विश्वास-प्रस्तुतिः - 139
139.यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः
कर्ता पुंसां स एव स्वकृतपरिणतेरित्युपक्रान्तिभग्नम्।
बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रो-
स्तज्ज्ञातोक्तिर्निरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः॥
३४-तमाहोबिल-यतिः - 139
- यस्यैतदित्यादि। यस्यैतत्कर्म वेद्यस्स इति वचनतः —- कौषीतकिनां बालाक्यजातशत्रु संवादे बालाकिं प्रति अजातशत्रुवचनरूपे ‘यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः’ इति वाक्ये यस्य एतत् कर्म स वेद्य इत्युक्त्या। कर्मवश्यप्रतीतेः — वेद्यस्य कर्मवश्यत्वप्रतीतेः। स एव – कर्मवश्यो जीव एव। स्वकृतपरिणतेः" — स्वकर्मपरिणामवशेन। पुंसाम् — सर्वेषामपि पुरुषाणाम्। कर्ता — स्रष्टा स्यात्। इति – इत्याशङ्कनम्। उपक्रान्तिभग्नम् — उपक्रमबाधितम्। इह बालाक्यज्ञातत्त्वान्तरमुपदिशतोऽजातशत्रोस्तज्ज्ञातोक्तिर्निरर्था स्यात् —- स्वयमेवागत्य ’ ब्रह्म ते ब्रुवाणि’ इति प्रतिज्ञायादित्यचन्द्रादीन् जीवविशेषान् ब्रह्मत्वेन वदन्तं गार्ग्यं बालाकिं त्वमब्रह्मवादीति निरस्य तदविदितं" किमपि ब्रह्म विवक्षता अजातशत्रुनाम्ना काशिराजेन बालाकिं प्रत्युज्यमानस्य ‘यो वै बालाके’ इत्यादवाक्यस्य तद्विदितजीवात्मवेद्यत्वार्थकत्वकल्पने तद्वचनं निरर्थकमेव स्यात्। अतस्तद विदितजीवभिन्नपरमात्मवेद्यत्वपरमेवेदं वाक्यमिति सिद्धम्। तर्हि ‘यस्य वैतत्कर्म’ इति कथं परमात्मन्युपपद्येतेत्यत्राह – जगतीत्यादि। अत्र कर्मशब्दः कृततया जगति मुख्यः —- ‘यस्य वैतत्कर्म’ इति वाक्ये कर्मशब्दः क्रियत इति कर्मेति व्युत्पत्तिलब्धया कृतिकर्मतया प्रवृत्तिनिमित्तभूतया जगति विषये मुख्यवृत्त्यैव वर्तते। इदं हृदयम्– यः खलु भवता वेद्यब्रह्मत्वेन मह्यमुक्तानामादित्यादीनां जीवानां कर्ता, किं" विशिष्य वचनेन एतत्परिदृश्यमानं कृत्स्नमपि जगद्यस्य कर्म कृतविषभूतं येनैव सृष्टं स खलु ब्रह्म स एव वेद्य इति सुसंगतार्थकमिति॥
कुमार-वरदः - 139
- पूर्वस्मिन्नधिकरणे खलु अनैकान्तिकादव्याकृतादिसमाख्यामात्रात् प्रकृतिपरत्वमाशङ्क्यानन्यथासिद्धप्रकरणादिप्राबल्येन परमपुरुषपरत्वमुक्तमव्याकृतादिशब्दस्य, तर्हि कर्मत्वाद्यनन्यथासिद्धलिङ्गबलात् समाकृष्यमाणः पञ्चविंशकः पुरूष एव परतत्त्वमस्त्विति शङ्क्या संगतिः। संगत्यन्तरमपि राद्धान्तेनोच्यते–पूर्वमव्याकृतशब्दस्य प्रकृतिपरत्वं निरस्य परमात्मपरत्वं निर्णीतम्, अधुना पुनः कर्मशब्दस्य पुण्यपापरूपकर्मपरत्वं निरस्य कार्यरूपजगद्वाचित्वमुच्यत इति। तदर्थविचारस्तु—किं जगत्कारणवादिवेदान्तप्रतिपाद्यः प्रकृतयधिष्ठाता पुरुषः उत परमात्मेति। किं" ‘एतेषां