विश्वास-प्रस्तुतिः - 160
- वेदान् पूर्वं विधाताऽलभत भगवतस्सर्वविद्यानियुक्तो
वागीशश्चैष तस्मात्तदुदितविहतौ कम्पनं वेदमूर्ध्नः ।
मैवन्तस्यापि वेदापहृतिमुखविपद्दर्शनात् क्षेत्रिभावात्
भ्रान्त्यादिस्सम्भवेदित्यगतिकविषये पूर्ववन्निर्वहामः ॥
३४-तमाहोबिल-यतिः - 160
- वेदान्पूर्वमित्यादि। विधाता-हिरण्यगर्भः। पूर्वम्-प्रजासर्गात्पूर्वम्। भगवतः-श्रीमन्नारायणात्। वेदान्- ऋगादिरूपान् सर्वानेवापौरुषेयाक्षरराशीन्। अलभत-प्राप्तवान्। एषः-हिरण्यगर्भः। सर्वविद्यानियुक्तः- सर्वविद्याप्रवर्तने भगवता नियुक्तः। वागीशश्च-साक्षात् सरस्वतीवल्लभ इति प्रसिद्धश्च। तस्मात्- हिरण्यगर्भस्य तादृशमहिमशालित्वात्। तदुदितविहतेः-हिरण्यगर्भाक्तिव्याघातात्। वेदमूर्ध्नः-वेदान्तस्य। कम्पनात्-चलनमेव भवेदिति। मैवम्-एवं मा शङ्किष्ठाः। तस्यापि-हिरण्यगर्भस्यापि। वेदापहृतिमुखविपद्दर्शनात्- मधुकैटभ निमित्तवेदापहारप्रमुखापद्दर्शनात्। क्षेत्रिभावात्-त्रिगुणात्मकप्रकृतिद्रव्यमयशरीरवर्तित्वात्। भ्रान्त्यादिः-भ्रान्तिः धर्मविपर्ययः, आदिशब्देन धर्मिविपर्ययः। सम्भवेदिति-सम्भावित एवेति हेतोः। मैवमिति पूर्वोणान्वयः। अगतिकविषये-वेदाविरोधस्य निर्वोढुमशक्यत्वे तादृशविषये। पूर्ववत्-वेदविरुद्धकपिलवाक्यांशवदेव। निर्वहामः-अप्रमाणमित्येव निर्वहामः। वेदाविरुद्धांशस्तु गृह्यत एव ‘आत्म प्रमाणान्येतानि न हन्तव्यानि हेतुभिः’ इति वचनादिति भावः॥
कुमार-वरदः - 160

मूलम् - 160