36 सर्वव्याख्यानाधिकरणम्

विश्वास-प्रस्तुतिः - 149

149.अग्रे संवर्तनं भात्य् अ-वितथ-वचसि क्वापि हैरण्यगर्भं,
ग्रस्ताशेष-स्व-कार्ये तमसि च शिव एवेति केचित्पठन्ति।
एतादृग्-वाक्य-वर्गस् स्फुट-भवद्-अधिकाशङ्कन-स्तम्भनार्थं
प्राग्-उक्तान् नीति-भेदान् अतिदिशति परं शिष्य-शिक्षैक-चित्तः॥

३४-तमाहोबिल-यतिः - 149
  1. अग्र इत्यादि। अवितथवचसि — वेदे। क्वापि – ‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिकरेक आसीत्’ इत्येवंरूपे कंस्मिश्चिद्वाक्ये। अग्रे – सृष्टेः प्राक्काले। हैरण्यगर्भम् – चतुर्मुखसंबन्धि। संवर्तनम् – सर्वतत्त्वसूक्ष्मांशेनैकीभूय कारणावस्थयाऽवस्थानम्। भाति – प्रतीयते। तमसि – मूलप्रकृतौ। ग्रस्ताशेषस्वकार्ये — स्वावस्थापन्नाशेषस्वाकार्यतत्त्ववर्गे सति, प्रलयकाल इत्यर्थः। शिव एव – रुद्र एक एव। आसीत् इति शेषः। इति च – एवमर्थकं ‘यदा तमस्तन्न दिवा न रात्रिर्न सन्न चासच्छिव एव केवलः’ इत्येवंरूपं" वाक्यञ्च। केचित् – अध्यापकाः। पठन्ति – अधीयते। एतादृग्वाक्यवर्गस्फुटभवदधिकाशङ्कनस्तम्भनार्थम् – एतादृशा उदाहृतवाक्यद्वयतुल्येन वाक्यवर्गेण ‘नकिरिन्द्र त्वदुत्तरः’ ‘इन्द्रो यातो वसितस्य राजा’‘सूर्य आत्मा जगतस्तस्थुषश्च’ इत्यादिरूपेण श्रुतिवाक्यसमुदायेन स्फुटं दृढतया भवत् जायमानं यदधिकाशङ्कनं परतत्त्वमयमेवास्तु अयमेव वास्तु इति वा अयं वा अयं वा जगत्कारणमिति वा जायमानमनद्धृतमाशङ्कनं" तस्य स्तम्भनार्थं निरोधाय। परम् – अतिशयेन। शिष्यशिक्षैकिचित्तः – शिष्याणां शिक्षणे सर्वविररोधिमतनिरसनपूर्वकपरतत्त्वविद्योपपादने एकं मुख्यतयाऽवस्थितं चित्तं हृदयं यस्य स एतादृशसूत्रकारः। प्रागुक्तान् नीतिभेदान् – प्रागुक्तानेव न्यायविशेषान्। अतिदिशति – सामान्येनात्रानुसन्धेयत्वेनोपदिशतीत्यर्थः॥
कुमार-वरदः - 149
  1. शास्त्रारम्भे जन्मादिसूत्रोक्तं भगवतो जगन्निमित्तोपादानत्वं प्रकृत्यधिकरणए निगमितम्, अतः परमुक्तावशिष्टानां श्रुतिवाक्यानामानन्त्यादशेषेण वक्तुमशक्यत्वेन तेनैव प्रकारेण निर्वाहस्स्वयमेवोहनीय इति संगतिः। अत्र चतुर्णां पादानां प्रथमाध्यायोक्तानामर्थविभागेन संगतिमाहुर्विष्णुचित्तार्याः" ‘इत्थं प्रथमाध्यायप्रथमपादेन प्रमाणलक्षणाभ्यां परमकारणतया सर्ववेदान्ताभिमतपरमपुरुषस्थापनम्। द्वितीयतृतीयाभ्यां" विभूतेस्तस्य च संबन्धप्रकारौ। चतुर्थपादेन प्रतिपक्षनिरास इति। इत्थं सर्वश्रुतिनिर्वाह उक्त इत्याह एतेनेति’ इति।तदर्थविचारस्तु– अनुदाहृताः कारणादिवाक्यविशेषाः किमुक्तलक्षणचिदचिद्वलक्षणब्रह्मद्वाता उत नेति। तदर्थं" ते किमुक्तन्यायानामविषया उत विषयाः॥किमुक्तन्यायानाम विषया उत विषयाः।तदर्थं विषयत्वं संभवति न वेति।अस्मिन्नतिदेशाधिकरणे पूर्वं" निश्चितकारणवाक्यप्रक्रिययाऽनिशचितानामपि कारणवाक्यानां निर्वाह इत्युक्तम् । तानि कानिवाक्यानीत्याशङ्कायां कानिचिद्वाक्यान्युदाहृत्य तच्छायया सर्वाणयपि वाक्यानि निर्वहणीयानीति वक्तुं प्रारभते-अग्र इति। ‘हिरण्यगर्भस्समवर्तताग्रे भूतस्य जातः पतिरेक असीत्’ इति हिरण्यगर्भपारम्यप्रतिपादकरीपमेकं वाक्यं तावदाभाति। तथा “नसन्नचासच्छि एव केवलः” इत्यपरमपि वाक्यं रुद्रपारम्यप्रतिपादकमिव द्दश्यते।तत्र हि ‘यदा तमस्तन्न दिवा न रात्रिः’ इति प्रलयकाले रुद्रस्यैवावस्थानं" कथ्यत इत्यापाततः प्रतियते।तदिदमाह-ग्रस्तेति। एतद्वाक्यद्वितयमुपात्तम्, एताद्दशानि वाक्यानि बहूनि विद्यन्ते, तद्वाक्याप्रभवं" नारायणादधिकं तत्त्नमस्तीति शङ्कविशेषं स्तम्भयितुं प्रागुक्तानेव न्यायविशेषानन्यत्रातिदिशति सूत्रकारः, तत्कि- मर्थ? शिष्यशिक्षार्थमिति चाह-एताद्दगिति। अयमर्थः-एकत्र शिक्षितस्य न्यायस्येतरत्रापि योज्यत्- वादयमर्यस्स्वयमेव सिध्यति तथापि शिष्यानुग्रहेण भगवान् सूत्रकारो वाचाप्यचष्ट इति॥149॥
मूलम् - 149

