34 वाक्यान्वयाधिकरणम्

विश्वास-प्रस्तुतिः - 141

141.पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै
तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीतम्।
तत्तद्भोगप्रदातुः प्रथयति हि विभोः कामतस्तत्प्रियत्वं
द्रष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र॥

३४-तमाहोबिल-यतिः - 141
  1. पत्यादीनामित्यादि। श्रुतिः –बृहदारण्यके मैत्रेयीब्राह्मणे ‘नवा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः" प्रियो भवति’ इत्यादिरूपा श्रुतिः। पत्यादीनां प्रियत्वमात्मनः कामसिद्ध्यै — द्रष्टव्यतया वक्ष्यमाणस्यात्मनः कामसिद्ध्यर्थमिति। अनुवदति हि – बहुषु पर्यायेष्वनुगततया वदति हि। तेन – कारणेन। असौ –आत्मा। पुण्यपापोदितफलभुक् – पुण्यपापोत्पन्नफलभुग्जीव एव। इति –एवमाशङ्कनम्।प्रक्रमादिप्रतीपम् – उपक्रमोपसंहारादिविरुद्धम्। उपक्रमे तावदमृतत्वप्राप्त्युपायं प्रार्थयमानायौ मैत्रेय्यै याज्ञवल्क्य उपदेशाय प्रावर्तति प्रतिपन्नम्। मध्ये ‘तस्य ह वा एतस्य महतो भूतस्य निश्श्वसितमेतदृग्वेदः’ इत्यादिना जगत्सृष्टिरित्यादिसिद्धम्। एवमन्ते च द्रष्टव्यम्। तत्तद्भोगप्रदातुर्विभोः कामते हि तत्प्रियत्वं प्रथयति – तत्तज्जीवकर्मानुगुणतया तत्तत्पुत्रवित्तपत्नीपश्वादिभोगं प्रदिश्तः परमात्मनः स्वाराधकप्रियलम्भनेच्छया किल पुत्रादिकं वस्तु प्रियत्वं प्रख्यापयति। अतः कामाश्रय आत्मा परमात्मैव। अत्र – ‘आत्मा वा अरे द्रष्टव्यः’ इत्यत्रवाक्ये। मुक्त्यै – मुक्त्यर्थम्।द्रष्टव्यः – द्रष्टव्यत्वेन। श्रुतनिकरमितः —-‘क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इत्यादिवेदान्तप्रतिपादितः। एषः – परमात्मा। प्रत्यभिज्ञाप्यते च – स एवायमिति प्रत्यभिज्ञआविषयीक्रियते च। अत आत्माऽसौ द्रष्टव्यत्वेनोक्तः परमात्मैवेति भावः॥
कुमार-वरदः - 141
