विश्वास-प्रस्तुतिः - 196
- न ग्राह्यग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो
बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव ।
योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ
मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत् ॥
३४-तमाहोबिल-यतिः - 196
- न ग्राह्येत्यादि । क्वचिदपि ग्राह्यग्राहकौ न स्तः – क्वापि ज्ञाने बोध्यबोद्धारौ न विद्येते । तर्हीदमहञ्जानामीति त्र्यात्मकत्वेन बुद्धेः स्फुरणं कथमित्याशङ्क्य परिहरति – विविधेति । विविधानादिसन्तानचित्रः – विविधः - बहुप्रकारः अनादिश्च सन्तानो वासना तद्वशात् चित्ररूपः । बुद्ध्यात्मा – बुद्धिरूप आत्मा । अद्य – बन्धदशायाम् । त्र्यात्मकः स्फुरति – त्र्यात्मकत्वेन स्फुरति । ग्राह्यग्राहकग्रहरूपभेदवत्तया प्रकाशत इत्यर्थः । तथा च योगाचारकारिका – ‘अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥’ इति । भवदशातिक्रमे – बन्धदशानिवृत्तौ मुक्तिदशायाम् । स्वात्मनैव स्फुरति – स्वरूपेणाविभागेन प्रकाशत इत्यर्थः । इत्थम् – एवंरूपा योगाचारोक्तिः । विषयविषयिणोः – अर्थज्ञानयोः । बोधबाधौ – बोधं बाधञ्च । समानौ मन्वानैः – समानतया बुध्यमानैर्विद्वद्भिरित्यर्थः । वारणीया – निवारणीया । यदि प्रतीतत्वात् बोधस्स्वीक्रियते, अबाधितप्रतीतिसिद्धत्वात् अर्थोऽपि स्वीकार्यः, यदि कयाचित् कुसृष्ट्या बाधितत्वादर्थो न स्वीक्रियते, तर्हि तादृशीनां कुसृष्टीनां सुलभत्वात् बोधो न स्वीकार्य इति ज्ञानज्ञेययोस्तुल्यत्वात् ज्ञेयाभावे ज्ञानाभावः, ज्ञानस्य सद्भावे ज्ञेयस्यापि सद्भाव इत्युक्त्वा योगाचारोक्तिर्निराकरणीयेत्यर्थः । एवमनङ्गीकारे दोषमाह – स्वपरेति । अत्र – बाह्यार्थानङ्गीकारपक्षे । क्वापि – विषये । स्वपरविभजनादि – ‘अयं वादी अयं परवादी, अयं स्वपक्षः, अयं परपक्षः, परवादिनां पराजयः, अस्माकं विजयः’ इत्यादिविभागः । न सिध्येत् – सर्वस्यापि विभागस्य बाह्यार्थविभागमूलकतया बाह्यार्थाभावे सर्वोऽपि भेदो न सिध्येत् ॥
कुमार-वरदः - 196
- पूर्वं बाह्यार्थास्थिरत्ववादिनो वैभाषिकास्सौत्रान्तिकेन सह निरस्ताः, अधुना बाह्यार्थनास्तित्ववादिनो योगाचारा निरस्यन्त इति सङ्गतिः । तदर्थनिचारस्तु – किमर्थशून्यवादस्समीचीनयुक्तिमूलो न वेति । किं घटमहं जानामीतीदृशाकारो ज्ञानाकार उतार्थाकार इति । किमर्थव्यहारानुगुण्यं नाम घटाद्याकारातिरेकेण ज्ञानाकारेण भासते नेति । अत्र योगाचारपक्षमनुवदति – न ग्राह्येति । क्वचिदपि ग्राह्यग्राहकौ न स्तः । तर्हि ‘इदमहं जानामि’ इति त्र्यात्मकत्वेन बुद्धेः स्फुरणं कथं स्यादित्याशङ्क्य परिहरति – विविधेति ।बहुप्रकारानादिवासनावशाद् विचित्ररूपा बुद्धिरेव त्र्यात्मकत्वेन स्फुरति । आहुश्च योगाचाराः -
‘अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥’ इति ।
एवं संसारदशायां त्र्यात्मकत्वेन स्फुरणे सिद्धे मुक्तिदशायां स्वरूपेण स्फुरतीत्याह – भवेति । इत्थमेषा योगाचारोक्तिरर्थज्ञानयोर्बोधं बाधञ्च समानतया बुध्यमानैर्विद्वद्भिर्वारणीया । अयमर्थः – यदि प्रतीतत्वाद् बोधस्स्वीक्रियते अबाधितप्रतीतिसिद्धत्वादर्थोऽपि स्वीकार्यः, यदि कयाऽपि कुसृष्ट्या बाधितत्वादर्थो न स्वीक्रियते, तर्हि तादृशीनां कुसृष्टीनां सुलभत्वाद् बोधो न स्वीकार्य इति ज्ञानज्ञेययोस्तुल्यत्वम् । तथा च ज्ञेयाभावे ज्ञानाभावो ज्ञानस्य सद्भावे ज्ञेयस्यापि सद्भाव इत्युक्तं भवति । एवमनङ्गीकारे दोषमाह –स्वपरविभजनादीति । बाह्यार्थानङ्गीकारे खलु ‘अयं वादी अयं तु परवादी, अयमस्मत्पक्षः अयं तु परपक्षः, परवादिनां पराजयः अस्माकं तु विजयः’ इत्यादिकं सर्वमपि बाह्यार्थाविभागरूपत्वादस्मिन्योगाचारपक्षे न सिध्येत् ॥
मूलम् - 196
- न ग्राह्यग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो
बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव ।
योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ
मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत् ॥
विश्वास-प्रस्तुतिः - 197
- बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा
भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् ।
चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं
तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे ॥
३४-तमाहोबिल-यतिः - 197
- बुद्ध्यैक्यमित्यादि । इत्थं किलाहुर्योगाचाराः ‘सहोपलम्भनियमादभेदो नीलतद्धियोः’ इति बोध्यस्य नीलस्य तद्बोधेन इदमहञ्जानामीति सहोपलम्भनियमादैक्यमिति । एतत्तु बोध्यन्यायेन बोद्धुरपि योजयितुं शक्यते, तच्चासम्बद्धमिति वक्तुं विकल्पयति – बुद्ध्यैक्यमिति । सत्ययोः अन्ययोर्वा – असत्ययोर्वा ।बोध्यबोद्ध्रोः । इह – मते । ते – तवाभिमतम् । बुद्ध्यैक्यम् – बुद्ध्या साकमैक्यम् । न घटते – न युज्यते । बोध्यबोद्घ्रोस्सत्ययोश्चेद्बुद्ध्यैक्यं तर्हि तयोस्सत्यत्वमङ्गीकृतमिति नास्माभिस्साध्यं किञ्चित्, असत्ययोश्चेत् बुद्धेरिव तयोरपि सत्यत्वं प्रसज्येत, यद्वा तयोरिव बुद्धेरप्यसत्यत्वं प्रसज्येत, अत उभयतोऽपि दोष इति भावः । बोध्यस्य बुद्धिभिन्नत्वं तु न घटत इति भवान् ब्रूत इत्याह – भिन्नत्व इति । भिन्नत्वे – बोध्यस्य बुद्धिभिन्नत्वे । ग्राह्यलक्ष्मक्षतिमभिमनुषे – ग्राह्यस्य बोध्यस्य लक्ष्म विषयभावात्मकं लक्षणं तस्य क्षतिं विरोधं चिन्तयसि, यदि घटो घटज्ञानाद्भिन्नस्तर्हि पटवत् तस्य विषयो न स्यादिति चिन्तयसीत्यर्थः । तर्हि भिन्नाभिन्नत्वं ब्रूमः यथा चित्रं वस्तु भिन्नमभिन्नञ्च तद्वत् बोध्यबोद्धृबुद्ध्यात्मकमेकं भिन्नमभिन्नञ्चेति तदप्यसङ्गतमित्याह – नात्रेति । अत्र – विषये । चित्रैक्यम् – चित्रवस्तुसम्बन्धि यत् ऐक्यं भिन्नत्वे सत्यभिन्नत्वरूपं तत् । अर्थ्यं न – अर्थापदनपेतं न । ननु कथँ दृष्टमपलपितुं शक्यम्, दृष्टं हि चित्रपटादिकं द्रव्यं, तन्निष्ठं चित्ररूपञ्च, तद्वत्, बुद्ध्यादित्रिकं भिन्नाभिन्नमस्त्वित्यत्राह – चित्रमिति । केऽपि – वयमेव न, किन्तु विद्वांसस्सर्वेऽपि । द्रव्यं वा गुणं वा किमपि वस्तु चित्रं भिन्नैकरूपं भिन्नञ्च तदेकरूपञ्च । नच विदुः – नाङ्गीचक्रुः । चित्रमित्येकं द्रव्यं न स्वीकुर्वन्ति, नापि चित्रं रूपमेकम्, अपितु सर्वं सङ्घातात्मकमेव, भिन्नत्वाभिन्नत्वयोः स्फुटतरविरोधादिति भावः । तेन – बोध्यबोद्ध्रोर्बुद्ध्यैक्यस्यायुक्तत्वेन । इह – योगाचारमते । आत्मख्यातिवादः आत्मनो ज्ञानस्य ख्यातिवादः बोध्यबोद्ध्रात्मना ख्यातिरिति प्रवादः । स्वप्रकाशत्वमात्रे — बोध्यबोद्ध्रोरिव ज्ञानस्य प्रकाशे परापेक्षा नास्ति, किंतु स्वयमेव प्रकाशत इत्येतदर्थप्रतिपादने । स्थितिं भजतु – तात्पर्यं प्रतिपद्यताम् । नतु बोध्यबोद्धृरूपलब्ध्यादिविषये, तस्य स्वमनोरथानुसारेण दुस्साधत्वादिति भावः ॥
कुमार-वरदः - 197
- इत्थं किलाहुर्योगाचाराः – ‘सहोपलम्भनियमादभेदो नीलतद्धियोः’ । इति बोध्यस्य नीलस्य तद्बोधेन इदमहं जानामीति सहोपलम्भनियमादैक्यमिति, एतत्तु बोध्यन्यायेन बोद्धुरपि योजयितुं शक्यते तच्चासम्बद्धमिति वक्तुं विकल्पयति तावत् – बुद्ध्यैक्यमिति । किं बोध्यबोद्ध्रोः सत्ययोर्बुद्ध्यैक्यमभिधीयते अन्ययोः असत्ययोर्वा । सत्ययोश्चेत्त्वयैव बोध्यबोद्धृसत्यत्वमङ्गीकृतमिति नास्माभिस्साधनीयं किञ्चित् । असत्ययोश्चेत्तर्हि बुद्धेरिव तयोरपि सत्यत्वं प्रसज्येत । यद्वा – तयोरिव बुद्धेरप्यसत्यत्वमित्युभयतोऽपि दोष आवर्तते । अतो बोद्धृबुद्धिबोध्यानामभिन्नत्वं भवत्पक्षे न घटते इति भवान्ब्रूत इत्याह – भिन्नत्व इति । भिन्नत्वे ग्राह्यलक्षणायोगं भवन्त एव प्राहुः, यदि घटो घटज्ञानाद्भिन्नस्तर्हि पटवत्तस्य विषयो न स्यादिति । तर्हि भिन्नाभिन्नत्वं ब्रूमः, यथा चित्रं वस्तु भिन्नमभिन्नञ्च तद्वत्, बोद्धृ-बोध्य-बोधात्मकमेकं भिन्नमभिन्नञ्चेति, तदप्यसङ्गतमित्याह - नात्रेति । चित्रैक्यम् - भिन्नत्वेऽप्यभिन्नत्वमसङ्गतमित्यर्थः । ननु कथं दृष्टमपलपितुं शक्यते, दृष्टं चित्रपटादिकं द्रव्यं, तन्निष्ठं चित्ररूपञ्च, तद्वदत्रापि बुद्ध्यादीनां त्रयाणां भिन्नाभिन्नत्वमित्याशङ्क्य दूषयति – चित्रमिति । चित्रं द्रव्यमेकं न स्वीकुर्महे, नापि चित्रं रूपमेकम्, अपितु सर्वं सङ्घातात्मकमेव । केऽपि न च विदुरिति सर्वविद्वत्सम्मत्या निराकरोति । भिन्नैकरूपमिति स्फुटमेव विरोधं प्रकटयति । तेनेति – तेनात्मख्यादिवादो ज्ञानस्वरूपमात्रे स्थितिं भजतु न पुनर्ज्ञानातिरिक्तयोर्बोद्धृबोध्ययोरुपलम्भे, तयोस्सत्यत्वे भेदवादप्रसङ्गात्, असत्यत्वे तदेकात्मकस्य ज्ञानस्यापि असत्यत्वप्रसङ्गादिति माध्यमिकपक्षावतारस्स्यात् । बोध्यबोद्धृप्रकाशेऽप्यसति ‘इदमहं जानामि’ इति सर्वलोकोपलम्भविरोध इति ॥
मूलम् - 197
- बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा
भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् ।
चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं
तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे ॥