149.अग्रे संवर्तनं भात्यवितथवचसि क्वापि हैरण्यगर्भं
ग्रस्ताशेषस्वकार्ये तमसि च शिव एवेति केचित्पठन्ति।
एतादृग्वाक्यवर्गस्स्फुटभवदधिकाशङ्कनस्तम्भनार्थं
प्रागुक्तान्नीतिभेदानतिदिशति परं शिष्यशिक्षैकचित्तः॥

विश्वास-प्रस्तुतिः - 150
  1. विश्वेशश् श्रीपतिश्चेद्भवति कथमसौ त्राणमात्राधिकारी
    दूरं गत्वाऽपि दुःख्यद्विधिशिवतुलया घट्टकुट्यां प्रभातम्।
    मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेत-
    द्ब्रह्मेशस्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः॥
३४-तमाहोबिल-यतिः - 150
  1. विश्वेश इत्यादि। श्रीपतिर्विश्वेशश्चेत् – श्रीमन्नारायण एव जगत्स्वामिभूतः परमात्मा यदि। असौ – नारायणः। त्राणमात्राधिकारी कथं भवतु – जगद्रक्षणमात्राधिकृतस्रिमूर्तिमध्यस्थो विष्णुः कथं भवतु नाम। अखिलजगत्सृष्टिस्थितिसंहारकारणं" हि विश्वेशशब्दितम्। अतः दूरं गत्वापि – नारायणस्य ब्रह्मादिवैलक्षण्यप्रतिपादनप्रयासमनुभूयापि, अर्थान्तरे गन्तव्यमार्गं विहायन्धतमसे नानावनादिपरिवर्तनेऽपि। दुःख्यद्विधिवतुलया – ‘ब्रह्मविष्णुरुद्रेन्द्रास्ते सर्वे सम्प्रसूयन्ते’ इत्यादिश्रुतिसिद्धेन साम्येन। घट्टकुटयां प्रभातम् – घृतगुडादिक्रेयवस्तुवाहकानां पथिकानां तत्तद्वस्त्वानुगुण्येन राजकृतव्यवस्थया राजदेयद्रव्यग्राहिभटावासकुटी घट्टकुटी तस्यामज्ञानेन स्वयमेवागतस्य गुडादिभारवाहिनः पान्थस्य तद्भयेन बहुदूरं कृतपरिवर्तनस्य राडभटग्रहणनिग्रहणानुगुणप्रकाशयुक्तप्रभातसमयसम्पात इवायं प्रयासस्संवृत्तः। वैलक्षण्यं प्रतिपिपादयिषतत्साम्यस्यैवापातादिति भावः। मैवम् – एवं मा शङ्किष्ठाः। ब्रह्मेशस्रष्टरि – एको हवै नारायण आसीन्न ब्रह्मा नेशानः’ इत्यारभ्य ‘तत्र ब्रह्मा चतुर्मुखोऽजायत ततस्तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोपतत् स्वेदाद्बुद्बुमभवत् बुद्धुदात् त्र्यक्षः शूलपाणिः पुरुषोऽजायत’ इति श्रुत्युक्तरीत्या ब्रह्मरुद्रजनयितरि। निरवधिकबृहत्पौरुषे – निरवधिबृहत्त्वशालिनि पुरुषसूक्तप्रतिपाद्यमहापुरुषत्वयोगिनि च। नः पुरुषे –अस्माकं स्वामिनि पुरुषोत्तमे। एतत् – ब्रह्मरुद्रमध्यपदस्थत्वतत्प्रयुक्तरक्षणादिमात्राधिकृतत्वादिकं सर्वमपि। मत्स्यादिभावेष्विव — मत्स्याद्यवतारेषु साधारणमत्स्याकूर्मवराहमनुष्यादीवत् स्वयमप्यज्ञानाशक्त्यादिकं यथा भगवानभिनयति तथैव। निजविभवानुक्रियानाट्यं" स्यात् – निजविभूतिभूतब्रह्मरुद्रसाम्यानुकारलीलाविशेष एवायमिति भवेदेव युक्तम्। ‘ततस्त्वमपि दुर्घर्षस्तस्माद्भावात्सनातनात्। रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिनाम्॥’ इत्यादिप्रमाणसहस्रसद्धोऽयं मार्ग इति भावः॥
कुमार-वरदः - 150

