11 रचनानुपपत्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 176
  1. बाधाभावादकम्पे स्थितवति निगमैर्ब्रह्महेतुत्ववादे
    भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्।
    प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै
    तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या॥
३४-तमाहोबिल-यतिः - 176
  1. बाधाभावादित्यादि। निगमे ब्रह्महेतुत्ववादे बाधाभावात् अपम्पे स्थितवति सति। वीतरागः- वादिविजयख्यातिलाभादिविरक्तस्सूत्रकारः। अत्र- रचनादिपादे। भूयः किं परपरीवादं वदति? इति- एवंशङ्कनम्, अयुक्तम्। प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसंदेहशान्त्यै-प्रख्यातैः" प्रसिद्धैः प्राच्यः अनादिसिद्धैः नैकैर्बहुप्रकारैः प्रतिसमयैर्वेदान्तविरोधिसिद्धान्तौ र्हेतुभिर्भवतो जायमानस्य मन्दबुद्धीनां" सन्देहस्य ‘किं वेदान्तसिद्धान्तः प्रमाणमुत कापिलादितन्त्राणि प्रमाणम्’ इत्येवंरूपस्य शान्त्यै। तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता- वेदान्तेन तुल्यानि पक्षान्तराणीति भ्रान्तिसिद्धा सत्प्रतिपक्षता। तर्कपादेन- अनेन द्वितीयाध्यायद्वितीयपादेन। वार्या- वारणीया। अतस्सफल एव तर्कपादारम्भ इतिभावः॥
कुमार-वरदः - 176

मूलम् - 176
  1. बाधाभावादकम्पे स्थितवति निगमैर्ब्रह्महेतुत्ववादे
    भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्।
    प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै
    तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या॥
विश्वास-प्रस्तुतिः - 177
  1. षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं
    तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा।
    तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः
    पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्॥
३४-तमाहोबिल-यतिः - 177
  1. षड़्विंशालम्बीत्यादि। ष़ड्विंशालम्बि- अचित्तत्त्वानि चतुर्विंशतिः प़ञ्चविंशो हि जीवः षड्विंशः परमात्मेति क्रमेण षड्विंशतितत्त्वावलम्बनम्। साङ्ख्यम्- साङ्ख्यदर्शनम्। योगतुल्यम्- योगशास्त्रमसतयेत्यर्थः। भारते स्फुटतरपठितम्- ‘सांख्यं योगः’ इत्यादिना ‘न हन्तव्यानि हेतुभिः’ इत्यन्तेन हेतुहन्तव्यं नेत्यादरणीयतया स्फुटतरं यथातथा पठितं प्रतिपादितम्। सर्वतत्त्वान्तरात्मा- परमात्मा। तत्स्थत्वात्तु- पञ्चविंशजीवान्तर्यामितयावस्थानात्तु। पञ्चविंश इति च- ‘पञ्चविंश आत्मा भवति’ इत्यादिश्रुतिषु पञ्चविंश इिति च। निगमितः- उक्तः। तस्मात् सेशानतन्त्रम्- सेश्वरसाङ्ख्यपक्षमेव। प्रतिवदति- प्रतिक्षिपति॥
कुमार-वरदः - 177

मूलम् - 177
  1. षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं
    तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा।
    तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः
    पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्॥
विश्वास-प्रस्तुतिः - 178

178.अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या
षट्त्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः।
तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो
दृष्टं नापह्नुवीरन् लघुमनुमिनुयुश्शेषमिच्छन्ति शास्त्रात्॥

३४-तमाहोबिल-यतिः - 178
  1. अव्यक्तादीनित्यादि। अव्यक्तादीन् पदार्थान्। अनुमितिमुखतः- अनुमानमुखेन। स्वबुद्ध्या कल्पयन्तः साङ्ख्याः। षट्त्रिंशत्तत्त्ववादप्रभृतिषु- शैवादिपरिकल्पितेषु षट्त्रिंशत्तत्त्ववादप्रभृतिषु। कथं सङ्गं नेच्छन्ति। तुल्याक्षेपोपपत्तीः- साङ्ख्यदर्शनोपर्याक्षेपे सति साङ्ख्या यदि किञ्चिदुपपन्नं वदन्ति तदन्यवादिभिरपि वक्तुं शक्यमिति तुल्याक्षेपोपपत्तियुक्ताः। श्रुतिनियतिमुचाम्- श्रुत्युक्ततत्त्वादिव्यवस्थामुल्लङ्घ्य वदतां साङ्ख्यवैशेषिकादीनाम्। कल्पनाः- तत्त्वोपायादिकल्पनाः। सम्मृशन्तः- परामृशन्तो वेदान्तवादिनामग्रगण्याः। दृष्टम्- अबाधितप्रत्यक्षसिद्धम्। नापह्नुवीरन्- नापलपेयुः। लघुम्- लाघवयुक्तम्। अनुमिनुयुः- अनुमानवृत्तान्ते हि गुरुर्न कल्प्यते लघुरेव पक्षः स्वीक्रियत इति न्यायविदां प्रक्रिया। शेषम्- प्रत्यक्षानुमानासिद्धमर्थम्। शास्त्रादिच्छन्ति- अप्राप्तत्वात् शास्त्रेणैवाङ्गीकुर्वन्ति॥
कुमार-वरदः - 178

