विश्वास-प्रस्तुतिः - 154
- तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि-
र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की।
स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं
कार्यत्वं यस्य यादृक्छ्रुतिभिरवगतं तस्य तत्तादृशञ्च॥
३४-तमाहोबिल-यतिः - 154
- तत्तादृगित्यादि। तत्तादृक्तर्कतन्त्रक्रमनिपुणहाबुद्धिसन्तोषसिद्धिः- स च तादृक् च तत्तादृक्, यद्वा स एव तादृक् यस्य स तत्तादृक्। उभयथापि स्वभिन्नसदृशशून्य इत्यर्थः, निस्सम इति यावत्। तत्तादृक् चासौ तर्कतन्त्रक्रमश्च तत्तादृक्तर्कतन्त्रक्रमः, तर्को नाम अर्थस्वभावविषयेण सामग्रीविषयेण वा निरूपणेनार्थविशेषे प्रमाणं व्यवस्थापयत् तदितिकर्तव्यतारूपमूहापरपर्यायं ज्ञानमिति नविलक्षणत्वाधिकरणभाष्योक्तः" सर्वप्रमाणाङ्गभूतः शास्त्रस्य तु विशेषएणाकाङ्क्षासन्निधियोग्यताधीनप्रमाणभावस्य सर्वत्रैवापेक्षितस्वानुग्रहः- ‘आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना। यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः॥’ इति मनुना वेदार्थनिश्चयायावश्यकत्वेन विहितो ज्ञानविशेषः। तन्त्रं वेदान्तसिद्धान्तः। तर्केण युक्तं तन्त्रं तर्कतन्त्रम्। यद्वा तर्कश्च तन्त्रञ्च तर्कतन्त्रे तयोः क्रमः अङ्गाङ्गिभावेनोपयोगः, तस्मिन् निपुणानां महाबुद्धीनां" ‘ग्रहणं धारणं चैव स्मरणं प्रतिपादनम्। ऊहोऽपोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥’ इत्युक्ताष्टाङ्गयुक्तबुद्धिशालिनां सन्तोषसिद्धिः अवश्यज्ञेयवेदान्ततात्पर्यार्थनिश्चलनिश्चयजननजनित महानन्दलाभः। उक्तेन प्रथमाध्यायोक्तेन न्यायकलापेन। यद्यपि लभ्या- सुलभैव। तदपि-तथापि। मृदुधियाम्- बालबुद्धीनाम्। हेतुकास्कन्दशङ्की- हैतुकैर्हेतुवादिभिरास्कन्दम् आक्रमणमाशङ्कमानस्सूत्रकारः। कथितं ब्रह्मणः कारणत्वम्- प्रथमाध्यायोक्तमेव परमात्मनो जगन्निमित्तोपादानत्वरूपं कारणत्वम्। यस्य- वियदादेरात्मादेश्च यस्य वस्तुनः। कार्यत्वम्- पूर्वावस्थाप्रहाणेनोत्तरावस्थाप्राप्तिरूपम्। श्रुतिभिः यादृक् अवगतम्- स्वरूपविकाररूपं" वा स्वभावविकाररूपं वा यथाऽवगतम्। तस्य- वस्तुनः। तादृशम्- तत्प्रकारम्। तच्च- कार्यत्वञ्च। स्थूणाखातक्रमेण- स्थूणानिखननन्यायेन। स्थिरयति- सुप्रतिष्ठितं करोति। द्वितीयाध्याय इति शेषः॥
कुमार-वरदः - 154

मूलम् - 154
- तत्तादृक्तर्कतन्त्रक्रमनिपुणमहाबुद्धिसन्तोषसिद्धि-
र्यद्यप्युक्तेन लभ्या तदपि मृदुधियां हैतुकास्कन्दशङ्की।
स्थूणाखातक्रमेण स्थिरयति कथितं ब्रह्मणः कारणत्वं
कार्यत्वं यस्य यादृक्छ्रुतिभिरवगतं तस्य तत्तादृशञ्च॥
विश्वास-प्रस्तुतिः - 155
- पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां
कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै।
हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा-
योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय॥
३४-तमाहोबिल-यतिः - 155
- पादद्वन्द्वमित्यादि। द्वितीये-द्वितीयाध्याये। पादद्वन्द्वम्-स्मृतिपादरचनापादद्वयम्। परे कारणे- परस्मिन्कारणभूते ब्रह्मणि। बाह्यपीडाम्- वेदबाह्योक्तां बाधप्रतिरोधात्मिकां पीडाम्। क्रमेण परिहरति। पादान्तरयुगम्-वियत्पादप्राणपादद्वयम्। कार्यद्वारेण- वियदादिकार्यविशेषमूलकतया। आन्तरक्षोभशान्त्यै आन्तरक्षोभो नाम वेदान्तवाक्यानामन्योन्यविरोधः, तस्य शान्त्यै निवर्तनाय। उदयति-उत्पद्यते। यद्वा उदयशब्दस्सूर्योदयपरः, तद्वदाचरतीत्युदयति। यथा सूर्योदयस्समस्त तमःक्षोभनिवृत्त्यै कल्पते तद्वदिदं पादद्वयमप्यान्तरक्षोभात्मकतमोनिवृत्त्यै कल्पत इति। अतोऽयतेरात्मनेपदित्वेन परस्मैपदित्वायोग इति न चिन्तनीयम्। इह-द्वितीयाध्याये। प्रथमम्-प्रथमपादद्विके। विभोः-परमात्मनः। हेतुत्वायोगमभङ्गः-हेतुत्वस्य प्रथमाध्यायोक्तजगत्कारणत्वस्य स्मृतिविरोधादिभिर्यः अयोगः असम्भावना तस्य भङ्गः निवृत्तिः। क्रियत इति शेषः। तस्य-कारणत्वस्य। सार्वत्रिकत्वायगेक्षेपः-सार्वत्रिकत्वायोगस्य ब्रह्मणः कारणत्वं सार्वत्रिकं न भवति आकाशादेर्नित्यत्वेन तत्कारणत्वायोगादिति न्यायवादिभिराशङ्कितस्य सर्ववस्तुसम्बन्धित्वायोगस्य क्षेपः प्रतिक्षेपः। परस्तात्- वियत्प्राणपादद्वये। फलति- वियदधिकरणादिभिराकाशादेः कार्यत्वोपपादने सति ईश्वरापेक्षया तस्य कार्यत्वं स्वयमेव फलितं भवति ततश्च कारणत्वस्य सार्वत्रिकत्वायोगक्षेपश्च सिद्ध एवेति भावः, स च-ईश्वरहेतुत्वस्य सार्वत्रिकत्वायोगक्षेपश्च। श्रौतनित्यं विहाय भवेत्-श्रुत्या नित्यत्वेन प्रतिपन्नं यद्वस्तु प्रकृतिपुरुषाद्यात्मकं तद्भिन्नविषय एव भवेत्। ऐश्वरं कारणत्वं श्रुत्युक्तनित्यवस्तुव्यतिरिक्तेषु कार्यवस्तुषु व्यवतिष्ठत इति भावः॥
कुमार-वरदः - 155

मूलम् - 155
- पादद्वन्द्वं द्वितीये परिहरति परे कारणे बाह्यपीडां
कार्यद्वारेण पादान्तरयुगमुदयत्यान्तरक्षोभशान्त्यै।
हेतुत्वायोगभङ्गः प्रथममिह विभोस्तस्य सार्वत्रिकत्वा-
योगक्षेपः परस्तात् फलति स च भवेच्छ्रौतनित्यं विहाय॥
विश्वास-प्रस्तुतिः - 156
- तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे
तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य।
इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः
प्रत्यस्त्रैर्वारयित्वा द्रढयति चलितं पादतः प्राच्यमर्थम्॥
३४-तमाहोबिल-यतिः - 156