21.अत्र शास्त्रे श्रीपतिरेव सर्वेश्वर इति भवद्भिरभिधीयते व च श्रीपकतिरेव ब्रह्म, ब्रह्मविष्णुरुदा इति त्रिमूर्त्यन्तमत्वेन स श्रुत्यैवाभिधीयते, लोकोऽपि त्रिमूर्तिव्यवहारः सुप्रसिद्ध एव तत्र ब्रह्महुद्ध्रौ च कर्मवश्याविति तत्सहपठितो विष्णुरपि कर्मवश्यच एव तथा च घटुकुटायां प्रभातं भगवतो नारायणस्येतरवैलक्षण्यं प्रतिपादयितुं प्रवृत्तस्यैव भवतः" पुनरपि तत्सालक्षण्यमेवापन्नमिति। इमामाशङ्कां पूर्वार्धेनाशङ्कते-विश्वेश इति। दुःख्यद्विधिशिवतुलया- कर्मवश्यतया दुःख्यद्ब्रह्मरुद्रसाधर्म्यात्। उक्तमर्थं प्रतिक्षिपति-मैवमिति। तदेव विवृणोति–मत्स्यादिति। मत्स्यादिभावेषु च भगवतो निजविभूतिनां मत्स्यादीनां सजातीयत्वेनानुकरणनाट्यमेव दृश्यते। एवं निजविभूतिभूतयोर्ब्रह्मरुद्रयोः नाट्यमात्रमेतत्। कुत इत्यत्राह – ब्रह्मेशस्रष्टरीति। ’ ‘एको हवै नारायण आसीत्’ इत्युपक्रम्य ‘तत्र ब्रह्मा चतुर्मुखोऽजायत ततस्तस्य ध्यानान्तस्थस्य ललाटात्स्वेदोऽपतत् स्वेदाद्बुद्बुदमभवत् बुद्बुदात् त्र्यक्षश्शूलपाणिः पुरुषोऽजायत’ इति ब्रह्मरुद्रयोः स्रष्टृत्वेन सम्प्रतिपन्ने निरवधिकबृहत्त्वलक्षणपौरुषे परस्मिन्ब्रह्मणि विभूत्यनुकारनाट्यमेतदित्यर्थः॥

मूलम् - 150

150.विश्वेशश्श्रीपतिश्चेद्भवति कथमसौ त्राणमात्राधिकारी
दूरं गत्वाऽपि दुःख्यद्विधिशिवतुलया घट्टकुट्यां प्रभातम्।
मैवं मत्स्यादिभावेष्विव निजविभवानुक्रियानाट्यमेत-
द्ब्रह्मेशस्रष्टरि स्यान्निरवधिकबृहत्पौरुषे पूरुषे नः॥

विश्वास-प्रस्तुतिः - 151

151.साङ्ख्योक्तप्रक्रियोक्तेस्तदभिमतसृजेस्तत्प्रसङ्ख्यानक्लृप्ते-
स्तत्प्रोक्ताव्याकृतैक्यात्स्ववृजिनवचनात्तत्फलावद्ययोगात्।
भेदात्कर्तृप्रकृत्योर्द्रुहिणशिवमुखानेकहेतुश्रुतेश्च
क्षिप्तं पादत्रयोक्तं श्रुतिहृदयसमुद्धाटनादन्वरक्षत्॥

३४-तमाहोबिल-यतिः - 151
  1. सांख्योक्तप्रक्रियोक्ते रित्यादि। सांख्योक्तप्रक्रियोक्तेः – साङ्ख्योक्तायास्तत्त्वप्रक्रियाया उक्तेः श्रुतौ तथा वचनात्, अयमानुमानिकाधिकरणपूर्वपक्षहेतुः। तदभिमतसृजेः – साङ्ख्याभिमताब्रह्मात्मक प्रधानासृष्टिप्रक्रियायाः, अयं चमसाधिकरणपूर्वपक्षहेतुः।तत्प्रसंख्यानक्लृप्तेः" — साङ्ख्योक्ततत्त्वसङ्ख्यापरिक्लृप्तेः, अयं ‘न सङ्ख्योपसङ्ग्रहात्’ इत्याद्यधिकरणपूर्वपक्षहेतुः। तत्प्रोक्ताव्याकृतैक्यात् – साङ्ख्योक्तात् जगत्कारणस्याव्याकृतैक्यात्, अयं कारणत्वाधिकरणपूर्वपक्षहेतुः। स्ववृजिनवचनात् – जगत्कारणस्य पुरुषस्य पुण्यपापवाचिकर्मशब्दात्, अयं वाक्यान्वयाधिकरणपूर्वपक्षहेतुः। कर्तृप्रकृत्योर्भेदात् – जगति निमित्तोपादानयोर्भेदात्, अयं प्रकृत्यधिकरणपूर्वपक्षहेतुः। द्रुहिणशिवमुखानेकहेतुश्रुतेश्च — ब्रह्मरुद्रादिनानाव्यक्तिकारणत्वापातप्रत्यायकश्रुतेश्च हेतोः। अयं सर्वव्याख्यानाधिकरणपूर्वपक्षहेतुः। क्षिप्तम् – प्रतिक्षिप्तम्। पादत्रयोक्तम् – प्रथमद्वितीयतृतीयपादप्रतिपादितं" परमपुरुषैकनिष्ठं जगत्कारणत्वादिरूपमर्थजातम्। श्रुतिहृदयसमुद्धाटनात् – श्रुत्यर्थविशदप्रतिपादनात्। अन्वरक्षत् – रक्षितवान्॥
कुमार-वरदः - 151
  1. अत्र चतुर्थपादस्थानामष्टानामधिकरणानां पूर्वपक्षोत्थानप्रक्रियां तत्प्रतिक्षेपं च शिष्याणां सुखग्रहणार्थं संगृह्णाति – सांख्योक्तेति। आनुमानिकाधिकरणे सांख्योक्तप्रक्रियाम्, चमसाधिकरणे तदुक्ताब्रह्मत्मकप्रधानसृष्टिप्रक्रियाम्, संख्योपसंग्रहाधिकरणे तदुक्तां तत्त्वसंख्यापरिकॢप्तिम्, कारणत्वाधिकरणे सांख्योक्ताव्याकृतैक्यं कारणस्य, जगत्वाचित्वाधिकरणे कर्मशब्दस्य पुण्यपापरूपस्वकर्मवाचित्वम्, वाक्यान्वयाधिकरणे पतिपुत्रादिरूपकर्मफलावद्ययोगित्वम्, प्रकृत्यधिकरणे निमित्तोपादानयोर्भेदम्, सर्वव्याख्यानाधिकरणे ब्रह्मरुद्रादीनां" कारणत्वञ्च पूर्वपक्षीकृत्य तन्निराकरणं सूत्रकारश्चकार। अत्र ग्रन्थे पञ्चम्योपादानं पूर्वपक्षोत्थानहेतुविशेषाणां विभज्य प्रदर्शनार्थम्। क्षिप्तमित्यादि – एतेभ्यो हेतुभ्यः पूर्वपक्षिकल्पितेभ्यः" प्रतिक्षिप्तं पूर्वपादत्रयोक्तमर्थँ चतुर्थपादे श्रुतिहृदयसमुद्धाटनात् श्रुत्यर्थानां विशदप्रकाशनात् सूत्रकारो रक्षितवान्॥
मूलम् - 151

