03 विलक्षणत्वाधिकरणम्

विश्वास-प्रस्तुतिः - 161

161.विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं
सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्।
भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ
स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः॥

३४-तमाहोबिल-यतिः - 161
  1. विश्वमित्यादि। विश्वम्-जगत्। त्रैगुण्यवत्त्वात्-सुखदुःखमोहाद्यात्मकत्वेन सत्त्वरजस्तमोरूपगुणत्रय आत्मकत्वात्। त्रिगुणतः- सत्त्वरजस्तमस्साम्यरूपप्रकृतिद्रव्यात्। उदितम्- उत्पन्नम्। असमात्- त्रैगुण्यशून्यत्वेन विलक्षणात् परमात्मनो नोदितम्। इत्ययुक्तम्-इति वचनमयुक्तम्। कुतः? सर्वाकारेण साम्यं क्वचिदपि न भवेत्- कार्यत्वकारणत्वाभ्यां कार्यकारणयोर्विभक्ततया दर्शनात् सर्वाकारेण साम्यं" तु पर्वतपरमाण्वोः पदार्थत्वेनेव सर्वेष्टमस्मदिष्टञ्चेति न तत्साधनीयमित्यर्थः। हेतुव्यवस्थोचितगुणसमता गोमयात् वृश्चिकादौ भग्ना- कार्यकारणभावव्यवस्थापकगोमयत्वादिगुणसाम्यन्तु गोमयाज्जाते वृश्चिकादौ न दृष्टमित्यर्थः। ईशः-ईश्वरः। प्रकृतितनुः-सूक्ष्मचेतनाचेतनशरीरस्सन्। स्थूलत्वं याति च- स्थूलचिदचिद्वस्तुशरीरकत्वं याति च। अतः-एवमुपपादनात्। सर्वचोद्योपमर्दः- सर्वेषामपि चोद्यानामुपमर्द एव। सूक्ष्मस्य तस्यैव द्रव्यस्य स्थूलरूपेणावस्थानमात्रस्यैव कार्यकारणभावरूपत्वेनाभिधानादीश्वरस्वरूपेण प्रकृतिपुरुषात्मना परिणमत इत्यस्माभिरनभिधानाच्च न किमपि चोद्यमवशिष्यत इति भावः॥
कुमार-वरदः - 161
  1. विश्वमित्यादि। विश्वम्-जगत्। त्रैगुण्यवत्त्वात्-सुखदुःखमोहाद्यात्मकत्वेन सत्त्वरजस्तमोरूपगुणत्रय आत्मकत्वात्। त्रिगुणतः- सत्त्वरजस्तमस्साम्यरूपप्रकृतिद्रव्यात्। उदितम्- उत्पन्नम्। असमात्- त्रैगुण्यशून्यत्वेन विलक्षणात् परमात्मनो नोदितम्। इत्ययुक्तम्-इति वचनमयुक्तम्। कुतः? सर्वाकारेण साम्यं क्वचिदपि न भवेत्- कार्यत्वकारणत्वाभ्यां" कार्यकारणयोर्विभक्ततया दर्शनात् सर्वाकारेण साम्यं तु पर्वतपरमाण्वोः पदार्थत्वेनेव सर्वेष्टमस्मदिष्टञ्चेति न तत्साधनीयमित्यर्थः। हेतुव्यवस्थोचितगुणसमता गोमयात् वृश्चिकादौ भग्ना- कार्यकारणभावव्यवस्थापकगोमयत्वादिगुणसाम्यन्तु गोमयाज्जाते वृश्चिकादौ न दृष्टमित्यर्थः। ईशः-ईश्वरः। प्रकृतितनुः-सूक्ष्मचेतनाचेतनशरीरस्सन्। स्थूलत्वं याति च- स्थूलचिदचिद्वस्तुशरीरकत्वं याति च। अतः-एवमुपपादनात्। सर्वचोद्योपमर्दः- सर्वेषामपि चोद्यानामुपमर्द एव। सूक्ष्मस्य तस्यैव द्रव्यस्य स्थूलरूपेणावस्थानमात्रस्यैव कार्यकारणभावरूपत्वेनाभिधानादीश्वरस्वरूपेण प्रकृतिपुरुषात्मना परिणमत इत्यस्माभिरनभिधानाच्च न किमपि चोद्यमवशिष्यत इति भावः॥
मूलम् - 161

