विश्वास-प्रस्तुतिः - 144
144.मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता
नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात्।
मृद्दृष्टान्तादिमात्रान्नच विकृतिरसौ स्यात् परस्य स्वरूपे
देहद्वारोर्णनाभिप्रभृतिविकृतिवद्व्यापृतेर्दर्शितत्वात्॥
३४-तमाहोबिल-यतिः - 144
- मृत्पिण्डादेरित्यादि।इह – लोके।मृत्पिण्डादेः –घटं प्रत्युपादनभूतात् मृत्पिण़्डात् पटं प्रत्युपादानभूतात् तन्तोश्च। कुलालप्रभृतिः –घटनिमित्तकारणभूतः कुलालः, पटनिमित्तकारणभूतः कुविन्दश्च। पृथक् – भिन्न एव। दृश्यते इति शेषः। तद्वदेव —घटपटनिमित्तकारणभूतकुलालकुविन्दरीत्यैव। आदिकर्ता – जगदादिनिमित्तभूतः परमात्मा। उपादानं न –उपादानकारणं न भवितुमर्हति। कुत? विकारैर्विहरतः – विकारशून्यत्वात्। परमात्मनो निर्विकारत्वेन श्रुतिप्रतिपन्नत्वात् विकाराश्रयस्यैवचोपादानत्वसम्भवादिति भावः। इति इत्युपन्यासो न साधुः।रुकः? द्वारमात्रे विकारात्–निर्विकारस्य ब्रह्मणो विकारात्मकस्य जगतश्च बहुश्रुतिप्रतिपन्नकारणत्वकार्यत्वनिरावाहाय कारणभूतब्रह्मविशेषणतयाङ्गीकृते सूक्ष्मचेतनाचेतनरूपद्वारकारणमात्र एव विकाराङ्गीकरणात्।तथा देहनिष्टे बालत्वे युवतवेऽपि निर्विकारेऽपि च सति जीवे युवा जात इति व्यवहारदर्शनादिति भावः।मृद्दृष्टान्तादिमात्रात्— ‘यथा सोम्यैकेन मृत्पिण्डेन ’ इत्यादिश्रुतिनिदर्शितात् स्वरूपविकारयुक्तष्टादृष्टान्तग्रहमात्रात्। असौ विकृतिः – परिदृश्यमानजगतद्रूपविकारः।परस्य स्वरूपे न च स्यात्–परमात्मस्वरूपे न भवेत्।नहि दृष्टान्तदार्ष्टान्तिकयोः सर्वथा साधर्म्यमेष्टव्यमिति भावः।अत्र किं नियामकमिति चेत्– ऊर्णनाभिप्रभृतिविकृतिवत् देहद्वारा व्यापृतेर्दर्शइतत्वात्। ’ यथोर्णनाभिः सृजते गृङ्णते च ’ इत्यादिश्रुत्यैव लूताख्यतन्तुविसर्गसंग्रहकारिकृमिप्रभृतीनां" तन्तुरूपविकारवत् स्वगेहभूतचिदचिद्द्वारैव परमात्मनो जगद्विकारव्यापारणस्य दर्शितत्वात्।अतो न स्वरूपविकारभयेन बहुश्रुतिसिद्धइं लोकदृष्टान्तविख्यातं च परमात्मनो जगन्निमित्तभूतस्यापि तदूपादानत्वं त्याज्यमिति भावः॥
कुमार-वरदः - 144
15.पूर्वत्र ‘अवस्थितेरिति काशकृत्स्नः’ इति भगवतो नियामकत्वेनावस्थानात् जीवसामानाधिकरण्यमित्यक्ते कश्चिदाह–यथा राजा राष्ट्रमित्यत्र राष्ट्रनियामकत्वेन राजाऽवत्ष्टिते सामानाधिकरण्यमिहोपचारिकमस्ति अथापि नोपादानत्वम्, तद्वदत्रापि निमित्तमेव स्यान्नोपादानमित्याशङ्कयोत्थानात् संगतिः। तदर्थविचारस्तु–किं ब्रह्म जगतो निमित्तकारणमुतोपादानकारणमपीति। किं जगत्कारणवादिवेदान्तवाक्यं ब्रह्मण उपादानकारत्वमपि प्रतिपादयति, उत निमित्तकारणत्वमात्रमिति। किमन्यत्र निमित्तोपादानयोर्भेदनियमो निमित्तमात्रत्वं ब्रह्मणो व्यवस्थापयति नेति। किं निमित्तकारणत्वमात्रप्रतिपादकत्वे सत्येकविज्ञानेन सर्वविज्ञानप्रतिज्ञाद्दष्टान्तयोरुपयोरुपरोधोऽस्ति नेति। अत्र पूर्वपक्षोक्तप्रकारमनूद्य दूषयितुमुपक्रमते–मृत्पिण्डादेरिति। लोके ह्युपादानान्मृत्पिडादेर्निमित्तभूतः