151.साङ्ख्योक्तप्रक्रियोक्तेस्तदभिमतसृजेस्तत्प्रसङ्ख्यानक्लृप्ते-
स्तत्प्रोक्ताव्याकृतैक्यात्स्ववृजिनवचनात्तत्फलावद्ययोगात्।
भेदात्कर्तृप्रकृत्योर्द्रुहिणशिवमुखानेकहेतुश्रुतेश्च
क्षिप्तं पादत्रयोक्तं श्रुतिहृदयसमुद्धाटनादन्वरक्षत्॥

विश्वास-प्रस्तुतिः - 152

152.जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे
श्रुत्याद्यैरेव सूक्ता स्वरसगतिरियं कारणाम्नायवाचाम्।
बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या
निष्काल्योरन्परस्तान्निषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ॥

३४-तमाहोबिल-यतिः - 152
  1. जिज्ञास्यत्वेनेत्यादि। जिज्ञास्यत्वेन सिद्धे – प्रथमपादे प्रथमचतुस्सूत्र्या सिद्धव्युत्पत्त्यादिसाधमुखेन मुमुक्षुभिर्ज्ञेयत्वेन, ईक्षत्याद्यधिकरणैस्तत उपरितनैः प्रधानात् चेतनात् चेतनविशेषेभ्यश्च व्यावृत्ततया च प्रतिपन्ने। स्थिरचरचिदचिद्देहिनि – द्वितीयपादेऽन्तर्याम्यधिकरणाद्युक्तरीत्या स्थावरजङ्गमात्मकचेतनाचेतनसमुदायान्तर्यामिणि। ब्रह्मतत्त्वे — स्वरूपगुणकृतनिरतिशयबृहत्त्वाश्रयत्वात् द्युभ्यादिपाद प्रतिपन्नसर्वाधारत्वशआलिनि परब्रह्मणि। श्रुत्याद्यैरेव – आनुमानिकपादोक्तक्श्रुतिलिङा पपत्तिविशेषैरेव। कारणाम्नायवाचाम् – कारणत्वप्रतिपादकवेदान्तवाक्यानाम्। इयं स्वरसगतिः — स्वारसिकीयं वृत्तिः। सूक्ता – सम्यगुक्ता, अयं प्रथमाध्यायार्थः।अस्य प्रथमाध्यायर्थस्य द्वितीयाध्यायेन सह सङ्गतिप्रदर्शनार्थंमुत्तरार्धेन द्वितीयाध्यायार्थ उच्यते। इह– प्रथमाध्यायप्रतिपादिते ब्रह्मकारत्वे। बाह्यान्तरम् – बाह्यञ्चान्तरञ्च तयोस्समाहारो बाह्यान्तरं बाधे रोधे च क्रमेणान्वयः। बाह्यं स्वतन्त्रयुक्तिमूलकम्।आन्तरं श्रुतिवाक्यानां परस्परविरुद्धार्थप्रतीतिमूलकम्। बाधम् – प्रथमाध्यायप्रतिपन्नार्थस्याप्रामाणिकत्वज्ञानहेतु भूताभावानुमानम्। रोधञ्च —- विरोधं परस्परविरुद्धार्थकत्वप्रतीत्या श्रुतिवाक्यानां सर्वेषां तुल्यबलत्वेनार्थप्रतीति प्रतिबन्धबहेतुभूतमर्थविरोधप्रत्यायकयुक्तिजातं" च। बहुधा वर्णयन्तः — बहुप्रकारयुक्तयता प्रतिपादयन्तः। मुसल्याः— मुसलेन प्रहर्तारो मुसलेन बध्या वा वादिनः। परस्तात् —- द्वितीयाध्याये। निषदुपनिषदाम् — श्रीमत्पाञ्चरात्रप्रतिपन्नभगवत्परत्वतद्दिव्यमङ्गलविग्रहविशेषसमाराधनादिप्रकारपरमैकान्तिनिष्ठोपायफलादिप्रतिपादका रहस्याम्नायशब्दिताश्शाखाविशेषाः निषदः, तैत्तरीयकादयस्तदितरे अव्यवधानेन ब्रह्मस्वरूपादिप्रतिपादका वेदभागा उपनिषदः, तासाम्। निश्चलत्वप्रसिद्ध्यै — प्रतिबन्धकराहित्येन स्वार्थप्रत्ययायनाय। निष्काल्येरन् – निरसिष्यन्त इत्यर्थः॥