पुरुषाणां कर्ता’ इति कर्तृतया निर्दिश्यमानः पुरुशो जीव परमात्मेति। किं ‘यस्य वैततकर्म’ इति कर्मशब्दः पुण्यापुण्यकर्मवाची उत जगत्वाचीति। किं प्रकरणाद्यसंकुचितवृत्तिप्रत्यक्षप्रमितजगत्परैतच्छब्दसामानाधिकरण्येन कर्मशब्दस् जगत्वाचित्वं युक्तमिति। किं ‘तौ ह सुप्तं पुरुषमाजग्मतुः’ इत्यादिजीवमुख्यप्राणलिङ्गे पुण्यापुण्यवाचितामुपोद्बलयतो नेति। किमेतल्लिभ्गे जीवपरे उत परमात्मपरे। किं ‘क्वैष एतद्वालाके पुरुषोऽशयिष्ट अथास्मिन्प्राण एवैकधा भवति’ इति प्रश्नप्रतिवचनाभ्यां जीवातिरिक्तब्रह्मप्रतिपादनपरे उत नेति। अस्मिन्नधिकरणे पूर्वपक्षं आरचयति— यस्येति। यो वै बालाके परिदृश्यमानानामेतेषां पुरुषाणां कर्ता यस्य परदृश्यमानस्वपुत्रादि सकलपुरुषकारणपुण्यपापात्मकं कर्म स वै वेदितव्यः स जिज्ञासितव्यः इत्युक्तेः तत्फलभूतकर्मकर्ता जीव एव वेदितव्यो न परमपुरुष इत्युक्तं" भवतीति पूर्वपक्षः। शब्दार्थस्तु स्वकर्मपरिणतेः पुत्रादीनां पुरुषाणां कर्ता स एव पितृत्वेनावस्थितः पुरुष एव वेद्य इति। तदेतन्निराकरोति– उपक्रान्तीति। उपपादयति– बालाकीति। अत्र खलु बालाकेरज्ञातमेव तत्त्वमुपदिशयत्यजातशत्रुः। नपुनर्ज्ञातं ज्ञातस्य ज्ञापने नैरर्थक्यात्। तदिदमाह– तज्ज्ञातोक्तिर्निरर्थेति। एतदुक्तं भवति– ‘यो वै बालाक एतेषां पुरुषाणां कर्ता’ इत्येतच्छब्दनिर्दिष्टाः सर्वपुरुषा बालाकिपरिज्ञाता एव। अतस्तेषां ज्ञापने प्रयोजनं नास्ति। अतो जीवातिरिक्तः परमपुरुष एव स्वसृष्टिकर्मभूतविश्वजगत्कर्ता स वै वेदितव्य इत्युच्यते तदिदमाह– जगतीति। क्रियत इति कर्मेति व्युत्पत्त्या जगत ईश्वरापेक्षया कर्मत्ववचनं मुख्यमेवेति॥
मूलम् - 139
139.यस्यैतत्कर्म वेद्यस्स इति वचनतः कर्मवश्यप्रतीतेः
कर्ता पुंसां स एव स्वकृतपरिणतेरित्युपक्रान्तिभग्नम्।
बालाक्यज्ञाततत्त्वान्तरमुपदिशतः स्यादिहाजातशत्रो-
स्तज्ज्ञातोक्तिर्निरर्था जगति कृततया कर्मशब्दोऽत्र मुख्यः॥
विश्वास-प्रस्तुतिः - 140
140.एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य-
प्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे ह्युपासा।
प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या
ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी॥
३४-तमाहोबिल-यतिः - 140
