27 अपशूद्राधिकरणम्

विश्वास-प्रस्तुतिः - 125

125.जैमिन्युक्तापशूद्राधिकरणसरणेर्नास्ति विद्याग्निलब्धिः
शूद्रादीनान्तथाऽपि स्मृतिपरभजनाधिक्रिया जाघटीति।
श्रोतृत्वाद्भारतादेस्स्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं
प्राप्ते ब्रह्मोपदेशे ह्युपनयनपरामर्शनादि प्रसिद्धम्॥

३४-तमाहोबिल-यतिः - 125
  1. जैमिन्युक्ते इत्यादि।जैमिन्युक्तापशूद्राधिकरणसरणेः –पूर्वकाण्डे जैमिन्युक्तापशूद्राधिकरणमार्गेण। शूद्रादीनाम् —शूद्राणां" सङ्कीर्णजातानाञ्च। विद्याग्निलब्धिर्नास्ति – विद्याधिकारोऽग्न्यधिकारश्च नास्त्येव। तथापि– स्वाध्यायाध्ययनाधिकारेऽग्न्याधानाधिकारेचा विद्यमानेऽपि। भारतादेः श्रोतृत्वात् – ‘श्रावयेच्चतुरो वर्णान् कृत्वा ब्राह्मणमग्रतः’ इत्यादिशास्त्रानुमतात् ज्ञातव्यसर्वार्थोपपादनयुक्तमहाभारतरामायणाद्यर्थश्रवणात्। कर्तव्यभगवदुपासनादितत्त्वावगमलाभादिति भावः। स्वजनिसमुचितैः कर्मभिश्च –स्वजात्यनुगुणैः सत्यवचनब्राह्मणादिशुश्रूषानामकीर्तन तीर्थस्नानादिभिस्तत्कर्मभिश्च। स्मृतपरभजनाधिक्रिया जाघटीति- मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयेनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ इत्यादिस्मृतिसिद्धः परमात्मोपासनाधिकारः सम्यग्घटत एव। इत्ययुक्तम्- इत्याशङ्कनमयुक्तम्। ब्रह्मोपदेशे प्राप्ते उपनयनपरामर्शनादि प्रसिद्धं हि- ब्रह्मोपदेशकरणसमये ‘नैतदब्राह्मणो विवक्त्तुमर्हति समिधं सोम्याहर उप त्वा नेष्ये तं होपनिन्ये’ इत्याद्युपनिषद्वाक्योक्तरीत्या उपदेश्यस्य ब्राह्मणत्वाब्राह्मणत्वविचारपूर्वकमुपनयनपरामर्शनादिकमुदाहृतवाक्यादिषु ‘संस्कारपरामर्शात् तदभावाभिलापाच्च ’ इत्यादिसूत्रविषयभूतेषु प्रसिद्धं हि। शूद्रस्य च ‘न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हति’ इत्यादिनिषेधेनोपनयनाद्यभावात् तस्य ब्रह्मविद्यायां नाधिकार इति भावः॥
कुमार-वरदः - 125
  1. मनुष्यव्यतिरिक्तानां देवतानां वस्वादिदेवताविशेषाणां चार्थित्वसामर्थ्ययोस्संभवादधिकारोऽस्तीत्युक्तम्, तर्ह्यर्थित्वसामर्थ्ययोः" मनुष्यविशेषाणां शूद्रादीनामप्यधिकारः स्यादित्याशङ्क्या संगतिः। तदर्थविचारस्तु– किं ब्रह्मविद्यायां शूद्रस्याधिकारोऽस्ति नेति। किं तस्य तदुपंसहारसामर्थ्यमस्ति नेति। किं ब्रह्मविषयमनोवृत्तिरूपा ब्रह्मविद्या ऽनधीतवेदस्यापि संभवति नेति। किं वेदादेव ब्रह्मावगतिः, उतेतिहासपुराणादिनापि संभवतीति। किमितिहासपुराणादिनापि संभवतीति। किमितिहासपुराणयोर्वेदोपबृंहणं कुर्वतोरेव ब्रह्मावगतिहेतुत्वमुत स्वातन्त्र्येणेति। किं जानश्रुतेः पौत्रायणस्य शूद्रेत्यामन्त्र्य विद्योपदेश इतिहासपुराणयोर्निरपेक्षब्रह्मावबोधकत्वमुपोद्बलयति नेति। किमत्र शूद्रशब्दो वृषलजातिपर उत शुगस्येति विगृह्य ‘शुचेर्दश्च’ इति रक््प्रत्यययोगवृत्त्या शोकवत्परः। यद्यपि पूर्वकाण्डे भगवता जैमिनिना शूद्राणामग्निविद्ययोरभावात् कर्माधिकारो नास्तीत्युक्तम्। अथापि– मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ इति भगवद्वचनादधिकारशङ्कया पूर्वपक्षमाह–जैमिन्युक्तेति। ‘मां हि’ इति शूद्राणामधिकारित्वं भगवतैव स्मर्यते तस्मादधिकारो ऽस्ति इति। अथापि ज्ञानाभावे कथमुपासनं संयोयुज्यत इत्याशङ्कयाह– श्रोतृत्वादिति। अयमर्थः—वेदाध्ययनपूर्वकं भगवज्ज्ञानं मा भूच्छूद्रादेः। अथापि भारतादिश्रवपूर्वकमस्त्येव भारतादेः श्रोतृत्वात्—-श्रोतुं योग्यत्वादित्यर्थः। अस्तु ज्ञानं भारतादिश्रवणात् तथापि कर्मभिरपक्वकषायस्य कथं भगवतः सत्यवचनादुपासनं जायत इति पुनरप्याशङ्क्य निराकरोति–स्वजनीति। यथा ब्राह्मणादयः स्वाधिकारानुरूपैर्यज्ञादिभिः कर्मभिर्विद्याविरोधिपापनिबर्हणं" कुर्वते, एवं शूद्रोऽपि स्वाधिकारानुगुणैः" शुश्रूषादिभिर्ब्रह्मोपासनविरोधिपापनिबर्हणं कुर्यादित्यर्थः। इत्थं पूर्वपक्षमनूद्य निराकरोति– अयुक्तमिति। तत्र हेतुं दर्शयति–प्राप्त इति। ब्रह्मोपदेशे प्राप्ते सति ‘संस्कारपरामर्शात्तदभावाभिलापाच्च’ इत्यादिभिः सूत्रैरुपनयनसद्भावावश्यंभावः सूत्रकारैरेव प्रदर्शितः। अतस्त्रैवर्णिकानामेव ब्रह्मविद्यायामधिकारो न शूद्रादीनामित्यर्थः॥
मूलम् - 125

