विश्वास-प्रस्तुतिः - 137
137.विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते
ह्यव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमत्रेति चेन्न।
यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताद्यं
लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः॥
३४-तमाहोबिल-यतिः - 137
- विश्वोपादानवक्त्रीत्यादि। श्रुतिषु – वेदशाखासु। विश्वोपादानवक्त्री – जगदुपादानबोधिका। सदसदव्याकृतोक्तिः – क्वचित् सदित्युक्तिः" क्वचिदसदित्युक्तिः क्वचिदव्याकृतमित्युक्तिश्च। परोक्ते – साङ्ख्योक्ते। अव्यक्ते हि अन्वेति — स्वतन्त्रमूलप्रकृतौ किल अगौणतया समन्वेति। सत्तासौक्ष्म्यनामरूपव्याकरणराहित्यरूपसदादिशब्दप्रवृतितनिमित्तानां प्रकृतौ विद्यमानत्वेन सदादिशबादास्तस्यां मुख्यतया वर्तन्त इति भावः। तस्मात् – एवमवस्थानात्। तदितरदखिलमत्र नेयम् — उक्तसदादिशब्दभिन्नमात्मनारायणादिकारणवाक्यस्थपदजातं सर्वं" सदादिशब्दमुख्यार्थभूतायां प्रकृतौ गौणृत्त्या नेयमेव। इति चेन्न — इति शङ्क्यते चेत् तन्न युक्तम्। यत्र – यस्मिन्कारणवाक्ये। असत्त्वादि दृष्टम् —- असदादिपदैरसत्त्वादिकमवगतम्। तत्र — तस्मिन्नेव वाक्ये। प्रकरण विदितम् – तत्प्रकरणप्रतिपन्नम्। सर्वज्ञताद्यम् —- सर्वज्ञत्वादिकम्। लिङ्गं स्यात् — परमपुरुषलिङ्गं भवति। तैत्तरीयकशाखायां ‘असद्वा इदमग्र आसीत्’ इति वाक्यं दृष्टं तत्र ‘ब्रह्मणा विपश्चिता’ इत्युपक्रमावगतं सर्वज्ञत्वरूपं विपश्चित्त्वमेव ‘सोऽकामयत बहुस्यां प्रजायेयेति’ इत्युत्तरत्र प्रपञ्च्यते एवं प्रकरणावगतं सर्वज्ञत्वादिकं परमपुरुषलिङ्गमसच्छब्दस्य तत्परतां द्रढयतीति भावः। एवं सदव्याकृतशब्दप्रकरणेऽपि सुगमम्। तत् – परमपुरुषलिङ्गञ्च। स्थिरमित्यप्यधीतम् – उपक्रमादिषड्विधतात्पर्यलिङ्गैरुपेयत्वा स्थिरमिति च प्रतिपन्नम्। इह – कारणवस्तुनि विषये श्रुतः। आत्मादिशब्दः – आत्मनारायणादशब्दः। अबाध्यः - प्रक-तेः कारणत्वमाश्रित्य न बाधितव्य इत्यर्थः॥
कुमार-वरदः - 137
- एवं त्रिभिरधिकरणैः साङ्क्योक्तच्छायानुसारिवाक्यानां परमात्मपरत्वमेव प्रसाध्य तैरेव सांख्यैरब्रह्मात्मकप्रधानपरतया परिगृहीतमव्याकृतादिशब्दसामर्थ्यपि परमपुरुषपरत्वेनैव सुसंगतमित्याचक्षाण ईक्षत्याद्यधिकरणोक्तमर्थतत्त्वं सिंहावलोकनन्यायेन परामृशन् सम्यङ्न्यायकलापोक्तं स्थापयतीति संगतिः। तदर्थविचारस्तु—किं जगत्कारणवादिवेदान्तप्रतिपाद्यमव्यक्तं सांख्योक्तप्रधानमुत ब्रह्मेति। किं ‘असद्वा इदमग्र आसीत्’ इत्यसच्छब्दोऽव्याकृतनामरुपावस्थब्रह्मपरः, उताव्याकृतापर इति। किं ‘तदपायेष श्लोको भवति’ इति साक्षित्वेन निर्देशः ‘असद्वा इदमग्र आसीत्’ इत्यत्रासच्छब्दस्य प्रकृतब्रह्मपरतामवगमयति नेति। किं ‘तद्धेदे तर्ह्यव्याकृतमासीत्’ इत्यत्राव्याकृतशब्देनाव्याकृतशरीरं" ब्रह्माभिधीयते उताव्यक्तमिति। किं ‘स एष इह प्रविष्ट आनखाग्रेभ्यः पश्यत्यचक्षुः’ इति प्रशासितुर्विदुषोऽव्याकृतशरीरब्रह्मतामवगमयति नेति। अत्र पूर्वपक्षयुक्तिमनुवदति–विश्वेति। श्रुतिषु सदसदव्याकृतोक्तिर्विश्वोपादानं वक्तिति परोक्ताव्याकृत एवान्वेति। तर्ह्यात्मादिशब्दानां" लोकवेदप्रसिद्ध्या प्रकृतिवाचित्वस्य दृढप्रमितत्वादन्ये पुनरात्मादिशब्दास्तदानुगुण्येनैव कथंचिन्नेतव्या इत्यर्थः। इमामाशङ्कां" प्रतिक्षिपति– नेति। तमेव प्रतिक्षेपं विवृणोति– यत्रेति। यस्मिन्वाक्येऽसदव्याकृतादि दृष्टं तत्र तस्मिन्नेव वाक्ये वहुस्यामिति प्रकरणसमुदितं सर्वज्ञताद्यं परमपुरुषलिङ्गम्। अपि तु उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गोपेतत्वात् सुस्थिरमेव प्रतिपन्नम्। तस्मात् ‘आत्मा वा इदमेक एवाग्र आसीत्’‘एको हवै नारायण आसीत्’ इत्यादिवाक्यस्थात्मनारायणादिशब्दाः कारण वाक्यस्थाः प्रकृतेः कारणत्वमाश्रित्य अबाध्या इत्यर्थः॥