  1. ‘पूर्वस्मिन्नधिकरणे लिङ्गत्वेनाभिमतस्य कर्मशहब्दवाच्यत्वस्यानैकान्तिकत्वेनालिङ्गत्वमुक्तम्’ अत्र पूर्वपक्षी पुरुषनिर्णयेऽसाधारणतयाऽभिमतं लिङ्गमाह— कथम् ? ‘आत्मा वा अरे द्रष्टव्यः’ इत्यारभ्य ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति’ इति सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेद’ ‘यत्र हि द्वैतमिव भवति’ ‘विज्ञातारमरे केन विजानीयात्’ इति पञ्चविंशाज्जीवादधिकं निषिध्य तेन च लिङ्गमात्रव्यपदेशादिति। तत्राह– ‘वाक्यान्वयात्’ इति, इति श्रीविष्णुचित्तार्यैः संगतिमालायां व्यक्तमुपापादि संगतिः। तेनात्र पूर्वं सांख्योक्तप्रक्रियाशङ्कामुखेन त्रिभिरधिकरणऐरेका पेटिका प्रवृत्ता। अधुना पुनः कारणत्वादिभिस्त्रिभिः अव्याकृतादिकर्मत्वादिलिङ्गाभ्यां" सह जीवब्रह्मणोरैक्योपदेशादत्यन्ताभेदात् प्रकृत्यधिष्ठातुर्जीवत्वमाशङ्क्य निराक्रियत इतिपेटिकान्तरमित्यप्यागुराचार्याः। तदर्थविचारस्तु–जगत्कारणवादिवेदान्तप्रतिपाद्यं पुरुषाधिष्ठितं प्रधानमुत परमात्मेति।बृहदारण्यके किं" मैत्रेयीब्राह्मणे ‘न वा अरे पत्युः कामाय पतिः प्रियो भवति’ इत्युपक्रम्य ‘आत्मा वा अरे द्रष्टव्यः’ इत्यात्मा पञ्चविंशः पुरुष उत परमात्मेति। किमुपक्रमे पतिजायापुत्रादिप्रियसंबन्ध आत्मशब्दस्य पुरुषपरतामवगमयति नेति। किं वाक्यावयवानां" सर्वेषां परमात्मन्येवान्वयसामर्थ्यमुत पुरुष इति। अत्र पूर्वपक्षमुपन्यस्यति—पत्यार्दानामिति। ‘न वा अरे पत्युः कामाय पतिः" प्रियो भवति’ इत्यादिनोपक्रमे पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै स्वाभीष्टसिद्ध इत्यर्थः। तेन स्वाभीष्टसिद्ध्यर्थं" पुत्रादीनां प्रियत्वोपपादनेन असावात्मा पुण्यपापोत्पन्नफलभुग्जीव एवेति पूर्वः पक्षः। तं निराकरोति—प्रक्रमादीति। इदमुपक्रमादिविरुद्धमिति। तर्ह्यस्मिन्वाक्ये मदुक्तं न भवति चेत् किं पुनरुच्यत इत्याशङ्क्याह—तत्तदिति। तत्तत्पुत्रादिनिमित्तभोगप्रदातुः परमपुरुषस्यैव संकल्पात्तेषां पुत्रादिनां प्रियत्वं भगवत्संकल्पायत्तमित्यर्थः। अस्य पितुरयं पुत्रः प्रियो भवत्विति भगवता संकल्पिते सति तथैव तत्प्रियत्वं भवतीत्यर्थः।अत्रात्मशब्देन भगवानेवोंच्यते नपुनः पित्रादिरूपो जीवः। किं च सर्वेष्वपि वेदान्तेषुं बगवान् पुरुषोत्तम एव मोक्षार्थं द्रष्टव्यतया श्रुयते तेन स एवात्मा ‘आत्मा वारे द्रष्टव्यः’ इत्यत्रात्मशब्देन प्रत्यभिज्ञाप्यते। गतिसामान्यस्य पूर्वमेवोक्तत्वादिति॥
मूलम् - 141