161.विश्वं त्रैगुण्यवत् स्यात् त्रिगुणत उदितन्नासमादित्ययुक्तं
सर्वाकारेण साम्यं क्वचिदपि न भवेत् केनचित् साम्यमिष्टम्।
भग्ना हेतुव्यवस्थोचितगुणसमता गोमयाद्वृश्चिकादौ
स्थूलत्वं याति चेशः प्रकृतितनुरतस्सर्वचोद्योपमर्दः॥

विश्वास-प्रस्तुतिः - 162
  1. ईक्षा तादृग्बहु स्यामिति सति पठिता तेजसोऽपाञ्च दृष्टा
    सालक्षण्यं ततस्स्याज्जगत इति मृदुप्रज्ञपार्श्वस्थचोद्ये।
    तत्तन्मूर्तेः परस्येक्षणमिदमिति तद्वाक्यभावापलापी
    सामान्येनाभिमानिव्यवहरणमिह व्याहरत् पूर्वपक्षी॥
३४-तमाहोबिल-यतिः - 162
  1. ईक्षेत्यादि। येति स्त्रीलिङ्गयच्छब्दाध्याहारः कार्यः। या ईक्षा-स्रष्टव्यपर्यालोचनरूपा। सति- ‘सदेव सोम्येदमग्र आसीत्’ इत्युक्ते सकलजगत्कारणभूते परमात्मनि। बहुस्यामितिपठिता- ‘तदैक्षत प्रजायेय’ इति श्रुत्या प्रतिपादिता। तादृगीक्षा- तत्तुल्यैवेक्षा। तेजसोऽपाञ्च दृष्टा- ‘तत्तेजऐक्षत’ ‘ता आप ऐक्षन्त’ इति श्रुतिवाक्याभ्यां तेजसो विषये अपां विषये च दृष्टा। ततः-तस्मात्कारणात्। जगतः- कार्यभूतस्य जगतः। सालक्षण्यं स्यात्- कारणभूतपरमात्मना सह चैतन्ययोगेन सालक्षण्यं स्यात्।इति-एवंरीत्या। मृदुप्रज्ञपार्श्वस्थचोद्ये- मन्दप्रज्ञस्य पार्श्वस्थस्य कस्य चित् चोद्ये सति। तत्तन्मूर्तेः- तेजोऽबन्नादिशरीरकस्य। परस्य-परमात्मानः। ईक्षणमिदमिति- स्रष्टव्यपर्यालोचनात्मकं ज्ञानमिदमिति। तद्वाक्यभावापलापी- तत्तेज ऐक्षत इत्यादिवाक्यतात्पर्यस्यापलापी अपह्नवमातन्वन्। पूर्वपक्षी-एतदधिकरणपूर्वपक्षी। इह-पूर्वपक्षावसरे। सामान्येन- अभिमानिदेवताव्यपदेशत्वेन सामान्याकारेण, नपुनः परमात्मव्यपदेशत्वतत्तद्देवतामात्रव्यपदेशत्वादि विशेषधर्मपुरस्कारेण। अभिमानिव्यवहरणं" व्याहरत्- तत्तत्तत्त्वाभिमानिव्यवहारोऽयमिति व्यवहृतवान्। तेनास्मदभिमतपरमात्मव्यपदेशरूपत्वानिषेधात् सामान्याकारेणास्य पूर्वपक्षिव्यवहाररूपत्वाच्च नास्माकं हानिरिति भावः॥
कुमार-वरदः - 162

मूलम् - 162