31 संख्योपसंग्रहाधिकरणम्

विश्वास-प्रस्तुतिः - 135

135.यस्मिन् पञ्चेति वाक्ये परपरिगणिता विंशतिः पञ्चयुक्ता
प्रोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम्।
आकाशस्य स्वनाम्ना प़ृथगनुकथनात् सप्तमीशक्त्यबाधात्
षड्विंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः॥

३४-तमाहोबिल-यतिः - 135
  1. यस्मिन्पञ्चे त्यादि। यस्मिन्पञ्चेति मन्त्रे – ’ यस्मिन्पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः। तमेवं मन्य आत्मानं विद्वान्ब्रह्मामृतोऽमृतम् ‘॥ इतिवाजसनेयकशाखामन्त्रे। परपरिगणिता – साङ्ख्यसिद्धान्तिभिः परिगणिता। पञ्चयुक्ता विंशतिः – पञ्चविंशतिः पञ्चविंशतिसङ्ख्येत्यर्थः। प्रोक्ता – प्रतिपादिता, ‘मूलप्रृकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतितयः सप्त। षोडषकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः॥ इति साङ्ख्योक्तरीत्या प्राकृततत्त्वानां चतुर्विंशतित्वात् पुरुषस्य पञ्चविंशत्वाच्च पञ्चविंशतितत्त्वसङ्ख्या साङ्ख्यतन्त्रप्रसिद्धैव। अस्मिंश्च मन्त्रे सा सङ्ख्या प्रतीयते। पञ्चानां जनानां समूहाःपञ्चजना एतादृशाः समूहाः पञ्चेति विशेष्यन्ते। अस्मिनपक्षे पञ्चजन्य इति रूपाभावच्छान्दसः। अतः पञचशब्दविशेषितपञ्चजनशब्दात् साङ्ख्यतनत्रप्रसिद्धपञ्चविंशतितत्त्वसङ्ख्या प्रतिपाद्यत इति। इह– अस्मन्मन्त्रे। सप्तम्यधीतः पुरुषगणस्तु — ‘यस्मिन्’ इति सप्तम्यन्तपदेन प्रतिपादितो जीवसमूहः। अनन्यनिष्ठोऽस्तु – परमात्मपरतन्त्रो मा भूत्। जीवगणो ब्रह्मणः शरीरतया जातिगुणादिवत् तदेकपरतन्त्र इति हि वेदान्तिनां सरणिः। निरीश्वरास्तु साङ्ख्याय जीवगणं स्वनिष्ठं मन्यन्त इति भावः। मैवम् – एवं मा शङ्किष्ठाः। कुतः? आकाशस्य स्वनाम्ना पृथगनुकथनात् सप्तविंशत्यबाधात् – ‘आकाशश्च प्रतिष्ठितः’ इत्याकाशशब्देन पञ्चभ्यः पञ्चजनेभ्यः पार्थक्येन कीर्तनात् ‘यस्मिन्’ इति निर्दिष्टेनात्मना सह साकाशानां पञ्चपञ्चजनानां परिगणने कथञ्चिदपि सप्तविंशतिसङ्ख्याया लोपाभावात्। तर्हि युष्मत्पक्षे ‘यस्मिन्’ इति कोऽभिधीयत इत्यत्राह – षड्विंश इत्यादि। ब्रह्मताद्यैः – एतन्मन्त्रसिद्धैरेव निरपाधिकब्रह्मत्वामृतत्वादिभिर्लिङ्गैः। इति – परमात्मेति। विदितः – निश्चितः। षड्विंशो हि – तं षड्विंशकमित्याहुः’ इत्यादिषु प्राकृतेभ्यश्चतुर्विंशतितत्त्वेभ्यः" पञअचविंशाज्जीवाच्च भिन्नतया ततोऽधिकः षड्विंश इत्युक्तः परमात्मा हि। अत्र – अस्मिन्मन्त्रे । सर्वाश्रयोऽनूद्यते – ‘यस्मिन् ’ इति पदेन सर्वाधारत्वेनानूद्यते। अतो नास्मत्पक्षे काऽपि हानिरिति भावः॥
कुमार-वरदः - 135