141.पत्यादीनां प्रियत्वं श्रुतिरनुवदति ह्यात्मनः कामसिद्ध्यै
तेनासौ पुण्यपापोदितफलभुगिति प्रक्रमादिप्रतीतम्।
तत्तद्भोगप्रदातुः प्रथयति हि विभोः कामतस्तत्प्रियत्वं
द्रष्टव्यश्चैष मुक्त्यै श्रुतिनिकरमितः प्रत्यभिज्ञाप्यतेऽत्र॥

विश्वास-प्रस्तुतिः - 142

142.व्युत्पत्त्या ह्यात्मशब्दो वदति च परमं ब्रह्म यद्वा समासात्
सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः।
व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमि-
स्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद॥

३४-तमाहोबिल-यतिः - 142
  1. व्युत्पत्त्या हीत्यादि । व्युत्पत्त्या ह्यात्मशब्दः प्रथयति परमं ब्रह्म यद्वा समानात् स्वार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षः। व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततश्चाडुलोमिः" तत्स्थत्वात् काशकृत्स्नो निरवहदिह साध्वात्मशब्दं परस्मिन्॥ इति साधुपाठः। इतोऽन्ये पाठास्त्याज्या एव। आत्मशब्दः –‘आत्मा वारे द्रष्टव्यः’ इत्यत्रात्मशब्दः। परमं ब्रह्म –वेदान्तैर्वेद्यत्वेनोक्तं" परं ब्रह्म। व्युत्पत्त्या –आप्नोतीत्यात्मेति व्युत्पत्त्या। प्रथयति – प्रतिपादयति। हिशब्दोऽस्या व्युत्पत्तेः प्रसिद्धिं दर्शयति। तथआ च इत्येकः पक्षइत्यन्वयः। यद्वा –पक्षान्तरे। अयम् –द्रष्टव्यपदविशेषित आत्मशब्दः। समानात् स्वार्थः –‘आत्मानस्तु कामाय’ इत्यत्र श्रूयमाणस्य समानस्यात्मशब्दस्य स्वशब्दार्थकत्वात् तदानुगुण्येन स्वशब्दसमानार्थकः। ‘यद्यत्परवशं कर्म तत्तद्यत्वेन वर्जयेत्। यद्यदात्मवशं तु स्यात् तत्तत्सेवेत नित्यशः॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्॥’ इत्यादावात्मशब्द इव स्वात्मपर इत्यर्थः। इत्येकः पक्ष इति पूर्ववत्। यद्वा जीवशब्दः –जीवात्मपरतया वेदान्तव्युत्पत्तिशून्यैर्व्यवह्रियमाणोऽयमात्मशब्दः। परमम् –परमात्मानम्। द्वारवृत्त्या वदति – शरीरवाचकानां शरीरिपर्यन्तत्वन्यायेन द्वारभूतजीवापरित्यागेन तद्विशिष्टतया प्रतिपादयति। इत्येकः पक्ष इत्यन्वयः। इह –अस्मिन्प्रकरणे। आत्मशब्दम् – द्रष्टव्यादिपदविशेषितात्मशब्दम्। आश्मरथ्यः –एकन्नामकऋषिः। व्यक्त्यैक्यात् –मृद्घटयोरिव जीवब्रह्मणोः स्वरूपैक्यात्।निरवहत् —जीववाचकस्यापि ब्रह्मवाचकत्वं निर्व्यूढवान्। औडुलोमिश्च – उडुलोमनाम्नो मुनेरपत्यं कश्चिदृषिः।निरुपधइकदशाद्वैततः–निरुपधिकदशा –अविद्योपाधइनिवृत्तिदशा मुक्तिदशेति यावत् तत्सम्बन्धि यत् अद्वैतं" सायुज्यरूपं स्वरूपैक्यं तस्माद्धेतोः। आत्मशब्दं निरवहत्। मुक्तिदशायां ‘ब्रह्मैव भवति इत्युक्त्या जीवब्रह्मणोः स्वरूपैक्यस्य सिद्धत्वात् जीववाचकस्यात्मशब्दस्य ब्रह्मवाचकत्वमुपपन्नमित्युवाचेति भावः। ‘काशकृत्स्नः –काशं प्रकाशमानं कृत्स्नमपि वस्तुजातं यस्य सः काशकृत्स्नः सर्वज्ञः कश्चिदेवन्नामकऋषिः। इह आत्मशब्दं परस्मिन् तत्स्थत्वात् – ‘अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः। तत्स्थत्वादनुपश्यन्ति ह्येक एवेति साधवः॥’ इति मोक्षधर्मोक्तरीत्या परमात्मनो जीवात्मन्यन्तरात्मतया विद्यमानत्वात् जीववाचक आत्मशब्दः" जीवशरीरकपरमात्मपर इति, अयो दहतीत्यत्रायश्शब्दस्याग्निवाचकत्ववत् पिण्डविशेषवाचकानां देवमनुष्यादिशब्दानां तत्तत्पिण्डविशिष्टजीवात्मवाचकत्ववच्च। साधु – सम्यक् सर्वश्रुत्यविरोधेन। निरवहत् –निर्व्यूढान्। अत्र पूर्वार्धोक्तस्य पक्षत्रयस्य क्रमेणोत्तरार्धोक्तपक्षत्रयवाक्यैर्विवरणमिति चिन्तामणौ निश्चितम्॥
कुमार-वरदः - 142