कुलालादिः पृथगेवोपलभ्यते तद्वदेव जगतामादिकर्ता नोपादानं कुत इत्याशङ्क्य हेतुमाह–विकारैर्विरहत इति—विकाररहितत्वादित्यर्थः। उक्तमर्थं प्रतिषेधति–नेति। तदेव विवृणोति—द्वारेति यथा बालो युवा जात इत्यत्र द्वारभूतदेहे विकारात् नात्मनि जीवे विकारः,एवमत्रापि जगतुपादानभूतभगवद्विशेषणे विकाराद् भगवति न विकार इत्यर्थः। ननु मृत्तत्कार्यद्दष्टान्तो द्दश्यते द्दष्टान्तभूते मृदादौ तु स्वरूपएव विकारः तद्वदत्रापि स्वरूपएव विकारः स्यादित्याशङ्क्य नेत्याह—मृदिति। नहि द्दष्टान्तदार्षान्तिकयोः सर्वथा साधर्म्यमपेक्षितम्, अपि तु यथायोग्यमेव साधर्म्य स्वीक्रियते। अत्र तु भगवति स्वरीपविकारस्यासंभवादचेतनवैशिष्ट्येनैवावस्थान्तरप्राप्तिरुपलभ्यते। तददमाह- देहेति। प्रभृतिपदेन “यथा सतः पुरुषात्केशलोमान इत्यादिनिदर्शनग्रहणम्। व्यापृतेर्दर्शितत्वात् – भगवद्व्यापारस्य दर्शितत्वात्। नह्यूर्णनाभेर्देह एवावस्थाप्राप्तिः,नापि केवलात्मनि, अपि तु देहविशिष्टात्मनीति लोकोपलम्भः, एवं प्रकृतिविशिष्टपरमात्मन्येवावस्थान्तरप्राप्तिरिति समञ्जसमेतत्॥
मूलम् - 144
144.मृत्पिण्डादेः कुलालप्रभृतिरिह पृथक्तद्वदेवादिकर्ता
नोपादानं विकारैर्विरहत इति न द्वारमात्रे विकारात्।
मृद्दृष्टान्तादिमात्रान्नच विकृतिरसौ स्यात् परस्य स्वरूपे
देहद्वारोर्णनाभिप्रभृतिविकृतिवद्व्यापृतेर्दर्शितत्वात्॥
विश्वास-प्रस्तुतिः - 145
145.स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीश-
स्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यान्निमित्तं क्रियातः।
एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं
भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात्॥
३४-तमाहोबिल-यतिः - 145
- स्वज्ञानाद्यमिति। स्वज्ञानाद्यम् —-स्वकीयज्ञानचिकीर्षाप्रयत्नादिकम्।स्वजन्यंभवति–शास्त्रा -भ्यासादिभिर्जीवेन स्वेनैव जन्यते।तेन कर्तृत्वान्निमित्तकारणं तथापि स्वयमेव समवायिकारणं च भवति स्वकीय -ज्ञानादेः कार्यं यत्र समवैति तत्समवयिकारणमिति समवायिकारणलक्षणस्य स्फुटत्वात्।किञ्च,ईशः—ईश्र्वरः। स्वन्यसंयोगम्— सर्वव्याप्तस्य स्वस्य अन्यैः परमाण्वादिभिः संयोगम्। सृजति – स्वयमेवोत्पादयति सर्वकार्यहेतुत्वात्। तथा च तत्रेश्वरः कर्तृत्वेन निमित्तकारणं समवायिकारणं च भवति। तत् — तस्मात् कारणात्। ईशः, मूर्तनिष्ठे संयोगे — मूर्तद्रव्यनिष्टे स्वसंयोगे। प्रकृतिरपि – उपादानकारणमपि। क्रियातः – स्वव्यापारात्। निमित्तं स्याद्धि — निमित्तकारणं भवेद्धि। यद्वा एवं” वा योजना – मूर्तनिष्ठे संयोगे तत् मूर्तं द्रव्यं प्रकृतिरपि स्यात् उपादानमपि स्यात् क्रियातो निमित्तमपि स्यादिति। एवं च भवत्सिद्धान्तरीत्या एकं कार्यं प्राप्त एकस्यैव निमित्तत्वोपादानत्वयोरङ्गीकृतत्वात् तद्रीत्यैव जगन्निमित्तोपादानमीश्वरो भवतीत्यत्र न कोऽपि न्यायविरोध इति भावः। आदौ – सृष्ट्यादिकाले। एकस्य — एकस्यैव सत ईश्वरस्य। बहुस्यामिति बहुभवनम्— ’ बहुस्याम्’ इत्युक्तरीत्या बहुभवनं