विश्वास-प्रस्तुतिः - 190
- बाह्योक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त-
स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे।
निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते
पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति॥
३४-तमाहोबिल-यतिः - 190
- बाह्योक्तेत्यादि । बाह्योक्ताचारभागः - बौद्धप्रतिपादित आचारांशः । श्रुतिविहतिवशात् - श्रुतिविरोधात् । जैमिनीये - पूर्वकाण़्ड एव निरस्तः । तैः - बौद्धैः । तर्कितम् - विचारितम् । तत्त्वांशम् । जैमिनेर्गरुः - बादरायणः । अत्र पादे - तर्कपादे । प्रतिवदति - निराकरोति । वैशेषिकनिरासानन्तरं बौद्धनिरासे सङ्गतिरुच्यते उत्तरार्धेन । बौद्धास्तावत् वैनाशिकाः परमाणुविनाशवादित्वात्, वैशेषिकास्त्वर्धवैनाशिकाः परमाणोर्विनाशाभावेऽपि द्व्यणुकादिद्रव्यविनाशवादित्वात् । तत्र - अर्धवैनाशिकवैनाशिकनिराकरणे । पूर्वम् - पूर्वाधिकरणे । निरुपधिकनयैः - निर्दोषन्यायैः । अर्धवैनाशिकोक्ते - वैशेषिकोक्तमार्गे । निर्धूते सति । वैनाशिकानाम् - वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकरूपाणां चतुर्विधानां बौद्धानाम् । पक्षान् - सिद्धान्तान् । जिनगिरिशमतक्षेपतः प्राक् - जैनपशुपतिमतक्षेपात् पूर्वम् । क्षिणोति - निराकरोति ॥
कुमार-वरदः - 190
- बाह्योक्तेत्यादि। बाह्योक्ताचारभागः- बौद्धप्रतिपादित आचारांशः। श्रुतिविहतिवशात्- श्रुतिविरोधात्। जैमिनीये-पुर्वकाण़्ड एव निरस्तः। तैः- बौद्धैः। तर्कितम्- विचारितम्। तत्त्वांशम्। जैमिनेर्गरुः- बादरायणः। अत्र पादे- तर्कपादे। प्रतिवदति- नीराकरोति। वैशेषिकनिरासानन्तरं बौद्धनिरासे सङ्गतिरुच्यते उत्तरार्धेन। बौद्धास्तावत् वैनाशिकाः परमाणुविनाशवादित्वात्, वैशेषिकास्त्वर्धवैनाशिकाः परमाणोर्विनाशाभावेऽपि द्व्यणुकादिद्रव्यविनाशवादित्वात्। तत्र- अर्धवैनाशिकवैनाशिकनिराकरणे। पूर्वम्- पूर्वाधिकरणे। निरुपधिकनयैः- निर्दोषन्यायैः। अर्धवैनाशिकोक्ते- वैशेषिकोक्तमार्गे। निर्धूते सति। वैनाशिकानाम्- वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकरूपाणां चतुर्विधानां बौद्धानाम्। 0पक्षान्-सिद्धान्ताम्। जिनगिरिशमतक्षेपतः" प्राक्- जैनपशुपतिमतक्षेपात् पूर्वम्। क्षिणोति- निराकरोति॥
मूलम् - 190
- बाह्योक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त-
स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे।
निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते
पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति॥
विश्वास-प्रस्तुतिः - 191
- बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे
सर्वज्ञो नैव मुह्येन्न च निखिलसुहृद्विप्रलिप्सेत कञ्चित् ।
तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न
स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः ॥
३४-तमाहोबिल-यतिः - 191
- बुद्धोऽसावित्यादि । असौ बुद्धः । श्रीधरेण – भगवता । स्वशास्त्रे – पञ्चरात्रे । स्वावतारैस्सह – मत्स्यकूर्मादिभिस्साकम् । परिगणितः – सङ्ख्यातः । सर्वज्ञः – भगवदवतारत्वेन सर्वज्ञः । एषः – बुद्धः । न मुह्येत् – न भ्रान्तिमियात् । निखिलसुहृत् – एषः बुद्धः । कञ्चिदपि चेतनम् । नच विप्रलिप्सेत – न वञ्चयितुं प्रवर्तेत । तस्मात् – बुद्धस्याज्ञानविप्रलिप्साद्यभावात् । बुद्धोक्तभङ्गे – बुद्धप्रतिपादितशास्त्रस्य निरासे । सात्त्वतादि – पञ्चरात्रशास्त्रम् । भिदुरताम् – तदेककर्तृकतया तद्वदेव भङ्गम् । भजति – भजेत् । इति चेन्न । स्वानिष्टप्रत्यनीकप्रमथन-मनसा – स्वानिष्टाः स्वद्वेषिणः, ‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः । तानहं द्विषतः क्रूरान्’ इत्याद्युक्ता ये तामसास्तेषां, प्रत्यनीकानां राजसानां च प्रमथने अधोगतिनयने मनो यस्य तेन भगवता । मोहनादिप्रवृत्तेः – मोहजनकशास्त्रनिर्माणतत्प्रवर्तनादिप्रवृत्तेः प्रमाणसिद्धत्वादित्यर्थः । ‘एष एवासाधुकर्म कारयति तं यमधो निनीषति’ इति श्रुतिः । ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान्’ इति स्मृतिः । पञ्चरात्रेष्वाश्रितरक्षणार्थं प्रवृत्तेस्तेषां तत्त्वावेदकत्वमिति वाक्यशेषः ॥
कुमार-वरदः - 191
- बुद्धोऽसावित्यादि। असौ बुद्धः । श्रीधरेण –भगवता। स्वशास्त्रे – पञ्चरात्रे। स्वावतारैस्सह – मत्स्यकूर्मादिभिस्साकम्।परिगणितः – सङ्ख्यातः। सर्वज्ञः – भगवदवतारत्वेन सर्वज्ञः। एषः –बुद्धः। न मुह्येत् – न भ्रान्तिमियात्। निखिलसुहृत् –एषः बुद्धः।कञ्चिदपि चेतनम्।नच विप्रलिप्सेत — न वञ्चयितुं प्रवर्तेत। तस्मात् – बुद्धस्याज्ञानविप्रलिप्साद्यभावात्।बुद्धोक्तभङ्गे – बुद्धप्रतिपादितशास्त्रस्य निरासे। सात्त्वतादि — पञ्चरात्रशास्त्रम्। भिदुरताम् – तदेककर्तृकतया तद्वदेव भङ्गम्।भजति – भजेत्।