13.अत्र प्रयुज्यमानानामात्मशब्दानां परमात्मपरत्वं व्यित्पत्त्येत्येकः पक्षः। तृतीयस्तु जीववाचकात्शब्दो जावद्वारा परमात्मानमेव वदतीति। तमिमं पक्षत्रयविभागमाह—व्युत्पत्तयेत्यादिना पूर्वार्धेन। अत्र जाववाचकानां परमात्मपरत्वे ऋषित्रयाभिमतपक्षान् पूर्वोक्ताननुक्रमेण शिष्यानुग्रहार्थं विशदयत्युत्तरार्धेन–व्यक्त्यैक्यादित्यादिना। जीवब्रह्मणोः स्वरूपैक्यात् जीवशब्देन परमात्माभिधानमित्याश्मरथ्यः। औडुलोमिस्तु निरुपधिकदशाद्वैततो मुक्तदशायां जीवशब्देन परमात्माभिधानमित्याह। काशकृत्स्नः पुनस्तत्स्थत्वात् जीवस्य परमात्मशरीरत्वेन परमात्मनस्तन्निष्टत्वादित्याह। अत्र काशकृत्स्नीयमेव राद्धान्तत्वेनोचयत इति॥

मूलम् - 142

142.व्युत्पत्त्या ह्यात्मशब्दो वदति च परमं ब्रह्म यद्वा समासात्
सार्थोऽयं जीवशब्दो वदति च परमं द्वारवृत्त्येति पक्षाः।
व्यक्त्यैक्यादाश्मरथ्यो निरुपधिकदशाद्वैततस्त्वौडुलोमि-
स्तत्स्थत्वात्काशकृत्स्नः परविषयतया जीवशब्दं जगाद॥

विश्वास-प्रस्तुतिः - 143

143.भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं
नित्यन्तद्भेददृष्टेरतिपतितभवे साम्यसाधर्म्यशब्दात्।
मृत्तत्कार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे
तत्स्थत्वात्काशकृत्स्नो यदिह निरवहद्व्याससिद्धान्त एषः॥

३४-तमाहोबिल-यतिः - 143
  1. भेदोपाधीत्यादि। अयं भवभृत् — सर्वैरप्यहमुल्लेखेन प्रतीयमानस्संसार्यात्मा।भेदोपाधिव्यपाये –भिद्यते अन्यतया ज्ञायतेऽनेनेति भेदः, तादृस्याविद्यारूपस्य उपाधेर्व्यपाये –निवृत्तौ। ब्रह्मताम् – ब्रह्मभावम्। इयात् – प्राप्नुयात्। घटाद्युपाधिनाशे तदन्तराकाशो हि महाकाशतामेति तद्वदिति भावः। इत्ययुक्तम् –इति शङ्कनमप्ययुक्तम्। कुत? नित्यं तद्भेददृष्टेः –‘नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान्’ इत्यादिश्रुत्या तयोर्जीवपरयोः भेदस्य नित्यत्वेन साक्षादेव दर्शनात्।किञ्च, अतिपतितभवे –अतिपतितो ऽतिक्रान्तः भवः संसारबन्धो येन सः अतिपतितभवो मुक्त इत्यर्थः, तस्मिन्। साम्यसाधर्म्यशब्दात् - परमात्मना साकं साम्यप्रतिपादकशब्दात् तादृशसाधर्म्यशब्दाच्च। ‘निरञ्जनः परमं साम्यमुपैति’ ‘मम साधर्म्यमागताः’ इति साम्यसाधर्म्ययोः श्रवणात् तयोर्भेदगर्भत्वादिति भावः। मृत्तत्कार्यक्रमश्च – ब्रह्मणो जगतश्च ‘यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् एवं सोम्य स आदेशो भवति’ इति श्रुत्युक्तो मृत्तत्कार्य घटशरावादीनां यः कार्यकारणभावरूपः क्रमः स च। श्रुतशइतविहतः – ‘क्षरं" प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः’ इत्यादिभिर्बह्वीभिः श्रतिभइरचेतनं चेतनमीश्वरं चात्यन्तविलक्षणतया दर्शयन्तीभिर्ब्रह्मनिर्विकारत्वादि प्रतिपादकश्रुतिसहिताभिः, विहतो बाधितः। अतो ‘येनाश्रुतम्’ इत्यादौ येनेत्यादिकारणवाचकशब्दानां जलं वहतीत्यादौ जलशब्दस्य जलविशिष्टघटपरत्ववत् सूक्ष्मचिदचिद्विशिष्टब्रह्मपरत्वमवश्यमेष्टव्यमिति भावः।तेन –जीवब्रह्मणोः स्वरूपैक्यस्य बाधितत्वेन। काशकृत्स्नः – एवन्नामकऋषिः। जीवोक्तिम् –जीववाचकमात्मशब्दम्। ईशे – परमात्मनि विषये। तत्स्थत्वात् – परमात्मनो जीवात्मन्यन्तरात्मतयाऽवस्थानात्। निरवहत् –निर्व्यूढवान् पिण्डविशेषवाचिदेवादिशब्दानां" तदन्तर्वर्तितदात्मभूतजीवात्मवाचकत्ववत् जीववाचकानामप्यात्मादि शब्दानां जीवविशिष्टब्रह्मवाचकत्वमिति स्थापयामास। इति यत् – एवं ‘अवस्थितेरिति काशकृत्स्नः’‘तत्स्थत्वादनुपश्यन्ति’इत्यादौ यो निर्वाहः प्रमाणप्रमातृगोष्ठीषु प्रसिद्धः। यदिति सामान्ये नपुंसकम्। एषः" –अयमेव।व्याससिद्धान्तः –सर्ववेदार्थमर्मज्ञस्य भगवतो वेदव्यासस्याभिमतोऽर्थनिष्कर्ष इत्यर्थः॥
कुमार-वरदः - 143

