28 अर्थान्तरत्वादिव्यपदेशाधिकरणम्

विश्वास-प्रस्तुतिः - 128

128.धूत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा
बन्धेऽसौ नामरूपे वहति तदनु च ब्रह्मभावे जहाति।
इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्युपात्तो
ब्रह्मत्वन्न ह्यवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिर्विभक्तः॥

३४-तमाहोबिल-यतिः - 128
  1. धूत्वेत्यादि।इह —छान्दोग्याष्टमाध्यायोपान्तवाक्ये ‘आकाशो हवै नामरूपयोर्निवहिता चे यदन्तरा तद्ब्रह्म तदमृतम्’ इत्यादिरूपे।आकाशनामा – आकाशशब्दवाचः। धुत्वेति प्राच्यवाक्य्प्रकृतो मुक्तो भवेत् — धुत्वा शरीरमकृतं कृतात्मा ब्रह्यलोकमभिसम्भवनि, इति पूर्ववाक्ये शरीत्यागपूर्वकब्रह्यलोकशब्दितब्रह्याभिसम्भवितृत्वेन प्रकृतो मुक्तात्मा भवेत्। नामरूपयोर्निर्वहिता ते यदन्तरा, इत्यत्रत्यवात्यार्थः" कथं तस्मिन्नित्यत्राह – बद्ध इत्यादि। असौ बद्धो नामरूपे वहति तदनु ब्रह्य भावे जहाति च व – असौ मुक्तात्मा पूर्वं बद्धस्सन् नामरूपे देवदत्तादिनाम पिण्डविशेषात्मकं रुपञ्च वहति उवाह तदतु बन्धनिवृत्वं ब्रह्यभावापतिरूपमुक्तिदशायां देवदत्तादिनारूपे परित्यजति च। अतस्तस्मिन् अत्रत्यवाक्यार्थः समन्वित इति भावः। इत्यन्याय्यम् — इत्याशङ्कनमन्याय्यनम्। अभिसम्भाव्यः पुरोक्त एवायं हि पुनरूपात्तः – पूर्ववाक्ये ,ब्रह्यलोकमभिस्म्भवानि इत्यत्राभिसम्भाव्यो ब्रह्नलोशाब्दितः परमात्मैवायमस्मिन्वाक्ये आकाशशब्देनापातः। ननु ब्रह्नलोकमभिसम्भवानि, इत्यत्र जीव एव मुक्तावस्थो ब्रह्यलोकशब्देनोच्त इति कृतो न कल्ण्यत इत्यत्राह – ब्रह्यत्वमित्यादि। ब्रह्यत्वमवस्था नहि – बह्यभाव आगन्तुकधमौ न भवति , अन्यद्रद्रव्यं हि नैति तद्दव्यतां यतः , इति न्यायेन पूर्वमब्रह्यण इदानीं" ब्रह्यत्वं न सेत्यस्यति, यञ्चेदानीं ब्रह्य तत्पूर्वमपि ब्रह्यैव, अत्रत्यवाक्ये तद्धुह्य तदमृतम् इति नित्यासिद्धं ब्रह्यैवोच्यते नपुन र्ब्रह्यप्रसादचलब्धतत्समानशुद्धिमत्त्वरूपगौणब्रह्यत्वाश्रयभूतं वस्त्विति भावः। कृत एवमित्यत्रोच्यते – श्रतिषु युगपत् ज्ञज्ञतादिर्विभक्तक्ष्च। ज्ञज्ञौं द्वावजावीशनीशौ, इत्यादि श्रुतिषु युगपदेव ज्ञत्वेशत्वाज्ञत्वानीशत्वादिधर्माः परमात्मजीवात्मासाधारणा विभक्ताः। अतो नित्यसिद्ध ब्रह्यत्वगुणयोगी परमपुरूष एवाराशशब्देनोच्यत इति सिद्धम्॥
कुमार-वरदः - 128