मूलम् - 178

178.अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या
षट्त्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः।
तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो
दृष्टं नापह्नुवीरन् लघुमनुमिनुयुश्शेषमिच्छन्ति शास्त्रात्॥

विश्वास-प्रस्तुतिः - 179
  1. कार्यं किञ्चित् कुविन्दप्रभृतिविरचितं दृश्यतेऽन्यच्च सर्वं
    कर्त्रायत्तं श्रुतं तत् क्वचिदपि न पराधीनताभङ्गदृष्टिः।
    पङ्ग्वन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैः
    दृष्टान्तैर्न त्वदिष्टं फलति तदखिलं चेतनाधिष्ठितं नः॥
३४-तमाहोबिल-यतिः - 179
  1. कार्यं किञ्चिदित्यादि। किञ्चित्कार्यम्- लोकसिद्धं पटादि कार्यम्। कुविन्दप्ऱभृतिविरचितं दृश्यते- कुविन्दाः पटनिर्मातारः, तत्प्रभृतिभिस्तत्प्रमुखैर्विरचितं निर्मितं दृश्यते। तन्तुमृदादिकमचेतनं तन्तुवायकुलालादिचेतनाधिष्ठितमेव पटघटादिरूपेण परिणममानं" दृश्यत इत्यर्थः। अन्यच्चसर्वम्- सकर्तृकत्वेनास्माबिरदृष्टं महीमहाधरमहार्णवादिकं सर्वमपि वस्तुजातम्। कर्त्रायत्तम्- ईश्वररूपकर्त्रधिष्ठितमेव। श्रुतम्- श्रुत्यादिभिरवगतम्। तत्- तस्मात्। क्वचिदपि- कुत्रापि। पराधीनताभङ्गदृष्टिर्न- ईश्वराधिष्ठानाभावसिद्धिर्न भवति। पङ्ग्वन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैर्दृष्टान्तैः- पङ्ग्वन्धौ गमनशक्त्या दृक्शक्त्याच विकलावपि परस्परोपकारात् गमनं कुर्वाणौ, क्षीरं चेतनानधिष्ठितमेव दधिरूपेण परिणममानं दुग्धम्, पाथः स्वयमेव हिमकरकादिरूपतया परिणतं जलम्, तृणं तथा पशुदेहपुष्ट्यादिहेतुभूतं तृणम्, जलदः चेतनाधिष्ठानं विनैव सामुद्रसलिलग्रहणवर्षणादिकं कुर्वाणो धूमज्योतिस्सलिलवायुसङ्घातात्मा मेघः, तटित् मेघोदरे स्फुरन्ती स्तनितादिहेतुर्विद्युत्, वायुः महानगकम्पनादिहेतुर्वातः, अयस्कान्तः चेतनाधिष्ठानं विनैवायः कर्षणादिकं कुर्वाणोऽयस्कान्तः, एतत्पूर्वैः एतत्प्रभृतिभिर्दृष्टन्तैः। त्वदिष्टम्- अचेतनानां" चेतनाधिष्ठानं विनैव परिणाम इति त्वदभिमतम्। न फलति- न सिध्यति। नः- श्रुत्या ईश्वराधिष्ठानं साधयतामस्माकं वेदान्तिनाम्, अनुमानेनेश्वराधिष्ठानं" साधयतां वैशेषिकादीनाञ्च। तदखिलम्- पूर्वोक्तं क्षीरपाथःप्रभृति वस्तुजातम्। चेतनाधिष्ठितम्- श्रुत्या अनुमानेन च चेतनाधिष्ठितमेव साध्यते। पक्षमेव दृष्टान्तं कृत्वा पक्षे साध्याभावसाधनमनुमानवार्त्तानभिज्ञानां प्रक्रियेति भावः॥
कुमार-वरदः - 179