14.औडुलोमीयं पक्षं निराकृत्य काशकृत्स्नीयमेव पक्षं स्वपक्षयति–भेदेति। भेदकाविद्योपाधिव्यपाये सति जीवोऽयं ब्रह्मतां प्राप्नयादिति औडुलोमिमतमयुक्तम्। कुतस्तत्राह—नित्यं तद्भेदद्दष्टेरिति । ‘नित्यो नित्यानाम्’ इत्यादिश्रुत्या जीवपरयोर्भेदस्य नित्यत्वेन साक्षादेव दर्शनात्। अत्र हेत्वन्तरमप्याह—अतिपतितेति। अतीतसर्वबन्धे जीवे ‘निरञ्जनः परमं सांम्यमुपैति’ ‘मम साधर्म्यमागताः’ इति साम्यसाधर्म्ययोः श्रुतत्वात् तयोश्च भेदगर्भत्वादित्यर्थः। तर्हि मृत्तत्कार्यद्दष्टान्तः श्रुतावुच्यते स कथं जीवपरयोरत्यन्तभेदे भवद्भिरभिधीयमाने घटत इत्याशङ्क्याह—मृत्तदिति। नहि द्दष्टान्तदार्ष्टान्तिकयोः" सर्वथा वाच्यम्, अपि तु प्रमाणानुगुणमेव,अन्यथा श्रुतिशतविरोधः स्यादित्याह—श्रुतिशतविहत इति। ‘क्षरं प्रधानममृताक्षरं हरः" क्षरात्मानावीशते देव एकः ‘इति श्रुत्यैव साक्षाच्चिदचिदीश्वराणां स्वरूपं विभज्य निर्णीयत इत्यर्थः। उक्तमर्थं काशकृत्स्नीयमतेन निगमयति—तेनेति। जीवशब्दमीश्वरेऽपृथक्सिद्धविशेषणवाचिनां शब्दानां विशेष्याबिधानसामर्थ्यादिति काशकृत्स्नो निपवहदिति यत् एष एव श्रीवेदव्याससिद्धान्त इति। इतरत् द्वितयं निरसनीयमेवेति॥

मूलम् - 143

143.भेदोपाधिव्यपाये भवभृदयमियाब्रह्मतामित्ययुक्तं
नित्यन्तद्भेददृष्टेरतिपतितभवे साम्यसाधर्म्यशब्दात्।
मृत्तत्कार्यक्रमश्च श्रुतिशतविहतस्तेन जीवोक्तिमीशे
तत्स्थत्वात्काशकृत्स्नो यदिह निरवहद्व्याससिद्धान्त एषः॥