15 सर्वथानुपपत्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 198
  1. सत्त्वेऽसत्त्वे द्वये च द्वितयपरिहृतावप्यनिष्टप्रसङ्गै-
    स्सर्वं शून्यञ्चतुष्कोट्यतिगतमिति नामानतस्स्वेष्टवादात् ।
    अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्ध्यै
    तस्मादित्थं निषेधो निरुपधिक इह क्वाप्यदृष्टो न कल्प्यः ॥
३४-तमाहोबिल-यतिः - 198
  1. सत्त्वेऽसत्त्व इत्यादि । सत्त्वे – जगतस्सत्त्वपक्षे । असत्त्वे – असत्त्वपक्षे । द्वये च – सदसत्त्वपक्षे च । द्वितयपरिहृतावपि – सत्त्वासत्त्वाभावपक्षे सदसद्विलक्षणत्वपक्ष इत्यर्थः । अनिष्टप्रसङ्गैः – अनिष्टापातैः । सत्त्वे नित्यप्रमाणप्रमेयभावस्य वक्तुमेवाशक्यत्वात्, असत्वे असतः प्रमाणप्रमेयभावविरोधात्, सदसत्वे नित्यप्रमाणप्रमेयभावतदभावयोर्विरोधात्, सदसद्विलक्षणत्वेऽपि सत्वासत्त्योरिव तद्वैलक्षण्ययोरपि सहावस्थानविरोधात् पक्षचतुष्टयेऽप्यनिष्टापातप्रसङ्गैरिति यावत् । सर्वम् – वस्तुजातम् । चतुष्कोट्यतिगतम् – सत्त्वासत्त्वसदसत्वसदसद्विलक्षणत्वात्मककोटिचतुष्टयमतीतम् । शून्यम् – अभावात्मकमेव । इति न – इत्ययं पक्षो न युक्तः । अमानतः – मानं विना स्वपक्षसाधकप्रमाणं विना । स्वेष्टवादात् -स्वाभिमतकथनात् । साधकप्रमाणं विना स्वाभिमतार्थजल्पनमात्रात् न स्वाभिमतसिद्धिः । अत्रायं विकल्पः – किं प्रमाणात् अबाध्यं तत्त्वमिति ब्रूषे उताप्रमाणात् । यदि प्रमाणात् अस्मच्छिष्योऽसि, यद्यप्रमाणात् त्वदुक्तशून्यवादो न सिध्यतीति । तर्हि विश्वास्तित्ववादमिव विश्वशून्यत्ववादमपि परित्यजाम इत्याशङ्क्याह – अक्षोभ्यमित्यादि । तत्प्रहाणे – तस्य विश्वशून्यत्ववादस्य प्रहाणे त्यागे । त्वया कृते सतीति शेषः । परमतम् – परेषां विश्वसत्यत्ववादिनां मतम् । अक्षोभ्यमेव स्यात् । संवृत्या सर्वमपि सिध्यतीति चेत् तदपि नेत्याह – असतीति । असती संवृतिः – त्वया असत्तया अङ्गीकृता संवृतिनाम्नी माया । अर्थसिद्ध्यै न भवति । सा संवृतिरसती सती वा ? यद्यसती तदा खल्वनर्थक्रियाकारित्वात् विश्वासत्यत्वं न साधयेत्, यदि सती तदापि न साधयेत् स्वस्यैव विद्यमानत्वादिति भावः । तस्मात् – उक्तदूषणात् । इत्थम् – माध्यमिकोक्तरीत्या । निरुपधिकः – देशविशेषकालविशेषरूपोपाधिरहितः । इह – लोके । क्वाप्यदृष्टः कुत्रापि न दृष्टः, निषेधः । न कल्प्यः – न कल्पनार्हः । दृष्टो हि सर्वत्र निषेधस्सोपाधिक एव । तत्रेदमत्र नास्तीति देशभेदोपाधिना निषेधः, इदमिदानीं नास्तीति कालभेदेन, इदमिदं न भवतीति वस्तुभेदेन, एवं सोपाधिकनिषेधस्यैव सर्वत्र प्रामाणिकत्वात् केवलं निरुपाधिकमिदं नास्तीति वदन् माध्यमिको लोकविरोधात् वहिष्करणीय इति भावः ॥