  1. पूर्वं दहराधिकरणे दहराकाशस्य हदयपरिमितत्वेनाल्पत्वमुक्तम्। तत्प्रसङ्गेनान्तराधिकरणे परमात्मन एवाङ्गुष्ठप्रमितत्वमुक्तम्। तत्रैव च मनुष्याधिकारत्वप्रसङ्गादधिकरणत्रयं मध्ये निवेशितम्। तदनन्तरं पूर्वाधिकरणशेषोऽपि समापितः। अधुना पूर्वश्रुतदहरविद्यायां वेदनस्थानत्वेन तदनन्तराधीतस्य ‘आकाशो ह वै नाम’ इत्यादिप्रकरणस्य जीवपरत्वमाशङ्क्य निराक्रियत इति संगतिः। तदर्थविचारस्तु– छान्दोग्ये ‘आकाशो ह वै नामरूपयेर्निर्वहिता’ इत्यत्राकाशशब्दनिर्दिष्टः किं मुक्तात्मा उत परमात्मेति। किं ‘धूत्वा शरीरमकृतं कृतात्मा’ इतिमुक्तस्यानन्तरप्रकृतत्वमाकाश शब्दस्य मुक्तपरतावगमयति नेति। किं मुक्तस्यापि नामरूपनिर्वोढृत्वं" संभवति नेति। किमत्र नामरूपनिर्वोढृत्वं नामरूपभजनेन उत नामरूपकरतृतयेति। किं’ते यदन्तरा’ इति निर्देशः कर्तृतया निर्वोढृत्वमुपपादयति नेति। ‘आकाशो ह वै नामरूपयोर्निर्वहिता’इत्यत्र श्रूयमाण आकाशो ‘धूत्वा शरीरमकृतं कृतात्मा’ इति पूर्वत्रप्रतिपन्नजीव एव सर्वत्रापि प्रकृतग्रहणस्य न्याय्यत्वात्। असौ जीवो बन्धकाले नामरूपे गृह्णाति। तदनु च ब्रह्मभावे नामरूपे विजहाति। अतः पूर्ववाक्योक्तो जीव एवोत्तरवाक्यस्थो भेदेन प्रतिपद्यते। स एव मुक्त एवाकाश इति पूर्वपक्षमनूद्य निराकरोति– धूत्वेत्यादिना ऽन्याय्यमित्यन्तेन। तदेव विवृणोति– पुरोक्त इति। अयमर्थः– द्वौ खलु धूत्वा ‘धूत्वा शरीरम्’ इत्यत्र पुरोक्तौ। अभिसंभविता कश्चिदेको जीवः, अभिसंभाव्यस्तु परमपुरुष एव। ‘ब्रह्मलोकमभिसंभवानि’ इति ब्रह्मलोकशब्देन तस्यैवोपादानात्। ब्रह्मलोकशब्दस्य निषादस्थपतिन्यायेन सामानाधिकरण्येन परमपुरुषनिष्ठत्वात् स एवाभिसंभाव्यतया पूर्वोक्तः परमपुरुष एवायमुत्तरवाक्ये पुनराकाशशब्देनोच्यते। तेनाकाशशब्दस्य प्रकृतिपरामर्शित्वं सुस्थमेव। प्रधानतया प्रकृतस्य परमपुरुशस्योपादानात्। ननु ‘ब्रह्मलोकमभिसंभवानि’ इत्यत्र जीव एव मुक्तावस्थो ब्रह्मलोकशब्देनोच्यत नपुनः कादाचित्कं क्रियाविशेषसाध्यं" मुक्तरूपम्। तेन पूर्वावस्थाप्रहाणेनोत्तरावस्थाग्रहणमेव जीवस्य ब्रह्मत््वमुचितमित्यसंगतमेतत्। किंच भवता जीवस्य पूर्वममुक्तत्वमनीशत्वमब्रह्मत्वम्, मुक्तावस्थायां तस्यैव सर्वज्ञत्वमीशत्वं" ब्रह्मत्वमित्युच्यते, तत्छ्रुतिविरुद्धमेव। श्रुतिषु युगपदेव ‘ज्ञाज्ञौ द्वावजावीशनीशौ’ इति जीवब्रह्मणो र्विभक्तत्वेनाभिधानात्। अतो नित्यसिद्धबृहत्त्वबृंहणत्वगुणयोगी परमपुरुष एवाकाशशब्देनोच्यत इति सिद्धम्॥
मूलम् - 128