इति चेन्न। स्वानिष्टप्रत्यनीकप्रमथनमनसा –स्वानिष्टाः स्वद्वेषिणः, ‘मामात्मपरदेहेषु प्रद्निषन्तोऽभ्यसूयकाः। तानहं" द्विषतः क्रूरान्’ इत्याद्युक्त्या ये तामसास्तेषां, प्रत्यनीकानां राजसानां च प्रमथने अधओगतिनयने मनो यस्य तेन भगवता। मोहनादिप्रवृत्तेः" — मोहजनकशास्त्रनिर्माणतत्प्रवर्तनादिप्रवृत्तेः प्रमाणसिद्धत्वादित्यर्थः।‘एष एवासाधुकर्म कारयति तं यमधोनिनीषति’ इति श्रुतिः। ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभान्’ इति स्मृतिः। पञ्चरात्रेष्वाश्रितरक्षणार्थं प्रवृत्तेस्तेषां" तत्त्वावेदकत्वमिति वाक्यशेषः॥
मूलम् - 191
- बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे
सर्वज्ञो नैव मुह्येन्न च निखिलसुहृद्विप्रलिप्सेत कञ्चित् ।
तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न
स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः ॥
विश्वास-प्रस्तुतिः - 192
- दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न-
स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा।
स्वोक्त्यादेस्सिद्धमेतन्निरुपधि विषमो नैव तस्मात् समोक्तिः
कारुण्याद्विप्रलिप्सा न यदि वृजिनजं नेशनिघ्नं फलं स्यात्॥
३४-तमाहोबिल-यतिः - 192
- दुर्वारेत्यादि । निखिलजनयितुः – निखिलजनकस्येश्वरस्य । मोहनेच्छा – राजसजनमोहनेच्छा । दुर्वारा – कयापि युक्त्या दुष्परिहरा । निखिलजनकत्वात् मोहजनकत्वमपि दुर्वारमित्यर्थः । अन्यथा – ईश्वरस्य मोहजनकत्वाभावे । नः – अस्माकम् । मोहः – विपरीतज्ञानम् ।केन – स्यादिति शेषः । तस्मात् – कारणात् । कर्मानुरूपम् – पूर्वकर्मानुरूपं फलम् । तत्त्वबोधम् – तत्त्वज्ञानम् । भ्रमं वा । असौ – असावेव । दिशति – पुरुषाणां ददाति । एतत् – उक्तमिदमीश्वरस्य मोहजनकत्वम् । स्वोक्त्यादेः – स्ववचनप्रभृतिप्रमाणात् । सिद्धम् । स्वोक्तिस्तु – ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभान्’ इत्यादिः । एषः – ईश्वरः । निरुपधिविषमो न – अकारणवैषम्यराहित्यादेव । समोक्तिः – ‘समोहं सर्वभूतेषु’ इति स्वस्य सर्वसमत्वेन वचनमीश्वरस्य दृश्यते । यदि कारुण्यात् ईश्वरस्य विप्रलिप्सा वञ्चनेच्छा न स्यात्, तर्हि वृजिनजं पापजन्यं फलमीशनिघ्नमीश्वराधीनं न स्यात् । तथाचेश्वरस्य सर्वकर्तृत्वं भज्येतेति भावः ॥
कुमार-वरदः - 192