कुमार-वरदः - 198
  1. अत्र भाष्य एव सङ्गतिस्स्पष्टा । माध्यमिकपक्ष एव सुगतमतकाष्ठा, पक्षान्तराणि तु शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमात्पूर्वमुपन्यस्तानि, अधुना प्रधान एव पक्ष उपन्यस्य निरसिष्यत इति संगतिः । तदर्थविचारस्तु – किं माध्यमिकोक्तसर्वशून्यवादसम्भवति नेति । किं सर्वं कार्यं भावरूपमुताभावरूपमिति । किं सर्वकार्येष्वपि भाव एव कारणमुताभाव इति । किं भावान्तरमभावः, उत तुच्छतत्त्वं नाम किञ्चिदिति । इत्थं किल माध्यमिकमतप्रक्रियामाहुः –
    ‘न सन्नासन्नसदन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥’ इति ।
    न सत् तावत् नित्यप्रमाणप्रमेयभावस्य वक्तुमेव न शक्यत्वात्, नाप्यसत् असत्त्वादेव, नापि सदसत् – विरोधात्, नापि सदसद्विलक्षणं तत एव, ततश्च चतुष्कोटिविनिर्मुक्तं शून्यमेव तत्त्वमिति । तदिदमाह – सत्त्व इति । उक्तं मतं प्रतिक्षिपति – नेति । तत्र हेतुमाह – अमानतः स्वेष्टवादादिति । अत्रायं विकल्पः – किं प्रमाणदबाध्यं तत्त्वमिति ब्रूषे, उताप्रमाणात् । यदि प्रमाणात् अस्मच्छिष्योऽसि । यद्यप्रमाणात् त्वदुक्तशून्यवादो न सिध्यतीत्यर्थः । तर्हि विश्वास्तित्ववादवत् विश्वशून्यत्ववादमपि परित्यजाम इत्याशङ्क्य दूषयति अक्षोभ्यमिति । विश्वशून्यत्वप्रहाणे विश्वसत्यत्ववादिनां परेषां मतमक्षोभ्यमेव स्यात् । संवृत्या सर्वमपि सिध्यतीति चेत्तदपि नेत्याह – असतीति । सा संवृतिरसती सती वा, यद्यसती तदा खल्वनर्थक्रियाकारित्वाद् विश्वासत्यत्वं न प्रसाधयेत्, यदि सती कदापि न प्रसाधयेत् स्वस्यैव विद्यमानत्वादित्यर्थः । इत्थं निरुपधिकनिषेधवादिनो माध्यमिकस्य पक्षं प्रतिक्षिप्य निगमयति -
    तस्मादिति । दृष्टो हि सर्वत्र निषेधस्सोपाधिक एव । तत्र ‘इदमत्र नास्ति’ इति देशभेदोपाधिना निषेधः ।
    ‘इदमिदानीं नास्ति’ इति कालभेदेन । ‘इदमिदं न भवति’ इति वस्तुभेदेन । एवं सोपाधिकनिषेधे सर्वत्र प्रामाणिके सति केवलं निरुपाधिकमेव नास्तीति वदन् माध्यमिकवादी लोकविरोधाद् बहिष्करणीय एव । क्वाप्यदृष्टो न कल्प्य इति - निरुपधिकनिषेधस्सर्वत्राप्यदृष्टत्वान्न कल्प्य इत्यर्थः ॥
मूलम् - 198
  1. सत्त्वेऽसत्त्वे द्वये च द्वितयपरिहृतावप्यनिष्टप्रसङ्गै-
    स्सर्वं शून्यञ्चतुष्कोट्यतिगतमिति नामानतस्स्वेष्टवादात् ।
    अक्षोभ्यन्तत् प्रहाणे परमतमसती संवृतिर्नार्थसिद्ध्यै
    तस्मादित्थं निषेधो निरुपधिक इह क्वाप्यदृष्टो न कल्प्यः ॥
विश्वास-प्रस्तुतिः - 199
  1. प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मध्येऽपि कार्यं
    मैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः ।
    कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्ताऽपि वन्ध्या
    सामग्र्या कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था ॥
३४-तमाहोबिल-यतिः - 199
  1. प्राक्पश्चादित्यादि । प्राक् – कार्यस्योत्पत्तेः प्राक् । पश्चात् – कार्यनाशात् पश्चाच्च । सत्वहानेः - सत्वाभावेन । मध्येऽपि कार्यं गगनकुसुमवत् न स्यात् – सत् न भवेत् । इति चेदिति शेषः । मैवम् – एवं न वाच्यम् । तत्रैव दृष्टेः – मध्यकाल एव कार्यस्योपलब्धेः । प्रमाणादेव प्रमेयसिद्धिः पूर्वोत्तरकालयोरदृष्टत्वात् कार्यं न विद्यते मध्यकाले तु दृष्टत्वात् कार्यं नास्तीति वक्तुं न शक्यमिति भावः । न यदि – एवमनङ्गीकारे । असौ मध्यकार्यादिशब्दः कथम् – कथं प्रयुज्यते । मध्यशब्दो हि प्रागभावस्य प्रध्वंसकालं, प्रध्वंसस्य प्रागभावकालञ्च बोधयति तेन वस्तुसद्भावोऽवगम्यते । कार्यशब्दोऽपि प्राक्पश्चादसन्तं मध्यकालवर्तिनमाह तेन च मध्यकाले वस्तुसत्तावगम्यते । अतस्तयोः प्रयोगो न स्यादित्यर्थः । कार्यारम्भे – कार्योत्पादने । निदानम् – कारणम् । विकृतिमत् – किञ्चिद्विकारमापन्नं जनयति । उत न – आहोस्विदविकृतमेव जनयतीत्यर्थः । किं कारणमविकृतमेव कार्यं जनयेदुत विकृतम्, यद्यविकृतं तदा सर्वदा जनयेत्, यदि विकृतं तदा तद्विकारस्यापि कार्यत्वात् विकारान्तरमन्वेषणीयम्, तथाचानवस्थेति भावः । इत्यादिचिन्तापि – इत्यादिविचारश्च । वन्ध्या – विफला । सामग्र्या – सहकारिसम्पत्त्या । कार्यसिद्धेः – कार्योत्पत्तिरूपाभिमतलाभात् । कारणस्य, अनवस्था च – उपर्युपरि कारणान्तरपरम्परापेक्षा च । गुणताम् – सिद्धानवस्थारूपतया गुणत्वम् । भजति – न तु दोषताम् । कल्प्ये ह्नवस्थादोषः, कॢप्तेऽनवस्था गुण एव न दोष इति भावः ॥
कुमार-वरदः - 199
  1. इत्थं किल माध्यमिकवादी मन्यते ‘कार्यं घटादिकं प्रागभावकाले तावदसदिति सुप्रसिद्धमेव, पश्चादपि प्रध्वंसकाले तथैव दृष्टम्, तथाच यथा पूर्वोत्तरदिवसयोरसतश्शशविषाणस्य मध्यदिवसेऽसत्त्वम्, एवं प्राक्प्रध्वंसाभावकालयोरसतः कार्यस्य स्वस्वकाले मध्यकालेऽप्यसत्त्वम्’ इति । तदिदमाह – प्रागिति । तदिदं प्रतिक्षिपति – तत्रैवेति – प्रमाणादेव प्रमेयसिद्धिः । पूर्वोत्तरकालयोरदृष्टत्वात्कार्यं न विद्यते । मध्यकालेषु दृष्टत्वात्कार्यं नास्तीति वक्तुं न शक्यत इति । एवं सुहृद्भावेनोत्तरमुक्त्वा तथापि न स्वीकुर्वतः पूर्वपक्षिणो बाधकमाह – न यदीति । एवमनङ्गीकारे कार्यं मध्यकालेऽपि न स्यादिति कार्यादिशब्दप्रयोग एव न सङ्घटत इत्यर्थः । कार्यशब्दोऽपि प्रागसतो मध्ये सत्त्वमेवाह । मध्यशब्दो हि प्रागभावस्य प्रध्वंसकालावधिं प्रध्वंसस्य प्रागभावकालावधिं चाह । किमुक्तं