12 महद्दीर्घाधिकरणम्

विश्वास-प्रस्तुतिः - 183
  1. कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू-
    पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह।
    प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं
    सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि॥
३४-तमाहोबिल-यतिः - 183
  1. कल्प्येत्यादि। कल्प्योपादानम्- अनुमानकल्प्यञ्च तदुपादानञ्च एवम्भूतम्। एकं परममहत्- प्रधानम्। अधिक्षिप्य- निरस्य। दृष्टात्- त्रसरेणोः। समधिकवपुषः- अधिकस्वरूपस्य कल्प्यस्येत्यर्थः। नानाविधाणूपादानौघस्य- पार्थिवाप्यतैजसवायवीयाणुरूपोपादानौघस्य। कल्पनेऽनिष्टमाह। इयमेका पूर्वोत्तराधिकरणसङ्गतिः। प्राज्ञाधिष्ठानशून्यप्रकृतिपरणतिः- ईश्वरानधिष्ठितमूल्प्रकृतिपरिणतिपक्षः। प्राक्- पूर्वाधिकरणे, निरस्ता। अथ- अस्मिन्नधिकरणे। सेशम्- सेश्वरम्। सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षम्-सूक्ष्माः अतीन्द्रियाः अणवः" परमाणव एव द्रव्याणि मूलं आदिकारणं यस्यास्तादृश्याः, द्व्यणुकादिक्रमेण जगत्सृष्टेः पक्षं सिद्धान्तं, यद्वा सूक्ष्माणुद्रव्यमूलकं यत् द्व्यणुकं तदादिरूपस्य जगतस्स्सृष्टेः पक्षम्। पिनष्टि- निराकरोतीत्यर्थः।
कुमार-वरदः - 183

मूलम् - 183
  1. कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू-
    पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह।
    प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं
    सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि॥
विश्वास-प्रस्तुतिः - 184
  1. प्रागेवारम्भणोक्तावपहृतविषया प्रागसद्द्रव्यकॢप्तिः
    काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्।
    त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं
    व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः॥
३४-तमाहोबिल-यतिः - 184
  1. प्रागेवेत्यादि। प्रागेव- पूर्वपाद एव। आरम्भणोक्तौ- आरम्भणाधिकरणे। प्रागसद्द्रव्यकॢप्तिः- उत्पत्तेः प्रागविद्यमानस्यैव द्रव्यस्योत्पत्तिरिति कल्पना। अपहृतविषया- प्रागप्यवस्थान्तरेण विद्यमानस्यैव द्रव्यस्य पुनरन्यावस्थाप्राप्तिरिति स्थापनेनापहृतावकाशा। इदानीं तु काणादानां बहुमुखम्- समवाय्यसमवायिनिमित्तभेदेन बहुप्रकारम्। कारणप्रक्रियांशम्- कारणप्रक्रियाभेदान्। क्षिपति- निराकरोतीत्यर्थः। उक्तमेव विवृणोति पश्चार्धेन। अनुमितिशरणैः- काणादादिभिः। त्रेधा- समवाय्यसमवायिनिमित्तभेदेन त्रैविध्येन। हेतौ- कारणे, विभक्ते सति। तत्तदंशे, यथार्हम्- यथायोगम्। विकल्पक्रमविविधगतीन्- विकल्पक्रमेण विविधप्रकारान्। व्याघातादीन्- बाधकान्। अत्र-अस्मिन्नधिकरणे। सूत्रैः- ‘महद्दीर्घवत्’ इत्यादिसूत्रैः। सूत्रकारो व्याहरतीत्यन्वयः। अतो न पौनरुक्त्यमिति हृदयम्।
कुमार-वरदः - 184

