विश्वास-प्रस्तुतिः - 169
169.शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं
तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्।
क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन्
संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः॥
३४-तमाहोबिल-यतिः - 169
- शक्तावित्यादि। कर्तृप्रकृत्योः- कुलालमृदादिरूपयोर्निमित्तोपादानयोर्द्वयोरपि। शक्तौ- कार्योपयोगिकारणवस्तुविशेषणरूपायां" विद्यमानायामपि। उपकरणगणोपस्थितौ- उपकरणगणसन्निधान एव। कार्यकृत्त्वम्- कार्यकरत्वं दृष्टम्। तस्मात्- शक्तस्याप्युपकरणकलापसन्निधिमपेक्ष्यैव कार्यकरणदर्शनात्। अग्ने- सृष्टेः पूर्वकाले। एकं सत्- ‘एकमेवाद्वितीयम्’ इति वस्त्वन्तरशून्यतयावगतं परं ब्रह्म। किमुपकरणयेत्- स्वचिकीर्षिते विश्वसर्गे किं वस्तु सहकारीकुर्यात्। तदानीं कस्याप्यभावादिति भावः। इत्यसत्- इति शङ्कनमसाधु। शक्तिभेदात्- ‘शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः। भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता।’ इत्याद्युक्तरीत्या ब्रह्मणो विलक्षणदृष्टपरिकरशून्यस्यापि शक्तियोगेन प्रकृतिपुरुषकालात्मकविचित्र जगतसृष्टेरुपपन्नत्वात्। क्षीरायस्कान्तलूतात्रिदशमुनिमुखान् वीक्ष्य, अस्मिंस्तोष्टव्यम्- दधिरूपेण स्वयमेव परिणममानं क्षीरं सन्निधिमात्रेणायस आकर्षकमयस्कान्तं तन्तुजालं तन्वतीं लूतां" सङ्कल्पमात्रेण विचित्रवस्तुसृष्टिकारिणस्त्रिदशान विश्वामित्रादीन् महर्षींश्च दृष्टान्तभूतान् समीक्ष्य उपपादिते ब्रह्म दृष्टपरिकरशून्यमपि शक्तिविशेषात् जगत्सृजतीत्येतस्मिन् विषये सन्तोष्टव्यम्। अयथायथोक्तिं विसृज्य सुखेनावस्थेयमित्यर्थः। बाह्यदृष्टान्तास्सन्तु, जीवस्सङ्कल्पादेव निजवपुर्यथा नुदति तथा विश्वरूप ईशो निजवपुर्नुदति- चेतनः, चलत्वयं हस्त इत्यादिमानसस्वात्मैकवेद्यसङ्कल्पमात्रेणैव स्वकीयं हस्तपादादिकं शरीरं यथा प्रेरयति तथैव विश्वशरीरः परमात्मापि स्वकीयं सूक्ष्मं चेतनाचेतनात्मकं शरीरं स्थूलीभवनाय प्रेरयतीतीदमेकमेवालं" निदर्शनमिति भावः॥
कुमार-वरदः - 169
- शक्तावित्यादि। कर्तृप्रकृत्योः- कुलालमृदादिरूपयोर्निमित्तोपादानयोर्द्वयोरपि। शक्तौ- कार्योपयोगिकारणवस्तुविशेषणरूपायां" विद्यमानायामपि। उपकरणगणोपस्थितौ- उपकरणगणसन्निधान एव। कार्यकृत्त्वम्- कार्यकरत्वं दृष्टम्। तस्मात्- शक्तस्याप्युपकरणकलापसन्निधिमपेक्ष्यैव कार्यकरणदर्शनात्। अग्ने- सृष्टेः पूर्वकाले। एकं सत्- ‘एकमेवाद्वितीयम्’ इति वस्त्वन्तरशून्यतयावगतं परं ब्रह्म। किमुपकरणयेत्- स्वचिकीर्षिते विश्वसर्गे किं वस्तु सहकारीकुर्यात्। तदानीं कस्याप्यभावादिति भावः। इत्यसत्- इति शङ्कनमसाधु। शक्तिभेदात्- ‘शक्तयस्सर्वभावानामचिन्त्यज्ञानगोचराः। यतोऽतो ब्रह्मणस्तास्तु सर्गाद्या भावशक्तयः। भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता।’ इत्याद्युक्तरीत्या ब्रह्मणो विलक्षणदृष्टपरिकरशून्यस्यापि शक्तियोगेन प्रकृतिपुरुषकालात्मकविचित्र जगतसृष्टेरुपपन्नत्वात्। क्षीरायस्कान्तलूतात्रिदशमुनिमुखान् वीक्ष्य, अस्मिंस्तोष्टव्यम्- दधिरूपेण स्वयमेव परिणममानं क्षीरं सन्निधिमात्रेणायस आकर्षकमयस्कान्तं तन्तुजालं तन्वतीं लूतां" सङ्कल्पमात्रेण विचित्रवस्तुसृष्टिकारिणस्त्रिदशान विश्वामित्रादीन् महर्षींश्च दृष्टान्तभूतान् समीक्ष्य उपपादिते ब्रह्म दृष्टपरिकरशून्यमपि शक्तिविशेषात् जगत्सृजतीत्येतस्मिन् विषये सन्तोष्टव्यम्। अयथायथोक्तिं विसृज्य सुखेनावस्थेयमित्यर्थः। बाह्यदृष्टान्तास्सन्तु, जीवस्सङ्कल्पादेव निजवपुर्यथा नुदति तथा विश्वरूप ईशो निजवपुर्नुदति- चेतनः, चलत्वयं हस्त इत्यादिमानसस्वात्मैकवेद्यसङ्कल्पमात्रेणैव स्वकीयं हस्तपादादिकं शरीरं यथा प्रेरयति तथैव विश्वशरीरः परमात्मापि स्वकीयं सूक्ष्मं चेतनाचेतनात्मकं शरीरं स्थूलीभवनाय प्रेरयतीतीदमेकमेवालं निदर्शनमिति भावः॥
मूलम् - 169
169.शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं
तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्।
क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन्
संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः॥