- तन्त्रच्छायानिदान इति। उपनिषदाम्- ‘इन्द्रियेभ्यः परा ह्यार्थाः, महतः परमव्यक्तम्’ इत्याद्युपनिषदाम्। तन्त्रच्छायानिदाने-साङ्ख्यतन्त्रोक्तिसमानाकारत्वमूलके। आन्यपर्ये-अन्यार्थपरत्वे। स्वयम्- सूत्रकारैस्साक्षादेव। निषिद्धे-निरुद्धे सति। अद्य- अस्मिन्नवसरे। परः- साङ्ख्यः। तन्त्रेभ्यो दुर्बलत्वात् तदनुसरणम्- उपनिषदामुपबृंहणं" विनाऽर्थप्रत्यायनाशक्त्योपब़ृंहणसापेक्षत्वात् मन्वादिस्मृतीनां पूर्वभागोपबृंहणसावकाशत्वाच्च तत्त्वेदम्पराणां साङ्ख्यादितन्त्राणामेवाश्रयणीयत्वेन प्राबल्यात् उपनिषदाच्च तदुपजीवकत्वेन दुर्बलत्वाच्च तन्त्रानुसरणमेव कर्तव्यम्। इत्युज्जिहीते-एवंप्रकारेणोत्तिष्ठति। इत्थं" सति- एवंप्रकारेण परवाद्युत्थाने प्रसक्ते सति। अत्र- द्वितीयाध्यायप्रथमपादद्वये। तत्तत्स्मृतिनयपृतनातिक्रमम्- साङ्ख्यादिस्मृतिन्यायात्मिकायाः" पृतनायास्सेनायाः, अतिक्रमं प्रथमाध्यायोक्तब्रह्मकारणत्वात्मक प्रधानवस्तुरक्षणौपयिकन्यायकलापात्मकदुर्गारोहणम्। तत्तदर्हैः-तत्तत्प्रतीक्षेपार्हैः। प्रत्यस्त्रैः- सन्न्यायकलापोपन्यासात्मकैः प्रत्यायुधैः। वारयित्वा-निवार्य। चलितम्-स्मृतिन्यायविरोधेन किञ्चिच्चलनयुक्तम्। प्राच्यमर्थम्- पूर्वोक्तं ब्रह्मकारणत्वरूपमर्थं, धनञ्च। द्रढयति- स्थूणानिखननन्यायेन सुप्रतिष्ठितं करोतीत्यर्थः॥
कुमार-वरदः - 156

मूलम् - 156
- तन्त्रच्छायानिदाने स्वयमुपनिषदामान्यपर्ये निरुद्धे
तन्त्रेभ्यो दुर्बलत्वात्तदनुसरणमित्युज्जिहीते परोऽद्य।
इत्थं सत्यत्र तत्तत्स्मृतिनयपृतनातिक्रमन्तत्तदर्हैः
प्रत्यस्त्रैर्वारयित्वा द्रढयति चलितं पादतः प्राच्यमर्थम्॥
विश्वास-प्रस्तुतिः - 157
- निर्णीतं कर्मकाण्डे स्मृतिनयविहतौ निश्चलत्वं श्रुतीनां
चर्चा तत्सिद्धयेऽसौ पुनरपि विफलः स्याद्द्वितीयाद्यपादः।
मैवं गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधताया-
माप्तोक्त्या तर्कतश्च क्षममनुसरणं पश्यतो ह्यत्र भङ्गः॥
३४-तमाहोबिल-यतिः - 157
- निर्णीतमित्यादि। कर्मकाण्डे-कर्मविचाररूपे पूर्वकाण्डे विरोधाधिकरणादौ। स्मृतिनयविहतौ- स्मृतिन्यायविरोधे सत्यपि। श्रुतिनाम्- स्मृतिविरुद्धार्थानामपि श्रुतीनाम्। निश्चलत्वम्- निष्कम्पत्वम्। निर्णीतम्-निश्चितं खलु। तत्सिद्धये-पूर्वसिद्धार्थसिद्धये। पुनः-पुनश्च। असौ चर्चेति- स्मृतिपादे क्रियमाणो विचार इति हेतोः। द्वितीयाद्यपादो विफलस्स्यात्- द्वितीयाध्याप्रथमपादोऽयं कृतकरत्वात् विफलः स्यात्। मैवम्-एवं मा शङ्किष्ठाः। गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधतायाम्- गम्भीराणि असमर्थैर्दुर्ग्रहतलानि नानाभूतानि च यानि श्रुतिशिखराणि वेदान्तवाक्यानि तेषां परिच्छेद्यस्य ब्रह्मस्वरूपाद्यर्थजातस्य दुर्बोधतायां दुर्ग्रहतायां सत्याम्। आप्तोक्त्या-‘ऋषिं" प्रसूतं कपिलम्’ इत्यादिश्रुतिप्रसिद्धस्य परमाप्तस्य कपिलस्य उक्त्या साङ्ख्यतन्त्रेण। तर्कतश्च- प्रमाणाङ्गभूतेन ऊहापरपर्यायज्ञानेन च सह। अनुसरणम्-तत्त्वार्थपरिज्ञानप्रयतनम्। क्षयम्- युक्तमिति। पश्यतो हि-आलोचयतः कस्यचित् मन्दबुद्धेर्हि। अत्रपादे। भङ्गः-निरासः" क्रियते। अतो न पौनरुक्त्यशङ्कावकाश इति भावः॥