मूलम् - 184
  1. प्रागेवारम्भणोक्तावपहृतविषया प्रागसद्द्रव्यकॢप्तिः
    काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्।
    त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं
    व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः॥
विश्वास-प्रस्तुतिः - 185
  1. दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या
    दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्।
    सर्वं सह्येत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये
    तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया॥
३४-तमाहोबिल-यतिः - 185
  1. दृष्टस्याणोरित्यादि। दृष्टस्य- जालसूर्यमरीचिस्थतयोपलभ्यमानस्य। अणोः- त्रसरेणोः। प्रसूतिम्- कारणम्। द्व्यणुकम्- द्व्यणुकाख्यमणुविशेषम्। अणुमपि- द्व्यणुककारणतया परमाणुशब्दवाच्यमणुमपि। अनुमित्या स्थापयन्तः काणादाः। दृष्टाकारानुसारात्- अन्यत्र दृष्टाकारस्यैव कल्प्येऽप्यनुसरणीयतया। अत्र- परमाणौ। निरवयवतादि- निरवयवत्वप्रभृति धर्मजातम्। वक्तुम्- प्रतिपादयितुम्। न क्षमेरन्- न शक्नुयुः। द्रव्यान्तरारम्भकस्य द्रव्यस्य निरवयवत्वमन्यत्र क्वाप्यदृष्टमित्यस्मिन्नपि द्व्यणुकारम्भके परमाणौ न निरवयवत्वं वक्तुं शक्नुयुरित्यर्थः। अणुपरिमाणतारतम्यविश्रमस्थानतया परमाणुकल्पनं व्यर्थमनर्थावहञ्चेति भावः। जालकालोकलक्ष्ये- जालसूर्यमरीचिषूपलभ्यमाने। सूक्ष्मे-त्रसरेणौ तु। सर्वम्- दूषणाभासजातं" नामेति न्यायेन सोढुं शक्यते। स्मृतिस्तु- हिरण्यदानफलप्रशंसापरा त्रसरेणुतदवयवद्व्यणुकादितुल्यपरिमितिकहिरण्यदातुः फलविशेषान्निर्दिशन्ती स्मृतिस्तु। तद्भागान्- त्रसरेण्ववयवान्। ख्यापयेद्वा- प्रख्यापयेद्वा। अत्र मा वा इति शेषः। अफलतया- परिमितहिरण्यदानप्रशंसापरायास्तस्यास्त्रसरेण्ववयवख्यापने वैफल्यात्। आन्यपर्येण- उक्ततात्पर्यान्तरेण। नेया- नेतुमर्हा।
कुमार-वरदः - 185