मूलम् - 137
137.विश्वोपादानवक्त्री श्रुतिषु सदसदव्याकृतोक्तिः परोक्ते
ह्यव्यक्तेऽन्वेति तस्मात्तदितरदखिलं नेयमत्रेति चेन्न।
यत्रासत्त्वादि दृष्टं प्रकरणविदितन्तत्र सर्वज्ञताद्यं
लिङ्गं स्यादित्यधीतं स्थिरमपि तदिहाबाध्य आत्मादिशब्दः॥
विश्वास-प्रस्तुतिः - 138
138.आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामात्रमुक्तं
नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यादेर्निषेधात्।
सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद्-
द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृताद्युक्तिवाच्यः॥
३४-तमाहोबिल-यतिः - 138
- आसीदित्यादि। आसीदग्रे त्वसद्वा इदमिति— इदं परिदृश्यमानं जगत् अग्रे प्रलयकाले असत्तुवै असदेव आसीत् अभवत् इति एवमर्थिकया ‘असद्वा इदमग्र आसीत्’ इति श्रुत्या। विलयावस्थातामात्रमुक्तम् – प्रकलयरूपावस्थापन्नत्वमात्रमेव प्रतिपादितम्। न पुनश्चिन्मात्र रूपत्वमत्यन्ताभावरूपत्वमत्यन्तासद्रूपत्वं वेति भावः। नैवासीत् किञ्चिदित्याद्यपि विलयपरम् – किञ्चिदपि नैवासीदित्येवमर्थकं ‘नैवेह किञ्चनात्र आसीत्’ इत्यादिश्रुतिवाक्यमपि पूर्ववत् प्रलयावस्थापरमेव। कुतः शून्यतादेर्निषेधआत् – वैशेषिकैः प्रलपितस्य द्रव्यस्वरूपनाशरूपलयस्य प्रत्यक्षादिप्रमाणविरोधेनास्मदादिभिर्निषिद्धत्वात्। सर्वस्याव्याकृतत्वं विभजनविरहात् – ‘तद्धेदं" तर्ह्यव्याकृतमासीत्’ इति श्रुतिप्रतिपन्नं सर्वस्याप्यर्थस्य कारणावस्थायामव्याकृतत्वं विभागाभावादेवोच्यते। तत्– तस्मात्। इह – कारणवाक्यसमुदाये । तादृशावस्थातत्तद्रव्यस्तोमान्तरात्मा — अव्याकृतत्वाद्यवस्थाविशिष्ट तत्तत्प्रधानादि द्रव्यसमूहान्तरात्मा परमपुरुष एव। सदसदव्याकृताद्युक्तिवाच्यः – सदसदव्याकृतादिशब्दवाच्यः॥
कुमार-वरदः - 138
9.नन्वव्याकृतादिशब्दस्य प्रकृतिवाचकत्वाभावे कथमिव परमात्मवाचकत्वमित्याशङ्क्य तद्वाचकत्वप्रकारमाह विस्तरेण—आसीदिति। अत्र खलु ‘असद्वा इदमग्र आसीत्’ इत्यादिना वाक्येन परिद्दश्यमानस्य प्रप़ञ्चस्य लयावस्थतामात्रमुक्तम्। नपुनश्चिन्मात्रपूपत्वमसद्रूपत्वमत्यन्ताभावरूपत्वमत्यन्तासद्रूपत्वं" वा।तर्हि ‘नैवेह किंचनाग्र आसीत्’ इति वाक्यं कथमुपपद्यत इत्याशङ्क्याह—नैवेति। विलयो हि नाम वेदान्तसिद्धान्ते अवस्थान्तरप्राप्तिरेव नपुनर्द्रव्यस्वरूपनाशः। तत्कथमित्यत्राहशून्यतादेर्निषेधादिति। द्रव्यस्वरूपविनाशो विलय इति हि वैशेषिकादीनां प्रलापः। स तु प्रत्यक्षादिप्रमाणिकैर्निषिद्ध एव। तर्हि कथमव्याकृतत्वमित्यत्राह—सर्वस्येति। सर्वस्याप्यर्थस्य कारणावस्थायामव्याकृतत्वं नामरूपविभागाभावादवोच्यते। इत्थं सामान्यतश्चिन्तितमव्याकृतशब्दार्थं ब्रह्मण्यपि योजयति-ताद्दशेति। तत्-तस्मात्कारणात्। अव्याकृतत्वाद्यवस्थाविशिष्टतत्तद्द्रव्यसमूहान्तरात्मा परमपुरुष एव सदसदव्याकृतशब्दवाच्य इति वेदान्तनिष्णातैर्निर्णीयते। अतोऽव्याकृतशब्दस्य भगवत्परत्वेऽर्थो नास्तीति न भ्रमितव्यमिति॥
मूलम् - 138
138.आसीदग्रे त्वसद्वा इदमिति विलयावस्थतामात्रमुक्तं
नैवासीत् किञ्चिदित्याद्यपि विलयपरं शून्यादेर्निषेधात्।
सर्वस्याव्याकृतत्वं विभजनविरहात्तादृशावस्थतत्तद्-
द्रव्यस्तोमान्तरात्मा तदिह सदसदव्याकृताद्युक्तिवाच्यः॥