- दुर्वारेवत्यादि। निखिलजनयितुः — निखिलजनकस्येश्वरस्य।मोहनेच्छा – राजसजनमोहनेच्छा।दुर्वारा – कयापि युक्त्या दुष्परिहरा। निखिलजनकत्वात् मोहजनकत्वमपि दुर्वारमित्यर्थः। अन्यथा –ईश्वरस्य मोहजनकत्वाभावे। नः – अस्माकम्। मोहः – विपरीतज्ञानम्।केन – स्यादिति शेषः। तस्मात् – कारणात्।कर्मानुरूपम् – पूर्वकर्मानुरूपं फलम्।तत्त्वबोधम् – तत्त्वज्ञानम्।भ्रमं" वा। असौ – असावेव। दिशति – पुरुषाणां ददाति। एतत् – उक्तमिदमीश्वरस्य मोहजनकत्वम्। स्वोक्त्यादेः – स्ववचनप्रभृतिप्रमाणात्। सिद्धम्। स्वोक्तिस्तु – ‘तानहं द्विषतः क्रूरान् संसारेषु नराधमान्। क्षिपाम्यजस्रमशुभान्’ इत्यादिः। एषः –ईश्वरः।निरुपधिविषमो न – अकारणवैषम्यराहित्यादेव।समोक्तिः – ‘समोहं सर्वभूतेषु’ इति स्वस्य सर्वसमत्वेन वचनमीश्वरस्य दृश्यते। यदि कारुण्यात् ईश्वरस्य विप्रलिप्सावञ्चनेच्छा न स्यात्, तर्हि वृजिनजं पापजन्यं फलमीशनिघ्नमीश्वराधीनं न स्यात्। तथाचेश्वरस्य सर्वकर्तृत्वं भज्येतेति भावः॥
मूलम् - 192
- दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न-
स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा।
स्वोक्त्यादेस्सिद्धमेतन्निरुपधि विषमो नैव तस्मात् समोक्तिः
कारुण्याद्विप्रलिप्सा न यदि वृजिनजं नेशनिघ्नं फलं स्यात्॥
विश्वास-प्रस्तुतिः - 193
- कल्प्यो बोद्धेति सर्वे सुगतमतविदो बोध्मध्यक्षमेके
बुध्याकारानुमेयं कतिचन कतिचित् बोध्यमिथ्यात्वमाहुः।
तत्तुल्यन्यायतोऽन्यो धियमपि जगदुः संवृतेरेव सिद्धां
तान्सर्वांस्तर्कमानैर्द्यति दितिजगुरूनद्य वैभाषिकादीन् ॥
३४-तमाहोबिल-यतिः - 193
- कल्प्य इत्यादि । सुगतमतविदः – सुगतस्य बुद्धस्य मतविदो दर्शनज्ञाः । सर्वे – वैभाषिक-सौत्रान्तिक-योगाचार-माध्यमिक-नामानश्चत्वारोऽपि बौद्धाः । बोद्धा – आत्मा । कल्प्यः – कल्पनाविषयः । भ्रान्तिकल्पित इत्यर्थः । इत्याहुः । सर्वेषामपि बौद्धानां नैरात्म्यवादित्वात् आत्मा नास्तीति तेषां साधारणोऽर्थ इत्यर्थः । एके – वैभाषिकाः । बोध्यम् – विषयम् । अध्यक्षमित्याहुः – प्रत्यक्षगम्यमित्याहुः । कतिचन – सौत्रान्तिकाः । बोध्यम् – बुद्धिस्थाकारसमर्पकम् । बुद्ध्याकारानुमेयमाहुः – बुद्धिगतेन स्वाकारेणानुमेयमाचक्षते । कतिचित् – योगाचाराः । बोध्यमिथ्यात्वमाहुः – बोध्यस्य मिथ्यात्वमाचक्षते । अन्ये – माध्यमिकाः । तत्तुल्यन्यायतः – बोध्यतुल्यन्यायतया । धियमपि, बोद्धृमिथ्यात्वस्य बौद्धचतुष्टयसाधारणार्थत्वात् तं बोद्धारमिव बुद्धिमपीत्यर्थः । संवृतेरेव सिद्धां जगदुः – संवृतिशब्दवाच्यमायाविशेषत एव सिद्धां कल्पितां जगदुरित्यर्थः । बोध्यस्येव बुद्धेरपि मिथ्यात्वं माध्यमिकाः प्रतिपेदिर इत्यर्थः । तान् सर्वान् वैभाषिकादीन् दितिजगुरून् – असुरगुरून् । अत्र – एतदधिकरणादिष्वधिकरणेषु । तर्कमानैः – तर्कयुक्तैः प्रमाणैः । द्यति – सुत्रकारः खण्डयतीत्यर्थः । दो अवखण्डन इत्यस्मात् दैवादिकाल्लटि रूपम् ॥