मूलम् - 185
  1. दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या
    दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्।
    सर्वं सह्येत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये
    तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया॥
विश्वास-प्रस्तुतिः - 186
  1. विश्रान्तिर्न क्वचिच्चेदवयवनिवहानन्त्यतो मानसाम्यं
    माषक्षोणीभृतोस्स्यादिति यदि तदसत्तारतम्यादनन्ते।
    वैषम्यं पक्षमासप्रभृतिषु नियतं नह्यनन्तेष्वनिष्टं
    पारावर्यञ्च जात्योर्न किमनुकथितं व्यक्त्यनन्तत्वसाम्ये॥
३४-तमाहोबिल-यतिः - 186
  1. विश्रान्तिरित्यादि क्वचित्- परमाणौ। विश्रान्तिर्न चेत्- अवयवधाराविश्रमो नास्ति चेत्। अवयवनिवहानन्त्यतः- अवयवनिवहानन्त्यात्। माषक्षोणीभृतोः- माषपर्वतयोः। मानसाम्यम्- परिमाणसाम्यम्। स्यादिति- अल्पावयवत्वबह्ववयवत्वाभ्यां हि माषपर्वतयोः परिमाणतारतम्यम्, इदानीमवयवधारविश्रमाभावे द्वयोरप्यनन्तावयवत्वसाम्यात् परिमाणतारतम्यं न स्यादिति। यदि- एवं वदसि यदि। तदसत्- तदसाधु। अनन्ते तारतम्यात्- अनन्तेऽपि तारतम्यस्य विद्यमानत्वादित्यर्थः। परमाण्ववयवानन्त्यात् पर्वतप्रविष्टानन्तपरमाण्ववयवानन्त्यवैषम्यस्य वक्तुं शक्यत्वादिति यावत्। उक्तस्यार्थस्य दृष्टान्ताभ्यां विवरणमुत्तरार्धेन- अनन्तेष्वपि पक्षमासप्रभृतिषु नियतं दृष्टं वैषम्यं" नहि भवतामनिष्टम्। दिवसाः पक्षा मासा इत्यादयः कालभेदाः सर्वेऽपि पृथगनन्ता एव, तथाऽपि पूर्वपूर्वेभ्य उत्तरोत्तरेषामाधिक्यमीश्वरेणापि नापलपितुं शक्यमित्यर्थः। व्यक्तयनन्तत्वसाम्ये- आश्रयव्यक्तयानन्त्यतौल्येऽपि। जात्योः- पृथिवीत्वघटत्वरूपयोर्द्वयोर्जात्योः। पारापर्यम्- पराचापराच परापरे तयोर्भावः पारापर्यम्, परजातित्वमपरजातित्वञ्चेत्यर्थः। अनुकथितं न किम्- भवद्भिरेवोक्तं न किम्। जातिर्द्विविधा परा चापराच, पृथिवीत्वादिः परजातिर्घटत्वादिरपरजातिः, तत्राश्रयाधिक्यात् पृथिवीत्वादिः परजातिः आश्रयाल्पीयस्त्वात् घटत्वादिरपरजातिरिति हि भवत्प्रक्रिया। तत्राश्रयान्त्ये तुल्येऽपि परत्वापरत्वरूपं तारतम्यं भवद्भिर्यथोक्तं तथान्यत्रापि स्यादिति भावः॥
कुमार-वरदः - 186

मूलम् - 186
  1. विश्रान्तिर्न क्वचिच्चेदवयवनिवहानन्त्यतो मानसाम्यं
    माषक्षोणीभृतोस्स्यादिति यदि तदसत्तारतम्यादनन्ते।
    वैषम्यं पक्षमासप्रभृतिषु नियतं नह्यनन्तेष्वनिष्टं
    पारावर्यञ्च जात्योर्न किमनुकथितं व्यक्त्यनन्तत्वसाम्ये॥
विश्वास-प्रस्तुतिः - 187

187.नादृष्टं किञ्चिदन्यच्छ्रुतिसरणिजुषां देवतानुग्रहादे-
रन्यत्वे तस्य तज्ज्ञैरधिकयतनवत् कॢप्तिरादौ व्युदस्ता।
यत्ने यत्नानपेक्षां न किमनुमनुते स्याददृष्टेऽपि तद्वत्
भूतस्थादृष्टवादे द्व्यणुकृदणुगतादृष्टकल्पोऽत्र लूनः॥