तु। सौभरिन्यायसिद्धम् – यथा सौभरिः एक एव पञ्चाशच्छरीरपरिग्रहं सङ्कल्प्य तेन रूपेण जात इति प्रमाणसिद्धं" तथा भगवानपि नानाविशेषणविशिष्टवेषेण स्वसङ्कल्पादेव जायत इति निदर्शनन्यायसिद्धमित्यर्थः। इह – अस्मिन् सिद्धान्ते। भेदाभेदश्रुतीनामविहतिश्च विशिष्टैक्ययोगात् स्यात् – ‘द्वा सुपर्णा सयुजा सखाया’ ‘क्षरं प्रधानममृताक्षरं हरः क्षरात्मनवीशते देव एकः’ ‘नित्यो नित्यानां" चेतनश्चेतनानाम्’ इत्याद्या भेदवादिन्यः श्रु तयः। ‘नेह नानास्ति किञ्चन’ इत्याद्या अभेदश्रुतयः। द्विविधानामपि श्रुतीनां परस्पराविरोधश्च स्वरूपभेदपरत्वात् भेदश्रुतीनां अभेदश्रुतीनां चेतनाचेतनविशिष्टप्रकार्यैक्यपरत्वयोगाच्च संसिध्यतीत्यर्थः॥
कुमार-वरदः - 145
- एकस्यैव पदार्थस्य निमित्तत्वमुपादानत्वं च परस्परविरुद्धमिति परे प्रलपन्ति। तैरुक्तमर्थँ तचदङ्गीकृतप्रक्रियादृष्टान्तेनोपपादयितुमुपक्रमते— स्वज्ञानाद्यवमिति। न्यायवादिनो भगवदुपादानत्वप्रतिक्षेपकाः स्वप्रक्रियाविरोधादेव भ्रश्यन्ति। ते खलु समवायिकारणमसमवायिकारणं" निमित्तकारणमिति त्रिधा कारणं कल्प्यन्ति। अथापि यदेव निमित्तकारणं तदेव समवायिकारणमिति ब्रुवते। तद्यथा स्वज्ञानाद्यं स्वजन्यमेव स्वकीयं हि ज्ञानचिकीर्षाप्रयत्नादिकं शास्त्राभ्यासीदिभिः स्वयमेव करोति जीवः। तेन तत्र कर्तृत्वान्निमित्तकारणं भवति। तथापि च स्वयमेव समवायिकारणं भवति स्वज्ञानादः कार्यं यत्र समवैति तत् , समवायिकारणमिति समवायिकारणलक्षणस्य स्फुतमुपलम्भात्। किंचेश्वरोऽपि सर्वव्याप्तस्य स्वस्य सर्वैरपि परमाण्वादिभिः संयोगं स्वयमेव सृजति सर्वकार्यहेतुत्वात् तथाच तत्र कर्तृत्वेन निमित्तकारणं भवति। समवायिकारणत्वमपि तं प्रति तस्य दृश्यते परमाण्वादिसंयोगस्येश्वरनिष्ठत्वात्। तेन यथा कर्तृत्वं समवायिकारणं च युष्मत्सिद्धान्ते भवतीश्वरनिष्ठमेव तथाऽस्मत्सिद्धान्ते निमित्तत्वमुपादानत्वं चैकवस्तुनिष्ठमिति को विरोधः। अत्रायं विशेषः– समवायस्याप्रामाणिकत्वात् प्रत्ययोत्पत्तिवादस्यात्यन्तजघन्यत्वाच्च केवलमवस्थन्तरापत्तिमात्रमेव वयं स्वीकुर्मह इति। सृजतीत्यादि – स्वस्यान्यसंयोगमीश्वरः" सृजतीति शब्दान्वयः। तत्रेश्वरस्योपादानत्वं विवृणोति– संयोगवइति। तत्– तस्मात्कारणात्। ईश्वरो मूर्तैः सह स्वस्य संयोगे प्रपकृतिरपि उपादानमपि क्रियातो निमित्तं स्वव्यापारान्निमित्तं स्यादित्यर्थः। तदपि मूर्तमीश्वरसंयोगे समवायिकारणं भवति। स्वनिष्ठकर्मद्वारा स्वयं निमित्तकारणं भवतीत्यर्थः। अत्र चोदयति– एकस्येश्वरस्य कथं बहुस्यामिति बहुभवनं स्यादिति। तच्चोदनां परिहरति– एकस्येति। यथा सौभरिरेक एव पञ्चाशच्छरीरपरिग्रहं सङ्कल्प्य तेन रूपेण जात इति प्रमाणसिद्धं तथा भगवानपि नानाविशेषणविशिष्टवेषेण स्वसंकल्पादेव जायत इति को विरोधः। काचिदभेदश्रुतिरपरा च भेदश्रुतिः, भेदाभेदौ परस्परविरुद्धावेवेत्याशङ्क्यास्मत्सिद्धान्ते विरोधगन्धोऽपि नास्तीत्याह– भेदाभेदेति। स्वरूपभेदाद्भेदश्रुतिरुपपद्यते, विशिष्टैक्यादभेदश्रुतिरिति निर्वाहे वयमेव विजयामह इति॥