6.पूर्वाधिकरणे साङ्क्योक्ताब्रह्मात्मकाव्यक्तप्रतिपादकाजामेकामित्यादिश्रुत्या समुत्थितस्य पूर्वपक्षिणः प्रतिक्षेपः कृतः। अधुना साङ्क्योक्ततत्तवसङ्ख्याप्रतिपादकश्रुतिमवलम्ब्य समुत्थितस्यापि तस्य प्रतिक्षेपः क्रियत इति संगतिः। तदर्थविचारस्चु—‘यस्मिन्पञ्च पञ्चनाः’ इतिमन्त्रः किं कापिलतन्त्रसिद्धतत्तवप्रतिपादनपरो नेति। किं पञ्चपञ्चजनशब्देन पञ्चविंशतितत्त्वप्रतीतिरस्ति नेति। किं" पञ्चपञ्चजनशब्देन पञ्चविंशतितत्त्वप्रतीतिरस्ति नेति। किं पञ्चपञ्चजनशब्देन पञ़्चपञ़्चकान्युच्यन्ते उत पञ़्च पदार्था इति। किं" पञ़्चजना इति समासः समाहारविषयः उत ’ दिक्संख्ये संज्ञायाम् ’ इति संज्ञाविषय इति। किं समाहारसमासपक्षे अवान्तरसङ्ख्यान्वयनिमित्तमस्ति न वेति। किमाकाशस्य पृथङ्निर्देशः अवान्तरसंख्यान्वयविरोधि नेति। अत्र पूर्वपक्षी मन्यते– ’ यस्मिन्पञ़्च पञ़्चजनाः ’ इति वाक्ये यस्मिन्निति सप्तम्या निर्दिष्टः साङ्ख्योक्तप्रकृतेः परः पुरुषगणः। ’ पञ़्च पञ़्चजनाः ’ इत्युक्तानि तु पञ़्चविंशतितत्त्वान्येव। तथा च पञ़्च सङ्ख्यया गणिताः पञ़्च पदार्थाः पञ़्चविंशतिसङ्ख्याका इओति सुप्रसिद्धमेतत्। तमिमं पूर्वपक्षमनुवदति– यस्मिन्नित्यादिनाऽस्त्वित्यन्तेन। अनन्यनिष्ठः– परमात्मनिष्ठत्वरहित इत्यर्थः। उक्तं पूर्वपक्षं प्रतिक्षिपति– मैवमिति। तत्र हेतुद्वयमाह– आकाशस्येति। साङ्ख्यपक्षे हि पञ़्चविंशतिसङ्ख्याकान्येव तत्त्वानि विद्यन्ते। नपुनः सप्तविंशतिसङ्ख्याकानि। अत्र पुनराकाशस्य पऋथगभिधानं विद्यते। यस्मिन्निति सप्तम्यन्तेन पुरुषोऽपि पऋथङ् निर्दिश्यते। तेनैताभ्यामुभाभ्यां साङ्ख्योक्तपञ़्चविंशतितत्त्वप्रत्यभिज्ञा न विद्यत इत्यर्थः। तर्हि भवत्पक्षे यस्मिन्निति क उच्यत इत्याशङ्क्याह– षड्विंश इति। षड्विंशः– परमपुरुषः । ’ तं षड्विंशकमित्याहुः’ इति श्रुतिप्रसिद्धेः। स तु सर्वाधारत्वाद् यस्मिन्निति धछारकत्नेनानूद्यते। तत्र हेतुमाह– ब्राह्मताद्यैरिति। प्रकरणप्रतिपन्नैर्ब्रह्मत्वामृतत्वाद्यैर्लिङ्गैः परमात्मेति निश्चीयत इत्यर्थः॥

मूलम् - 135

135.यस्मिन् पञ्चेति वाक्ये परपरिगणिता विंशतिः पञ्चयुक्ता
प्रोक्ता सप्तम्यधीतस्त्विह पुरुषगणोऽनन्यनिष्ठोऽस्तु मैवम्।
आकाशस्य स्वनाम्ना प़ृथगनुकथनात् सप्तमीशक्त्यबाधात्
षड्विंशोऽह्यत्र सर्वाश्रय इति विधितोऽनूद्यते ब्रह्मताद्यैः॥