कुमार-वरदः - 152
  1. एवं प्रथमाध्यायार्थे निश्चलतया निरूपिते सति द्वितीयाध्यायमारिप्सुः पूर्वोत्तराध्याययोः संगतिमनुवदति – जिज्ञास्यत्वेनेति। सिद्धे इति शास्त्रोपोद्घातचतुस्सूत्र्यर्थः प्रथमपादार्थश्च तन्त्रेणैवोपादीयते। स्थिरचरचिदचिद्देहिनीति द्वितीयपादार्थः। ब्रह्मतत्त्व इति तृतीयपादार्थः, ब्रह्म शब्देन भगवतस्सर्वाधारत्वप्रकाशनात्। श्रुत्याद्यैरित्यादिना चतुर्थपादार्थोऽपि तैस्सह संगृहीतः। श्रुतिलिङ्गवाक्यादिभिः प्रमाणैः कारणाम्नायवाचां कारणत्वप्रतिपादकाम्नायवाचां स्वारसिकी वृत्तिरियं सूक्तेत्यन्वयः। अथ वक्ष्यमाणं" द्वितीयाध्यायार्थमाह– बाधमिति। तत्र हि कारणद्वारकबाह्यविरोधपरिहारपरं पूर्वं पादद्वयं तत्राप्येकं बाधपरिहारं अन्यत् प्रतिरोधपरिहारपरमिति विभागः। उत्तरं पादद्वयं कार्यद्वारकान्तरविरोधपरिहारपरम्। आन्तरविरोधस्तु श्रुतिवाक्यानामन्योन्यविरोधः।अत्र च कार्यावलम्बिविरोध एव परिह्रियत इति कारणावलम्बिविरोधपरिहारपरत्वेन पूर्वपादद्विकाद्विभागोऽपि सिध्यतीत्युक्तं भवति। शब्दार्थस्तु बाधं प्रतिरोधं च बाह्यमूलान्तरमूलं च बहुधा वर्णयन्तो मुसल्या मुसलप्रहर्तारः, अथवा मुसलेन वध्यत्वात् मुसल्याः, निष्काल्येरन् निरस्येरन्नित्यर्थः। तत्किमर्थमित्याशङ्क्याह – निषदुपनिषदामिति। निषदामुपनिषदां च निश्चलत्वप्रसिद्ध्यर्थम्। निषच्चात्र पाञ्चपात्रोक्तार्थप्रकाशिका मूलश्रुतिरिति विख्यातसमाख्या भागवतैरभिधीयमाना काचित्। उपनिषत् पुनः सर्वेष्वपि वेदेषु सारतयाऽस्माभिरभिधीयमाना सुप्रसिद्धेति न वक्तव्यमत्र किञ्चित्॥
मूलम् - 152

152.जिज्ञास्यत्वेन सिद्धेस्स्थिरचरचिदचिद्देहिनि ब्रह्मतत्त्वे
श्रुत्याद्यैरेव सूक्ता स्वरसगतिरियं कारणाम्नायवाचाम्।
बाधं रोधं च बाह्यान्तरमिह बहुधा वर्णयन्तो मुसल्या
निष्काल्योरन्परस्तान्निषदुपनिषदां निश्चलत्वप्रसिद्ध्यै ॥

विश्वास-प्रस्तुतिः - 153

153.आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः
मृष्यामश्शास्त्रयोनिप्रलपितमपि वस्स्यात् समन्वित्यपोक्तिः।
सूत्रैरेतैस्स्फुटार्थैस्सविषयवचनैर्निर्विशेषैक्यपक्षे
मुख्येक्षाद्यैस्स्वधर्मैः प्रकृतिपुरुषतो भेदवादः कथं स्यात्॥

