विश्वास-प्रस्तुतिः - 163
163.संवादादक्षपादक्षपणककणभुग्भिक्षुपक्षेष्वणूनां
विश्वं तद्धेतुकं स्यादिति मृदुमतिभिश्श्वावराहक्रमोक्तौ ।
अन्योन्यव्याहतार्थस्थपुटितकुहनायुक्तिदोषापनुत्त्यै
भाति त्रय्यन्तसूर्यः प्रतिमततिमिरस्तोमकुक्षिंभरिर्नः॥
३४-तमाहोबिल-यतिः - 163
- संवादादित्यादि। आक्षपादक्षपणककणभूग्भिक्षुपक्षेषु- अक्षपादो गौतमस्तस्येमे आक्षपादा नैयायिकाः, क्षपणका जैनाः कणभुक् कणादः" भिक्षु रुद्रः, एतेषां पक्षेषु दर्शनेषु। अणूनाम्- परमाणूनाम्। संवादात्- जगत्कारणत्वेन समानवादात्। एतेषां बहूनां पक्षेषु परमाणुकारणत्वस्याङ्गीकरणात्। विश्वम्- जगत्। तद्धेतुकं स्यात्- परमाणुकारणकं भवेत्। इति- एवम्प्रकारेण। मृदुमतिभिः- अल्पबुद्धिभिः। श्वावराहक्रमोक्तिः- श्वावराहक्रमस्यानुवादः। श्वानः परस्परं" विद्वेषिणोऽपि आरण्यकवराहेषु परिपतनसमये सजातीयेषु परस्परवैरं परित्यज्य परिपतन्ति, तद्वत् परवादिनोऽप्येते बहुष्वर्थेषु स्पर्धमाना अपि परस्परविरोधं परित्यज्य वेदान्तबाधनाय प्रवर्तन्त इति श्वावराहक्रमस्यानुवाद एषइति। अन्योन्यव्याहतार्थस्थपुटितकुहना -युक्तिदोषापनुत्त्यै- परस्परविरुद्धार्थैस्स्थपुटिता निम्नोन्नता कुहनायुक्तिरेव दोषा रात्रिस्तन्निवर्तनाय। प्रतिमततिमिरस्तोमकुक्षिम्भरिः- प्रतिमतान्येव तिमिरस्तोमोऽन्धकारव्यूहस्तस्य कुक्षिम्भरिर्भक्षको विध्वंसक इति यावत्। त्रय्यन्तसूर्यः- वेदान्त एव सूर्यः। नः- अस्माकम्। भाति- प्रकाशते। इदं हृदयम्- यथा नक्तं सर्वलोकमावृत्य वर्तमानमप्यन्धतमसं सूर्योदयक्षण एव निरन्वयं विनश्यति, एवं वेदान्तसिद्धान्तप्रसङ्गमात्रेण परश्शतमपि सिद्धान्तास्स्वयमेव प्रक्षीयन्त इति॥
कुमार-वरदः - 163

मूलम् - 163