कुमार-वरदः - 157
- निर्णीतमित्यादि। कर्मकाण्डे-कर्मविचाररूपे पूर्वकाण्डे विरोधाधिकरणादौ। स्मृतिनयविहतौ- स्मृतिन्यायविरोधे सत्यपि। श्रुतिनाम्- स्मृतिविरुद्धार्थानामपि श्रुतीनाम्। निश्चलत्वम्- निष्कम्पत्वम्। निर्णीतम्-निश्चितं खलु। तत्सिद्धये-पूर्वसिद्धार्थसिद्धये। पुनः-पुनश्च। असौ चर्चेति- स्मृतिपादे क्रियमाणो विचार इति हेतोः। द्वितीयाद्यपादो विफलस्स्यात्- द्वितीयाध्याप्रथमपादोऽयं कृतकरत्वात् विफलः स्यात्। मैवम्-एवं मा शङ्किष्ठाः। गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधतायाम्- गम्भीराणि असमर्थैर्दुर्ग्रहतलानि नानाभूतानि च यानि श्रुतिशिखराणि वेदान्तवाक्यानि तेषां परिच्छेद्यस्य ब्रह्मस्वरूपाद्यर्थजातस्य दुर्बोधतायां दुर्ग्रहतायां सत्याम्। आप्तोक्त्या-‘ऋषिं" प्रसूतं कपिलम्’ इत्यादिश्रुतिप्रसिद्धस्य परमाप्तस्य कपिलस्य उक्त्या साङ्ख्यतन्त्रेण। तर्कतश्च- प्रमाणाङ्गभूतेन ऊहापरपर्यायज्ञानेन च सह। अनुसरणम्-तत्त्वार्थपरिज्ञानप्रयतनम्। क्षयम्- युक्तमिति। पश्यतो हि-आलोचयतः कस्यचित् मन्दबुद्धेर्हि। अत्रपादे। भङ्गः-निरासः क्रियते। अतो न पौनरुक्त्यशङ्कावकाश इति भावः॥
मूलम् - 157
- निर्णीतं कर्मकाण्डे स्मृतिनयविहतौ निश्चलत्वं श्रुतीनां
चर्चा तत्सिद्धयेऽसौ पुनरपि विफलः स्याद्द्वितीयाद्यपादः।
मैवं गम्भीरनानाश्रुतिशिखरपरिच्छेद्यदुर्बोधताया-
माप्तोक्त्या तर्कतश्च क्षममनुसरणं पश्यतो ह्यत्र भङ्गः॥
विश्वास-प्रस्तुतिः - 158
- द्वाभ्यां स्मृत्या विरोधं परिहरति ततस्त्वष्टभिस्तर्कबाधं
तेनोपादानभावं द्रढयति तु विभोः कर्तृतान्तद्द्वयं च।
तत्तत्क्षेपात्तुलाग्रद्वयनमनसमुन्नामनीत्या प्रवृत्ते
शङ्कावर्गे परीक्षासमनिहितमतिः पक्षपातं रुणद्धि॥
३४-तमाहोबिल-यतिः - 158
- द्वाभ्यामित्यादि। द्वाभ्याम्-स्मृत्यधिकरणयोगप्रत्युक्त्यधिकरणाभ्याम्। स्मृत्याः- कपिलस्मृत्याः, हिरण्यगर्भस्मृत्याश्च। विरोधं परिहरति। ततस्तु-तत्परन्तु। अष्टभिः-नविलक्षणत्वाधिकरणैतेनशिष्टापरिग्रह अधिकरणभोक्त्रापत्त्यधिकरणारम्भणाधिकरणेतरव्यपदेशाधिकरणोपसंहारदर्शनाधिकरणकृत्स्नप्रसक्त्यधिकरण नप्रयोजनवत्त्वाधिकरणैरष्टभिः। तर्कबाधम्-युक्तिमूलकम्, उक्तब्रह्मकारणत्वस्य वह्निना सिञ्चतीतिवाक्यार्थवत् बाधितत्वं परिहरति। तेनतु- उक्तन्यायकलापदशकेन तु। विभोः- परमात्मनः। उपादानभावम्- उपादानकारणत्वम्। कर्तृताम्- निमित्तकारणत्वम्। तद्द्वयञ्च-उपादानत्वनिमित्तत्वद्वयञ्च। द्रढयति-सुप्रतिष्ठितं करोति। केषुचिदधिकरणेषूप्रधानकारणत्वं द्रढयति केषुचिदधिकरणेषु निमित्तकारणत्वं द्रढयति केषुचिदधिकरणेषु तदुभयञ्च द्रढयतीति भावः। तत्तत्क्षोपात्- तत्तद्वादिपरिकल्पितानां