विश्वास-प्रस्तुतिः - 134
134.स्वातन्त्र्येण ह्यजाया निखिसजनकता सूच्यते क्वापि वाक्ये
बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः।
इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधाना-
दस्वातन्त्र्यप्रसिद्धेस्सृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात्॥
३४-तमाहोबिल-यतिः - 134
- स्वातन्त्र्येणे त्यादि। क्वापि वाक्ये — ‘अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती सरूपाम्’ इति तैत्तिरीयके श्रूयते। श्वेताश्वतरे तु ‘बह्वीः प्रजा सृजमानां सरूपाः’ इति विशेषः।अन्यत् सर्वं तुल्यम्। अस्मिन्वाक्ये। अजायाः – अजाशब्दिताया मूलप्रकृतेः। स्वातन्त्र्येण निखिलजनकता सूच्यते— ‘जनयन्तीम्’ इति पदेन ‘सृजमानाम्’ इतिच पदेन सृष्टिकर्तृत्ववाचिना ‘स्वतन्त्रः कर्ता’ इत्यनुशिष्टस्वातन्त्र्यघटितकर्तृत्वाभिधानात् निखिलजनकत्वं स्वातन्त्र्येणैव न त्वीश्वरपारतन्त्र्येणेति सूच्यते। किञ्च बद्धोऽजस्तत्र शेते — ‘अजो ह्येको जुषमाणोऽनुशेते’ इत्युक्त्या जुषमाणपदेन तस्यां प्रीतियुक्तत्वावगमाच्च बद्धोऽजः जीवात्मा तस्यामजायनुशेत इति सिद्धं खलु। किञ्च अन्योऽजः पुनः" भुक्तभोगामिमां त्यजति – ’ जहात्येनां भुक्तभोगामजोन्यः ’ इत्युक्त्याऽन्योऽजो बद्धाद्विलक्षणो मुक्तात्मा तु स्वेन बद्धदशायामनुभूततत्संसर्गसुधामिमामजां" दूरतस्त्यजतीति च सिद्धं किल। इत्युक्तेः– एवं प्रतिपादनात्। सेयम् – बद्धात्मभिः प्रीतपूर्वकमनुभूततया मुक्तात्मभिस्त्ज्यमानतया स्वातन्त्र्येण बहुप्रजासर्गकर्तृत्वेन च प्रतिपाद्यमानैषाऽजा। तान्त्रिकी तु – तन्त्रप्रसिद्धा मूलप्रकृतिरेव। इति यदि न – इति शङ्क्यते चेत् तन्न। अजात्वमात्राभिधानात् – अजाशब्देनाजात्वमात्रमभिहितं न पुनरब्रह्मात्मिकाऽजेत्युक्तं यतस्तादृशीमिमां" प्रतिपद्येमहि। अस्वातन्त्र्यप्रसिद्धेः – अचेतनाया मूलप्रकृतिरूपाया अस्या अजायास्तैत्तरीयते ‘अणोरणीयान्’ इत ब्रह्मोपक्रमस्य ‘सप्त प्राणाः प्रभवन्ति तस्मात्’ इत्यादिना ब्रह्मणः सर्वसृष्टिकथनपूर्वकमभिधानादस्याः परमात्मपारतन्त्र्यं प्रसिद्धम्। श्वेताश्वतरे च ‘देनात्मशक्तिम्’ इति भगवच्छक्तिरूपत्वेन ‘मायिनं तु महेश्वरम्’ ‘यो योनिंयोनिमधितिष्ठति’ इत्यादिना भगवदधिष्ठितत्वेन च प्रतिपादनाच्चास्या ब्रह्मपारतन्त्र्यं प्रसिद्धम्। अतोऽसौ न तान्त्रिक्यजा। सृजतिरपि परप्रेर्यतां नोपरुन्ध्यात् – ‘प्रजाः सृजमानाम्’ इति सृजधातुप्रयोगः, अपिना ‘जनयन्तीम्’ इति शाखान्तरस्थजनिहेतुवाजिजनयतिग्रहणम्, स एष सृजतिर्वा जनयतिर्जा कर्तृत्ववाच्यपि सन् परमात्मप्रेर्यतामस्या निदर्शितप्रमाणप्रसिद्धां न निरुन्ध्यात्। प्रयोजककर्तेति च कर्तारौ द्विविधौ तत्र प्रकृतिः परप्रेरिता सत्येव जगत्सृष्ट्यै प्रवर्तत इति प्रयोजयकर्त्री, स्वातन्त्र्यञ्च तत्क्रियानिर्वर्तककलापल्य कियतश्चित् स्वप्रेर्यत्वात् सिध्यत्येव अतो न कापि हानिरिति भावः॥
