29 आनुमानिकाधिकरणम्

विश्वास-प्रस्तुतिः - 130

130.निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं
तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे।
षड्भिर्द्वाभ्यां च तत्र प्रशमयति नयैस्साङ्ख्ययोगोक्तशङ्कां
घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदूचुः॥

३४-तमाहोबिल-यतिः - 130
  1. निर्णीतमित्यादि। स्पष्टजीवादिलिङ्गम्– स्पष्टजीवप्रधानलिङ्गकम्। वाक्यजातम् – उपनिषद्वाक्यम्। परविषयचया – परमात्मपरत्वेन। निर्णीतम्– तृतीयपादे निश्चितम्। तुर्यपादे– चतुर्थपादे। तत्तच्छायानुसारि वचः – साङ्ख्याद्युक्तिच्छायानुसारीणि वेदान्तवाक्यानि स्पष्टतरजीवादिलिङ्गकानि वाक्यानीत्यर्थः। ‘अथ स्पष्टतरजीवादिलिङ्गकानि वाक्यानि चतुर्थपादे परमात्मपरतया निर्णीयन्त इति पादसङ्गतिः। तान्येव तत्तच्छायानुलारणीत्यभिधीयन्ते ’ इति चिन्तामणिदर्शनात् ‘तत्राद्येऽत्यन्तगूढाविशदसुस्पष्टजीवादिवाचाः ’ इत्याचार्यसूक्तिदर्शनाच्च। तत्परं प्रथयति – परमात्मपरत्वेन प्रतिपादयति। तत्र – चतुर्थपादस्थाधिकरणाष्टके। षड्भिर्द्वाभ्यां च नयैः– आदितआरभ्य षड्भिरधिकरणैस्ततो द्वाभ्यामधिकरणाभ्यां" चेत्यर्थः। साङ्ख्ययोगोत्थशङ्कां प्रशमयति– क्रमेण साङ्ख्योत्थशङ्कां योगोत्थशङ्काञ्च परिहरति। इत्थम्– उक्तरीत्याधिकरणषट्काधिकरणद्विकात्मकत्वेन। घट्टः– पेचिकाद्वयविभागः। जाघट्टः – अतिशयेन घटते इत्यर्थः। अतीवोपपन्न इति यावत्। घट्टधातोश्चलनार्थाद्यङन्तात् पचाद्यचि ‘यङोऽचि च’ इति यङ्लुकि रूपं सुबन्तं घट्टविशेषणम्। अदिकरणषट्कद्विकयोः प्रत्येकमनुगतासाधारणार्थलाभात् मध्ये विभागोऽतीव युज्यत इति भावः। केचित्तु – केचनाचार्यस्तु।अष्टमम्– अस्मिन्पाददे अष्टमं सर्वव्याख्यानाधिकरणम्। कथितनिगमनमूचुः – पादचतुष्टप्रतिपादितार्थानां" सङ्ग्रहेण समापनरूपभिदमभ्यधुः॥
कुमार-वरदः - 130
  1. एवं त्रिभिः पादैरस्पष्टतरात्मस्पष्टरूपजीवादिलिङ्गानि वाक्यानि जीवपरत्वेनाशङ्क्य परमात्मपरतया निर्णीतानि अथ स्पष्टतरजीवादिलिङ्गकानि वाक्यानि चतुर्थपादे परमात्मपरतया निर्णीयन्त इति पादसंगतिः। तान्येव तत्तच्छायानुसारीणीत्यभिधीयन्ते। पूर्वत्राकाशशब्दस्य तत्पूर्ववाक्योक्त जीवपरत्वमाशङ्क्य तद्वाक्यप्रतिपन्नब्रह्मलोकपरत्वं सूचितम्,तद्वदिहाप्यव्यक्तशब्दस्य सांख्योक्तप्रधानपरत्वमाशङ्क्य रूपकविन्यासप्रतिपादकवाक्यान््तरोक्तशरीरपरत्वं" सिद्धान्तिना स्थाप्यत इत्यधिकरण संगतिः। यद्वा पूर्वस्मिन्नधिकरणे जीवस्य प्रतिपाद्यत्वं निराकृत्य परमात्मनः प्रतिपाद्यत्वमुक्तम्, इह पुनः प्रधानस्य प्रतिपाद्यत्वं निराकृत्य परमात्मनः प्रतिपाद्यत्वमुच्यत इति संगतिः। तदर्थविचारस्तु कठवल्लीषु ‘इन्द्रियेभ्यः" परा ह्यर्थाः’ इत्यत्राव्यक्तशब्देनाब्रह्मात्मकं प्रधानमभिधीयते नेति। किमस्मिन्मन्त्रे तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञानमस्ति नेति। किमत्र परत्वं वशीकार्यतया उत तान्त्रिककारणभेदेनेति। अत्र तृतीयचतुर्थपादयः संगतिकथनपूर्वकं चतुर्थपादस्थानामष्टानामधिकरणानां" पेटिकाद्वयरूपत्वमप्याह–निर्णीतमिति। तृतीतपादे परविषयतया स्पष्टजीवादिलिङ्गं वाक्यजातं निर्णीतम्। चतुर्थपादे तु तत्तत्साङ्ख्योक्तच्छायानुसारिवाक्यजातं" परमेव पुरुषं प्रतिपादयतीति पादयोः संगतिः। तत्रावान्तरपेटिकाविभागमाह–षड्भिरित्यादिना। षड्भिरधिकरणैः साख्योक्तार्थशङ्कां प्रतिक्षिपति द्वाभ्यामधिकरणाभ्यां योगसिद्धान्तोक्तमर्थं प्रतिक्षिपतीति विभागः। तथा च घट्टौ– पेटिके। जाघट्टः– परस्परं संघटते इत्यर्थः। केचित्पुनराचार्या अष्टमं पुनरधिकरणमुक्तार्थ निगमनमित्याहुः। अध्यायपरिसमाप्तिरूपत्वादस्याधिकरणस्येति॥
मूलम् - 130