128.धूत्वेति प्राच्यवाक्यप्रकृत इह भवेन्मुक्त आकाशनामा
बन्धेऽसौ नामरूपे वहति तदनु च ब्रह्मभावे जहाति।
इत्यन्याय्यं पुरोक्तः पुनरयमभिसम्भाव्य एव ह्युपात्तो
ब्रह्मत्वन्न ह्यवस्था श्रुतिषु च युगपज्ज्ञाज्ञतादिर्विभक्तः॥

विश्वास-प्रस्तुतिः - 129

129.विश्वात्माऽनन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो
दह्रस्वाधारसर्वो हृदयपरिमितावस्थया सर्वयन्ता।
देवादीनामुपास्यो वसुमुखविबुधैस्स्वात्मभावेन सेव्य-
श्शूद्राद्योपास्त्यनर्हः प्रभुरिह बुबुधे नामरूपैककर्ता॥

३४-तमाहोबिल-यतिः - 129
  1. विक्ष्वात्मेत्यादि। विक्ष्वात्मा – विक्ष्वस्य जगत आत्मात्वेनाधारभूतः यस्मिन्धौः पृथिवी इत्यादिमुण्डकोपनिषद्वाक्यविषयकस्य घुभ्वाघाधिकरणस्यायमर्थः। अनन्तभुमा – अनन्तैक्ष्वर्यः। यत्रनान्यत् पश्यति इत्यादिच्छान्दोग्यसप्तमाध्यायवाक्यविषयकभूमाधिकरणार्थेऽयम्। नियमनधृतिकृत् – नियमनेन शासनेन सर्वकार्याधारः। एतास्य वा अक्षरस्य इत्यादिबृह्दारणयक विषयकाक्षराधिकरणस्यायमर्थः। दह्यस्वाधारसर्वः" –सूक्ष्मस्वाधारकसर्ववस्तुकः उभे अस्मिन्धावापृथी अन्तरेव समाहिते इत्यादिच्छान्दोग्याष्टमाध्यायवाक्यविष्यकदहराधिकरणार्थेऽयम्। ह्यदयपरिमिता वस्थया सर्वयन्ता –हृदयेन परिमिता इयतीति निक्ष्चिता या अवस्था अङ््गुष्ठमात्रत्वरूपा तया सर्वनियमनकर्ता। अङ्गुष्ठमात्रः" पुरूषः। र्इशानो भूतभव्यस्य इति कठवल्लीवाक्यविषयकप्रमिताधिकरणार्थेऽयम्। देनादीनामुपास्यः – अत्रादिशब्देनासुरराक्षसादिग्रहणम् देवानां दानवानां च सामान्यमधिदैवतम् इति हि स्मर्यते। प्रहृदादयक्ष्चमहत्तमा असुरेषु विभीषणादयो रक्षस्सु चित्रसेनादयो गन्धर्वेषु धण्टा कर्णादयः पिशाचेण्वन्येषु चान्ये भागवतोत्तमा हि सन्ति। अयं तदुपर्यपि इत्याघाधिकरणार्थः। वसुमुखविबुघैः स्वात्भावेन सेव्यः" – वसवो मुखमादिर्येषां वसुरूद्रादित्यमरूत्साध्यरूपाणां विबुघानां ते वसुमुखास्तेच ते विबुघाक्ष्च वसुमुखविधास्तैः स्वात्मभावेन स्वशरीरकत्वेन सेव्यः उपास्यः। असौ वा आदित्यो देवमधु तधत्प्रथममभृतं तद्धसव उपजीवन्ति अथ यद्दिवतोयमभृतं तद्रुद्रा उपजीवान्ति अथ यत् तृतीयममृतं तदादित्या उपजीवन्ति अथ यञ्चतुर्थममृतं तन्मरूत उपजीवन्ति अथ यत्पञ्चमममृतं तत्त्साध्या उपजीवन्ति, इत्यादिच्छान्दोग्यवाक्यविषयकस्य मध्वादिण्वसम्भवात् इत्यधिकरणस्यायमर्थः। शूद्राघोपास्त्यनर्हः —शुद्रदीनामुपासनानर्हः। अयं सुगस्य इत्यधिकरणार्थः। नामरूपैककर्ता– नामरूपयोरेको मुरज्यः कर्ता व्याकर्ता, आकाशो हवै नामरूपयोर्निर्वहिता, इत्यादिच्छान्दोग्याष्टमाध्यायवाक्यविषयकस्य आकाशोऽर्थान्तरत्वादि इत्याघधिकरणस्यायमर्थः। एवम्भूतः प्रभुः पुरूषोत्तमः। इह – प्रथमाध्यायतृतीयपादे। बुबुधे –बोघितः॥
कुमार-वरदः - 129
  1. उक्तानां दशानामधिकरणानां प्रधआनार्थभूतान् भगवद्गुणान् परिसञ्चष्टे– विश्वात्मेति। सर्वान्तर्याम्यनन्तैश्वर्यविशिष्टो नियमनेन सर्वकार्याधारो मुक्तैरुपभोग्यस्वभावः परिमिचपरिमाणरूपदह्रस्वाधारसर्वलोको हृदयपरिमितावस्थया सर्वयन्ता देवादीनीमुपास्यो वसुमुखैर्देवैः स्वान्तर्यामित्वेन सेव्यः शूद्रादीनामुपासनार्हो नामरूपैककर्ता प्रभुर्नारायण इह तृतीये पादे बुबुधे बोधित इत्यर्थः॥ ॥शुभम्॥
मूलम् - 129

129.विश्वात्माऽनन्तभूमा नियमनधृतिकृन्मुक्तभोग्यस्वभावो
दह्रस्वाधारसर्वो हृदयपरिमितावस्थया सर्वयन्ता।
देवादीनामुपास्यो वसुमुखविबुधैस्स्वात्मभावेन सेव्य-
श्शूद्राद्योपास्त्यनर्हः प्रभुरिह बुबुधे नामरूपैककर्ता॥