कुमार-वरदः - 134
5..ननु पारिशेष्यस्थानप्रमाणाभ्यामव्यक्तकार्यभूतशरीरमात्रवाचकोऽव्यक्तशब्दइति पूर्वाधिकरणे समर्थितं तेन तद्वदेव ‘अजामेकाम्’ इत्यादिवाक्यामुभयाभ्युपगताव्यक्तस्यैव वाचकं स्यादित्युत्थानेन संगतिः। तदर्थविचारस्तु श्वेताश्वतरीयाजामेकामिति मन्त्रेणाब्रह्मात्मकप्रकृतिरभिधीयते नेति। किं मन्त्रे यौगिकोऽजाशब्दोऽब्रह्मात्मकप्रकृतिपरः, उत ब्रह्मात्मकप्रकृतिपर इति। किं ‘बह्वीः प्रजाः सृजमानाम्’ इति वाक्यावयवत्वमजाशब्दस्य स्वातन्त्र्येण सृष्टिपरतामवगमयति नेति। किं तैत्तिरीयाजामेकामित्यजाशब्दस्य ज्योतिरुपक्कमावाक्यावयवत्वं" स्वातन्त्र्येण सृष्टिपरत्वावगमकत्वविरोधि नेति। किंच अजात्वं ज्योतिरुपक्रमात्वं च विरुध्येते नेति। अत्र पूर्वपक्षाभिप्रायमाह—स्वातन्त्र्येणेति। ‘अजामेकाम्’ इत्यत्र ‘जनयन्तीम्’ इति बहुप्रजाजनने स्वातन्त्र्येण कर्तृत्वमुच्यते प्रधानस्य। ‘सृजमानाम्’ इति तु श्वेताश्वतरवाक्येऽपि तच्च कर्तृत्वमेव। ‘अजो ह्येको जुषमाणोऽनुशेते’ इति बद्धस्य जुषमाणस्य प्रीतियुक्तस्य तस्यामेवाजायामनुशयनमुच्यते। ‘जहात्येनाम्’ इत्यादिना मुक्तस्य तत्परित्यागोऽप्युच्यते। श्रुतापि पुनरियमुक्तिस्तान्त्रिकी कपिलन्त्रसिद्धेत्याशङ्क्य प्रतिक्षिपति—नेति । तत्र हेतुमाह—अजात्वमात्राभिधानादिति। अयमर्थः—अत्र ह्जेत्यजात्वमात्रमभिहितम्। न पुनरब्रह्मात्मिकाजेत्युक्तम्। तेन साङ्क्योक्ताब्रह्मात्मिकाया अजाया अभिधानासिद्धिरित्यर्थः। हेत्वन्तरमाह—अस्वातन्त्र्यप्रसिद्धेरिति। प्रसिद्धं खल्वचेतनाया मूलप्रकृतेरस्वातन्त्र्यं सर्वलोकेषु। तर्हि ‘जनयन्तीषु’ ‘सृजमानाम्’ इति सृष्टि कर्तृत्वकथनं कथमित्याशह्क्याह—सृजतिरिति । लोके हि स्रष्ट्टत्वं द्विप्रकारं प्रयोजककर्तृत्वं" प्रयोज्यकर्तृत्वं चेति। तेन मूलप्रकृतेः श्रूयमाणं प्रयोज्यकर्तृत्वं प्रमाणसिद्धां परमात्मप्रेर्यतां नोपरुन्ध्यादित्यर्थः"
मूलम् - 134
134.स्वातन्त्र्येण ह्यजाया निखिसजनकता सूच्यते क्वापि वाक्ये
बद्धोऽजस्तत्र शेते त्यजति पुनरिमां भुक्तभोगामजोऽन्यः।
इत्युक्तेस्तान्त्रिकी सा त्वियमिति यदि नाजात्वमात्राभिधाना-
दस्वातन्त्र्यप्रसिद्धेस्सृजतिरपि परप्रेर्यतान्नोपरुन्ध्यात्॥