10 प्रयोजनवत्त्वाधिकरणम्

विश्वास-प्रस्तुतिः - 172

172.आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात्
कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा।
सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं
लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः॥

३४-तमाहोबिल-यतिः - 172
  1. आत्मार्थमित्यादि। विश्वसृष्टिः- जगत्सृष्टिः। सततावाप्तकामस्य- नित्यमेवावाप्तसम स्तकामस्येश्वरस्य। कथमपि- केनापि प्रकारेण। आत्मार्थं न स्यात्- स्वार्थं न भवेत् सिद्धसर्वार्थत्वात्। अन्यथावाप्तसमस्तकामत्वहानिरिति भावः। कारुण्यात्- कृपया, जगत्सृष्टिरिति चेत्। दुःखसृष्टिर्न भवति- कारुण्याद्विश्वं सृजन् सुखरूपमेव हि सृजेत्, अतो नानाविधदुःखसृष्टिरनुपपन्नैव। सा- दुःखरूपजगत्सृष्टिः। सर्वशक्तेः- दुःखरूपचिकित्सामकृत्वापि रक्षितुं शक्तस्य परमात्मनः। चिकित्सा च न- भवरोगप्रतिक्रियापि न भवितुमर्हति। तत्- तस्मात्कारणात्। स्वात्मतृप्तः- परमानन्दरूपस्वात्मानुभवनित्यतृप्तः। सर्वज्ञः- परमात्मा। जगतो न हेतुः- जगतो न कारणं भवितुमर्हति। इति- एवम्प्रकारेण। इह- जगत्कारणविषये। अन्धचोद्यम्- अन्धानामेव चोद्यम्। असौ- विश्वसृष्टिः। लोकवत्- यथा परिपूर्णोऽपि सार्वभौमो द्यूतक्रीडादिकं करोति तद्वत्। लीला स्यात्- परमात्मनो लीलैव भवेत्। तर्हि कथमवाप्तसमस्तकामः स इत्यत्राह- अभिमतसमये- यद्यदाभिमतं तत्समय एव। सिद्धितः- अभिमतार्थसिद्ध्या। तुरेवार्थः। आप्तकामः- अवाप्तसमस्तकाम इत्युच्यत इत्यर्थः॥
कुमार-वरदः - 172
  1. आत्मार्थमित्यादि। विश्वसृष्टिः- जगत्सृष्टिः। सततावाप्तकामस्य- नित्यमेवावाप्तसम स्तकामस्येश्वरस्य। कथमपि- केनापि प्रकारेण। आत्मार्थं न स्यात्- स्वार्थं न भवेत् सिद्धसर्वार्थत्वात्। अन्यथावाप्तसमस्तकामत्वहानिरिति भावः। कारुण्यात्- कृपया, जगत्सृष्टिरिति चेत्। दुःखसृष्टिर्न भवति- कारुण्याद्विश्वं सृजन् सुखरूपमेव हि सृजेत्, अतो नानाविधदुःखसृष्टिरनुपपन्नैव। सा- दुःखरूपजगत्सृष्टिः। सर्वशक्तेः- दुःखरूपचिकित्सामकृत्वापि रक्षितुं शक्तस्य परमात्मनः। चिकित्सा च न- भवरोगप्रतिक्रियापि न भवितुमर्हति। तत्- तस्मात्कारणात्। स्वात्मतृप्तः- परमानन्दरूपस्वात्मानुभवनित्यतृप्तः। सर्वज्ञः- परमात्मा। जगतो न हेतुः- जगतो न कारणं भवितुमर्हति। इति- एवम्प्रकारेण। इह- जगत्कारणविषये। अन्धचोद्यम्- अन्धानामेव चोद्यम्। असौ- विश्वसृष्टिः। लोकवत्- यथा परिपूर्णोऽपि सार्वभौमो द्यूतक्रीडादिकं करोति तद्वत्। लीला स्यात्- परमात्मनो लीलैव भवेत्। तर्हि कथमवाप्तसमस्तकामः स इत्यत्राह- अभिमतसमये- यद्यदाभिमतं" तत्समय एव। सिद्धितः- अभिमतार्थसिद्ध्या। तुरेवार्थः। आप्तकामः- अवाप्तसमस्तकाम इत्युच्यत इत्यर्थः॥
मूलम् - 172