भवति? वस्तुसद्भावमाहेत्यर्थः । तथाच वस्तुसद्भावानङ्गीकारे प्रतिकूलाप्रतिकूलव्यवहार एव न घटेतेति बाधकतर्कोपन्यासः । इत्थं माध्यमिकोक्तमेकमर्थं प्रतिक्षिप्य तदुक्तमर्थान्तरमप्यनूद्य परिहरति – कार्यारम्भ इति । एवं किलाह माध्यमिकः - कार्यारम्भे कारणमविकृतमेव जनयेदुत विकृतं, यद्यविकृतं तदा सर्वदाऽपि जनयेत्, यदि विकृतं तदा विकारस्यापि कार्यत्वाद्विकारान्तरमन्वेषणीयम् । तथाचानवस्थितिः’ इति । इत्यादिचिन्ता वन्ध्येति – एवंविधा चिन्ता निरर्थिकेत्यर्थः । निरर्थकत्वमेवोपपादयति – सामग्र्येति । कारणस्य सहकारिसम्पत्तिः सामग्री । तथाच परस्परोत्पत्तिप्रसङ्गो निरस्तः सामग्रीसम्पत्तावपि सामग्र्यन्तरापेक्षाऽस्ति । तथाचानवस्थितिप्रसङ्गोऽवशिष्यते । स तु गुण एव । सिद्धानवस्थारूपत्वादित्याह – भजतीति । लोके कर्षणादिक्रमेण शालिसम्पत्तिपर्यन्तं सामग्रीपरम्पराक्रमोऽनुवर्तते, एवमनादौ संसारे पूर्वपूर्वकारणप्रक्रमेणोत्तरकारणक्रमो जायत इति न कश्चिदपि विपश्चितां विप्रतिपत्तिगन्धावकाश इति ॥
मूलम् - 199
  1. प्राक्पश्चात् सत्त्वहानेर्गगनकुसुमवत् स्यान्न मध्येऽपि कार्यं
    मैवन्तत्रैव दृष्टेर्न यदि कथमसौ मध्यकार्यादिशब्दः ।
    कार्यारम्भे निदानं विकृतिमदुत नेत्यादिचिन्ताऽपि वन्ध्या
    सामग्र्या कार्यसिद्धेर्भजति च गुणतां कारणस्यानवस्था ॥
विश्वास-प्रस्तुतिः - 200
  1. साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिद्ध्ये-
    दस्माद्वाक्यानुरोधादिह न कथमसिद्ध्यादिदोषा भवेयुः ।
    तत्र प्रामाण्यबुद्धिर्न यदि पठत तन्मानमित्यस्मदुक्तिं
    वस्तुस्थित्या न मानं तदिति यदि समं त्वन्मतस्थापकेऽपि ॥
३४-तमाहोबिल-यतिः - 200
  1. साध्यमित्यादि । साध्यम् – हेतुसाध्यम् । हेतुः – तत्साधकम् । तदङ्गप्रभृति च – तदङ्गं व्याप्त्यादिकम् । प्रभृतिशब्देन तदपेक्षितं तर्कादिकमुच्यते । सर्वं वस्संवृतेरेव सिध्येद्यदि – विपरीतज्ञानादेव सिध्येद्यदीत्यर्थः, त्वद्वाक्यमेव सिध्येद्यदीति पर्यवसन्नम् । तर्हि अस्मद्वाक्यानुरोधात् – तादृशप्रमाणादस्मद्वाक्यानुरोधात् । इह – अनुमानविषये । असिद्ध्यादिदोषाः कथं न भवेयुः – त्वदनुमानदूषणाङ्गं सकलमपि कथं न, सिध्येदित्यर्थः । तत्र – युष्मद्वाक्यानुरोधे । प्रामाण्यबुद्धिर्न यदि मम प्रमाणत्वबुद्धिर्नास्तीति यदि । तत् – त्वत्साधकदूषकत्वेन प्रयुज्यमानं मद्वाक्यम् । मानम् – प्रमाणम् । इति – एवमाकारम् ।अस्मदुक्तिम् । पठत – पठित्वा सन्तुष्यत । वस्तुस्थित्या, तत् – त्वद्वाक्यम् । न मानमिति यदि – यदि वदसि, तर्हि वस्तुस्थित्या प्रामाण्यं नास्तीत्येतत् । त्वन्मतस्थापकेऽपि – त्वन्मतस्थापकानुमानेऽपि । समम् – तुल्यम् । तत्प्रमाण्यस्यापि सांवृत्तिकत्वेन भवतैवाभिधानात् समस्समाधिरित्यर्थः । अयमर्थः – त्वत्सिद्धान्तस्साधुरिति त्वद्वाक्यप्रामाण्ये त्वत्सिद्धान्तोऽसाधुरिति मद्वाक्यस्यापि प्रामाण्यं स्यात्, मद्वाक्यस्याप्रामाण्ये त्वद्वाक्यस्याप्यप्रामाण्यं स्यात् द्वयोस्सांवृतिकत्वाविशेषादिति ॥