३४-तमाहोबिल-यतिः - 153
  1. आदौ जिज्ञास्यतामित्यादि। आदौ – ‘अथातो ब्रह्मजिज्ञासा’ इति प्रथमसूत्रे। प्रतिपन्नेति शेषः। बहुविहतिहता – श्रीमच्छतदूषणीद्वितीयभङ्गोक्तरीत्या शुद्धोपहितविकल्पज्ञानद्वितयतादिविकल्पभेदकृतबहुप्रकारविरोधविध्वस्ता। जिज्ञास्यता – ब्रह्मजिज्ञास्यता। आस्ताम् – तिष्ठतु। यदि जिज्ञास्यं ब्रह्म तदा दृश्यत्वात् मिथ्यात्वं ब्रह्मणः समापतति, एतद्भयाद्यदि न जिज्ञास्यं तदा प्रथमसूत्रं तद्रीत्या शास्त्रञ्च परित्यक्तं स्यात्। अत उभयतस्स्पाशा रज्जुरित्यादिरूपं तात्पर्यमस्यामवगन्तव्यम्। लक्षणोक्तिरसह्यताम् – अत्रापि बहुविहतिहतेति पदस्य काकाक्षिन्यायेनान्वयः। लक्षणस्य असाधारणधर्मस्य उक्तिः ‘जन्माद्यस्य यतः’इति सूत्रेण प्रतिपादनञ्च सह्यताम्। अस्माभिरिति शेषः। असाधारणधर्मस्यैव लक्षणत्वात् निर्धर्मके ब्रह्मणि असाधारणधर्मासम्भवात् सत्यज्ञानादिपदानां सत्यत्वादिपरत्वे सविशेषत्वापत्तेः व्यवृत्तिपरत्वे च लक्षणादोषादेकेतरपदवैयर्थ्यापत्तेः, जगत्कारणत्वस्य शाखायाश्चन्द्रमसं प्रतीव विशेष्यासंस्पर्शेन तटस्थलक्षणत्वपक्षेऽपि ज्ञाताकारोपलक्ष्याकारादिभिस्सविशेषत्वप्रसङ्गाच्चाद्वैतिनां" ब्रह्मलक्षणकथनं बहुविरोधहतमेवेति हृदयम्। वः – युष्माकम्। शास्त्रयोनिप्रलपितमपि —शास्त्रस्य योनिः ‘शास्त्रयोनिः, शास्त्रं योनिः प्रमाणं यस्येति वा शास्त्रयोनिर्ब्रह्म’ इति शङ्करभाष्ये द्वेधा प्रतिपादनात् पक्षद्वयेऽपि क्रमेण ‘‘तस्य हवा एतस्य महतो भूतस्य निश्श्वसितमेतद्यग्वेदः’’ इत्यादिश्रुत्युक्तरीत्या वेदाख्यशास्त्रसृष्टिरूप शास्त्रयोनित्वप्रतिपादनं वा शास्त्रैकप्रमाणकत्वरूपशास्त्रयोनित्वकथनं" वा। मृष्यामः —सहामह इत्यर्थः। अत्रापि बहुविहतिहतेति पदस्य लिङ्गविभक्तिविपरिणामेन विहतिहतमित्येवरूपस्य शास्त्रयोनिप्रलपितपदविशेषणत्वेन अनुषङ्गः कार्यः। अत्रायमाशयः – वेदसृष्टिप्रकरणे ‘आत्मावारे द्रष्टव्यः’ इति श्रवणेन शुद्धस्यैव द्रष्टव्यत्वात् तस्य च नानाभेदास्पदकर्मब्रह्मभागात्मकवेदसृष्टितुल्यत्वापातादिदोषादविषयस्य ब्रह्मणः शास्त्रविषयत्वे सविशेषत्वमिथ्याद्यनर्थापाताच्चसह्यमेव शास्त्रयोनित्वकथनमद्वैतिनामिति। समन्वित्यपोक्तिः –समन्वयसूत्रार्थतया सर्वोपनिषदां ब्रह्मणि समन्वयोपपादनञ्च। स्यात् – अस्तु। अत्रापि बहुविहतेति पदानुषङ्गः। समन्वयो हि नाम सर्वेषां कारणवाक्यानां" ब्रह्मणि तात्पर्येण समन्वयः। स च न सम्भवति वाच्यवाचकभावस्य भवद्भिः खण्डितत्वात् मुख्यार्थसम्बन्ध्यर्थान्तरोक्तिरूपाया लक्षणायाश्च मुख्यार्थानङ्गीकारेणैव छिन्नमूलत्वात् मुख्यार्खगुणयोग्यर्थान्तरवृत्तिरूपाया गौण्याश्च मुख्यार्थानङ्गीकारगुणानङ्गीकारादिभिरसम्भवात् ब्रह्मणः सर्वपक्षेष्वपि बोध्यत्वापातेन मिथ्यात्वापत्तेश्चानर्थबाहुल्याद्वैतिनां समन्वयप्रतिपादनं विरुद्धमेवेति तात्पर्यम्। इदं सर्वं तिष्ठतु –निर्विशेषैक्यपक्षे – निर्विशेषब्रह्मणा सह जीवस्यैक्यं ह्यद्वैत्यभिमतं तत्पक्षे। स्फुटार्थैः – असन्दिग्धार्थैः। सविषयवचनैः –औपनिषदविषयवाक्यसहितैः। एतैः – ‘नेतरोऽनुपपत्तेः, भेदव्यपदेशाच्चान्यः, आकाशोऽर्थान्तरत्वादिव्यपदेशात्, सुषुप्त्युत्क्रान्त्योर्भेदेन, अवस्थितेरिति