३४-तमाहोबिल-यतिः - 187

12.नादृष्ट मित्यादि। श्रुतिसरणिजुषाम्- अस्माकम्। देवतानुग्रहादेरन्यत् अदृष्टं नाम किञ्चित् नास्ति। तस्य- अदृष्टस्य। अन्यत्वे- देवतानुग्रहादेरन्यत्वे तेन जीवनिष्ठत्वे परिकल्पिते। तज् ज्ञैः- तादृग्विधादृष्टस्वरूप्ज्ञैः। अधिकयतनवत्कॢप्तिः- अदृष्टादधिकस्य यतनवत ईश्वरस्य कल्पना। आदौ निरस्ता- शास्त्रारम्भे शास्त्रयोन्यधिकरणे निरस्ता, जीवगतादृष्टैरेव विश्वसृष्टावुपपन्नायामधिकेश्वरकल्पनमन्याय्यमिति। अदृष्टस्याचेतनत्वाच्चेतनाधिष्ठानमावश्यकमितीश्वरयत्नापेक्षास्तीत्याशङ्क्येश्वरयत्नस्य यत्नान्तरानपेक्षस्यैव कार्यकारित्ववत् जीवगतादृष्टस्यापि ईश्वरयत्ननिरपेक्षस्यैव कार्यकारितास्त्वित्युच्यते यत्न इति। यत्ने- ईश्वरयत्ने। यत्नानपेक्षाम्- यत्नान्तरापेक्षाभावम्। अनुमनुते न किम्- अङ्गीकरोति न किमित्यर्थः। अदृष्टेऽपि- जीवगतादृष्टेऽपि। तद्वत् स्यात्- ईश्वरयत्नानपेक्षा स्यात्। तथा च जीवगतादृष्टस्य विश्वकारणत्वे सति नेश्वरसिद्धिरित्यर्थः। भूतस्थादृष्टवादे-भूतगतादृष्टपक्षे। द्व्यणुकृदणुगतादृष्टकल्पः- द्व्यणुककारणभूतपरमाणुगतादृष्टपक्षः। अत्र- एतदधिकरणे। लूनः- निराकृत इत्यर्थः। भाष्यकारैरिति शेषः। तथा च भाष्यम्- ‘परमणुकारणवादे हि परमाणुगतकर्मजनित तत्संयोगपूर्वकद्व्यणुकादिक्रमेण जगदुत्पत्तिरिष्यते’ इत्यारभ्य ‘तदिदं परमाणुगतं कर्म स्वगतादृष्टकारितमात्मगतादृष्टकारितं" वा उभयथापि न सम्भवति क्षेत्रज्ञपुण्यपापानुष्ठानजनितस्यादृष्टस्य परमाणुगतत्वासम्भवात्, सम्भवे च सदोत्पादकत्वप्रसङ्गः, आत्मगतस्य चादृष्टस्य परमाणुगतकर्मोत्पत्तिहेतुत्वं न सम्भवति’ इत्यादि॥

कुमार-वरदः - 187

मूलम् - 187

187.नादृष्टं किञ्चिदन्यच्छ्रुतिसरणिजुषां देवतानुग्रहादे-
रन्यत्वे तस्य तज्ज्ञैरधिकयतनवत् कॢप्तिरादौ व्युदस्ता।
यत्ने यत्नानपेक्षां न किमनुमनुते स्याददृष्टेऽपि तद्वत्
भूतस्थादृष्टवादे द्व्यणुकृदणुगतादृष्टकल्पोऽत्र लूनः॥

