विश्वास-प्रस्तुतिः - 165
- कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य-
द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ।
द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे-
त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्॥
३४-तमाहोबिल-यतिः - 165
- कार्यं धर्मैरित्यादि। कार्यम्- सावयवत्वादिभिः कार्यत्वेन सिद्धमिदं जगत्। विरुद्धैर्धर्मैः- कारणासंसर्गिभिः कार्यैकनियतैस्तत्तद्वस्तुनिष्ठैरवस्थारूपैर्धर्मैः। घटश्शकटादिव- शकटावृत्तिघटत्वाश्रयः पदार्थो घटावृत्तिशकटत्वाश्रयात् वस्तुन इव। कारणद्रव्यतः- कारणभूतात् द्रव्यात्। अन्यत्- भिन्नमेव। इतरथा- कारणात् कार्यस्यान्यत्वानङ्गीकारे। कारकाणां व्यापारो विफलः- घटादिकार्यनिष्पत्त्यर्थतया दृष्टानां कुलालचक्रचीवरादिकारकाणां व्यापारस्य नैरर्थक्यं प्रसज्यते। नहि कारणात्मना पूर्वमेव सिद्धे कार्ये सति पुनस्तन्निष्पत्त्यर्थं कारकव्यापार इिति वक्तुं युज्यते व्याघातादिति भावः। इत्यर्धवैनाशिकोक्तौ- उक्तप्रकारेण वैशेषिकाणामुक्तौ प्रवृत्तायाम्। द्रव्येष्ववयविमात्रविनाशवादित्वात् अर्धविनाशवादिनो वैशेषिका अर्धवैनाशिकाः। द्रव्यैक्येऽपि- कार्यकारणयोस्स्वरूपैक्येऽपि। तदभिमतदशाभेदतः- वैशेषिकैः कारणात् कार्यस्यान्यत्वं वदद्भिः कार्यावस्थायाः कार्यस्य च कारणादतिरिक्तस्याङ्गीकारात् तदङ्गीकृतैकदेशभूतावस्थाभेदेनैव। सर्वम्- बुद्धि शब्दान्तरादिकम्। असच्छ्रुतिश्च- ‘असदेवेदमग्र आसीत्’ ‘असद्वा इदमग्र आसीत्’ इतिश्रुतिश्च। अस्तु- उपपद्यताम्। अवस्थाभेदेन पत्रताटङ्कन्यायेन बुद्ध्यन्तरं शब्दान्तरञ्चोपपद्यताम्, कार्यावस्थायाः कारणदशायामभावात् असच्छ्रुतिश्चोपपद्यतामिति भावः। इति- एवमुपपत्त्या। अध्यक्षात्- तन्तव एव व्यतिषङ्गविशेषभाजः" पट इति प्रत्यक्षात्। लाघवाच्च- कारणादन्ययोः कार्यावस्थातद्वदवयविद्रव्यरूपयोर्द्वयोः अङ्गीकारापेक्षया कार्यकारणयोर्द्रव्यैक्येऽपि अवस्थाभेदमात्राङ्गीकारेण लाघवाच्च। श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्- प्रमाणभूतया श्रुत्या ‘सदेव सोम्येदमग्र आसीत् तद्धेदं" तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत’ इत्यादिरूपया प्रतिपादितं कार्यकारणभूतयोर्जगद्ब्रह्मणोस्तादात्म्यमुक्तम्। सूत्रकारैर्भाष्यकारैश्चेति शेषः। श्रुत्युक्तत्वादुपपन्नत्वात् प्रत्यक्षाल्लाघवाच्च सत्कार्यवाद एव सूत्रकारादिभिरङ्गीकृत इति भावः॥
कुमार-वरदः - 165

