विश्वास-प्रस्तुतिः - 168
- उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्त-
ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः।
अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं
तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः॥
३४-तमाहोबिल-यतिः - 168
- उक्तेऽनन्यत्वपक्ष इत्यादि। उक्ते- आरम्भणाधिकरणप्रतिपादिते। अनन्यत्वपक्षे- जगतस्तत्कारणभूतस्य वस्तुनश्चानन्यत्वपक्षे। चिदपि- चेतनो जीवोऽपि। ब्रह्मणः परिमतिस्स्यात्- सर्वकारणत्वेनाङ्गीकृतस्य ब्रह्मणः कार्यत्वेन तत्परिणतिरूपएव भवेत्। ततः- एवं" जीवस्यापि ब्रह्मकार्यत्वेन ब्रह्मानन्यत्वोपपादनात्। तत्त्वमस्याद्यवगतम्- ‘तत्त्वमसि, सर्वं खल्विदं ब्रह्म, ब्रह्मदाशा ब्रह्मदासाः’ इत्यादिश्रुतिभिरुपपादितम्। जीवैक्यम्- जीवस्य ब्रह्मणा साकं स्वरूपैक्यम्। अहतं स्यात्- अव्याहतं भवेत्। अस्तु किं ततउपरीति चेदुच्यते जीवश्च- ब्रह्मैक्याश्रयत्वेनोक्तो जीवश्च। दुःखसिन्धुः- दुःखसमुद्रभूतः, अनन्तदुःखाश्रयो हि। अस्तु, किं नश्छिन्नमिति चेत् अभ्रान्तस्तु स्वदुःखं न सृजति- सर्वज्ञत्वात् भ्रान्तिशून्य ईश्वरः स्वस्यैव जीवरूपेणावस्थितस्य दुःखजनकं जगत् स्वयं न सृजेत्। तत्- जगत्करणम्। अस्य क्रीडयापि च न- परमात्मनः क्रीडया निमित्तभूतयापि च न सम्भवति। न खल्वनुन्मत्तः कश्चित् क्रीडया स्वशिरश्छिनत्ति। अतो जगदकरममेव हितमिति। मैवम्- एवं मा शङ्किष्ठाः। तात्स्थ्येनानन्यतोक्तेः- तत्स्थत्वेन जीवात्मन्यन्तरात्मतया अवस्थानेनानन्यत्वस्योक्तत्वात्। ‘तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः’ इिति वचनेन ‘अवस्थितेरिति काशकृत्स्नः’ इति सूत्रेण च ब्रह्मणो जीवात्मन्यन्तरात्मतयावस्थानात् जीवब्रह्मणोरयःपिण्डाग्न्योरिवाभेदः नतु स्वरूपाभेदः, अतो नोक्तदोषः। तदपि- ब्रह्मणो जीवात्मन्यन्तरात्मतयावस्थानञ्च। चिदचितोस्तच्छरीरत्वसिद्धेः- ‘यः पृथिव्यां तिष्ठन्’ इत्यारभ्य ‘यस्य पृथिवी शरीरम्, यस्यापश्शरीरम्, यस्यात्मा शरीरम्, यस्य विज्ञानं शरीरम्’ इत्यादिश्रुत्या चेतनाचेतनयोः परमात्मशरीरत्वस्य सिद्धत्वात्॥
कुमार-वरदः - 168

मूलम् - 168