परस्परविरुद्धानामर्थानामेकप्रतिक्षेपात्। तुलाग्रद्वयनमनसमुन्नामनीत्या-तुलाग्रद्वयनमनोन्नमनक्रमेण। शङ्कावर्गे प्रवृत्ते- परस्परविरुद्धार्थेष्वन्यतमनिरासे तदन्यतद्विरुद्धार्थविषयकशङ्काया उत्थानम्, तस्यानिरासे तदन्यतद्विरुद्धार्थेशङ्कासमुन्मेषः, इत्येवंक्रमेण शङ्कावर्गे उपर्युपरि प्रवृत्ते। परीक्षासमनिहितमतिः- परीक्षायां तत्तद्युक्तीनां साधुत्वासाधुत्वनिन्तने समतया पक्षपातराहित्येन निहिता प्रवेशिता मतिर्येन स सूत्रकारः। पक्षपातम्-एकत्राभिनिवेशः पक्षपातः, तम्। रुणद्धि-निवर्तयति। साम्यमेव स्थापयतीति भावः॥
कुमार-वरदः - 158

मूलम् - 158
- द्वाभ्यां स्मृत्या विरोधं परिहरति ततस्त्वष्टभिस्तर्कबाधं
तेनोपादानभावं द्रढयति तु विभोः कर्तृतान्तद्द्वयं च।
तत्तत्क्षेपात्तुलाग्रद्वयनमनसमुन्नामनीत्या प्रवृत्ते
शङ्कावर्गे परीक्षासमनिहितमतिः पक्षपातं रुणद्धि॥
विश्वास-प्रस्तुतिः - 159
- स्मर्ता श्रुत्यैव गीतः कपिलऋषिरसौ वासुदेवांशभूतः
ख्यातो रामायणादौ प्रणिधिनिपुणधीर्वक्ति वेदान्ततत्त्वम्।
तस्मादस्मद्विदूरे श्रुतिशिरसि तदुक्त्यैव निष्कर्षणं स्या-
न्न स्यादेकार्थमन्वाद्यनघबहुगिरा तत्र तत्त्वार्थसिद्धेः॥
३४-तमाहोबिल-यतिः - 159
- स्मर्तेत्यादि।स्मर्ता-साङ्ख्यस्मृतिप्रणेता। कपिलः- कपिलाख्यः।ऋषिः- स्वयोगमहिमसाक्षात्कृतनिखिल वेदार्थतत्त्वो मुनिः। श्रुत्यैव गीतः- ‘ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानञ्च पश्येत्’ इति श्रुत्यैव प्रशंसितः। रामायणादौ वासुदेवांशभूतः" ख्यातः प्रणिधिनिपुणधीरसौ वेदान्ततत्त्वं वक्ति- ‘यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः। कापिलं रूपमास्थाय धारयत्यनिशं धराम्॥’ इति श्रीमद्रामायणे बालकाण्डे चत्वारिंशाध्याये देवान् प्रति पितामहवचने, भागवतादौ च वासुदेवांशभूतत्वेन प्रसिद्धोऽष्टाङ्गयोगानुष्ठानपटुतरबुद्धिरसौ कपिलऋषिर्वेदान्ततात्पर्यविषयभूतं तत्त्वार्थं साङ्ख्यस्मृतिरूपेण वचनेन प्रतिपादयति। तस्मात् - कपिलस्याप्तत्वमहर्षित्वादिगुणयोगेन तद्वाक्यस्य मन्वादिवाक्यवत् कर्माद्यन्यपर्यराहित्येन प्रमाणतमत्वात्। अस्मद्विदूरे- अस्माकमप्रत्यक्षार्थे। श्रुतिशिरसि- वेदान्ते। तदुक्त्यैव-कपिलोक्तिभूतसाङ्ख्यस्मृत्यैव। निष्कर्षणं स्यात्-अर्थनिश्चयस्सम्पादनीयस्स्यात्। न स्यात्-उक्तं न सम्भवेत्। एकार्थमन्वाद्यनघबहुगिरा-एकार्थया परस्परविरोधरहितया मन्वादीनां ‘यद्वै किञ्चन मनुरवदत्तद्भेषजम्’ इति सकलसांसारिकरोगभेषजवचनतया श्रुतानां मन्वादीनां अनघानां अस्थानक्रोधादिशून्यानां शान्तानां बहूनां मनुयाज्ञवल्क्यवसिष्ठहारीतव्यासशङ्खलिखितादीनामनेकमहर्षीणां" गिरा स्मृतिरूपया सूक्त्या। तत्र-अस्मद्विदूरेऽपि वेदान्ते। तत्त्वार्थसिद्धेः- प्रामाणिकार्थनिश्चयसम्भवात्। अतो बहूक्तिविरोधादेकोक्तिरनादरणीयैवेति भावः॥
कुमार-वरदः - 159

मूलम् - 159