172.आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात्
कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा।
सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं
लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः॥

विश्वास-प्रस्तुतिः - 173
  1. विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला
    संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।
    मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां
    जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्॥
३४-तमाहोबिल-यतिः - 173

20.विश्वमित्यादि। विश्वम्-जगत्। दुःखैकतानम्-दुःखैकास्पतदतया। विषयमपि- अलपाल्पतराल्पतममहन्महत्तरमहत्तमसुखदुःखवैषम्ययुक्ततयापि। सदा- नतु कदाचित्, अपितु सर्वदैव। निर्मिमाणस्य- सृजतः परमात्मनः। लीला- जगत्सृष्टिफलभूता लीला। असमक्रञ्जमतः- प्रसिद्धायथावत्कार्यसमञ्चन्यायेन। सञ्जायेत- सम्पद्येत। अस्त्वेवम्, ततः किम्? इति- एवं मा शङ्किष्ठाः। बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजाम्- पूर्वपूर्वबीजैरुत्तरोत्तराङ्कुराद्युत्पत्तिक्रमेण विषमतया सम्भूताननादींश्च कर्मौघान्कर्मप्रवाहान् भजन्तीति तथा तादृशानां जीवानाम्। तत्तत्फलं सौति- तत्तज्जीवकृतकर्मफलमेवासङ्कीर्णतया ददाति। इति- एवंनिर्वाहवशात्। करुणासाम्ययोरग्रहाणात्- ईश्वरकारुण्यस्य सर्वसमत्वस्य च हान्यभावात्। अयं भावः- ईश्वरः सर्वेष्वपि चेतनेषु करुणयैव साम्येन भोगमोक्षप्रवृत्त्यर्थं जगत्सृजति तत्र चेतनानां तत्तत्कर्मानुरूपमेव फलं ददातीति साम्यं वैषम्यञ्चोपपन्नमिति॥

कुमार-वरदः - 173

मूलम् - 173
  1. विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला
    संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।
    मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां
    जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्॥
विश्वास-प्रस्तुतिः - 174
  1. दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ
    स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्।
    अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु-
    स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः॥
३४-तमाहोबिल-यतिः - 174

21.दृष्टन्यायेनेत्यादि। दृष्टन्यायेन- अन्यत्र दृष्टानुसारेण। विश्वप्रजनकचिदचित्तत्वभेदप्रक्लृप्तौ- विश्वप्रजनक ईश्वरः, चितो जीवाः, अचित् प्रधानम्, एतद्रूपा ये तत्त्वभेदाः प्रामाणिकार्थवेशषाः, तेषां प्रक्लृप्तौ कल्पनायाम्। स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्- स्वाभिमतार्थस्य यो विरुद्धधर्मः, तदुपनयने तत्साधने नियतं यत् धर्मान्तरं तस्य या व्याप्तिस्सहचारनियमरूपा तद्वैयाकुली तन्मूलकस्वाभिमतार्थ असिद्ध्यनभिमतार्थसिद्धिरूपा व्याकुलता भवेत्। यथा कार्यत्वहेतुना सकर्तृकत्वसाधने यत् कार्यं तदल्पज्ञकर्तृकमिति व्याप्त्या स्वाभिमतसर्वज्ञेश्वरासिद्धिः, अनभिमतासर्वज्ञकर्तृकत्वसिद्धिश्च, एवं परमाणुपरिक्लृप्तावपि घटादिकं सावयवं सावयवारब्धमेव दृष्टम्, एवं द्व्यणुकं सावयवं कार्यमपि निरवयवारब्धमिति कल्प्यते चेत् व्याप्तिविरोधः, द्व्यणुके सावयवारब्धत्वेऽङ्गीक्रियमाणेऽपसिद्धान्तः, एवं दृष्टानुसारेण कल्पनायां व्याप्तिविरोधस्सम्भविता इति भावः। अत्यन्तादृष्टम्- प्रमाणान्तरेण ताद्रूप्येण वा तद्विपर्ययेण वाऽपरिच्छिन्नम्। ‘असन्निकृष्टवाचा तु द्वयमत्र जिहासितम्। ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपि वा॥’ इति व्यासार्यवचनात्। अर्थम्- वस्तु। भणितुम्- प्रतिपादयितुम्। अधिकृतात्- प्रवृत्तात्। शास्त्रतः- वेदाख्यशास्त्रात्। सर्वकर्तुः- सर्वजगत्कारणभूतस्य परमात्मनः। सिद्धौ सत्याम्। बाधाद्यनर्हप्रमितिपरवती- धर्मिग्राहकमानविरोधेन बाधप्रतिरोधानर्हा या प्रमितिश्शस्त्रजन्या प्रमातस्याः परवती परतन्त्रा तदधीनेति यावत्। सर्वधर्मोपपत्तिः- सर्वधर्माणां निमित्तत्वोपादानत्वसर्वज्ञत्वसर्वशक्तित्वनिरवयवत्वादिधर्माणामुपपत्तिरस्त्येव। येन प्रमाणेनेश्वरस्वरूपादिकमवगतं" तेनैव प्रमाणेन जगत्कारणत्वोपलक्षितसर्वधर्मोपपत्तेर्नकिञ्चिदपि सङ्कटमिति भावः॥