विश्वास-प्रस्तुतिः - 188
  1. नित्यं सम्बन्धमेके निजगदुरपृथक्सिद्धसर्वानुवृत्तं
    नित्यं नित्येष्वनित्येष्वपि कतिचिदिमन्तावदायुष्कमाहुः।
    तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचां स्यान्न तेन व्यवस्था
    गुर्वी त्वन्यस्य कॢप्तिः कथमधिकजुषां नानवस्था न दोषः॥
३४-तमाहोबिल-यतिः - 188
  1. नित्यं सम्बन्धमित्यादि। एक-वैशेषिकाः। अपृथक्सिद्धसर्वानुवृत्तम्- अपृथक्सिद्धेषु गुणगुण्यादिषु सर्वेष्वनुस्यूतम्। नित्यं" सम्बन्धम्- समवायाख्यं नित्यं सम्बन्धम्। निजगदुः- ऊचुः। कतिचित्-प्राभाकराः। इमम्-समवायम्। नित्येषु नित्यम्- नित्यगुणगुण्यादिषु नित्यम्। अनित्येष्वपि तेषु तावदायुष्कम्- सम्बन्धिद्वयसमानकालिकम्, आहुः। अनित्येष्विति वचनं नित्यानित्ययोरप्युपलक्षणम्। नित्यानित्यसम्बन्धिनोरपि अनित्यमित्यर्थः। तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचाम्-तत्तद्द्वन्द्वानि शैत्यजलौष्ण्यानलादिसम्बन्धिद्वन्द्वानि तेषां स्वभावप्रतिनियतिः" स्वभावनियमस्तन्मुचां विशेषणविशेष्ययोरन्योन्यप्रतिसम्बन्धित्वस्वाभावमनुपजीव्य समवाय एव तयोरन्योन्याश्लेषव्यवस्थापक इति वदतामित्यर्थः। तेन- समवायेन। व्यवस्था न स्यात्- शैत्यजलयोरेव समवायो न तु शैत्यदावानलयोरिति द्व्यवस्था न स्यादित्यर्थः। तत्तद्द्वन्द्वस्वभावमुपजीव्य समवायस्य गुणगुण्याश्लेष व्यवस्थापकत्व्ऽपि दुषणमाह-अन्यस्येति। शैत्यजलौष्ण्यानलादिषु स्वभावादेव परस्पराश्लेषसिद्धौ अन्यस्य समवायस्य कॢप्तिस्तु कल्पना गुर्वी। गुणादिविशिष्टप्रतीतिनिर्वाहकत्वेनातिरिक्तसमवायाभ्युपगमे दोषमाह- कथमित्यादिना। अधिकजुषां" विशिष्टबुद्धिनिर्वाहायातिरिक्तं समवायमङ्गीकुर्वताम्, अनवस्थादिदोषः कथं न स्यादिति। अयं भावः- विशेषणविशेष्ययोर्विशिष्टबुद्धिनिर्वाहायातिरिक्तसमवायाभ्युपगमे समवायस्यापि सम्बन्धिनाबुद्दिश्य विशेषणत्वेन रूपसमवायवान् घट इत्यादिव्यवहारदर्शनात् तत्रापि समवायान्तरं कल्पनीयम्, तथा चानवस्था, तत्र स्वभावसम्बन्धाङ्गीकारे अपृथक्सिद्धविशेषणविशेष्ययोरेव स्वभावसम्बन्धोऽङ्गीकार्यः, नत्वनुपलब्धः समवायोऽङ्गीकार्य इति॥
कुमार-वरदः - 188
  1. नित्यं सम्बन्धमित्यादि। एक-वैशेषिकाः। अपृथक्सिद्धसर्वानुवृत्तम्- अपृथक्सिद्धेषु गुणगुण्यादिषु सर्वेष्वनुस्यूतम्। नित्यं सम्बन्धम्- समवायाख्यं नित्यं सम्बन्धम्। निजगदुः- ऊचुः। कतिचित्-प्राभाकराः। इमम्-समवायम्। नित्येषु नित्यम्- नित्यगुणगुण्यादिषु नित्यम्। अनित्येष्वपि तेषु तावदायुष्कम्- सम्बन्धिद्वयसमानकालिकम्, आहुः। अनित्येष्विति वचनं नित्यानित्ययोरप्युपलक्षणम्। नित्यानित्यसम्बन्धिनोरपि अनित्यमित्यर्थः। तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचाम्-तत्तद्द्वन्द्वानि शैत्यजलौष्ण्यानलादिसम्बन्धिद्वन्द्वानि तेषां स्वभावप्रतिनियतिः स्वभावनियमस्तन्मुचां विशेषणविशेष्ययोरन्योन्यप्रतिसम्बन्धित्वस्वाभावमनुपजीव्य समवाय एव तयोरन्योन्याश्लेषव्यवस्थापक" इति वदतामित्यर्थः। तेन- समवायेन। व्यवस्था न स्यात्- शैत्यजलयोरेव समवायो न तु शैत्यदावानलयोरिति द्व्यवस्था न स्यादित्यर्थः। तत्तद्द्वन्द्वस्वभावमुपजीव्य समवायस्य गुणगुण्याश्लेष व्यवस्थापकत्व्ऽपि दुषणमाह-अन्यस्येति। शैत्यजलौष्ण्यानलादिषु स्वभावादेव परस्पराश्लेषसिद्धौ अन्यस्य समवायस्य कॢप्तिस्तु कल्पना गुर्वी। गुणादिविशिष्टप्रतीतिनिर्वाहकत्वेनातिरिक्तसमवायाभ्युपगमे दोषमाह- कथमित्यादिना। अधिकजुषां विशिष्टबुद्धिनिर्वाहायातिरिक्तं समवायमङ्गीकुर्वताम्, अनवस्थादिदोषः कथं न स्यादिति। अयं भावः- विशेषणविशेष्ययोर्विशिष्टबुद्धिनिर्वाहायातिरिक्तसमवायाभ्युपगमे समवायस्यापि सम्बन्धिनाबुद्दिश्य विशेषणत्वेन रूपसमवायवान् घट इत्यादिव्यवहारदर्शनात् तत्रापि समवायान्तरं कल्पनीयम्, तथा चानवस्था, तत्र स्वभावसम्बन्धाङ्गीकारे अपृथक्सिद्धविशेषणविशेष्ययोरेव स्वभावसम्बन्धोऽङ्गीकार्यः, नत्वनुपलब्धः समवायोऽङ्गीकार्य इति॥
मूलम् - 188
  1. नित्यं सम्बन्धमेके निजगदुरपृथक्सिद्धसर्वानुवृत्तं
    नित्यं नित्येष्वनित्येष्वपि कतिचिदिमन्तावदायुष्कमाहुः।
    तत्तद्द्वन्द्वस्वभावप्रतिनियतिमुचां स्यान्न तेन व्यवस्था
    गुर्वी त्वन्यस्य कॢप्तिः कथमधिकजुषां नानवस्था न दोषः॥
विश्वास-प्रस्तुतिः - 189