130.निर्णीतं वाक्यजातं परविषयतया स्पष्टजीवादिलिङ्गं
तत्तच्छायानुसारि प्रथयति तु वचस्तत्परन्तुर्यपादे।
षड्भिर्द्वाभ्यां च तत्र प्रशमयति नयैस्साङ्ख्ययोगोक्तशङ्कां
घट्टौ जाघट्ट इत्थं कथितनिगमनं त्वष्टमं केचिदूचुः॥

विश्वास-प्रस्तुतिः - 131
  1. द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या
    तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्या।
    शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ
    शेषं तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन्॥
३४-तमाहोबिल-यतिः - 131
  1. द्वाभ्यामित्यादि। अस्मिन् तुर्यपादाष्टके – चतुर्थपादाधिकरणाष्टके। द्वाभ्याम्– आनुमानिकाधिकरणचमसाधिकरणाभ्याम्। कपिलमतम् – कपिलस्य जगत्कारणतया अभिमतम्। प्रधानम् – मूलप्रकृतिशब्दितमचेतनं वस्तु। क्षेप्यम् – प्रतिक्षेप्यम्। अथ – तदुपरि। एकतस्तु – एकेन ’ नसङ्ख्योपसंग्रहात् ’ इत्यधिकरणेन तु । अन्योक्तसङ्ख्या – कपिलाभिमततत्त्वसङ्ख्या।क्षेप्येति लिङ्गविपरिणामेनानुषङ्गः। तुर्येण – चतुर्थेन ’ कारणत्वेन चाकाशादिषु ’ इत्याधिकरणेन। अव्याकृतोक्तेरपि — ’ तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां" व्याक्रियत ’ इत्यादिवाक्यघटकाव्याकृतशब्दस्यापि। द्वारवृत्त्या – प्रकृतिद्वारवृत्त्या। विभुरवधिः स्थाप्यते – परमपुरुष एवाभिधेयकाष्ठेति स्थाप्यते स एव प्रतिपाद्य इति स्थाप्यत इत्यर्थः। अनन्यरमधिकरणयुगे – तत्पश्चात् ’ जगत्वाचित्वात्’ ’ वाक्यान्वयात्’ इत्याद्यधिकरणे। शुद्धाशुद्धौ च जीवौ वारणीयौ – शुद्धः मुक्तः, अशुद्धः बद्धः, तथाविधौ जीवात्मानौ परतत्त्वं न भवत इति प्रतिपादनीयौ। अशुद्धो जीवो जगदधिकरणे वारणीयः, शुद्धौ जीवो वाक्यान्वयाधिकरणे वारणीय इत्यतो न क्रमविवक्षा। शेषम् – अवशिष्टं प्रकृत्यधिकरणसर्वव्याख्यानाधिकरणद्वयम्। तन्त्रान्तरोक्तेश्वरनिरसनकृत् – योगादितन्त्रान्तरोक्तनिमित्तमात्रेश्वरनिरसनकृत्। इति विभागोऽवगन्तव्य इति शेषः॥
कुमार-वरदः - 131
  1. तत्र चतुर्थपादस्थानमष्टानामधिकरणानामवान्तरार्थभेदेनापि भेदमाह–द्वाभ्यामिति। द्वाभ्यामधिकरणाभ्यां सपिलाभिमतं प्रधानं प्रतिक्षेप्यम्। अनन्तरमेकेनाधिकरणेन कपिलाभिमततत्त्वसंख्या प्रतिक्षिप्यते। तुर्येण– चतुर्थेनाधिकरणेन अव्याकृतशब्दस्यापि प्रकृतिद्वारवृत्त्या विभुः परमपुरुषएव अवधिरिति स्थाप्यते। तथा च प्रतिपाद्यत इत्यर्थः। अनन्तरमधिकरणयुगे शुद्धाशुद्धौ बद्धमुक्तौ जीवौ वारणीयौ परतत्त्वं" न भवत इति प्रतिपादनीयावित्यर्थः।अवशिष्टमधिकरणद्वयं योगतन्त्रोक्तनिमित्तमात्रेश्वरनिरसनकृदिति चतुर्थपादाधिकरणार्थविभागः॥
मूलम् - 131
  1. द्वाभ्यां क्षेप्यं प्रधानं कपिलमतमथ त्वेकतोऽन्योक्तसङ्ख्या
    तुर्येणाव्याकृतोक्तेरपि विभुरवधिस्स्थाप्यते द्वारवृत्या।
    शुद्धाशुद्धौ च जीवावधिकरणयुगेऽनन्तरं वारणीयौ
    शेषं तत्रान्तरोक्तेश्वरनिरसनकृत्तुर्यपादाष्टकेऽस्मिन्॥
विश्वास-प्रस्तुतिः - 132