कुमार-वरदः - 193
- कल्प्य इत्यादि।सुगतमतविदः –सुगतस्य बुद्धस्य मतविदो दर्शनज्ञाः। सर्वे – वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकनामानश्चत्वारोऽपि बौद्धाः। बोद्धा – आत्मा।कल्प्यः – कल्पनाविषयः।भ्रान्तिकल्पित इत्यर्थः। इत्याहुः। सर्वेषामपि बौद्धानां नैरात्म्यवादित्वात् आत्मा नास्तीति तेषां साधारणोऽर्थ इत्यर्थः। एके – वैभाषिकाः। बोध्यम् — विषयम्। अध्यक्षमित्याहुः – प्रत्यक्षगम्यमित्याहुः। कतिचन – सौत्रान्तिकाः। बोध्यम् – बुद्धिस्थाकारसमर्पकम्। बुद्ध्याकारानुमेयमाहुः —बुद्धिगतेन स्वाकरेणानुमेयमाचक्षते। कतिचित्—योगाचारः।बोध्यमित्यात्वमाहः–बोध्यस्य मिथ्यात्वमाचक्षते।अन्ये— माध्यमिकाः।तत्तुल्यन्यायतः—बोध्यतुल्यन्यातया।धियमंपि बोद्धृमिथ्यात्वस्य बौद्धचतुष्टयसाधारणार्थत्वात् तं बोद्धारमिव बुद्धिमपीत्यर्थः।संवृतेरेव सिद्धां जगदुः—संवृत्तिशब्दावाच्यमायाविशेषत एव सिद्धां कल्पितां जगदुरित्यर्थः।बोध्यस्येव बुद्धेरपि मिथ्यात्वं माध्यमिकाः प्रतिपेदिर इत्यर्थः।तान् सर्वान् वैभाषिकादीन् दितिजगुख्यन्—असुरगुरून्। अत्र—एतदधिकरणादिश्वधिकरणेषु। तर्कमानैः—तर्कयुक्तैः प्रमाणैः।द्यति– सुत्रकारः खण्डयतीत्यर्थः।दो अवखण्डन इत्यस्मात् दैवादिकाल्लटि रूपम्॥
मूलम् - 193
- कल्प्यो बोद्धेति सर्वे सुगतमतविदो बोध्मध्यक्षमेके
बुध्याकारानुमेयं कतिचन कतिचित् बोध्यमिथ्यात्वमाहुः।
तत्तुल्यन्यायतोऽन्यो धियमपि जगदुः संवृतेरेव सिद्धां
तान्सर्वांस्तर्कमानैर्द्यति दितिजगुरूनद्य वैभाषिकादीन् ॥
विश्वास-प्रस्तुतिः - 194
- एकद्व्यादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः
क्षोणीदेहादिपुञ्जप्रसृतिरिति समाभाषि वैभाषिकेण ।
ज्ञानादानादि तत्र क्षणभिदुरतया बोध्यबुद्ध्योर्न सिद्ध्ये-
न्निर्बाधा प्रत्यभिज्ञाऽप्यनुमितिमथनी शेषमन्यत्र सूक्तम् ॥
३४-तमाहोबिल-यतिः - 194
- एकद्ध्यादिति।’’ अत्र खलु वैभाषिका द्वेधा वर्णयन्ति, गन्धरसरूपस्पर्शेषु स्पर्शैकस्वभावो वायुपरमाणुः, स्पर्शरूपद्विस्स्वभावस्तेजःपरमाणुः, स्पर्शरूपरसस्त्रिस्वभावोऽप्परमाणुः स्पर्शरूपरसगन्धचतुस्स्वभावः पृथिवीपरमाणुः, इत्येकः पक्षः, अपरस्तु गन्धस्वभावः पार्थिवपरमाणुः, एवं रसस्वभाव आप्यपरमाणुः, रूपस्वभावस्तैजसः, स्पर्शस्वभावो वायवीय इति। तदिदमाह –एकद्व्यादिति।