09 कृत्स्नप्रसक्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 170
  1. कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि-
    द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्।
    ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या-
    त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व॥
३४-तमाहोबिल-यतिः - 170
  1. कृत्स्नमित्यादि। कृत्स्नम्- कारणभूतं ब्रह्मवस्तु कृत्स्नमपि। कार्यात्मना परिणमति चेत्- एकैककार्यात्मना परिणमतीत्यङ्गीक्रियते चेत्। परम्- कार्यान्तरात्मना परिणामविषये। किञ्चित्- कोऽपि ब्रह्मवस्तुभागः। नावशिष्येत- अवशिष्टो न भवेत्। ततश्च कार्यान्तरात्मना परिणाम एव न स्यादिति भावः। अंशाद्यदि- ब्रह्मवस्त्वेकदेशेन परिणामो यदि। निष्कलत्वश्रुतिविहतिः- निरवयवत्वश्रुतीनां व्याकोपः स्यात्। इदम्- दूषणम्। विशिष्टेऽपि तस्मिन् स्यात्- चेतनाचेतनविशिष्टतयाङ्गीकृतेऽपि ब्रह्मणि स्यात्। एकस्मिन्नचेतनविशिष्टे चेतने ब्रह्मवस्तु कार्त्स्न्येनान्तर्यामि? उतैकदेशेन? आद्ये वस्त्वन्तरात्मत्वं न स्यात्, भागभेदेन चेत् सावयवत्वं स्यादिति दूषणस्य तुल्यत्वादिति भावः। एवं ब्रह्मोपादानता न घटत इति चेत्- उक्तदूषणेन ब्रह्मोपादानत्वं जगतो न युज्यत इति चेत्। न- नैतद्युक्तम्। स्वपक्षेषु साम्यात्- मायाविशिष्टं ब्रह्म कारणमिति शाङ्कराः, उपाधिविशिष्टमिति भास्करीयाः, शक्तिविशिष्टमिति यादवप्रकाशीयाः, एतेषु पक्षेषूक्तदूषणस्य साम्यात्। तन्मानात् तद्गृहीतौ- मायोपाधिशक्तिविशिष्टब्रह्मप्रतिपादकप्रमाणाभासबलात् तादृशब्रह्मस्वीकारे। श्रुतिमितम्- अनेकश्रुतिप्रतिपन्नम्। लोकवत्- सर्वलोकानुकूलम्। तदपि- चेतनाचेतनविशिष्टं ब्रह्मापि। स्वीकुरुष्व- अङ्गीकुरु। पक्षान्तराणि प्रत्यक्षप्रमाणविरुद्धत्वात् स्वीकर्तुमयोग्यानि, अस्मत्पक्षस्तु लोकवेदाविरुद्धत्वात् स्वीकर्तुं योग्य इति भावः।
कुमार-वरदः - 170

मूलम् - 170
  1. कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि-
    द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्।
    ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या-
    त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व॥
विश्वास-प्रस्तुतिः - 171
  1. संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा
    कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्।
    सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या-
    न्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः॥
३४-तमाहोबिल-यतिः - 171
  1. संयोगाख्यमित्यादि। विभुतदितरयोरणूनां मिथो वा संयोगाख्यं कार्यं स्याद्धि- ईश्वरपरमाण्वोः परमाणूनामन्योन्यं वा संयोगनामकं कार्यं भवेत् खलु, परमाणुद्वयसंयोगाद्द्व्यणुकादिसृष्टिरिति जगत्कर्तेश्वरः स्वयं विभुरेव परमाणुभिस्संयुज्य तानधितिष्ठतीति च वैशेषिकाणां प्रक्रिया। तस्यामीश्वरपरमाण्वोः परमाण्वोर्मिथश्च संयोगाख्यं कार्यं प्रसिद्धं खलु। तत्- ईश्वरपरमाणुसंयोगाख्यं" परमाणुद्व्यसंयोगाख्यं वा कार्यम्। कार्त्स्न्ये वा- कृत्स्नस्वरूपेणेति वा। अंशेन वा- एकदेशेनेति वा अङ्गीकारेऽपि। विहतम्- विरुद्धम्। कार्त्स्न्येन परमाण्वीश्वरसंयोगे तयोस्तुल्यपरिमाणत्वप्रसङ्गः, तथाच परमाणुरीश्वरवत् विभुः स्यात्, विभुरीश्वरो वा परमाणुवदणुरेव स्यात्। एकदेशेन संयोगे द्वयोरपीश्वरपरमाण्वोस्सावयवत्वप्रसङ्गः। एवं परमाणुद्वयस्यापि कार्त्स्न्येन संयोगे परमाण्वोरन्योन्यं" स्वरूपे निमज्जनादधिकपरिमाणद्व्यणुकादिकार्यं नारभ्येत्। एकदेशेन चेत् सांशत्वप्रसङ्ग इति भावः। इति वदन्- इति माध्यमिकेन कणादपक्षदूषणायोक्तं" दूषणं काणादो वेदान्तिनं प्रति वदन्। सून्यवादे निमज्जेत्- माध्यमिकपक्षे निमज्जेत्। स्वपक्षे विद्यमानं दूषणं नान्यस्मै प्रयोज्यं" तत्परिहारतत्सह्यतयोस्तुल्यत्वादिति भावः। साङ्ख्योऽपि- कापिलतन्त्रनिष्ठोऽपि। इति- एवमेव। प्रकृतिं विभ्वीं प्राह- विश्वस्रष्ट्रीं" मूलप्रकृतिं विभ्वीं प्राह। न्यूनसृष्टिस्ततः कथं स्यात्- कृत्स्नैकदेशसंयोगविकल्पमूलक दूषणस्य प्रकृतिविषयेऽपि तुल्यत्वात् अपरिमितात् प्रधानद्रव्यात् परिमितजगत्सृष्टिः कथमुपपद्येतेति भावः। मायादिषु- मायोपाधिशक्तिष्वपि शङ्कराद्यङ्गीकृतासु। एवम्- उक्तरीत्या दूषणम्। ऊह्यम्- स्वयमेव विचिन्त्यम्। नः पद्धतिस्तु- अस्माकं सिद्धान्तरीतिस्तु। निगमनिगदिता- क्षरं प्रधानममृताक्षरं" हरः क्षरात्मानावीशते देव एकः इत्यादिपरस्सहस्रश्रुतिप्रतिपादितत्वात्। अक्षता- दुषणानर्हा। धर्मिग्राहकप्रमाणबाधितत्वात् दूषणं" न तत्र लगतीति भावः॥
कुमार-वरदः - 171

मूलम् - 171