विश्वास-प्रस्तुतिः - 136

136.संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या
प्राणाद्यन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम्।
ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो
घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगर्थः॥

३४-तमाहोबिल-यतिः - 136
  1. संज्ञोपाधिरित्यादि । निगमे – वेदे। सप्तसप्तर्षिनीत्या – सप्तसप्तचर्षय इत्युक्तरीत्या। इह – ‘यस्मिन् पञ्च पञ्चजनाः’ इत्यादिमन्त्रे। अयं समासः – पञ्चजना इत्ययं समासः। संज्ञोपाधिर्हि – संज्ञानिमित्तको हि । ‘दिक्सङ्ख्येसंज्ञयाम्’ इति सूत्रेण समानाधिकरणेनेत्यधिकारस्थेन दिग्वाचिशब्दः सङ्ख्यावाचिशब्दश्च समानाधिकरणेन समानाधिकरणेन समस्येते समुदायेन संज्ञायां गम्यमानायामित्यर्थकेन विहितो ह्यं समासः। अतः सप्तर्षिशब्दवत् पञ्चजनशब्दः केषाञ्चित् संज्ञारूपः, नतु समाहारसमासः, पञ्चजना नाम केचन पदार्थाः सन्ति ते च पञ्चेति। तत् पञ्चकम् – पञ्चशब्दविशेषितपञ्चजनश्बदार्थभूतवस्तुपञ्तकञ्च। प्राणाद्यं मनोऽयं प्रकरणनियतं धीन्द्रियाख्यम्– ’ प्राणस्य प्रणमुत चक्षुषचक्षुश्श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनो ये विदुः’ इति वाक्यशेषोक्तरीत्या प्राणोपक्रमं मनोऽतं" प्रकरणस्थवाक्यनियमितं ज्ञानेन्द्रियाख्यं वस्तुकदम्यमेव।इदम् – पञ्चजनशब्दाभिधेयं वस्तु। ज्योतिश्शब्देन – ‘तं देवा ज्योतिषां" ज्योतिरायुर्होपासतेऽमृतम्’ इति वाक्यस्थेन षष्ठीबहुवचनान्तज्योतिश्शब्देन। शाखान्तरविदितम्- काण्वशाखायां विदितम्। अयमाशयः- काण्वमाध्यदिनशाखयोर्द्वयोरपि पञ्चजनमन्त्रो वर्तते तदर्थनिर्णायकः ‘प्राणस्य प्राणम्’ इति वाक्यशेषो माध्यन्दिन शाखायां सम्पूर्णतया वर्तते। अतस्तस्यां शाखायामुक्तरीत्याऽर्थनिश्चयोऽस्तु काण्वशाखायांतु प्राणस्य ‘प्राणस्य प्राणम्’ इति वाक्यशेषे ‘अन्नस्यान्नम्’ इत्यंशो नास्ति अतस्तस्यां शाखायां कथमर्थनिर्णय इति चेत् तस्यां शाखायां निर्दिष्टवाक्यस्यापूर्णोक्त्या निर्णायकत्वाभावेऽपि पञ्चजनमन्त्रात्पूर्वपठिते ‘तं देवाः’ इत्यादिमन्त्रे पञ्चजनमन्त्रे पञ्चजनशब्देनोच्यन्त इत्यवगन्तव्यमिति। न्यूनवादस्तु पूर्यः- काण्वशाखायां निदर्शितरीत्या ‘अन्नस्यान्नम्’ इत्यंशस्य पाठाभावेन न्यूनवादस्तु माध्यन्दिनशाखादृष्टेन ‘अन्नस्यान्नम्’ इत्यंशेन पूरणीयः। सोंऽशोऽत्रापि पठनीय इत्यर्थः। अन्नशब्दो घ्राणं रसनमपि सह