मूलम् - 145
145.स्वज्ञानाद्यं स्वजन्यं भवति सृजति च स्वान्यसंयोगमीश-
स्संयोगे मूर्तनिष्ठे प्रकृतिरपि हि तत्स्यान्निमित्तं क्रियातः।
एकस्यादौ बहु स्यामिति बहुभवनं सौभरिन्यायसिद्धं
भेदाभेदश्रुतीनामविहतिरिह च स्याद्विशिष्टैक्ययोगात्॥
विश्वास-प्रस्तुतिः - 146
146.कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः
स्रष्टुस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति।
आत्मानं चैष एव स्वयमकुरुत तद्भूतयोनित्वमुक्तं
तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा॥
३४-तमाहोबिल-यतिः - 146
- कार्यर्क्य इत्यादि कार्यैक्ये हि प्रतिज्ञा — घटत इति शेषः।कारमभूतस्य ब्रह्मणः कार्यभूतजगदैक्येसति हि एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा घटते अन्यथा न घटेतैवेत्यर्थः। तदनुगुणः – कार्यकारणैक्यप्रतिज्ञानुगुण एव। दृष्टान्तवर्गः — ‘यथी सौम्यैकेन मृत्पिणडेन सर्वं" मृण्मयं विज्ञातं स्यात्’ िइत्यादिश्रुत्या मृत्पिण्डादिरूपदृष्टान्तसमुदायः। उदाहरति—- उदाहृतः। उदाहृतः सर्वोऽपि दृष्टान्त उपादानभूत एव न तु निमित्तभूतः कश्चिदपीति भावः। इह — सृष्टिप्रकरणे। श्रुतिः। स्रष्टुः – ईश्वरस्य। स्यामित्भिध्याम्—- अहं बहुस्यामिति सङ्कल्पम्। वक्तीत्यर्थः। नहि कुलालो घटोऽहं" स्यामिति सङ्कल्पयितुमीष्टे। किञ्च सैव श्रुतिर्वनतां वृक्षतादिश्च वक्ति — ‘किंस्विद्वनं क उ स वृक्ष आसीत् यतो द्यावापृथिवी निष्टतक्षुः। ’ ‘ब्रह्म वनं ब्रह्म स वृक्ष आसीद्यतोद्यावापृथिवी निष्टतक्षुः॥ अत्र प्रथमं वाक्यं प्रश्नपरम्। द्वितीयमुत्तरपरम्। प्रश्नवाक्ये वनशब्द उपादानपरः। वृक्षशब्दः सहकारिपरः। निमित्तकारणत्वं सिद्धं" कृत्वा उपादानसहकारिमात्रप्रश्नः कृतः। उत्तरवाक्येऽपि वनवृक्षशब्दयोस्तथैवार्थः। एवं च श्रुतिरियं ब्रह्मणः कार्यभूतं जगत्प्रति वनशब्दितामुपादानतां वृक्षशब्दितामुपकरणताञ्च वक्ति प्रतिपादयति। एषः – परमात्मा। आत्मानम् – स्वात्मानमेव जगदाकारविशिष्टम्। स्वयमेवाकुरुत च – स्वयं साक्षादेव निरमिमीत च। ‘तदात्मानं स्वयमकुरुत’ इति श्रुत्या तथावगतमित्यर्थः। तद्भूतयोनित्वमुक्तम्– ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ इति तस्य परमात्मनः सर्वभूतोपादानत्वरूपं भूतयोनित्वं साक्षात् श्रुत्यैवोक्तम्। तस्मात्-कारणात् । सर्वतत्त्वान्तरात्मा — कार्यकारणभूतसर्वतत्त्वान्तरात्मभूतत्वात्। हेत्वर्थं श्रुत्यैवोक्तम्। देवः – परमात्मा। कर्तापि – निमित्तभूतोऽपि। प्रकृतिरपि भवेत् – उपादानकारणमपि भवेत्। अस्मिन् श्लोके ’ कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः’ इत्यन्तेन ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’ इति प्रकृत्यधिकरणप्रथमसूत्रार्थः उक्तः। ’ स्रष्टुः स्यामित्यभिध्याम्’ इत्यनेन ‘अभिध्योपदेशोच्च’ इतिसूत्रार्थः। ’ वनतां वृक्षतादिञ्च वक्ति’ इत्यनेन ‘साक्षाच्चोभयाम्नानात्’ इति सूत्रार्थः। ’ आत्मानं" चैष एव स्वयमकुरुत’ इत्यनेन ‘आत्मकृतेः परिणामात्’ इति सूत्रद्वयार्थः। ’ भूतयोनित्वमुक्तम्’ इत्यनेन ‘योनिश्च हि गीयते’ इति सूत्रार्थ उक्तः। ’ तस्मात्’ इत्यंशेनाधिकरणार्थनिगमनामित्येतस्मिन् श्लोके प्रकृत्यधिकरणार्थः स्पष्टतया पर्याप्तः सङ्गृहीतः॥