काशकृत्स्नः, ’ इत्यादिरूपैः, श्रवणमात्रेण भेदप्रतीतिहेतुभिरित्यानुपूर्वीप्रदर्शनम्। सूत्रैः – ‘अस्तोभयमनवद्यं" च सारवद्विश्वतोमुखम्’ इत्यादिप्रमाणेनाक्षारांशेनापि नैरर्थक्यासहैः प्रमातृचूडामणेश्श्रीमतो भगवद्वैपायनस्य मुखारविन्दनिस्सृतैः" ‘ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः’ इति गीताचार्येण च प्रमाणतयाऽभिमतैः ‘ईक्षतेर्नाशब्दम्’ इत्यादिभिस्सूत्रैः। मुख्येक्षाद्यैस्स्वधर्मैः" –सूत्रार्थतया प्रधानप्रतिपाद्यैः ‘गौणश्चेत्’ इत्यादिना गौणतानिरसनकण्ठोक्त्या मुख्यभूतैः ‘तदैक्षत’ इत्यादिश्रुतिसिद्धैरीक्षमणादिरूपैर्ब्रह्मधर्मैः। प्रकृतिपुरुषतो भेदवादः कथं स्यात् – प्रकृतिपुरुषाभ्यां ब्रह्मणः प्रतिपादितो भेदोपन्यासो भवतां कथमुपपद्येत। इदमत्राकूतम् – ‘ईक्षतेर्नाशब्दम्’ इत्यारभ्य ‘एतेन सर्वे व्याख्याता व्याख्याताः’ इत्यन्तेषु सूत्रेषु एकैकेन सूत्रेणैकेकोऽर्थो भेदेन प्रतिपाद्यत इत्यङ्गीक्रियते वा? न वा? आद्ये भेदवादप्रसङ्गः, द्वितीये सूत्राणां नैरर्थ्यक्यमेव, सूत्रार्थाः परस्परं भिन्ना एव तथापि व्यावहारिका इति चेत् वेदान्तसूत्रार्थानामेव व्यावहारिकत्वे किमन्यत् पारमार्थिकम्? न किञ्चिदिति चेन्निरर्थकस्य शास्त्रस्यारम्भ एव न स्यात्, शास्त्रस्यापारमार्थिकविषयत्वे परोक्तानां सर्वेषामप्यर्थानामपारमार्थिकत्वाच्च सुतरां शास्त्रारम्भासम्भव एवेति॥
कुमार-वरदः - 153
  1. अत्रोपोद्घातमारभ्य प्रथमाध्यायप्रतिपाद्यं सकलमर्थजातं निर्विशेषब्रह्मवादिनां न घटत इत्यध्यायान्ते परपक्षप्रतिक्षेपमारचयति — आदाविति श्लोकेन। आदौ बहुविहतिहता जिज्ञास्यताऽस्तामित्यर्थः। अत्रापि ‘अथातो ब्रह्मजिज्ञासा’ इत्याद्यं सूत्रं प्रावर्तिष्ट। अस्मिन्सूत्रे ब्रह्मणो जिज्ञास्यत्वमुच्यते। तच्च जिज्ञास्यत्वमद्वैतवादिभिप्युपक्षिप्यते। यदि जिज्ञास्यं ब्रह्म तदा दृश्यत्वान्मित्थात्वमिति प्रक्रियया निथ्यात्वप्रसङ्गात्। यदि न जिज्ञास्यं ब्रह्मतदा सकलमपि शास्त्रं परित्यक्तं स्यादित्यकामेनापि स्वीकर्तव्यम्। तत उभयतस्स्पाशा रज्जुरित्यद्वैतवादिनामपहास्यतैव अवशिष्यते। तदिदमाह– बहुविहतिहतेति। काकाक्षिन्यायेनात्राप्यनुषज्यते। ‘जन्माद्यस्य यतः’ इति लक्षणवाक्यमद्वैतवादिनामपि संमतम्। लक्षणं नामासाधारणो धर्मः। निर्धर्मकब्रह्मणि लक्षणकथनमद्वैतवादिनां न जाघटीति। ननु लक्षणं द्विप्रकारं तटस्थलक्षणं स्वरूपलक्षणं चेति, स्वरुपलक्षणं ‘सत्यं ज्ञानम्’ इत्यादिवाक्यप्रतिपाद्यं सत्यत्वज्ञानत्वानन्तत्वादि, तत्पुनः सामानाधिकरण्येन प्रतिपाद्यते, तटस्थलक्षणं च जगदत्कारणत्वादि, तत्पुनर्वैयधिकरण्येनोच्यते ‘यतो वा इमानि’ इत्यादिवाक्येन प्रतिपादनात् तथा च ब्रह्मणः स्वरूपलक्षणं मा भूत्, तटस्थलक्षणमस्तु स्वरूपसंबन्धाभावात्, यथा शाखाग्रे चन्द्र इत्युक्ते शाखाग्रं" चन्द्रेण न संबन्ध्यते, तेन जगत्कारणत्वादिकं ब्रह्मलक्षणं सत्यब्रह्मणा न संसृज्यते, अतो निर्विशेषमेव ब्रह्मावतिष्ठत इति न कश्चिदस्माकं दोष इति। अत्रोत्तरम्-यदि स्वरूपलक्षणं ब्रह्मणि न स्यात् तर्हि सत्यज्ञानादिवाक्यं ब्रह्मणि प्रतिपादकमेव न भवतीति महान्प्रहारः। व्यावृत्तिमुखेन