मूलम् - 179
  1. कार्यं किञ्चित् कुविन्दप्रभृतिविरचितं दृश्यतेऽन्यच्च सर्वं
    कर्त्रायत्तं श्रुतं तत् क्वचिदपि न पराधीनताभङ्गदृष्टिः।
    पङ्ग्वन्धक्षीरपाथस्तृणजलदतटिद्वाय्वयस्कान्तपूर्वैः
    दृष्टान्तैर्न त्वदिष्टं फलति तदखिलं चेतनाधिष्ठितं नः॥
विश्वास-प्रस्तुतिः - 180
  1. नन्वत्राचेतनानां स्वसमुचितविधौ कर्त्रधीनत्वमुक्तं
    शास्त्रारम्भे विधातुर्व्यनुददनुमितिं किं परस्सूत्रकारः।
    पृच्छेयं नातितुच्छा शृणु तदवहितस्सर्वकृन्नानुमातुं
    नापह्नोतुं च शक्यस्तदुभयनियमादर्शनादित्यमंस्त॥
३४-तमाहोबिल-यतिः - 180
  1. नन्वत्रेत्यादि। ननु- आमन्त्रणे। अत्र- एतत्प्रकरणे। अचेतनानाम्- प्रकृत्यादीनाम्। स्वसमुचितविधौ- स्वोचितकार्यनिष्पादने। कर्त्रधीनत्वम्- चेतनपरतन्त्रत्वं तदधिष्ठितत्वमिति यावत्। उक्तम्- प्रतिपादितम्। अस्मिन्नधिकरणेऽचेतनानामीश्वराधिष्ठानमनुमानेन साध्यत इत्यर्थः। शास्त्रारम्भे- शास्त्रारम्भसमर्थनपरे शास्त्रयोनित्वाधिकरणे तु। विधातुः- जगत्कर्तुः। अनुमितिं सूत्रकार एव व्यनुदत्- निराचकारेत्यर्थः। तेन सूत्रकारः किम्परः- किमभिप्रैतीत्यर्थः। इयं पृच्छा- अयं प्रश्नः। नातितुच्छा- अतितुच्छा न भवति। उचितप्रश्नकरणसन्तोषेणैवमुक्तिः। तत्- सूत्रकारहृदयम्। अवहितः- गम्भीरत्वात् सावधानस्सन्, श्रृणु। सर्वकृत्- सर्वस्रष्टा। तदुभयनियमादर्शनात्- ईश्वरसदसद्भावरूपोभयार्थनियमादर्शनात्, ईश्वरसद्भावव्याप्तियुक्तलिङ्गस्य तदसद्भावव्याप्तियुक्तलिङ्गस्य चादर्शनादित्यर्थः। अनुमातुं" च न शक्यः, अपह्नोतुं" बाधितु़ञ्च न शक्यः, इति अमंस्त- सूत्रकार एवममनुत, इदं तस्य हृदयमित्यर्थः। सर्वस्रष्टा परमपुरुषो नानुमानेन साधयितुं शक्यत इति शास्त्रयोन्यधिकरणभावः, स एव परमपुरुषो नानुमानेन बाधितुं शक्यत इत्येतधिकरणभावः, यत् येन प्रमाणेन साधयितुं योग्यं तदेव हि तेन प्रमाणेन बाधितुमपि शक्यते यथा प्रत्यक्षसिद्धो घटादि स्तेनैव बाध्यते न पुनः प्रत्यक्षाविषयः परमाण्वादिस्तेन बाध्यते एवमनुमानाविषयत्वादीश्वरस्तेन साधयितुं बाधितुं च न शक्यत इति सूत्रकारहृदयमिति भावः॥
कुमार-वरदः - 180
  1. नन्वत्रेत्यादि। ननु- आमन्त्रणे। अत्र- एतत्प्रकरणे। अचेतनानाम्- प्रकृत्यादीनाम्। स्वसमुचितविधौ- स्वोचितकार्यनिष्पादने। कर्त्रधीनत्वम्- चेतनपरतन्त्रत्वं तदधिष्ठितत्वमिति यावत्। उक्तम्- प्रतिपादितम्। अस्मिन्नधिकरणेऽचेतनानामीश्वराधिष्ठानमनुमानेन साध्यत इत्यर्थः। शास्त्रारम्भे- शास्त्रारम्भसमर्थनपरे शास्त्रयोनित्वाधिकरणे तु। विधातुः- जगत्कर्तुः। अनुमितिं सूत्रकार एव व्यनुदत्- निराचकारेत्यर्थः। तेन सूत्रकारः किम्परः- किमभिप्रैतीत्यर्थः। इयं पृच्छा- अयं प्रश्नः। नातितुच्छा- अतितुच्छा न भवति। उचितप्रश्नकरणसन्तोषेणैवमुक्तिः। तत्- सूत्रकारहृदयम्। अवहितः- गम्भीरत्वात् सावधानस्सन्, श्रृणु। सर्वकृत्- सर्वस्रष्टा। तदुभयनियमादर्शनात्- ईश्वरसदसद्भावरूपोभयार्थनियमादर्शनात्, ईश्वरसद्भावव्याप्तियुक्तलिङ्गस्य तदसद्भावव्याप्तियुक्तलिङ्गस्य चादर्शनादित्यर्थः। अनुमातुं च न शक्यः, अपह्नोतुं" बाधितु़ञ्च न शक्यः, इति अमंस्त- सूत्रकार एवममनुत, इदं तस्य हृदयमित्यर्थः। सर्वस्रष्टा परमपुरुषो नानुमानेन साधयितुं शक्यत इति शास्त्रयोन्यधिकरणभावः, स एव परमपुरुषो नानुमानेन बाधितुं शक्यत इत्येतधिकरणभावः, यत् येन प्रमाणेन साधयितुं योग्यं तदेव हि तेन प्रमाणेन बाधितुमपि शक्यते यथा प्रत्यक्षसिद्धो घटादि स्तेनैव बाध्यते न पुनः प्रत्यक्षाविषयः परमाण्वादिस्तेन बाध्यते एवमनुमानाविषयत्वादीश्वरस्तेन साधयितुं बाधितुं च न शक्यत इति सूत्रकारहृदयमिति भावः॥
मूलम् - 180
  1. नन्वत्राचेतनानां स्वसमुचितविधौ कर्त्रधीनत्वमुक्तं
    शास्त्रारम्भे विधातुर्व्यनुददनुमितिं किं परस्सूत्रकारः।
    पृच्छेयं नातितुच्छा शृणु तदवहितस्सर्वकृन्नानुमातुं
    नापह्नोतुं च शक्यस्तदुभयनियमादर्शनादित्यमंस्त॥
विश्वास-प्रस्तुतिः - 181
  1. सत्त्वाद्यान् द्रव्यभेदांस्त्रिगुणमिति समाहारतः कल्पयन्तः
    तेषां नित्यं विभुत्वे समविषमदशाद्यत्र कीदृग्वदेयुः ।
    अन्योन्याध्यासकॢप्तिः प्रकृतिपुरुषयोर्भोगमोक्षोपपत्त्यै
    च्छायापत्त्यादिनीत्या कथमियमुभयाचेतनत्वे घटेत ॥
३४-तमाहोबिल-यतिः - 181