कुमार-वरदः - 146
- उक्तनिमित्तत्वाविरुद्धापादानत्वोपपादकयुक्तिजातं संग्रहेण प्रदर्शयति – कार्यैक्ये इति। तत्र तावत् प्रतिज्ञावाक्यमेकविज्ञानेन सर्वविज्ञानप्रतिपादकं भगवत उपादानत्वमन्तरेण न संघटते। कारणस्य कार्येण सहैक्ये प्रतिज्ञा घटत इत्यर्थः। तदनुगुण इति – कार्यकारणोरैक्यप्रतिज्ञानुगुण एव मृत्त्कार्यादिदृष्टान्तवर्ग उदाहारि। इत्थमुपादानत्वमुक्तम्।निमित्तत्वमप्यमाह–स्रष्टुरिति। स्रष्टुरीश्वरस्य स्यामिति श्रुतिरभिध्यानं" वक्ति निमित्तत्वं वक्तीत्यर्थः। अन्या तु श्रुतिर्निमित्तत्वं सिद्धं कृत्वा उपादानत्वं सहकारित्वं च साक्षात् स्वयमेवाह ‘किं" स्विद्वनम्’ इत्यादिना। वनतां वृक्षतादिं च वक्तीति—वक्तीत्यस्यावृत्त्यानवयः। ‘किं स्विद्वनम्’ इत्युपादानप्रश्नः। ‘क उ स वृक्ष आसीत्’ इत्युपकरणप्रश्नः। ‘यतः’ उपादानात् ‘द्यावापृथिवी भगवान्निष्टतक्षुः’ सस्रजेति वचनव्यत्ययश्छान्दसः। अथवा—मनीषिणो वनं मनसा बुद्ध्या निष्टतक्षुर्निश्चितवन्त इत्यर्थः। उपादानभूताद् भगवत एव सर्वोत्पत्तिरिति मनसा निरणैषुरित्यर्थः। अथवा मनीषिण इत्यस्योत्तरत्राप्यन्वये संबोधनान्तत्वमिति। ‘यदध्यतिष्ठत्’ इत्यादि–भुवानान्तर्यामित्वेन धारयन्नीश्वरो यदुपकरणमध्यतिष्ठदिति श्रुत्यन्वयः। ‘ब्रह्म वनम्’ इत्यादि–ब्रह्मवनमुपादानम्। ‘ब्रह्म स वृक्षः’ इति-ब्रह्मैवोपकरणमित्यर्थः। एतदुक्तं भवति–सूक्ष्मचिदचिद्विशिष्टमुपादानं" विश्वस्योपकरणभूतकालादिविशिष्टः स एवोपकरणमिति। ‘मनीषिणो मनसा पृच्छतेदुतत्’ हेमनीषिणः मनसाषऽवधानेन सहैतच्छ्रुणुतेत्यर्थः। ‘मनीषिणो मनसा विब्रवीमि वः’ इत्यत्र वः" श्रृण्वतां भवतामनुग्रहपूर्वकावधानविशेषेण ब्रवीमीति। ‘यदध्यतिष्ठत्’ इति यदुपकरणं भगवानध्यतिष्ठिदिति पूर्वमेवोक्तम्। तेन सर्वाधिष्ठातृत्वात् भगवतो निमित्तत्वसिद्धिः। किंच ‘तदात्मानं स्वयमकुरुत’ इति तस्यैव भगवतः स्वयमेव स्वात्मनोऽवस्थान्तरकरणादुपादानत्वं निमित्तत्वं च द्दश्यते। तद्भूतयोनित्वमुक्तमिति– ‘यद्भूतयोनिं परिपश्यन्ति धीराः’ इति तस्यैव भूतयोवित्वं साक्षादेवोच्यते। अतः क्रतृत्वं प्रकृतित्वं चोभयमपि प्रमाणसिद्धं भवतीति निगमयति—तस्मादिति। सर्वतत्त्वान्तरात्मेति-हेतुगर्भविशेषणम्।सर्वान्तर्यामित्वात् सर्वं संघटत इत्यर्थः।
मूलम् - 146
146.कार्यैक्ये हि प्रतिज्ञा तदनुगुण उदाहारि दृष्टान्तवर्गः
स्रष्टुस्स्यामित्यभिध्यां श्रुतिरिह वनतां वृक्षतादिं च वक्ति।
आत्मानं चैष एव स्वयमकुरुत तद्भूतयोनित्वमुक्तं
तस्मात्कर्ताऽपि देवः प्रकृतिरपि भवेत् सर्वतत्त्वान्तरात्मा॥
विश्वास-प्रस्तुतिः - 147
147.नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विद्मो
यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम्।
इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे
सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुसृतिः पाकचिन्ताविपाकः॥
३४-तमाहोबिल-यतिः - 147
- नोपादान मित्यादि। उपादानं किमपि – उपादानकारणभूतं किमपि वस्तु। निमित्तं न — निमित्तकारणं न भवति। तत् — उपादानकारणम्। तदितरत् कारणं हि विद्मः—- निमित्तकारणभिन्नं कारणं हि प्रतिपद्यामहे।निमित्तकारणभिन्नत्वे सति कारणत्वं ह्युपादानकारणस्य लक्षणतया ऽवच्छाम इत्यर्थः। यत् वा निमित्तं सिद्धं तत् उपादानतां न भजति– यद्वस्तु न निमित्तकारणत्वेन सिद्धं तद्वस्तु उपादानतां न प्राप्नोति। कुतः? तत् तदितरत्कारणं हि विद्मः — तत् निमित्तकारणं तदितरत्कारणं उपादानकारणभिन्नं कारणं हि प्रतीमः। तदितरत् कारणं तद्धि विद्म — इत्यस्य वाक्यस्यावृत्तिः कार्या। इत्ययुक्तम् — इति शङ्कनमयुक्तम्। इष्टात् — अस्माकं युष्माकञअचाभिमतात्। आकारभेदात् – अवच्छेदकधर्मभेदात्। उभयघटनतः – एकस्यैव वस्तुन उपादानत्वनिमित्तत्वयोः सङ्घटनेन। लोकवेदानुरोधे सिद्धे — लोके उपादननिमित्तयोर्भेददर्शनस्य वेदे एकस्यैव ब्रह्मण उपादानत्वनिमित्तत्वदर्शनस्य चानुरोधे आनुकूल्ये सिद्धे सति। स्वच्छन्दलक्ष्मणप्रणयनकुसृतिः" —स्वच्छन्देन स्वच्छया लक्ष्मणः उपादानभिन्नकारणत्वं निमित्तकारणस्य लक्षणं निमित्तकारणभिन्नकारणत्वमुपादानकारणस्य लक्षणमित्येवमुपादाननिमित्तलक्षणस्य यत् प्रणयनं निर्वचनं तदात्मिका या कुसृतिः कुमार्गःसा।पाकचिन्ताविपाकः—पाको बालः ‘पोतः पाकोऽर्भको डिम्भः’ इति कोशात्। युक्तायुक्तानभिज्ञबालकर्तृविचारपरिपाकोऽयम्, तत्तुल्य इत्यर्थः।अयमाशयः—उपादानतानवच्छेदकधर्मावच्छिन्न- कारणत्वं निमित्तकारणत्वं निमित्तकारणतानवच्छेदकधर्मावच्छिन्नकारणत्वमुपादानकारणत्वमित्युभयाभिमात- वच्छेदकभदघटितनिमित्तोपादानलक्षणप्रणयनेन लोके तयोर्भेददर्शनस्य क्वचिल्लोके वेदे च तयोरभेददर्शनस्य चोपपत्तौ स्वाच्छन्द्येन लोकवेददर्शनविरुद्धलक्षणप्रणयनमनभिज्ञजनालोचनफलमिति।वेदान्तसिद्धान्ते च ब्रह्मणो जगत्प्रति उपादानत्वं शरीरशरीरिभावेन सूक्ष्मचिदचिद्वैशिष्ट्यवेषेण, निमित्तत्वं तु तत्तत्कार्यनुगुणबहुस्यामित्याद्या- कारसङ्कल्पाश्रयत्वच्छेदकभेदेनैव निमित्तत्वमुपादानत्वञ्चेति न किञ्चिदपहीनमिति भावः॥
कुमार-वरदः - 147
18.अत्र कश्चिदाह-यत्समवायिकारणं यच्चासमवायिकारणं तदुभयव्यतिरिक्तकारणं निमित्तकारणमिति हि न्याय्वादिभिर्लक्षणमभाणि। तेन यदुपादानं" तन्निमित्तं न भवति यच्च निमित्तं तदुपादानं न भवतीति नियमस्य सिद्ध्यत्वात् निमित्तोपादानैक्यवादो न संघटत इति लक्षणविरोधमाशङ्क्य परिहरति—नोपादानमिति। किमप्युपादानं निमित्तं न भवति। उपादानव्यतिरिक्तं कारणं निमित्तमिति हि निमित्तकारणविदः। एवं यन्निमित्तत्वेनसिद्धं" तदुपादानतां न भजतीति शब्दान्वयः। उक्तमर्थं प्रतिक्षिपति—अयुक्तमिति। अयुक्तत्वमेव लोकवेदप्रसिद्ध्योपपादयति—इष्टादित्यादिना। लोके हि तुलासां प्रमाणप्रमेयव्यवहारन्यायेनैकस्यैव पदार्थस्य सर्वलक्षणयोगे सति आकारभेदान्नानात्वव्यवहारयोगित्वं सिध्यतीति नियमे सिद्धे सति स्वकपोलकल्पितन्यायेनोपादानव्यतिरिक्तं निमित्तं निमित्तव्यतिरिक्तमुपादानमिति परस्परविरोधप्रणयनकुसृतिः कुयुक्तिर्बालचिन्ताविपाक" इत्यर्थः। किंच युष्यत्संकेतसिद्धनिमित्तशब्दवाच्यत्वाभावेऽप्यपादानकारणस्यैव कर्तृत्वं सुप्रसिद्धमेव। तदेवमीश्वरस्योपादानत्वं" कर्तृत्वं चाविरुद्धमिति न संकटं किञ्चित्।