11.. एवमित्यादि। एवम् — उक्तरीत्या। जीवातिरिक्ते प्रकरणनियते – जीवविलक्षणे परमात्मनि प्रकरणपरामर्शेन निश्चिते सति। तत्र – तस्मिन्प्रकरणे। यज्जीवमुख्यप्राणाख्यानम् – अत्र प्रकरणए अजातशत्रुर्बालाकिना सह सुप्तस्य कस्यचित् पुरुषस्य समीपमागत्य बृगन् पाण्डरवासः सोराजन्निति मुख्यप्राणनामभिरामन्त्रयाञ्चकार। तावता सुप्तः पुरुषो नोदिष्ठत्। पुनश्च तं यष्ट्या ताडयामास तावता स उदतिष्ठत्। ततोऽजातशत्रुर्जीवात्मनः स्वप्नस्थानं सुषुप्तिस्थानं सुषुप्त्नन्तरमुगमनस्यापादानस्थानं च किमिति पप्रच्छ। तत्सर्वं" बालाकिर्न विजज्ञे।ततोऽजातशत्रुर्बालाकये हितानामनाड्यः स्वप्नस्थानं प्राणशरीरकः परमात्मा सुषुप्तिस्थानं स एव चोद्गमानापादानमित्युपदिदेश। बृहन्नित्यादीनां चतुर्णामर्थाः प्राणैकराज्यसमये तन्नामभिरामन्त्रणादीनां प्रयोजनादकञ्च श्रुतप्रकाशिकाविषयवाक्यदीपिकादौ च द्रष्टव्यम्। अतो यदिदं जीवस्य मुख्यप्राणस्य च कथनम्। तेनेह न क्षतिश्च — स्पष्टम्। तथा – तथा सति तद्विशिष्टत्वेन कथने सति। तद्विशिष्टे उपासा हि – जीवमुख्यप्राणविशिष्टस्य परमात्मन उपासना सम्भवति हि। इदमेव च तथाकथने फलमिति भावः। तदन्यप्रकथनम् – ब्रह्मभिन्नमुख्यप्राणजीवकथनम्।वाजिवाक्योक्तरीत्या —‘य एष विज्ञानमयः" पुरुषस्तदैतेषां प्राणानां विज्ञानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ इति वाजसनेयकबालाक्यजातशत्रुसंवादवाक्योक्तरीत्या। प्राणस्य — मुख्यप्राणेन्द्रियरूपस्य प्राणशब्दार्थस्य। प्राणभाजोऽपि – जीवस्यापि। अधिकरणतया –आधारत्वेन। ब्रह्मज्ञत्प्यै –ब्रह्मज्ञानाय। इति स्थापना हि – एवं निर्वहणप्रक्रिया किल। सार्वभौमी – उत्कृष्टतमा एतादृशस्थलेषु सर्वेषु सञ्चारयितुं योग्या च। जीवमुख्यप्राणकथनं तद्विशिष्टपरमात्मोपासनार्थमित्येको निर्वाहः, जीवमुख्यप्राणकीर्तनं तयोराधारभूतस्य परमात्मनो ज्ञापनार्थमित्युत्तमो निर्वाह एष सार्वत्रिकश्चेति भावः॥
कुमार-वरदः - 140
- अस्मिन्प्रकरणे किमर्थं जीवाख्यानं प्राणाख्यानं चेत्याशङ्क्य जीवप्राणयोः परमात्मशरीरत्वेन तद्विशिष्टतया भगवत उपासनार्मित्याह–एवमित्यादिना उपासेत्यन्तेन। एवं जीवातिरिक्ते परमात्मनि प्रकरणप्रतिपन्ने सति अस्मिन्प्रकरणे यज्जीवमुख्यप्राणकथनं तेनेह क्षतिर्विरोधो न भवति। कुत इत्यत्राह– तथेति। तथा सति तद्विशिष्टत्वेन कथने सति, तद्विशिष्टस्याप्युपासा संभवेदिति शब्दार्थः। अयं सार्वत्रिक" इत्याह– प्राणस्येति। वाजसनेयके हि अन्तर्यामिब्राह्मणे प्राणस्य प्राणभाजो जीवस्याप्यधिकरणतया तच्छरीरित्वेनोच्यते परमपुरुषः। तथा च सति तेनैव न्यायेन ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति तद्विशेषणविशिष्टपरमात्मोपासनार्थं तत्रतत्र विशेषणरूपद्रव्यकथनमिति। अस्माकं स्थापना सर्वभूमौ वर्तत इत्यर्थः॥
मूलम् - 140
140.एवं जीवातिरिक्ते प्रकरणनियते तत्र यज्जीवमुख्य-
प्राणाख्यानं न तेन क्षतिरिह हि तथा तद्विशिष्टे ह्युपासा।
प्राणस्य प्राणभाजोऽप्यधिकरणतया वाजिवाक्योक्तनीत्या
ब्रह्मज्ञप्त्यै तदन्यप्रकथनमिति हि स्थापना सार्वभौमी॥