मूलम् - 165
- कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य-
द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ।
द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे-
त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्॥
विश्वास-प्रस्तुतिः - 166
- मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो
येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे।
अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने
वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः॥
३४-तमाहोबिल-यतिः - 166
- मायोपाधीत्यादि। येषाम्- शङ्करयादवप्रकाशभास्कराणाम्। प्रपञ्चः- कार्यभूतोऽयं लोकः। मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः- मायाव्यतिकरितपरब्रह्ममूलः, उपाधिव्यतिकरित परब्रह्ममूलः, स्वशक्तिव्यतिकरितपरब्रह्ममूलः, तथाङ्गीकृत इत्यर्थः। तेऽपि- शङ्करादयोऽपि। अत्र- कारणवाक्यसमुदाये। अद्वितीयश्रुतिम्- ‘एकमेवाद्वितीयम्’ इति द्वितीयराहित्यपरश्रुतिम्। तत्तद्विशिष्टे- मायोपाधिशक्तिविशिष्टेऽपि ब्रह्मणि। अप्राधान्यात्- विशेषणीभूतानां मायोपाधिशक्तीनामप्रधानत्वमवलम्ब्यैव। अवितथयन्ति- सार्थकयन्ति। मायादिद्वितीयसद्भावेऽपि प्रधानस्य ब्रह्मण एकत्वादेवाद्वितीयश्रुत्यर्थमुपपादयन्तीति भावः। तथा- भवदुपपादनप्रकारेणैव। नः- अस्माकमपि। अन्तरात्मप्रधानेऽस्मिन्वाक्ये- प्रक़ृतिपुरुषान्तरात्मभूतपरब्रह्मप्रधाने ‘एकमेवाद्वितीयम्’ इत्यस्मिन्वाक्ये। प्रकृतिपुरुषयोः- प्रधानजीवयोः। स्थूलसूक्ष्मान्वय इति- स्थूलसूक्ष्माकारेण विशेषणतयाऽन्वय इति। जगतः- कार्यभूतस्य प्रपञ्चस्य। अनन्यभावोपपत्तिः- कारणभूतब्रह्मापेक्षयाऽनन्यत्वोपपत्तिः। विशेषणान्वयो न विशेष्यैक्यविरोधीति अद्वितीयत्वश्रुतिरुपपन्नैवेति भावः॥
कुमार-वरदः - 166

मूलम् - 166
- मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो
येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे।
अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने
वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः॥
विश्वास-प्रस्तुतिः - 167
167.विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं
व्याक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्।
तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा
स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः॥
३४-तमाहोबिल-यतिः - 167
- विश्वारम्भ इत्यादि। विश्वारम्भे-जगदुत्पत्तिविषये। विवर्तम्- कार्यात्मकपरिणामाश्रयवस्तु अधिष्ठानत्वम्, यद्वा कार्यसत्ताविसजातीयसत्ताश्रयत्वे सति कारणत्वम्। शकलपरिणतिम्- चिदचिदीश्वराकारेण त्र्यंशे ब्रह्मणि अचिदंशात्मकस्य शकलस्य परमार्थभूतां परिणतिं परिणामम्। शक्तिशेषस्य सूतिम्- शेषशब्दो विशेषपरः। चिदचिदीश्वरशक्तित्रयात्मके परस्मिन्ब्रह्मणि अचेतनाख्यशक्तिभेदस्य सृष्टिम्। व्यक्त्युल्लासौ- कारणे विद्यमानस्यैव कार्यस्याभिव्यक्तिम्, मुकुलावस्थायामनुल्लसितस्य पुष्पस्य कालेनोल्लासवत् विश्वस्योल्लासम्। विसृष्टिम्- भस्त्रिकान्तर्गतद्रव्यविसर्जनवत् विसृष्टिम्। विकृतिम्- सन्मात्रस्यैव ब्रह्मणः प्रपञ्चाकारेण परिणतिम्। तत्त्वपङ्क्तौ अनियतां सृष्टिञ्च- कदाचित् अग्नेरापः, कदाचिदद्भ्यश्चाग्निरिति नियममन्तरेण जगत्सृष्टिम्। तत्तद्वाक्यैकदेशस्वरस इति- तेषुतेषु वाक्यैकदेशेषु स्वरसोऽयमर्थ इति। मुधा- वृथा। कल्पयन्तः- सिद्धान्तयन्तः। मुग्धास्तु- बालप्रायास्तु। सर्वश्रुत्यैकरस्यप्रणयिभिः- चिदचिदीश्वरात्मकस्य तत्त्वत्रयस्य परस्परविलक्षणं स्वरूपं स्वभावभेदांश्च वदन्तीनाम्, चेननानां नित्यानामनादिकर्मप्रवाहमूलकं बन्धं केनचिदुपायेनानुष्ठितेन तन्निवृत्तिं" च वदन्तीनाम्, सर्वेषामपि वस्तूनां ब्रह्मप्रति शरीरतां तानिप्रति ब्रह्मणश्शरीरितां तथा शरीरितयान्तरवस्थानेनाभेदनिर्देश इति वदन्ती नाम्, सूक्ष्माकारेण विद्यमानानामेव वस्तूनामवस्थाभेदेन प्रलयमुत्पत्तिञ्च वदन्तीनां श्रुतीनामैकरत्ये अविरुद्धार्थप्रतिपादनकृतैकरसतायां" प्रणयशालिभिस्तत्परैः। तत्त्वविद्भिः- यथावस्थितार्थज्ञानशालिभिस्सूत्रकारवृत्तिकारभाष्यकारादिभिः। अधरीचक्रिरे- अधरीकृताः, निरस्ता इत्यर्थः॥
कुमार-वरदः - 167

मूलम् - 167