मूलम् - 147
147.नोपादानं निमित्तं किमपि तदितरत्कारणन्तद्धि विद्मो
यद्वा सिद्धं निमित्तं न भजति तदुपादानतामित्ययुक्तम्।
इष्टादाकारभेदादुभयघटनतो लोकवेदानुरोधे
सिद्धे स्वच्छन्दलक्ष्मप्रणयनकुसृतिः पाकचिन्ताविपाकः॥
विश्वास-प्रस्तुतिः - 148
148.उक्त्वा तत्त्वान्तराणां विलयमथ तमस्येकतामात्रमुक्तं
प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यैः।
लीयेते तौ परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या
तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची॥
३४-तमाहोबिल-यतिः - 148
- उक्त्वा तत्त्वान्तराणामित्यादि। तत्त्वान्तराणां विलयमुक्त्वा — ‘पृथिव्यप्सु प्रलीयते आपस्तेजसि लीयन्ते तेजो वायौ लीयते वायुराकाशे लीयते आकाश इन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते भूतादर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते’ इत्यन्तेन पृथिव्यादीनामक्षरान्तानां तत्त्वान्तराणां स्वस्वकरणक्रमेण विलयं स्वावस्थाप्रहाणेन पूर्वावस्थाप्राप्तिरूपम्, उक्त्वा प्रतिपाद्य। अथ – तदुपरि ‘तमः परे देव एकीभवति’इत्यनेन वाक्येन। तमसि — तमसस्तु। एकतामात्रमुक्तम् — स्वावस्थाप्रहाणमन्तरेण देवशब्दिते परमकारणे ब्रह्मणि विभागानर्हसंसर्गविशेषप्राप्तिरूपैकीभावमात्रं प्रतिपादितम्। न तु पूर्वतत्त्वेष्विव लयशब्दः प्रयुक्तः। वेदतद्वेदिवाक्यैः" — ‘गौरनाद्यन्तवती सा ’ ‘अविनाशी वा अरेयमात्मा’ ‘प्रकृतिं पुरुषञ्चैव विद्ध्यनादी उभावपि। अचेतनापरार्था च नित्या सततविक्रिया॥’ ‘नित्यस्सर्वगतः स्थाणुरचलोऽयं सनातनः’ इत्यादिभिर्वेदवाक्यैस्तद्वेदिनां व्यासादीनां च वाक्यैः। प्रकृकिपुरुषयोः –प्रधआनजीवयोः। अनादितादि च – उत्पत्तिशून्यत्वं विनाशशून्यत्वं च प्रोक्तम् – सुस्पष्टतया निगदितम्। अतः,तौ – प्रकृतिपुरुषौ। परस्मिन् – परमात्मनि। लीयेते – लयं प्राप्नुतः । इति लयवचस्तु – एवमर्थकं ‘प्रकृतिर्या मया ख्याता व्याक्ताव्यक्तस्वरूपिणी। पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि॥’ इति लयवचनं तु। अयस्तोयनीत्या स्यात् — अयसि तोयस्य लये यो न्यायस्तद्रीत्या भवेत्। नहि तोयस्य स्वावस्थाप्रहाणेनायमस्ताप्राप्तिः, ,सलिलनिर्गतमूलिकादिक्षोदलेपने पुनस्तावतस्सलिलस्य बहिर्निस्सरणदर्शनात्। अतः पृथक्प्रतिपत्त्यनर्हसंसर्गविशेषरूप एव तोजस्यायसि लयः, तादृश एवात्रापि लयो विवक्षितः। तथाङ्गीकरणीयतावनियामकस्योक्तत्वादिति भावः। तेन – सोपबृंहणश्रुतिवाक्यनिपुणनिरूपणेन। भोक्तृभोग्यप्रभृतिकवचितात् भोक्ता जीवः भोग्यं प्रकृतिः प्रभृतिशब्देन कालो ग्राह्यः। तथा