दोषमाह – वैघट्यस्यापि दृष्टेरिति । पिञ्छधारणादीनां बहूनां वेदविरुद्धानां दृष्टेरित्यर्थः । न यदि – एवं बहुविरुद्धार्थदृष्टावपि जैनमतस्य दुष्टत्वं न यदि । सुगतवागेवमेव सत्यास्तु – तस्या अपि क्वचित् संवादात् । ननु जिनसुगतवचसोर्द्वयोरपि सत्यत्वे श्रुतिर्भ्रष्टा स्यादित्यत्राह –तेनेत्यादि । पुरुषवचनयोः – बुद्धजिनवाक्ययोः । अन्योन्यं विरोधात् – जातेन तेन निरोधेन प्रामाण्यबुद्धिप्रतिबन्धनेन । नः – अस्माकं प्रमाणत्वेनाभिमता । श्रुतिः – नित्यं श्रूयमाणत्वेन श्रुतिः । अप्रकम्प्या – अनादिनिधनाविच्छिन्नसम्प्रदायत्वात् निष्कण्टको नैगमिकमार्ग इति भावः ॥
कुमार-वरदः - 202
  1. ‘निरस्ताः’ इत्यादिना भाष्य एव सङ्गतिरुक्ता । वैशेषिकबौद्धयोः परमाणुकारणवादिनोः परमाणुचातुर्विध्यसाम्यात्तन्निरासौ सङ्गतौ । अतो बौद्धानन्तरमार्हतनिरासः प्राप्त इति सङ्गतिः ।
    एवं वा सङ्गतिः परस्परविरुद्धकोटिषु वैलक्षण्यवादी माध्यमिकः पूर्वं निरस्तः । ‘न सन्नासन्न सदसत्’ इत्यादिना सदसदादिकोटीनां निराकरणमेव हि तत्सिद्धान्तः । तदेव न्यायवादिभिर्निरस्यते ‘परस्परविरोधे तु न प्रकारान्तरस्थितिः’ इति अधुना पुनः परस्परविरुद्धकोटीनामेकत्रैव समुच्चयवादी निरस्यते । स हि ‘स्यादस्ति स्यान्नास्ति’ इत्यादिना सप्तभङ्गीमेव सिद्धान्तयति । तच्च न्यायवादिभिर्निरस्यते – ‘नैकतापि विरुद्धानामुक्तिमात्रविरोधतः’ । इति । तदर्थविचारस्तु – किं जैनमतं समीचीनयुक्तिमूलं, नेति । किमेकस्य वस्तुनस्सत्त्वासत्त्वनित्यत्वानित्यत्वभिन्नत्वाभिन्नत्वाद्यनेककल्पभाक्त्वं सम्भवति नेति । किं पर्यायस्वभावाभ्यां एकस्य वस्तुनो नैकस्वभावत्वमुपपादयितुं शक्यते, नेति । अत्र जैनवाक्यस्य क्वचित्संवादात् प्रामाण्यमाशङ्क्य बौद्धवाक्यप्रतिबन्द्या दूषयित्वा तयोरुभयोः परस्परविरोधादप्रामाण्ये निष्प्रतिद्वन्द्वमेव वेदवाक्यप्रामाण्यं प्रतिपादयति – संवादादिति । अयमत्र शब्दार्थः – क्वचित् ‘अहिंसा परमो धर्मः’ इत्यादिवाक्यभागे श्रुतिसंवादाज्जिनमुनिवचसः शेषमपि वाक्यजातं तत्तुल्यन्यायतया प्रमाणमस्तु । तस्माज्जिनमुनिवचसोपनिषदुपरोध्या भवत्विति कचोल्लुञ्छनानां दुराशा । अत्र दुराशेत्युक्त्या प्रसक्तस्य दुष्टत्वं द्योत्यते । दुष्टत्वस्य प्रतिबन्द्योपपादनं वक्तुं दोषं तावदाह – वैघट्यस्यापि दृष्टेरिति । पिञ्छधारणादीनां बहूनां वेदविरुद्धानां दृष्टेरित्यर्थः । न यदि – एवं बहुविरुद्धार्थदृष्टावपि जैनमतस्य दुष्टत्वं न यदि । तर्हि सुगतवागेवमेवास्तु सत्या तस्या अपि क्वाचित्कसंवादात् । ननु जैनवागपि सत्यास्तु तथास्तु सौगतवागपि सत्या तथा च वेदो भ्रष्ट इत्याशङ्क्य परिहरति –तेनेति । तेन पुरुषप्रणीतयोर्बुद्धजैनवाक्ययोः परस्परविरोधे सति नित्यं श्रूयमाणत्वेन श्रुतिरनादिनिधनाविच्छिन्नसंप्रदायत्वादप्रकम्प्यतां भजत इति निष्कण्टकोऽयं नैगमिकमार्गः ॥
मूलम् - 202
  1. संवादात् क्वापि भागे जिनमुनिवचसश्शेषमप्यस्तु मानं
    तस्मात्तेनोपरोध्योपनिषदिति कचोल्लुञ्छनानां दुराशा ।
    वैषम्यस्यापि दृष्टेर्न यदि सुगतवागेवमेवास्तु सत्या
    तेनान्योन्यं निरोधात् पुरुषवचनयोरप्रकम्प्या श्रुतिर्नः ॥
विश्वास-प्रस्तुतिः - 203
  1. सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति
    स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी ।
    व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते-
    स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः ॥
३४-तमाहोबिल-यतिः - 203
  1. सच्चासच्चेत्यादि । परिहितगगनैः – परिहितं अम्बरतया परिगृहीतं गगनं यैस्ते परहितगगनास्तैर्दिगम्बरैरित्यर्थः । जैनैरिति यावत् । चस्समुच्चये । जैनैरभ्युपगतं वस्तु सर्वम् । सच्च – ईषत्सत्त्वविशिष्टञ्च । असच्च – ईषदसत्त्वविशिष्टञ्च । द्वयञ्ज – ईषत्सदसच्च । द्वितयसमधिकम् – सत्त्वासत्त्वात्मकावयवद्वयघटितभङ्गीत्रयविलक्षणमवक्तव्यशब्दवाच्यमनिर्वचनीयञ्च । पूर्वैस्सह च – पूर्वोक्तसत्त्वासत्त्वसदसत्त्वपक्षैस्सहितञ्च । तत् – अनिर्वचनीयम् । अस्त्यवक्तव्यनास्त्यवक्तव्यास्तिनास्त्यवक्तव्यशब्दवाच्यञ्च । इति – एवमाकारया । स्यादस्तीत्यादिवाचा – ‘स्यादस्ति स्यान्नास्ति स्यादस्तिचनास्तिच स्यादवक्तव्यं स्यादस्त्यवक्तव्यं स्यान्नास्त्यवक्तव्यं स्यादस्तिनास्तिचावक्तव्यम्।’ इति वाचा । सप्तभङ्गी – सप्तभङ्गी विशिष्टो न्यायः । गीयते – उपन्यस्यते । हे दिगम्बर ते – तव । व्याघातः – व्याघातशब्दवाच्यं किमपि दूषणम् । यदीष्टः – लोके शास्त्रे च यदि सम्मतः । तदा स्वसमयविहतिः – स्वसिद्धान्तव्याघातः । अत्यन्तव्याघातदुष्टायास्सप्तभङ्ग्यास्स्वसिद्धान्तत्वेनेष्टत्वात् । यद्यनिष्टः – यदि व्याघातो नाम दूषणं नेष्टं, तदा । परोक्तेः – परेषामुक्तेर्जैनेतरसिद्धान्तस्य । त्वद्वाक्यैः – जैनवाक्योक्तदूषणैः । क्षतिः – निष्कर्षः। न स्यात् – न भवेत् । निरुपधिकः – देशकालावस्थाद्युपाधिरहितः । असत्त्वादियोगः – आदिशब्देन सत्त्वादिकमुच्यते । असत्त्वसत्त्वादिधर्मसम्बन्धः । क्वापि – कुत्रापि । नच – न भवति । अयं भावः – सप्तभङ्गीघटकमसत्त्वं किं सोपाधिकम्? उत निरुपाधिकम्? पूर्वत्र वयमपि मन्महे घटो हि स्वदेशेऽस्ति परदेशे नास्ति स्वकालेऽस्ति कालान्तरे नास्ति स्वात्मनास्ति परात्मना नास्तीति । उत्तरत्र व्याघातः । घटोऽस्ति केनाप्यात्मना घटो नास्तीति सर्वथाऽसङ्गतमेव तदिति ॥
कुमार-वरदः - 203
  1. तत्र सप्तभङ्गीस्वरूपमनूद्य तत्र व्याहतिलक्षणेन दूषणेन दुष्टत्वमुपपादयति – सच्चेत्यादिना । इयं किल सप्तभङ्गी – स्यादस्ति, स्यान्नास्ति, स्यादस्तिचनास्तिच, स्यादस्तिनास्तिविलक्षणमस्ति, स्यादस्तिनास्तिविलक्षणं नास्ति, स्यादस्तिनास्तिविलक्षणमस्तिनास्तिच, स्यादस्तिनास्तिविलक्षणमित्येवंरूपा । तदेतद्दूषयति – व्याघात इति । तैः परिहितगगनैर्व्याघात इति किमपि दूषणं यदीष्टं लोके शास्त्रे च, तदा स्वसिद्धान्तव्याघातः, अत्यन्तव्याघातदुष्टायास्सप्तभङ्ग्याः स्वसिद्धान्तत्वेनेष्टत्वात् । यदि व्याघातो नाम दूषणं नेष्टं तदापि दूषणमाह – यद्यनिष्ट इत्यादिना । दोषमेव प्रकटयति – परोक्तेरिति । परेषामुक्तेर्जैनवाक्योक्तदूषणैः न क्षतिस्स्यात् न दोषस्यात् । अयमर्थः – व्याघातो हि सर्वत्र दोषोद्घाटनपर्यवसानभूमिः । तदभावे जैनः कथं परपक्षदूषणं वदेदिति । किञ्च स्यादस्तीत्यादिना वस्तूनामसत्त्ववादी निरुपाधिकमसत्त्वं वदत्युत सोपाधिकम्? यदि सोपाधिकं, तदा वयमपि स्वीकुर्महे । घटो हि स्वदेशेऽस्ति परदेशे नास्ति, स्वकालेऽस्ति कालान्तरे नास्ति, स्वात्मनास्ति परात्मना नास्तीति प्रामाणिका अपि वदन्ति । यदि निरुपाधिकं, तदा व्याघातात्सर्वलोकविरोध एव । निरुपाधिकनिषेधो नाम घटो घटाद्यात्मना नास्तीति निषेधः । तथाच घटोऽस्ति केनाप्यात्मना नास्तीत्यसङ्गतमेवैतत्, केनापीति स्वात्मनोऽपि निषेध्यकोटिनिवेशादिति ॥
मूलम् - 203
  1. सच्चासच्च द्वयञ्च द्वितयसमधिकं तच्च पूर्वैस्सहेति
    स्यादस्तीत्यादिवाचा परिहितगगनैर्गीयते सप्तभङ्गी ।
    व्याघातस्तैर्यदीष्टस्स्वसमयविहतिर्यद्यनिष्टः परोक्ते-
    स्तद्वाक्यैर्न क्षतिस्स्यान्न च निरुपधिकः क्वाप्यसत्वादियोगः ॥
विश्वास-प्रस्तुतिः - 204
  1. वृद्धिह्रासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं
    मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः ।
    धर्मादेर्व्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वं
    दुस्तर्कैः कल्पयन्तश्श्रुतिनयकुशलैर्दूरमुत्सारणीयाः ॥
३४-तमाहोबिल-यतिः - 204
  1. वृद्धिह्रासावित्यादि । भविनाम् – संसारिणाम् । प्रतितनु – प्रतिशरीरम् । यथार्हं वृद्धिह्रासौ – आत्मनां देहपरिमाणत्वात् शरीरे वृद्धे वृद्धो भवति ह्रासवति ह्रासवान्भवतीत्ययमेकोऽर्थः । देहभङ्गे – मुक्तौ देहनाशे सति । विमानम् – विगतमानमेवात्मानं वदन्ति । तेष्वेव केचित् मुक्तौ – आत्मनो नित्योर्ध्वयानप्रभृतिच सततोर्ध्वगमनप्रभृतिच वदन्ति । गुरुतया – गुरुत्ववत्तया । क्षमादेः – पृथिव्यादेः । नित्यपातम् – सततमधःपतनम् । धर्मादेः – धर्माधर्मयोः । गगनवत् – आकाशवत् । व्यापकत्वम् – विभुत्वम् । अथवा – पक्षान्तरे । अतादृशम् – व्यापकत्वविलक्षणम् । पुद्गलत्वम् – परिमितवस्तुत्वम् । इमानर्थान् । दुस्तर्कैः – व्याप्तिशून्यैस्तर्कैः । कल्पयन्तो जैनाः. श्रुतिनयकुशलैः – वेदान्तवादिभिः । दूरमुत्सारणीयाः – निरसनीयाः ॥
कुमार-वरदः - 204
  1. एवं स्फुटव्याघातदुष्टां जैनोक्तां सप्तभङ्गीं निरस्य तदुक्तान्यपराण्यप्यर्थान्तराण्युक्तेनैव न्यायेन श्रुतिनयकुशलैर्वेदान्तवादिभिर्निराकरणीयानीत्याह – वृद्धिह्रासाविति । भविनां संसारिणां प्रतिशरीरं वृद्धिह्रासौ यथार्हमित्येकोऽर्थः । आत्मा शरीरपरिमाणत्वाच्छरीरे वृद्धे वृद्धो भवति ह्रासवति ह्रासवान्भवतीति हि जैनानां प्रक्रिया । मुक्तौ देहाभावे सति विगतमानमेवात्मानं प्रवदन्ति जैनाः । तत्र
    केचिन्मुक्त आत्मा नित्यमेवोर्ध्वं यातीत्यर्थः । क्षमादेः पृथिव्यादेर्नित्यपातमप्याहुरेके ।धर्माधर्मयोर्गगनवद्विभुत्वमपि त एवाहुः । तत्र पक्षान्तरमप्याह – अथवेति । पुद्गलत्वम् – परिमितवस्तुत्वमित्यर्थः । एतेषां दुस्तर्कैरेवं कल्पयतां श्रुतिनयनिपुणैर्वेदान्तवादिभिर्दूरोत्सारणीयत्वमेवावशिष्यते । दुराचारत्वात् दूरोत्सारणीयत्वं तावत्सुप्रसिद्धम्, अधुना स्वकपोलकल्पितदुर्वचनवादित्वादपि दूरोत्सारिणीयत्वमुच्यत इति ॥
मूलम् - 204
  1. वृद्धिह्रासौ यथार्हं प्रतितनु भविनां देहभङ्गे विमानं
    मुक्तौ नित्योर्ध्वयानप्रभृति गुरुतया नित्यपातं क्षमादेः ।
    धर्मादेर्व्यापकत्वं गगनवदथवा तादृशं पुद्गलत्वं
    दुस्तर्कैः कल्पयन्तश्श्रुतिनयकुशलैर्दूरमुत्सारणीयाः ॥