कुमार-वरदः - 200
  1. ‘अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः’ इत्युपक्रमेण शून्यवादिनस्स्वपक्षसाधकप्रमाणाभावाच्छून्यं तत्त्वमिति वक्तुमेव न शक्यमित्यस्माभिरुक्ते सति शून्यवादी प्रत्यवतिष्ठते – अनुमानादेव सर्वं मे सिध्यतीति, तत्र चानुमानाङ्गं सकलमपि मे सत्यमेव सिध्येत् संवृतिमहिम्ना, या तत्त्वमर्थं संवृणोति तिरस्करोति सा संवृतिशब्दवाच्येति तेन सांवृतिकप्रमाणसिद्धं शून्यं तत्त्वम्’ इति । तदिदमनुवदति – साध्यमिति । साध्यमनुमानसाध्यं हेतुस्तत्साधनं तदङ्गं व्याप्त्यादिकम्, प्रभृतिशब्देन तदपेक्षितं तर्कादिकमुच्यते । सर्वं संवृतेरेव सिध्येत् विपरीतज्ञानादेव सिध्येदित्यर्थः । अत्र दूषणमाह – अस्मदिति । यदि तवानुमानसाधनाङ्गं सकलमपि संवृतिप्रमाणात् सिध्येत्, त्वद्वाक्यादेव सिध्येत्, तर्हि तादृशप्रमाणादस्मद्वाक्यानुरोधादेव तवानुमानदूषणाङ्गं सकलमपि कथं न सिध्येदित्यर्थः । अत्र पूर्वपक्षिणोऽभिप्रायमनुवदति – तत्रेति । युष्मद्वाक्यानुरोधे मम प्रमाणबुद्धिर्नास्तीति, तर्हि मम वाक्यं त्वत्साधकदूषकत्वेन प्रयुज्यमानं प्रमाणमिति मदुक्तिं पठित्वा सन्तुष्यत । वस्तुस्थित्या तव वाक्यं प्रमाणं न भवतीति यदि वदसि, तर्हि त्वन्मतस्थापकेऽप्यनुमाने वस्तुस्थित्या प्रामाण्यं नास्त्येव, तत्प्रामाण्यस्य सांवृतिकत्वेनैव भवतैवाभिधानात् । तथा च समस्समाधिः । अयमर्थः – त्वत्सिद्धान्तस्साधुरिति त्वद्वाक्यप्रामाण्ये त्वत्सिद्धान्तोऽसाधुरिति मद्वाक्यस्यापि प्रामाण्यं स्यात्, मद्वाक्यस्याप्रामाण्ये त्वद्वाक्यस्याप्यप्रामाण्यं स्यात् द्वयोस्सांवृतिकत्वाविशेषादिति ॥
मूलम् - 200
  1. साध्यं हेतुस्तदङ्गप्रभृति च यदि वस्संवृतेरेव सिद्ध्ये-
    दस्माद्वाक्यानुरोधादिह न कथमसिद्ध्यादिदोषा भवेयुः ।
    तत्र प्रामाण्यबुद्धिर्न यदि पठत तन्मानमित्यस्मदुक्तिं
    वस्तुस्थित्या न मानं तदिति यदि समं त्वन्मतस्थापकेऽपि ॥
विश्वास-प्रस्तुतिः - 201
  1. अख्यातिस्त्वन्यथाधीर्विषयरहितधीस्सानधिष्ठानबुद्धि-
    र्बाह्यार्थाकारयोगस्सदसदितरधीश्शून्यधीरात्मधीश्च ।
    भ्रान्तौ सर्वत्र तत्तत्परमतकथकैरादृताः पक्षभेदाः
    प्रायो बुद्धिर्यथार्था श्रुतिविदभिमता क्वापि भेदाग्रहादि ॥
३४-तमाहोबिल-यतिः - 201