132.अक्षाद्यव्यक्तनिष्ठं जडमथ पुरुषन्तत्त्वकाष्ठां विविच्य
ब्रूते वल्ली कठानां परमतपठितां प्रकियामित्ययुक्तम्।
तत्रस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्ते
श्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च॥

३४-तमाहोबिल-यतिः - 132
  1. अक्षादीत्यादि । कठानां वल्ली – कठाख्यमहर्षिदृष्टा वल्लीवत् परावरतत्त्वकुसुमसौरभ्यनिर्भरा उपनिषद् कठवल्ली ’ इन्द्रियेभ्यः पराह्यर्थाः अर्थेभ्यश्च परं मनः। मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः। महतः परमव्यक्तमव्यक्तात्पुरुषः परः। पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः॥’ इत्यादिवाक्ये। अक्षादि अव्यक्तनिष्ठं जडं अथ तत्त्वकाष्ठां पुरुषं विविच्य परमतपठितां प्रक्रियां ब्रूते – प्रथमत इन्द्रियोपक्रमं" प्रधानान्तं जडतत्त्ववर्गं तदुपरि तत्त्वकाष्ठाभूतं पुरुषञ्च विभज्य दर्शयन्ती साङ्ख्यपठितां तत्त्वपरम्पराप्रक्रियामेव वदति। इत्ययुक्तम् – इति शङ्कमसाधु। कुतः? तत्रात्यानेकवाक्योदतविविधवशीकार्यमुख्यक्रमोक्तेः – तत्रत्यानि कठवल्ल्यामेव पूर्वं पठितानि यानि अनेकानि वाक्यानि ’ आत्मानं रथिनं विद्धि शरीरं रथमेव च। बुद्धिं तु सारथिं विद्धि मनःप्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्॥’’ इत्यागिगरूपाणि तैः उदिता उक्ता विविधाश्च ये वशीकार्या मुमुक्षुणा स्वाधीनीकरणीयाः पदार्थास्तेषु ये मुख्याः प्रधानास्तेषां" क्रम स्यास्मिन् वाक्ये प्रतिपादनात्। किं च उक्तः – अस्मिन्प्रकरणे ’ सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्’ इति मुक्तप्राप्यस्थानाधिपतित्वेनोक्तः। शान्तात्मा – शान्ताः ज्ञानिनः आत्मनः नियन्तारः यस्य स शान्तात्मा। ’ ज्ञानीत्वात्मैव मे मतम्’ इति हि गीतम्। एवम्भूतो विष्णुः" — ‘तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः’ इत्युक्तरीत्या नित्यमुक्तसदानुभाव्यस्थानविशेषाधिपत्वेनाम्नातः पुरुषोत्तमः। इह – ’ पुरुषान्न परं किञ्चित्’ इत्युगाहृतवाक्ये। परः पुरुषः— वशीकार्येभ्यः सर्वेभ्यः परभूतः पुरुष इति। प्रत्यभिज्ञाप्यते च – प्राप्य एव वशीकार्य इति युक्त्या विष्णुपुरुषशब्दाभ्यां" च भगवति प्रसद्धाभ्यामिह स एवायमितिप्रत्यभिज्ञाविषयीक्रियते चेत्यर्थः। अतो न तन्त्रसिद्धस्वतन्त्रप्रधानप्रतिपत्तिगन्ध इति भावः॥
कुमार-वरदः - 132
  1. अत्र कठवल्ल्यां ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इत्यादिवाक्यमिन्द्रियोपक्रममव्यक्तपर्यन्तं जडपदार्थं अथ अनन्तरं पुरुषं तत्त्वकाष्ठारूपं" विभज्य परमतकथितां प्रक्रियामेव ब्रूत इति पूर्वपक्षमनूद्य प्रतिक्षिपति पूर्वार्धेन —अक्षादीति। अयुक्तत्वमेव विवृणोति–तत्रेति।अयमर्थः" – अत्र खलूत्तरोत्तंर कारणपरम्परा नोच्यते अपितु वशीकार्यपरम्परामुक्त्वा पूर्वस्माद्वशीकार्यादुत्तरस्य वशीकार्यत्वे परत्वं" मुख्यत्वमुच्यत इति। अयमत्र पदान्वयः – तत्प्रकरणस्थानवाक्यप्रतिपादित वशीकार्य प्रधानक्रमाभिधानादिति। किंचास्मिन्प्रकरणे ‘सोऽध्वनः" पारमाप्नोति तद्विष्णोः परमं पदम्’ इति मुक्तप्राप्यस्थानाधिपतिर्विष्णुरेव ‘पुरुषान्नपरं किंचित्सा काष्टा सा परा गतिः’ इति प्रत्यभिज्ञाप्यते, स तु न जीवः, तेनेदं प्रकरणं सर्वमपि परमपुरुषपरमेवेत्याह– शान्तात्मेति॥
मूलम् - 132