तत्रैवमन्वयः —- एकद्व्यादिस्वभावैरणुभिर्यत् कार्यमारभ्यते अथवा तत् कार्यं तदेकस्वभावैरारभ्यत इति क्षोणीदेहादिपुञ्चप्रभृतिर्वैभाषिकेणसमाभाषि। इदन्तु क्षणिकैरेव परमाणुभिरिति तैरुक्तम्। तत्र दोषमुद्धाटयति –ज्ञानादानादीति। अयमर्थः – बोद्धा तावन्नास्त्येव नैरात्म्यवादास्वीकारात्। तेन भवतां" बुद्धिर्बोध्यञ्चावशिष्येते। तदुभयमपि क्षणिकमेव। तथा च क्षणिकत्वे ज्ञानमपि नोपपद्यते। प्रवृत्तिरपि नोपपद्यते। इन्द्रियार्थसंनिकर्षलक्षण एव वेद्यं नष्टम्। ज्ञानोत्पत्तिक्षणे वेद्यं नानुवर्तते। कथं तस्य प्रत्यक्षेण वेद्यत्वम्?ज्ञानमपि स्वोत्पत्तिक्षण एव नष्टम््। तत्कथमर्थमवबोधयत अनवबोधकञ्च कथं प्रवर्तयेत्? तथा च ज्ञानार्थयोः क्षणिकत्ववादि नस्तवार्थावबोधनमर्थप्रवर्तनञ्च न घटते। ननु यत् सत् तत् क्षणिकं यथा जलधरपटलमित्याद्यनुमानात् क्षणिकत्वं प्रतिपद्यामाह इति बौद्धाः प्राहुः, तत्रोत्तरमाह – निर्बाधेति। स एवायं प्रदीप इति भ्रान्तप्रत्यभिज्ञादिव्यावृत्तिसिद्धयै निर्बाधत्वमुच्यते। स एवायं स्फटिक इति प्रत्यभिज्ञायाः खलु स्वारसिको बाधो न क्वापि दृश्यते। तेन सा प्रत्यभिज्ञा भददनुमानं मथ्नातीत्यर्थः। शेषमिति –यत् क्षणभङ्गवादे वक्तव्यमवशिष्टं तत्सर्वस्माभिस्तत्त्वमुक्ताकलापे सूक्तम्’’ इति चिन्तामणिपङ्क्तिः। क्षोणीदेहादिपुञ्चप्रभृतिरेकद्व्यादिस्वभावैरणुभिरारभ्यत इति शेषः। अथवा तत्तदेकस्वभावैर्गन्धाद्येकैकस्वभावैरणुभिरारभ्यत इति वैभाषिकेण यत्समाभाषि वैभाषिककर्तृकं यत् समाभाषणं तत्र बोध्यबुद्ध्योःक्षणभिदुरतया ज्ञानादानादि न सिध्येत्। निर्बाधा बाधकप्रत्ययरहिता प्रत्यभिज्ञाप्यनुमितिमथनी यत्सत्तत्क्षणिकं यथा जलधरपटलमित्याद्यनुमिति बाधिकेत्यर्थः।शेषमन्यत्र तत्वमुक्ताकलापादौ सूक्तं सुष्टूक्तमित्यन्वयेऽपि न दोष इति भाति॥
कुमार-वरदः - 194

मूलम् - 194
- एकद्व्यादिस्वभावैर्यदणुभिरथवा तत्तदेकस्वभावैः
क्षोणीदेहादिपुञ्जप्रसृतिरिति समाभाषि वैभाषिकेण ।
ज्ञानादानादि तत्र क्षणभिदुरतया बोध्यबुद्ध्योर्न सिद्ध्ये-
न्निर्बाधा प्रत्यभिज्ञाऽप्यनुमितिमथनी शेषमन्यत्र सूक्तम् ॥
विश्वास-प्रस्तुतिः - 195
- बोधेष्वाकारभेदं निजमुपरितनेष्वर्पयन् प्राक्तनोऽर्थ-
स्तद्वैचित्र्यानुमेयः क्वचिदपि न तदाऽध्यक्षतेति प्रजल्पन् ।
प्राक् पश्चाच्च प्रवृत्तैर्विहतिबहुलतां गौरवञ्च ब्रुवाणैः
शिक्षादक्षैस्सयूथ्यैर्दमित उपशमं यातु सौत्रान्तिकाख्यः ॥
३४-तमाहोबिल-यतिः - 195