  1. अख्यातिरित्यादि । प्राभाकराः शुक्तिरजतत्वयोरसंसर्गाग्रहात् शुक्तिरजतयोर्भेदाग्रहाच्च यां बुद्धिं प्रतिपेदिरे सैव अख्यातिः । असंसर्गस्याग्रहणात् भेदस्याग्रहणाच्च । तु – अनेनान्यथाधीरित्युक्तस्यान्यथा-ख्यातिपक्षस्य वैलक्षण्यं प्रतिपाद्यते । तच्च भाष्ये ‘ख्यात्यन्तरवादिनां सुदूरमपि गत्वान्यस्यान्यथाभान-मवर्जनीयम् ।’ इत्यादौ स्पष्टम् । नैयायिकाः पुनरन्यथाज्ञानं भ्रान्तिरिति प्राहुः – अन्यथाधीरिति । शुक्ती रजतात्मना भातीत्यर्थः । विषयरहितधीरिति । वौद्धैकदेशिनः विपरीतज्ञानस्य विषय एव नास्तीति तेषां भावः । तेषां निर्विषयख्यातिवादित्वात् । चस्समुच्चये पादपूरणे वा । अनधिष्ठानबुद्धिः – अयमपि बौद्धभेदाभिमतः पक्षभेदः, तत्र गन्धर्वनगरादिकं स्वप्नमप्युदाहरन्ति । बाह्यार्थाकारयोगः – इति सौत्रान्तिकाः पुनस्सन्निहित-नीलादयः स्वविषयबुद्धौ स्वाकारमपर्यन्तीति तथा बुद्ध्यारोपितनीलादिविज्ञानं भ्रान्तिरिति निश्चिन्वन्ति ।सदसदितरधीरिति – मायावादिनस्सदसद्विलक्षणस्यानिर्वचनीयस्य ख्यातिमाचक्षते । शून्यधीरिति –माध्यमिकाः पुनश्शून्यस्यार्थस्य प्रतीतिर्भ्रान्तिरिति प्रलपन्ति । आत्मधीश्चेति । – आत्मशब्देन ज्ञानस्वरूपमुच्यते । योगाचारास्तु विज्ञानस्यात्मैव बाह्यत्वेन बुध्यत इति भ्रान्तिप्रकारमालपन्ति । एवं सर्वत्र भ्रान्तौ तत्तत्परमतकथकैः – तत्तद्वादिभिः । आदृता एते पक्षभेदाः । एवं पक्षभेदाननूद्य स्वमतमाह – प्राय इत्यादिना । प्रायः – प्राचुर्येण । बुद्धिः । यथार्था – विद्यमानविषयग्राहिणीति । श्रुतिविदभिमता – श्रुतिविदां मीमांसकानां नाथयामुनप्रभृतीनाञ्च सम्मता । क्वापि – यत्र द्रव्ये द्रव्यान्तरसद्भावो न लभ्यते तत्र । भेदाग्रहादि – प्राभाकराभितो भेदाग्रहोऽसंसर्गाग्रहो वा स्वीकार्य इति भावः । अत्र प्रायश्शब्दं प्रयुञ्जानस्यायमभिप्रायः । प्राचुर्येण सर्वत्र यथार्थख्यातिरेव सुलभा पञ्चीकरणप्रक्रियया शुक्तौ रजतमस्ति रजते च शुक्तिरप्यस्ति । सदृशे सदृशान्तरस्य विद्यमानत्वं तान्त्रिकाणामप्यनुमतम् । अतएव सोमाभावे पूतीकानभिषुणुदित्युच्यते पूतीकेऽपि सोमावयवस्य विद्यमानत्वात् । उक्तमिदं यामुनाचार्यैः – ‘सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादिति न्यायविदो विदुः ॥’ इति । तेन शुक्तौ विद्यामानमेव रजतं शुक्तिभूयस्त्वमस्ति रजताल्पीयस्त्वञ्च तथाच शुक्तिभूयस्त्वरजताल्पीयस्त्वाग्रहणसहकृतं विद्यमानरजतग्रहणं भ्रान्तिज्ञानमित्युच्यते । तथा चाख्यातिसंवलिता यथार्थख्यातिः श्रुतिविदामस्माकमभभिमतेति । अत्र श्रुतिविदभिमतेति स्वपक्षस्य पारमार्थ्यसाधकं सन्ध्याधिकरणविषयवाक्यं स्मार्यते । श्रूयते हि ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथस्सृजते स हि कर्ता’ इति ॥