6.सत्त्वाद्यानित्यादि। सत्त्वाद्यान्- सत्त्वमाद्यं येषां सत्वरजस्तमसां ते तथा। तद्गुणसंविज्ञानो बहुव्रीहिः। तान्। द्रव्यभेदान्- द्रव्यविशेषान्। समाहारतः- साम्यावस्थापन्नसङ्घातात्मकत्वेन। त्रिगुणमिति- गुणत्रयसमाहारात्मकं प्रधानमिति। कल्पयन्तः- साङ्ख्याः। तेषाम्- सत्त्वादीनाम्। नित्यं विभुत्वे- नित्यं विभुत्वेन स्वीकारे। तथा तैस्स्वीकृतत्वादेवेत्यर्थः। अत्र- जगत्सृष्ट्यादिविषये। स्वकल्पितमिति शेषः। समविषमदशादि- समदशा विषमदशा च आदिर्यस्य समुदायस्य, एकदेशे साम्यं एकदेशे वैषम्यञ्चान्यशब्दार्थः। अत्रापि तद्गुणसंविज्ञानः। कीदृक्- कीदृशम्। वदेयुः- सत्त्वादीनां साम्ये संहारः, तेषां वैषम्ये सृष्टिरिति संहारसृष्ट्याद्यपेक्षितसाम्यवैषम्यदशा तेषां नित्यविभुत्वस्वीकारविरुद्धेत्यर्थः। प्रकृतिपुरुषयोरन्योन्याध्यासकॢप्तिः- जीवगतस्य भोक्तृत्वस्य प्रकृतौ प्रकृतिगतस्य कर्तृत्वस्य जीवे चाध्यासइत्येवमन्योन्यधर्माध्यासकल्पना। भोगमोक्षोपपत्त्यै- संसारमोक्षयोरुपपत्त्यै। छायापत्त्यादिनीत्या- जपाकुसुमरागस्य स्फटिके छायापत्त्यादिन्यायेन। भवद्भिः स्वीक्रियत इति शेषः। इयम्- पूर्वोक्ताध्यासकल्पना। उभयाचेतनत्वे- उभयोः प्रकृतेः पुरुषस्य च अचेतनत्वे चेतनत्वाभावे। कथं घटेत- कथमुपपद्येतेत्यर्थः। विद्यमानमेव ह्यन्यत्र कल्प्यते न पुनरविद्यमानम्, इह तु चेतनत्वं" जीवे न विद्यते जीवस्य ज्ञानमात्रत्वेन चेतनत्वस्य चैतन्याश्रयत्वरूपस्य भवद्भिरनङ्गीकारात्, नापि प्रधाने चेतनत्वं अचेतनस्वभावत्वादेव, ज्ञानचिकीर्षाप्रयत्नवत्त्वमेव हि कर्तृत्वम्, त्रयाणामपि जीवनिष्ठत्वेन प्रकृतिसम्बन्धो नास्त्येव, न च भोक्तृत्वं जीवनिष्ठं" भवत्पक्षे पुरुषस्य पुष्करपलाशवन्निर्लेपत्वेन ज्ञानादिसर्वधर्मविधुरत्वात् तेनोभयत्रोभयमपि नास्तीत्यन्योन्याध्यासकॢप्तिर्न घटत इति भावः॥