वक्ति- ‘अन्नशब्दोदितपृथिवीसम्बन्धित्वात् घ्राणेनद्रियमन्नशब्देन गृह्यते, अद्यतेऽनेनेत्यन्नमिति रसनेन्द्रियमपि गृह्यते’ इति भाष्यस्य शक्यसम्बन्धप्रदर्शकत्वात् अन्नशब्दोऽन्नसम्बन्धिनोर्घ्राणरसनयोर्द्वयोरपि लक्षणया बोधक इत्यर्थः। अन्नेन घ्राणस्याप्यायितत्वलक्षणः सम्बन्धो रसनस्यान्नभक्षकतया सम्बन्ध इति द्वयोरपि ग्रहणं सम्भवति। प्राणशब्दस्त्वगर्थः- ‘प्राणस्य प्राणम्’ इति वाक्यशेषेऽन्नशब्दस्य घ्राणरसनलक्षकत्वमुक्तम्। तथा षष्ठ्यन्तप्राणशब्दोऽपि प्राणपदशक्यवायुसम्बन्धित्वात् त्वगिन्द्रियस्य लक्षणया बोधक इत्यर्थः। एवञ्च घ्राणरसनयोस्तन्त्रेणोपादानात् पञ्चत्वाविरोधेन पञ्चशब्दविशेषितपञ्चजनशब्दवाच्यत्वं सुस्थितमिति भावः॥
कुमार-वरदः - 136
  1. अत्र पूर्वपक्षवादी मन्यते–अयं अलु समाहारसमासः। तथा च पञ़्चपूल्यादिवत्, पञ़्चजना इतिच्छान्दसप्रक्रियया पुल्लिंङ्गनिर्देशेन समाहारेऽभिहिते समाहाराणां पञ़्चसंख्यया विशेषणे पञ़्चविंशदतितत्त्वसिद्धिरिति। तमिमं पक्षं प्रतिक्षिपन् ’ दिक्संख्ये संज्ञायां’ इति सूत्रोक्तप्रक्रियया सप्तसप्तर्षय इतिवत् पञ़्च पञ़्चजना इति संज्ञोपाधिरित्याह– संज्ञोपाधिरिति। तर्हि संज्ञोपाधिकतया प्रतिपाद्यं" पञ़्चकं किम्तियाशङ्क्याह– प्राणाद्यमिति। ’ प्राणस्य प्राणम् ’ इत्यादिवाक्योक्तं मनःपर्यन्तं पञ्चकं श्रुतावेव स्पष्टमुक्तं" ज्ञानेन्द्रियात्मकम्। ननु क्वचिदन्नस्यान्नमिति काण्वपाठे न द्दश्यते तत्कथं पञ्चकत्वसिद्धिरित्याशङ्क्याह– ज्योतिरिति। ’ ज्योतिषैकेषामसत्यन्ने ’ इति सूत्रकारेणैव पञ्चकत्वमुपपादितमित्यर्थः। तत्र कथं न्यूनवाद इत्यत्राह– न्यूनवाद इति। एकत्र न्यूनवादोऽप्यन्यत्र द्दष्टेनाधिक्येन पूरणीय इत्यार्थः। ज्ञानेन्द्रियाणि षट्शंख्याकानि कथमिह पञ्चत्वसिद्धिरित्याशङ्क्याह- घ्राणमिति। तत्रान्नशब्दो घ्राणं रसनं चोभयमपि सहैवाह तेन पञ्चकत्वसिद्धिः। तर्हि त्वगिन्द्रियस्य कुत्र कथनमित्याशङ्क्य परिहरति– प्राणेति। अत्रहि प्राणशब्दस्त्वगिन्द्रियस्य प्राणेनाप्यायितत्वात् लक्षणया त्वगिन्द्रियमेवाचष्ट इति सर्वानुमतमेवेति। तदिदं भाष्य एव सुव्यक्तम्॥
मूलम् - 136

136.संज्ञोपाधिस्समासो ह्ययमिति निगमे सप्तसप्तर्षिनीत्या
प्राणाद्यन्तन्मनोन्तं प्रकरणनियतं पञ्चकं धीन्द्रियाख्यम्।
ज्योतिश्शब्देन शाखान्तरविदितमिदं न्यूनवादस्तु पूर्यो
घ्राणं वक्त्यन्नशब्दो रसनमपि सह प्राणशब्दस्त्वगर्थः॥