कुमार-वरदः - 174

मूलम् - 174
  1. दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ
    स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्।
    अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु-
    स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः॥
विश्वास-प्रस्तुतिः - 175
  1. सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि-
    न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या ।
    कार्योपादानभेदात् स्वहितविहतितः कारकस्तोमहानेः
    कृत्स्नांशाद्यूहबाधात् कृतिविफलतयाऽप्युत्थितं प्रत्यविद्ध्यत्॥
३४-तमाहोबिल-यतिः - 175

22.सांख्यस्मृत्येत्यादि। साङ्ख्यस्मृत्या विरोधात्- स्मृत्यनवकाशाधिकरणपूर्वपक्षहेतुभूतात् साङ्ख्यस्मृत्या विरोधात्। विधिमतविहतेः- ‘एतेन योगः प्रत्युक्तः’ इत्यधिकरणपूर्वपक्षहेतुभूतात् चतुर्मुखसिद्धान्तभूतयोगस्मृति विरोधात्। कार्यवैरूप्यतः- नविलक्षणत्वाधिकरणपूर्वपक्षहेतुभूतात् कार्यभूतजगद्वैलक्षण्यात्। अस्मिन्- कारणे ब्रह्मणि। एकार्थानेकतन्त्रोदितविहततया- एतेनशिष्टापरिग्रहाधिकरणपूर्वपक्षहेतुभूतात् परमाणुकारणत्वरूपैकार्थ निष्ठानेकसिद्धान्तोक्तिविरुद्धत्वात्। देहभोगावियुक्त्या- भोक्त्रापत्त्यधिकरणपूर्वपक्षहेतुभूतात् सर्वशरीरित्वप्रयुक्तात् देहभोगाविनाभावात्। कार्योपादानभेदात्- आरम्भणाधिकरणपूर्वपक्षहेतुभूतात् कार्योपादानयोस्स्वरूपभेदात्। स्वहितविहतितः- इतरव्यपदेशाधिकरणपूर्वपक्षहेतुभूतात् स्वहितविरुद्धत्वात्। कारकस्तोमहानेः- उपसंहारदर्शनाधिकरणपूर्वपक्षहेतुभूतात् सहकारिकारणवर्गशून्यत्वात्। कृत्स्नांशाद्यूहबाधात्- कृत्स्नप्रसक्त्यधिकरणपूर्वपक्षहेतुभूतात् कृत्स्नैकदेशपरिणामोहमूलकबाधात्। कृतिविफलतयापि- नप्रयोजनेत्यधिकरणपूर्वपक्षहेतुभूतात् ईश्वरव्यापारनैरर्थक्यादपि। उत्थितम्- विप्रतिपद्यमानं पूर्वपक्षिणम्। प्रत्यविध्यत्- निराकरोदित्यर्थः॥

कुमार-वरदः - 175

मूलम् - 175