कुमार-वरदः - 181

मूलम् - 181
  1. सत्त्वाद्यान् द्रव्यभेदांस्त्रिगुणमिति समाहारतः कल्पयन्तः
    तेषां नित्यं विभुत्वे समविषमदशाद्यत्र कीदृग्वदेयुः ।
    अन्योन्याध्यासकॢप्तिः प्रकृतिपुरुषयोर्भोगमोक्षोपपत्त्यै
    च्छायापत्त्यादिनीत्या कथमियमुभयाचेतनत्वे घटेत ॥
विश्वास-प्रस्तुतिः - 182

182.पुंसां भोगापवर्गप्रभृति फलमिदं तच्च सर्वं प्रधाने
द्रष्टृत्वादेश्च कॢप्तिः पुरुष इह पृथग्द्रष्टृतादिश्च बुद्धौ।
मुक्त्यै बद्धस्य शास्त्रं मुनिरकृत ततो नित्यमुक्तोऽस्मि चेत्या-
द्यन्योन्यव्याहतोक्तिं वृषलपरिणये जैनभक्ता जपन्तु॥

३४-तमाहोबिल-यतिः - 182
  1. पुंसामित्यादि। इदं भोगापवर्गप्रभृति- भोगापवर्गादिकं फलम्। पुंसाम्- पुरुषाणां चेतनानाम्। तच्च सर्वम्- पुरुषसम्बन्धितयोक्तं" तत्सर्वं फलजातम्। प्रधाने- त्रिगुणद्रव्य एव। ‘बध्यते मुच्यते च नानाश्रया प्रकृतिः’ इति भोगमोक्षादिकं प्रकृतेरेवेत्यर्थः। इह- साङ्ख्यदर्शने। द्रष्टृत्वादेः- प्रकृतिद्रष्टृत्वादिहेतुभ्यः। पुरुषः- जीवः। पृथक्- पृथक्तया। क्लृप्तः- निश्चितः ‘सङ्घातपरार्थत्वात्’ इत्यादितदीयवचनात्। द्रष्टृतादिश्च- जीवसम्बन्धितयोक्तो द्रष्टृतादिश्च। बुद्धौ- अन्तः करणे। बद्धस्य- जीवस्य। मुक्त्यै- मुक्तिलाभाय। शास्त्रम्- साङ्ख्यशास्त्रम्। मुनिः- कपिलः। अकृत- निर्मितवान्। ततः- तेन शास्त्रेण नित्यमुक्तोऽस्मि च। इत्याद्यन्योन्यव्याहतोक्तिम्- एवमादिकां पूर्वोत्तरविरुद्धोक्तिम्। जैनभक्ताः- विरुद्धभाषणेन जैनतुल्यतया जैनभक्तास्साङ्ख्याः। वृषलपरिणये- शूद्रविवाहसमये जपन्तु। द्रमिडदेशे याज्ञिकैर्वृषलविवाहकाले पठ्यमानविरुद्धार्थकवाक्यतुल्यतया साङ्ख्यवाक्यानि शूद्रविवाहमन्त्रवत् परिहासयोग्यानीत्यर्थः॥
कुमार-वरदः - 182

मूलम् - 182