132.अक्षाद्यव्यक्तनिष्ठं जडमथ पुरुषन्तत्त्वकाष्ठां विविच्य
ब्रूते वल्ली कठानां परमतपठितां प्रकियामित्ययुक्तम्।
तत्रस्थानेकवाक्योदितविविधवशीकार्यमुख्यक्रमोक्ते
श्शान्तात्मा विष्णुरुक्तः पर इह पुरुषः प्रत्यभिज्ञाप्यते च॥

विश्वास-प्रस्तुतिः - 133

133.न ह्यर्था इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषान्न चेष्टं
बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः।
भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्या-
त्त्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा॥

३४-तमाहोबिल-यतिः - 133
  1. न ह्यर्था इत्यादि। अर्थाः – शब्दादिविषयाः। इन्द्रियाणाम् – चक्षुरादीनां वागादीनां च। प्रकृतिः – कारणम्। न हि – साङ्ख्यसिद्धान्ते तथा नाङ्गीकृतं खलु। तथाङ्गीकारे सति हि ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इति वाक्यं सुसंगच्छेत। अथ – तदुपरि। मनश्च एषां हेतुर्नेष्टम् – मनश्च विषयाणां कारणमिति नाभिमतम्। तथा सति हि ’ अर्थेभ्यश्च परं मनः’ इत्युपपद्येत।बुद्धिश्च एतत् – मनः। न सूते – नोत्पादयति।अतो ‘मनसस्तु पराबुद्धिः’ इति चानुपपन्नमेवेति भावः। बुद्धिसंज्ञो महान् महति न च जायते — अत्र ‘बुद्धेरात्मा महान्परः’ इत्युक्त्या बुद्धिब्दितस्य महतोऽपरत्वेन कार्यत्वमेष्टव्यम्, महत एव च परत्वोक्त्या कारणत्वं वक्तव्यम्, सांख्यासिद्धान्ते च बुद्धिसंज्ञितो महान् महतत्वे जायत इति च नाङ्गीकृतम्। अत इदमपि नोपपन्नम्।महत्त्वं भोक्तुर्युक्तम् – ‘आत्मा महान्’ इत्यत्र ‘महान्’ इत्यस्यात्मशब्दितं" भोक्तारं प्रति विशेषणत्वेन योजानायां महत्त्वमात्मशब्दितस्य भोक्तुरुपपन्नं भवति। आत्मता च महति न भवेत् – ‘महान्’ इत्यस्य विशेष्यत्वेन योजनायामात्मशब्दस्तद्विशेषणत्वेनाङ्गीकार्यः, तदानीमात्मत्वं महानिति शाब्दते महत्तत्वे नोपपन्नं भवेत्। आत्मत्वं" हि शरीरप्रतिसम्बन्धित्वरूपम्। तत् महत्तत्वे अचिति कथमुपपद्येत। अतः पारिशेष्यात् अव्यक्तोक्तिः शरीरे – वर्तत इति शेषः। पूर्वं" रथिरथादित्वेन रूपितानां शरीरव्यतिरिक्तानां स्वस्वशब्देनोक्तत्वात् शरीरमात्रस्य रथत्वेन रूपितस्यानुक्त्या तस्यैव परिशेषात्’महतः" परमव्यक्तम्’ इत्यत्राव्यक्तशब्दः पूर्वं रथत्वेन रूपिते शरीरे वर्तते प्रतिपादकत्वेनावतिष्टत इत्यर्थः। अयमाशयः – पूर्वत्र ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च’ इत्यादिनाऽत्मशरीरादीनां रथिरथादित्येन रूपणं कृतम्। तेषु रूपितेष्वर्थेष कस्मात् कस्य वशीकार्यत्वातिशय इति शङ्कयां ‘इन्द्रियेभ्यः पराह्यर्थाः’ इत्यादिना कस्माच्चित् कस्यचिद्वशीकार्यत्वातिश. उच्यते। तत्र पूर्वमन्त्रोक्ताः" सर्वेऽप्युत्तरमन्त्रे स्वस्वशब्देन निर्दिष्टाः, शरीरमेकमेव च न निर्दिष्टम्, अतः पारिशेषात् तदेव शरीरमनेनाव्याक्तशब्देनोच्यत इति। तत् – तस्मात्। इह — कठवल्लीवाक्ये । कपिलप्रक्रियाप्रत्यभिज्ञा न – कपिलतन्त्रोक्ततत्वप्रक्रियाप्रत्यभिज्ञानं न सम्भवतीत्यर्थः॥
कुमार-वरदः - 133