च सूक्ष्मचिदचिद्विशिष्टतया उपादानकारणभूतात् कालविशिष्टतया सहकारिकारणभूतात् सङ्कल्पाश्रयतया निमित्तकारणभूताच्च परमात्मनः। असौ विश्वसृष्टिः — ‘तत्तेजोऽसृजत’ इत्यादिश्रुतिमसृतिप्रतिपन्ना जगतः" सृष्टिरुत्पत्तिः। समीची — प्रमाणोपपत्तिसहिततया श्र्लाघनीया। न तु विवर्तोपादानभूतादवस्तावसङ्कल्पायश्रयान्मायिब्रह्मणस्सकाशात् जगक्सृष्टिरिव केवलनिमित्तभूतादीश्वराद्विश्वसृष्टिरिव च प्रमाणोपपत्ति प्रतिरोधेनाश्राव्यतमा भवतीति भावः॥
कुमार-वरदः - 148
19.ननु स्वकारणे कार्यस्य ‘पृथिव्यप्सु प्रलीयते’ इत्यादिना लयो विनाश इक्तः, ‘पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि’इति प्रकृतिपुरुषयोरिपि लयो भगवता पराशरेण प्रतिपादितः, तेन तयोः प्रलयकाले विनिष्टत्वात् कथं सूक्ष्मचिजचिद्विशिष्टपुरुषाद्विश्वसृष्टिर्भवद्भिरभिधीयत इत्याशङ्क्य कार्यभूतपृथिव्यादिलयात् श्रुतिसिद्धं वैषम्यं दर्शयति–उक्त्वेत्यादिना।अयमर्थः–अत्र द्विविधो हि लयो विवक्षितः।एकस्तावत् स्वावस्थाप्राप्तिः।इतरस्तु स्वावस्थाप्रहाणमन्तरेण वस्त्वन्तरविभागनर्हसंसर्गविशेषप्राप्तिः। यथा प्रकृतिपुरुषयोः प्रकृतिरूपं" च नित्यसिद्धमबाधितत्वादपरित्यज्य विशेष्यभूतेन भगवता विभागानर्ह संसर्गविशेषप्राप्तिः। तदेव तमः पर एकीभवतीति विशिष्टैक्यरूपतयाभिधीयते। पूर्वं तु ‘पृथिव्यप्सु प्रलीयते’ इत्यादिना साक्षाल्लयशब्द एव प्रयुज्यते। अतः ‘उभावेतौ लीयेते’ इति पुराणस्थलशब्द एकीभावमात्रमेव कथयतीति विभागः। संसर्गविशेषेऽपि लयशब्दः प्रयुज्यते – यथा वृक्षेषु पक्षिणो लीयन्त इति साक्षाल्लयशब्द एव प्रयुज्यते। तदिदं" सर्वमस्मिन्पद्ये यथापाठमनुसंधेयम्। अन्वयस्तु ‘पृथिव्यप्सु प्रलीयते’ इत्यादौ तत्त्वान्तराणां" विलयमुक्त्वा तमसः पुनर्भगवत्येकतामात्रमेवोक्तं तम एकीभवतीति। तेन तयोः प्रकृतिपुरुषयोर्न विनाशः। किं च ‘प्रकृतिं पुरुषं चैव विद्ध्यानादी उभावपि। अचेतना परार्था च नित्या सततविक्रिया॥’ इत्यादिषु वेदपरवेदिनां पराशरादीनां वाक्येषु च प्रकृतिपुरुषयोरनादित्वं प्रोक्तम्। तस्मादपि तयोर्न साक्षाद्विलयः। पुराणोक्तं" लयवचनं सदृष्टान्तमन्यथयति– स्यादिति। अयस्तोयनीत्येति– आयुधरूपेण परिणतेऽयसि परिगृहीतं तोयं तोयरूपेणैवावतिष्ठते। अन्यथा स्नेहानुवृत्त्याद्ययोगात्। तद्वत् प्रकृतिपुरुषावपि भगवत्यविभागार्हसंसर्गविशेषमात्रेणैकीभाव व्यवहारविषयभूतौ विशेषेण जगत्सृष्ट्यादावुपकुरुतः। उक्तमर्थं सहेतुकं निगमयति– तेनेति। सोपबृंहणनिपुणनिरूपितश्रुतिसिद्धत्वेन भोक्तृभोग्यप्रभृति सहिताद् भगवतो विश्वसृष्टिः समीची। अत्र प्रभृतिशब्देन कालसंबन्धो विवक्षितः। तेन सूक्ष्मचिदचिद्विशिष्टस्योपादानत्वसिद्धिः कालवैशिष्ट्येनोपकरणत्वसिद्धिरित्यर्थः॥
मूलम् - 148
148.उक्त्वा तत्त्वान्तराणां विलयमथ तमस्येकतामात्रमुक्तं
प्रोक्तं चानादितादि प्रकृतिपुरुषयोर्वेदतद्वेदिवाक्यैः।
लीयेते तौ परस्मिन्निति तु लयवचस्स्यादयस्तोयनीत्या
तेनासौ भोक्तृभोग्यप्रभृतिकवचिताद्विश्वसृष्टिस्समीची॥