189.निर्धूते सूत्रकारैरवयविपरमाण्वात्मके द्रव्यवर्गे
विश्वं व्याप्त्येकलक्ष्यं परममहदसत् स्यादथाद्रव्यमेव।
मैवं दृष्टाणुतत्संहति तदुभयसम्बन्धसिद्धेरबाधा-
दागन्तुक्षोणिताद्यैः श्रुतिरपि जगदारम्भणं बम्भणीति॥

३४-तमाहोबिल-यतिः - 189
  1. निर्धूत इत्यादि। सूत्रकारैः। अवयविपरमाण्वात्मके- अवयवातिरिक्तावयव्यात्मके दृष्टत्रसरेण्वधिकद्व्यणुकपरमाण्वात्मके च। द्रव्यवर्गे निर्धूते- निराकृते सति। विश्वं व्याप्त्येकलक्ष्यं परममहदेव स्यात्, अथ वा असत् स्यात्, तेनैव न्यायेन परममहतोऽप्यभावात्। यद्वा एवं द्रव्ये निरस्ते सति विश्वमद्रव्यमेव स्यात्। उक्तं चोद्यं प्रतिक्षिपति-मैवमिति। तत्र हेतुमाह-दृष्टेति। नह्यस्माभिर्दृष्टं" त्रसरेणुद्रव्यं तत्संहतिरूपं कार्यद्रव्यं तदुभयसम्बन्धादिकं च बाध्यते, अतो मैवमित्यन्वयः। कथं तर्हि भवत्पक्षे प्रलयकाले क्षित्यादीनामभावात् पञ्चभूतकार्यतया जगत्सृष्टिसम्भव इत्याशङ्क्य परिहरति- आगन्त्विति। प्रकृतावेव महदाद्यवस्थाविशेषा जायन्ते तेन प्रकृतिरेव नित्या महदादितत्त्वान्तराणि पञ्चभूतपर्यन्तान्यनित्यान्येव तेनागन्तुक्षोणीताद्यैरागन्तुकपृथिव्याद्यवस्थामापन्नैः प्राकृतैर्द्रव्यैर्विश्वसृष्टिरुपपद्यत इति श्रुतिरेव जगदारम्भणं बम्भणीतीति न कश्चिदप्यस्माकं दोषः॥
कुमार-वरदः - 189

मूलम् - 189