4.अत्र साङ्ख्योक्तप्रत्यभिज्ञाभावं बह्वर्थविरोधप्रतिपादनेन कथयित्वा वाक्यस्य परमपुरुषपरत्वमेव निगमयति –न ह्यर्थाः इति। अत्र ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इत्युक्तम्, न खलु साङ्क्यसिद्धान्तप्रक्रियायामिन्द्रियाणामर्थाः प्रकृतिरिति कथ्यन्ते। अथ मनो हेतुरेषां न चेष्टम्– अथैषामर्थानामिन्द्रियानां मनो हेतुरिति साङ्क्यानां न चेष्टं सर्वेषामपीन्द्रियाणामाहङ्कारिकत्वात्। तत्र ‘मनसस्तु परा बुद्धिः’इत्युच्यते,साङ्क्यसिद्धान्ते बुद्धिरेव महान् तेन महान् जायत इत्युक्तं भवति तदपि न घटते।तर्ह्यत्र महान्पर इति न घटते – उच्यते, जीव एव भोक्ता तस्य च महानिति विशेषणं युज्यत इत्याह–महतीति। ननु ‘महतः परमव्यक्तम्’ इति महतः कारणत्वेनाव्यक्ताभिधानम्, ‘अव्यक्तात्पुरुषः परः’ इति साङ्ख्योक्तपुरुषाभिधानात् साङ्ख्योक्तमेव प्रत्यभिज्ञाप्यत इत्यत्राह–पारिशेष्यादिति। अयमर्थः– पूर्वत्र ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च’ इत्यादिना मन्त्रेणात्मशरीरादीनां रथिरथत्वादिरूपणं कृतम्, तेषु रूपितेष्वर्थेषु कस्मात्कस्य वशीकार्यत्वातिशय इतिशङ्कायां ‘इन्द्रियेभ्यः परा ह्यर्थाः’ इत्यादिना कस्माच्चित्कस्यचित् वशीकार्यत्वातिशय उच्यते, अत्र पूर्वमन्त्रोक्तार्थाः सर्वेऽप्युत्तरमन्त्रे निर्दिष्टाः शरीरमेकमेव न निर्दिष्टं पारिशेष्यात्तदेव शरूरमनेनाव्यक्तशब्देनोच्यत इति। अतोऽत्र कपिलप्रक्रियाप्रत्भिज्ञा नास्तीत्याह— तदिति॥

मूलम् - 133

133.न ह्यर्था इन्द्रियाणां प्रकृतिरथ मनोहेतुरेषान्न चेष्टं
बुद्धिश्चैतन्न सूते नच महति महाञ्जायते बुद्धिसंज्ञः।
भोक्तुर्युक्तम्महत्त्वम्महति नहि भवेदात्मता पारिशेष्या-
त्त्वव्यक्तोक्तिश्शरीरे तदिह न कपिलप्रक्रियाप्रत्यभिज्ञा॥