125.जैमिन्युक्तापशूद्राधिकरणसरणेर्नास्ति विद्याग्निलब्धिः
शूद्रादीनान्तथाऽपि स्मृतिपरभजनाधिक्रिया जाघटीति।
श्रोतृत्वाद्भारतादेस्स्वजनिसमुचितैः कर्मभिश्चेत्ययुक्तं
प्राप्ते ब्रह्मोपदेशे ह्युपनयनपरामर्शनादि प्रसिद्धम्॥

विश्वास-प्रस्तुतिः - 126

126.शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै
वेदार्थापातबुद्धिर्यदनधिकरणा नोपबृंह्येत तैस्सः।
विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ता
प्यस्प्रष्टव्यानि तस्मान्न हि विकलधियां स्यादुपासाधिकारः॥

३४-तमाहोबिल-यतिः - 126
  1. शूद्राणामित्यादि। शूद्राणां भारतादेः श्रवणं पापशान्त्यादिसिद्ध्यै अनुमतम्- उदाहृतस्मृतिवचनादौ शूद्राणां भारतादिश्रवणं" तन्मात्रेण पापनिवृत्त्युत्कृष्टजन्मलाभादिफलविशेष सिद्ध्यर्थमेवाभ्यनुज्ञातं न तु श्रौतार्थविशदीकरणार्थमित्यर्थः। कुत इत्यत्राह- वेदार्थापातबुद्धिर्यदनधिकरणा- वेदार्थविषयिणी संशयविपर्ययसहिष्णुतया जिज्ञासोत्पादनी आपातबुद्धिर्यच्छूद्रानाधारा। सः-शूद्रः। तैः- इतिहासपुराणादिभिः। नोपबृंह्येत- ज्ञानवत्तया नक्रियेत। शूद्राणां स्वसंवादेन इतिहासपुराणादिश्रवणं पापक्षयार्थमेव नपुनस्तत्तद्वेदवाक्यार्थविषयकसंशयविपर्यय निरासकनिश्चयात्मक तत्त्वज्ञानाभि वृद्ध्यर्थमिति भावः। यद्वा अधिक्रियतेऽनेनेत्यधिकरणं करणमेव वेदार्थापातबुद्धिरनधईतत्वेन यद्वेदकरणिका न भवति। सः- तथाऽनधीततयाऽनुत्पादितापातप्रतीतिको वेदः। तैः- इतिहासपुराणादिभिः। नोपबृंह्येत- तत्त्वज्ञानवर्धनाय न विशदीक्रियेत। आपातप्रतिपन्नार्थविशदीकरणं ह्युपबृंहणम्। शूद्रविषये त्वापातप्रतीतिजनकत्वाभावात् वेदस्योपबृंहणीयत्वं न युज्यते इति। किञ्च मुरभित्-श्रीकृष्णः। द्विसप्तापि विद्यास्थानानि- अङ्गानि वेदाक्ष्चत्वारे मीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रञ्च विधा ह्येताक्ष्चतुर्दश॥ इत्युक्तानि चतुर्दशापि विधस्थानानि। शुद्रैरस्प्रष्टव्यानि –नाध्येयानीति। पाण्डवाय युधिष्ठिराय। अकथयत् — ‘आदावेव मयोक्तानि पावनानि मनीषिणाम्। तस्मान्नैतानि शूद्राद्यैः स्प्रष्टव्यानि युधिष्ठिर॥’ इति व्यासवचनेन प्रतिपादयामासेत्यगम्यते। तस्मात् – भारतश्रवणादे र्वेदार्थज्ञानोपयोगित्वाभावात्।विकलधियाम्—अल्पज्ञानानां" शूद्रादीनाम्।उपासाधिकारो नहि स्यात् – भगवदुपासनाधिकारो न सम्भवत्येव हि। उपासनाविषयकयथावज्ज्ञानाभावान्नाधिकारः शूद्राणां" तास्विति भावः॥