प्रतिपादकमिति चेत् व्यावृत्तेरवाच्यत्वाल्लक्षणैव दोषः। वाक्यतात्पर्यानुरोधेन लक्षणापि स्वीकार्येति चेदस्तु लक्षणीयं किमिति स्वयमेवविशेषतो दर्शय, व्यावृत्तिरिति यदि वदसि तर्हि विकल्पयामः— व्यावृत्तिः स्वरूपं तदधिकं वा किंचित्। स्वरूपं चेत् एकेनैव पदेन स्वरूपं लक्षितमिति पदान्तरनैरर्थक्य प्रसङ्गः। अतिरिक्तं चेत् भेदवादप्रसङ्गः। नानालक्षणाभिधानञ्च निरर्थकं तत्तल्लक्षणैरपि लक्ष्यविशेषाकाराभावात् भावे वा भेदप्रसङ्गादित्येषा दिक्। तृतीयेऽपि सूत्रे शास्त्रयोनित्यकथनमपि विमृशामः। मृष्याम इति शब्देनामर्षणीयत्वमेव द्योत्यते। तेनापि बहुविहतिहतमित्यत्राप्यनुषज्यते। ‘तत्तु समन्वयात्’ इति समन्वयव्यवहारोऽप्यपष्ठुरेव स्यात्। समन्वयो नाम सर्वेषां कारणवाक्यानां ब्रह्मणि तात्पर्येण समन्वयः। स च ब्रह्मणि भवद्भिरभिधातुं न शक्यते। वाच्यवाचकभावादिखण्डनस्य स्वपक्षस्थापनादौर्बल्येन खण्डनमाश्रयद्भिर्भवद्भिरेवाभिधानात्। अस्तु मुख्यवृत्तिखण्डनम्, औपचारिकी वृत्तिं ब्रह्मण्याश्रयाम इति चेत् तदपि हास्यमेव। मुख्याभावे कथमौपचारिकी वृत्तिरुच्यते। मुख्यार्थसंबन्धिन्यर्थान्तरे वृत्तिर्लक्षणा मुख्यार्थगुणयोगिन्यर्थान्तरे वृत्तिर्गौणीति सर्वलोकलक्षणप्रणयनविरोधात्। किं च गौणी वृत्तिरपि वृत्तिरेव, वृत्तिर्नाम शब्दस्यार्थबोधनम्। तथाच गौण्याऽपि वृत्त्या ब्रह्मणो बोध्यत्वमस्त्येव। तथाच बोध्यत्वान्मिथ्यात्वमिति स्ववचनं परिपालयतु भवान्। तर्हि तात्पर्यवृत्तिरस्त्विति चेत् सापि हि वृत्तिरेव तथाच सर्पो वा वृश्चिको वा भवतु बाधकत्वं द्वयोरपि साधारणमित्यलमत्र विस्तरेण। सर्वमपय्द्वैतवादिभिरुक्तमपार्थं" सोढास्मः, इदमेकं न सोढास्मः। ‘ईक्षतेर्नाशब्दम्’ इत्यारभ्य ‘एतेन सर्वे व्याख्याता व्याख्याताः’ इत्यन्तैस्सूत्रैरेकस्य सूत्रस्यैकोऽर्थो भेदेन प्रतिपाद्योऽस्ति वा न वा - यद्यस्ति तदा भेदवादप्रसङ्गः। यदि नास्ति तदा नैरर्थक्यमेव सूत्राणामिति। सन्त्यर्थाः, ते तु व्यावहारिका इति चेत् यदि वेदान्तसूत्रार्था व्यावहारिकाः, तर्हि पारमार्थिकं किमिति वद। न किंचिदिति चेत् किमर्थं शारीरकशास्त्रमारभ्यते। शारीरकशास्त्रस्यापारमार्थिकविषयत्वे च परोक्तानामर्थानां अपारमार्थिकत्वात् पुनरपि शास्त्रारम्भनैरर्थक्यम् अतिसुष्ठुक्तं भवता। अयमिह शब्दान्वयः-स्फुटार्थैस्सविषयवचनैरेतैस्सूत्रैर्निर्विशेषैक्यपक्षे सूत्रार्थतया प्रधानप्रतिपाद्यैरीक्षणादिगुणैर्ब्रह्मधर्मभूतैः प्रकृतिपुरुषतो ब्रह्मणो भेदवादः कथं भवतां स्यात्। प्रकृत्यधिकरणप्रतिपाद्यब्रह्मणः" प्रकृतिपुरुषाभ्यां भेदो मिथ्या चेत् अधिकरणनैरर्थक्यम्, तत्त्वञ्चेत् भेदवादप्रसङ्गः। व्यावहारिकत्वकुसृतिः पूर्वमेव निरस्तेति न तत्र प्रयतामह इति॥ प्रथमाध्याये चतुर्षु पादेषु अस्पष्टतरजीवादिलिङ्गकानि पूर्वपक्षिणा चतुर्धा पुरसाकृतानि। तत्प्रतिपक्षवाक्यानि सिद्धान्तिना।
मूलम् - 153

153.आदौ जिज्ञास्यताऽऽस्तां बहुविहतिहता सह्यतां लक्षणोक्तिः
मृष्यामश्शास्त्रयोनिप्रलपितमपि वस्स्यात् समन्वित्यपोक्तिः।
सूत्रैरेतैस्स्फुटार्थैस्सविषयवचनैर्निर्विशेषैक्यपक्षे
मुख्येक्षाद्यैस्स्वधर्मैः प्रकृतिपुरुषतो भेदवादः कथं स्यात्॥