05 भोक्त्रापत्त्यधिकरणम्

विश्वास-प्रस्तुतिः - 164

164.एको यस्यापि देहस्स भवति विविधानन्दुःखैकभोक्ता
विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम्।
इत्थं जीवेशसीमामपलपितुमनाः कोशभाजा श्रुतीनां
सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी॥

३४-तमाहोबिल-यतिः - 164
  1. एको यस्येत्यादि। यस्य- चेतनस्य। एको देहोऽस्ति। सः-चेतनः।विविधानन्तदुःखैकभोक्ता भवति- नानाविधानामनन्तानां कदाप्यनुभवेन निश्शेषीकरणानर्हाणां दुःखानामेकभोक्ता मुख्यानुभोक्ता भवति। कदाचित् सुखलवलाभेऽपि सोऽपि दुःखपरम्परासन्दर्शनेन दुःखान्नातिरिच्यत इति भावः। प्रभोः-परमात्मनः। विश्वम्- जगत्सर्वम्। देहश्चेत्-शरीरञ्चेत्। सः- परमात्मा। विश्वदुःखानुभूतिम्- सर्वविधदुःखानुभवम्। कथमतिपतेत्- कथमतिलङ्घितुं शक्नुयात्। नहि ज्वलन्तं कालानलं कश्चित् सर्वाङ्गेषु समापात्य निर्वेदनस्तिष्ठेदिति भावः। इत्थं जीवेशसीमामपलपितुमनाः- एवंप्रकारया शङ्कया जीवेश्वरयोस्सुखदुःखानुभवतदभावन्यवस्थामपह्नोतुकामः कथकः। क्रोशभाजां श्रुतीनां सम्राड्भृत्यादिनीत्या- जीवेश्वरस्वभावतत्त्वदिदर्शयिषया ‘समाने वृक्षे पुरुषो निमग्नो नीशया शोचति मुह्यमानः। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः॥’ ‘द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति॥’ इति परस्सहस्रवारं जीवेश्वरवैलक्षण्यज्ञापकं महोद्धोषं कुर्वतीनां श्रुतीनां सम्बन्धिना राजभृत्यादिन्यायेन। यथा लोके राजशासनानुवर्तिनां" तदतिवर्तिनाञ्च राजानुग्रहनिग्रहकृतसुखदुःखयोगेऽपि न सशरीरत्वमात्रेण शासके राज्ञ्यपि शासनानुवृत्त्यतिवृत्तिनिमित्तसुखदुःखयोर्भोक्तृत्वप्रसङ्गः, तथाऽसौ सर्वेश्वरस्तत्तत्कर्मानुरूप्येण स्वदत्तसुख दुःखानुभवैर्जीवैस्सह सर्वशरीरेषु तेषुचान्तर्यामितया सदा निवसन्नपि स्वतस्सिद्धापहत पाप्मत्वादिरूपैश्वरस्वभाव विशेषेषास्पृष्टदोषगन्ध एवावतिष्ठत इति दृष्टान्तोपपादनेन। साम्यवैषम्यदर्शी- एकशरीरावस्थानरूपं साम्यं, वैषम्यं ‘पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति’ इत्युक्तं कर्मफलानुभव तदभावरूपं जीवात्मपरमात्मनोः वैलक्षण्यञ्च दृष्टवान् सन्। इिह- पूर्वोक्तभोक्त्रापत्त्याशङ्कने। शमम्- शान्तिं वृथोद्यमनिवृत्तिम्। लभताम्- प्राप्नुताम्। इतः परं पारिप्लवशङ्कनायासान्निवर्ततामितिभावः॥
कुमार-वरदः - 164

मूलम् - 164