कुमार-वरदः - 126
  1. शूद्रादीनां भारतादिश्रवणं किमर्थमनुमतमित्याशङ्क्याह–शूद्राणामित्यादिना। पापशान्त्यर्थं नपुनः श्रौतज्ञानार्थँ शास्त्रात् प्रतिपन्नार्थविशदीकरणाकरणार्थमित्यर्थः। तदेव विवृणोति– वेदार्थेति।वेदार्थापातबुद्धिः शूद्रस्य यदि स्यात् तदानीं शूद्र इतिहासपुराणैरुपबृंह्येत विशदज्ञानवान् परिकल्प्येतेत्यर्थः। नच शूद्रस्यापातबुद्धिरेवास्ति। तस्य ब्राह्मण्याभावादुपनयाभावः, तदभावाद्वेदाध्ययनाभावः। तस्मादापातप्रतीतिरेव नास्ति। सा पुनरापातप्रतीतिर्यदनधिकरणा यच्छूद्रानाधारा स शूद्र इतिहासपुराणैर्नोपबृंह्येत तत्त्वज्ञानवत्तया नोपहृंह्येतेत्यर्थः। तस्मादितिहासपुराणश्रवणं शूद्रस्य पापक्षयार्थमेव। नपुनस्तत्त्वज्ञानाभिवृद्धियर्थमिति। यद्वा वेदार्थापातबुद्धिरित्यादेरयमर्थः– वेदो हि द्विविधः अधीतोऽनधीतस्चेति। अधीतो ब्राह्मणादेः। अनधीतस्तु शूद्रस्य ,अधीतो वेद आपातप्रतीतिं जनयति अनधीतस्तु न जनयति। तथा च वेदार्थापातबुद्धिर्यदनाधिकरणा यस्मादनधीताद्वेदान्न जायते। सोऽनधीतो वेदस्तैरितिहासपुराणाद्यैर्नोपबृंह्येत । आपातुप्रतिपन्नार्थविशदीकरणं" ह्युपबृंहणम्। शूद्रविषयेत्वापातप्रतीतिजनकत्वाभावात् वेदस्योपबृंहणीयत्वं न युज्यत इति। किंच भगवानेव साक्षात् द्विसप्त चतिर्दश विद्यास्थानानि मया मनीषिणां पावनत्वेनोपदिष्ठानि शूद्रस्य न स्प्रष्टव्यानीति महाभारते पाण्डवायोवपादिशत् ‘आदावेव मयोक्तानि पावनानि मनीषिणाम्। तस्मान्नैतानि शूद्राद्यैः स्पष्टव्यानि युधिष्ठिम्॥“इति कथं तर्ह्यैतिहासिकानि पौराणिकानि च भगवत्स्तात्राणि शूद्रैः पठ्यन्ते?इत्थम्। केवलसंकीर्तनत्वेन तेषां पाठो न पुनर्वेदोपबृंहणत्वेनेति विभागः। तस्मादित्यादि—एवं वेदार्थज्ञानोपायाभावात् विकलधियामल्पज्ञानानां शूद्राणामुपासाधिकारो नेहि भवेदित्यर्थः॥
मूलम् - 126