- बोधेष्वित्यादि । उपरितनेषु – स्वोत्पत्तिक्षणानन्तरक्षणभाविषु । बोधेषु – ज्ञानेषु । निजम् – स्वकीयम् । आकारभेदम् – नीलाद्याकारभेदम् । अर्पयन् – सङ्क्रामयन् । प्राक्तनः – पूर्वक्षणभवः । अर्थः – घटादिः । तद्वैचित्र्यानुमेयः – ज्ञानगताकारवैचित्र्यलिङ्गेनानुमेयः । क्वचिदपि – कुत्रापि विषये । तदध्यक्षता न – तस्यार्थस्य प्रत्यक्षविषयत्वं नास्ति । इति प्रजल्पन् सौत्रान्तिकाख्यः – सौत्रान्तिकनामा वौद्धविशेषः । प्राक् पश्चाच्च प्रवृत्तैः – स्वस्य गुरूपदेशलाभात् पूर्वं पश्चाच्च लब्धोपदेशैर्बौद्धमतनिर्धारणप्रवृत्तैः । विहतिबहुलतां गौरवञ्च ब्रुवाणैः – व्याहतिबाहुल्यं कल्पनागौरवञ्च वदद्भिः । शिक्षादक्षैः – स्वपक्षदूषणेन स्वस्यापथप्रवृत्तिवारणमेव शिक्षा, तत्र समर्थैः । सयूथ्यैः – सतीर्थ्यैर्वैभाषिकादिभिरेव । दमितः – घातितः, भग्नदर्पः कृत इति यावत् । स्वयं नष्टोऽर्थः कथं स्वाकारं कालान्तरवर्तिनि ज्ञाने समर्पयति ? कथञ्च प्रत्यक्षरूपतया प्रतीयमानोऽर्थो बुद्धिगताकारेणानुमीयते ? कथञ्च वा नीलपीताद्येकाकारदर्शने ज्ञानवतः कश्चिन्नीलाकारो विषयरूपोऽन्यो नीलाकार इत्याकारद्वयं भवता परिकल्प्यते? इति दूषणकलापैर्दमित इत्यर्थः ॥ उपशमं यातु ॥
कुमार-वरदः - 195
- बोधेष्वित्यादि। उपरितनेषु – स्वोत्पत्तिक्षणानन्तरक्षणभाविषु। बोधेषु – ज्ञानेषु। निजम् –स्वकीयम्। आकारभेदम् – नीलाद्याकारभेदम्। अपर्यन् – सङ्क्रामयन्। प्राक्तन – पूर्वक्षणभवः। अर्थः – घटादिः। तद्वैचित्र्यानुमेयः — ज्ञानगताकारवैचित्र्यलिङ्गेनानुमेयः। क्वचिदपि – कुत्रापि विषये। तदध्यक्षता न – तस्यार्थस्य प्रत्यक्षविषयत्वं नास्ति। इति प्रजल्पन् सौत्रान्तिकाख्यः –सौत्रान्तिकनामा वौद्धविशेषः। प्राक् पश्चाच्च प्रवृत्तैः – स्वस्य गुरूपदेशलाभात् पूर्वं पश्चाच्च लब्धोपदेशैर्बौद्धमतनिर्धारणप्रवृत्तैः। विहतिबहुलतां गौरवञ्च ब्रुवाणैः — व्याहतिबाहुल्यं" कल्पनागौरवञअच वदद्भिः। शिक्षादक्षैः — स्वपक्षदूषणेन स्वस्यापथप्रवृत्तिवारणमेव शिक्षा तत्र समर्थैः। सयूथ्यैः – सतीर्थ्यैर्वैभाषिकादिभिरेव। दमितः – घातितः, भग्नदर्पः कृत इति यावत्। स्वयं नष्टोऽर्थं कथं स्वीकारं कालान्तरव्रर्तिनि ज्ञाने समर्पयति?कथञ्च प्रच्यक्षरूपतया प्रतीयमानोऽर्थो बुद्धिगताकारेणानुमीयते? कथञ्च वा नीलपीताद्येकाकारदर्शने ज्ञानवतः कश्चिन्नीलाकारो विषयरूपोऽन्यो नीलाकार इत्याकारद्वयं भवता परिकल्प्यते? इति दूषणकलापैर्दमित इत्यर्थः॥उपशमं यातु॥
मूलम् - 195