कुमार-वरदः - 201
  1. अत्र भ्रान्तिज्ञानप्रसङ्गात्तत्तद्वादिपरिगृहीतान् भ्रान्तिप्रकाराननूद्यान्ते स्वपक्षमपि निगमयति –अख्यातिरिति । प्राभाकराश्शुक्तिरजतत्वयोरसंसर्गाग्रहाच्छुक्तिरजतयोर्भेदाग्रहं भ्रान्तिस्थले प्रतिपेदिरे सैवाख्यातिः, असंसर्गस्याग्रहणाद् भेदस्याग्रहणाश्च । नैयायिकाः पुनरन्यथाज्ञानं भ्रान्तिरिति प्राहुरिति कथयति –अन्यथाधीरिति । शुक्ती रजतात्मना भातीत्यर्थः । विषयरहितधीरिति बौद्धैकदेशिनः ।
    विपरीतज्ञानस्य विषय एव नास्तीति तेषां भावः । निर्विषयख्यातिवादित्वात् । अनधिष्ठानबुद्धिः – अयमपि
    बौद्धभेदः । तत्र गन्धर्वनगरादिकं स्वप्नमप्युदाहरन्ति । सौत्रान्तिकाः पुनस्सन्निहिता नीलादयस्स्वविषयबुद्धौ स्वाकारमपर्यन्ति, तथा बुद्ध्यारोपितनीलादिविज्ञानं भ्रान्तिरिति निश्चिन्वन्ति । सदसदितरधीः –मायावादिनस्सदसद्विलक्षणस्यानिर्वचनीयस्य ख्यातिमाचक्षते । माध्यमिकाः पुनश्शून्यस्यार्थस्य प्रतीतिरिति प्रलपन्ति । योगाचारस्तु स्वात्मैव बाह्यत्वेन बुध्यत इति भ्रान्तिप्रकारमालपन्ति । एवं विविच्योक्त्वा सङ्कलय्य कथयति – भ्रान्ताविति । तत्तद्वादिभिरादृता एते पक्षभेदाः । एवं पक्षभेदाननूद्य यथार्थख्यातिलक्षणं श्रौतत्वात्स्वकीयमित्याह – प्राय इति । प्राचुर्यार्थः । अत्र प्रायश्शब्दं प्रयुञ्चानस्यायमभिप्रायः – प्राचुर्येण सर्वत्र यथार्थख्यातिरेव सुलभा । पञ्चीकरणादिप्रक्रियया शुक्तौ रजतमस्ति रजते च शुक्तिरप्यस्ति । सदृशे सदृशान्तरस्य विद्यमानत्वं तान्त्रिकैरप्यनुमन्यते । अतएव सोमाभावे पूतीकानभिषुंणुयात् इत्युच्यते, पूतीकेऽपि सोमावयवस्य विद्यमानत्वात् । उक्तमिदं यामुनाचार्यैः –
    ‘सोमाभावे च पूतीकग्रहणं श्रुतिचोदितम् । सोमावयवसद्भावादिति न्यायविदो विदुः ॥’
    तेन शुक्तौ विद्यमानमेव रजतं शुक्तिभूयस्त्वमस्ति रजताल्पीयस्त्वञ्च । तथाच शुक्तिभूयस्त्वरजताल्पीयस्त्वाग्रहणसहकृतं विद्यमानरजतग्रहणं भ्रान्तिज्ञानमित्युच्यते । अत्र श्रुतिविदभिमतेति स्वपक्षस्य पारमार्थ्यसाधकं सन्ध्याधिकरणविषयवाक्यं स्मार्यते । श्रूयते हि ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान्पथः सृजते स हि कर्ता’ इति । क्वापि भेदाग्रहादीति – यत्र द्रव्ये द्रव्यान्तरसद्भावो न लभ्यते तत्र प्राभाकराभिमतो भेदाग्रहोऽसंसर्गाग्रहो वा स्वीकार्य इति भावः ॥
मूलम् - 201
  1. अख्यातिस्त्वन्यथाधीर्विषयरहितधीस्सानधिष्ठानबुद्धि-
    र्बाह्यार्थाकारयोगस्सदसदितरधीश्शून्यधीरात्मधीश्च ।
    भ्रान्तौ सर्वत्र तत्तत्परमतकथकैरादृताः पक्षभेदाः
    प्रायो बुद्धिर्यथार्था श्रुतिविदभिमता क्वापि भेदाग्रहादि ॥