126.शूद्राणां भारतादेश्श्रवणमनुमतं पापशान्त्यादिसिद्ध्यै
वेदार्थापातबुद्धिर्यदनधिकरणा नोपबृंह्येत तैस्सः।
विद्यास्थानानि शूद्रैर्मुरभिदकथयत् पाण्डवाय द्विसप्ता
प्यस्प्रष्टव्यानि तस्मान्न हि विकलधियां स्यादुपासाधिकारः॥

विश्वास-प्रस्तुतिः - 127

127.गीतं शूद्रादिकानामपि परभजनं केवलं स्वार्हधर्मै-
र्धर्मव्याधस्तुलाधृग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः।
वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति
क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य॥

३४-तमाहोबिल-यतिः - 127
  1. गीतमित्यादि। गीतम् – गीतायां ‘मां हि पार्थ’ इत्यादिवचनेन प्रतिपादितम्। शूद्रादिकानामपि परभजनम् —शूद्रादीनामपि परमात्मोपासनम्। स्वार्हधर्मैः केवलम् – स्वजात्यनुरूपैः मालाकरणदीपारोपणप्रदक्षिणनमस्कारोपलेपनादिरूपैर्धर्मैरेव, नतूपनिषद्विहितव्यवस्थितगुणविद्याविशेषावलम्बनेन।धर्मव्याधस्तुलाधृग्विदुर इति ये भारतादिषु प्रसिद्धास्ते च प्राग्भवाभ्याससिद्धाः— पूर्वजन्मारब्धविद्याभ्यासेनास्मिञ्जन्मनि सिद्धिं प्राप्तवन्तः। ‘विद्यारम्भदशायामेव त्रैवर्णिकजन्मापेक्षितम्। नत्वनुवृत्तभवान्तराधिगतविद्यास्सृतेस्तदभ्यासे’ ति तात्पर्यचन्द्रिकायामनुगृहीतमिह स्मर्तव्यमिति भावः। वक्ता – सर्वर्गविद्याया उपदेष्टा रैक्वः। जानश्रुतिम् – जानश्रुतिनामानं शिष्यम्। शूद्रेत्यभिमुखयन् —‘आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः’ इत्याद्युक्तरीत्या शूद्रेति सम्बोधनेन स्वोपदेशश्रवणेऽभिमुखीकुर्वन् सन्। अस्य शोकं व्यनक्ति —जानश्रउतेर्ब्रह्मविद्याऽलाभप्रयुक्तशोकविष्टत्वं प्रकाशयति। शुचेर्धातोः स्फायितञ्चीत्याद्यौणादिकसूत्रेण कत्वप्रत्ययानुवृत्तौ ‘अभितम्योर्दीर्धश्च’ इति सूत्रात् दीर्धानुवृत्त्योकारस्य दीर्धे ‘शुचेर्दश्च’ इति सूत्रेण रक्प्रतययसन्नियोगेन चरारस्य दकारे शऊद्र इति निष्पत्तौ केवलयौगिकेनानेन शूद्रशब्देन शोकाविष्टत्वमेवोच्यते न चतुर्थवर्णत्वमिति भावः।हि –यस्मात् कारणात्। क्षत्तृप्रैषादिलिङ्गैः” –‘सह सञ्जिहान एव क्षत्तारमुवाच’ इत्यादिवाक्यावगतैः क्षत्तू राजाज्ञप्तसारथ्यादिकार्यकारिणः सूतस्य रैक्वान्वेषणाय जानश्रुतिना यत्प्रेषणं ‘बहुदायी वहुपाक्यः’ इत्याद्यवगतं जनपदाधिपत्यादिकंच यत् तदादिभिः क्षत्रियत्वलिङ्हैः। तस्य – जानश्रुतेः। क्षत्रियत्वम् — क्षत्रियजातीयत्वम्। स्फुचतरविदितम् –स्पष्टतयाऽवगतम्। अतः शोकमेव व्यनक्तीति पूर्वेणान्वयः॥
कुमार-वरदः - 127

29.ननि शूद्रादीनामपि परभजनं ‘ब्राह्मणैः क्षत्रियैर्वैश्यैः ‘इत्यादिना ‘मां हि पार्थ व्यपाश्रित्य’ इत्यादिना चोक्तं तत्कथमुपपद्यत इत्याशङ्क्याह—गीतमिति । तदनुष्ठानं स्वजात्यनुरूपधर्मानुष्ठानेन मालाकरणदीपारोपणप्रदक्षिणनमस्कारोपलेपनादिमात्रेणेति न विरोधः। ननु तर्हीशूद्राणामुपासनाधिकारो नास्तीति भवद्भिरुच्यते तथा च सति धर्मव्याधादीनां ब्रह्मविद्यानुष्ठानश्रवणं न योयुज्यत इत्याशङ्क्याह—धर्मेति।धर्मव्याधस्तुलाधरो विदुर इत्येवमादयस्तु महानुभावाः पूर्वजन्माभ्याससंसिद्धाः न पुनरेतस्मिन्नेव जन्मनि वेदाभ्यासादिजनितज्ञाननवन्त इति तत्रापि न विरोधः। अस्त्वेतत्समाधानम्, असमाधेयमेतत् द्दश्यते यज्जानश्रुतेर्ब्रह्मविद्योप देशार्थ शूद्रेत्यामन्त्रणमित्याशङ्क्य तदप्यन्यथासिद्धनित्याह–वेक्तेति। जानुश्रुतिमभिमुखयन्नोचार्यो रैक्वः शूद्रेति वक्ता जानश्रुतेः शाकमेव व्यनक्ति नपुनः शूद्रजातित्वम्। शूद्रशब्दे रूढिं परित्यज्य योगः किमर्थमङ्गीक्रियते तथा च रथकान्यायविरोधः" रूढिपरित्यागोऽन्याय्य इति रथकारन्यायइत्याशङ्क्याह–क्षत्तृप्रैषादीति। क्षत्ता राजाज्ञाकर्ता तस्य प्रैषः प्रेषणम्।अयमर्थः-रैक्वपरिज्ञानार्थं" क्षत्तृप्रेषणेनान्यैरपि ‘उत्तरत्र चैत्रमथेन लिङागात्’ इत्यादिभिः सूत्रस्थैर्लिङ्गैर्जानश्रुतेः क्षत्रियत्वं स्फुटतरविदितमेव। ततश्च ‘शुचेर्दश्च’ इति व्युत्पत्त्या ‘शोचनाच्छूद्रः’ इति निरुक्तेन च शूद्रशब्दो जानश्रुतौ प्रयुज्यते नपुनः शूद्रजातित्वेनेति निर्णय इति॥

मूलम् - 127

127.गीतं शूद्रादिकानामपि परभजनं केवलं स्वार्हधर्मै-
र्धर्मव्याधस्तुलाधृग्विदुर इति च ते प्राग्भवाभ्याससिद्धाः।
वक्ता शूद्रेति जानश्रुतिमभिमुखयञ् शोकमस्य व्यनक्ति
क्षत्रप्रेषादिलिङ्गैस्स्फुटतरविदितं क्षत्रियत्वं हि तस्य॥