26 मध्वधिकरणम्

विश्वास-प्रस्तुतिः - 124

124.स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथाऽपि
स्वस्यैवाराद्ध्यभावस्स्वपदमपि फलं यत्र नात्राधिकारः।
मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः
कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ॥

३४-तमाहोबिल-यतिः - 124
  1. स्यादेवमित्यादि। एवम् –‘तदुपर्यपि’ इत्याद्युक्तार्थित्वसामर्थ्यादिस्थापनाक्रमेण। मनुज इव –मनुष्याणामिव।देवमात्रे –सामान्येन देवानाम्।परोपास्तिमात्रं स्यात् –परमात्मोपासनसामान्यमधिकार्यमस्तु। तथापि – एवमङ्गीकारेऽपि।यत्र — यस्मिन्नुपासने।स्वस्यैवाराध्यभावः" — वस्वादिरूपस्य देवस्य स्वस्यैवोपास्यत्वं शास्त्रावगतम्।किंच फलमपि स्वपदम् – यस्मिन्नुपासने फलमपि वसुत्वादिस्वपदप्राप्तिरूपमेव शास्त्रावगतम्।अत्र – एतादृशोपासने। अदिकारो न – उपास्यतया श्रुतानां देवतानामधिकारो नास्त्येव।स्वस्य स्वोपासकत्वासम्भवात् लब्धस्य च स्वपदस्य लब्धव्यत्वासम्भवादिति भावः। मैवम् – एवं मा शङ्किष्ठाः। मुक्तिकामाः – मुमुक्षव एव वस्वादिदेवाः। सर्वान्तरात्मा स्वतनुभृदिति चोपासते –स्वात्मिकां तनुं बिभर्तीति स्वतनुभृत्। सर्वान्तरात्मत्वेन स्वात्मशरीरकत्वेन च परमात्मानमुपासते। अतः परमात्मप्रधानस्य स्वात्मनो नोपासनानधिकारः। स्वपदं फलमपि – अस्मिन्कल्पेऽस्मिन्मन्वन्तरे वा स्वेनावाप्तं यद्वसुत्वरूपं पदं स्थानं तदात्मकं तादृशोपासनफलमपि। कामात् – उपासनदशायां वसुत्वादिपदप्राप्तिपूर्वकमोक्षकामनावशात्। कल्पमन्वन्तरादौ —- विद्यमानवसुत्वादिपदनिवृत्तिकालभूते कल्पान्तरे मन्वन्तरे वा। आवर्तते — पुनरावर्तते।विद्यमाने वस्त्वादिपदे एतन्मन्वन्तरावसाने निवृत्ते सति इदानीं क्रियमाणोपासनाविशेषबलेनागामिनि मन्वन्तरादौ पुनर्वस्वादिपदं लभ्यते तेन लब्धस्य लभ्यत्वानुपपत्तिर्नाशङ्क्येति भावः॥
कुमार-वरदः - 124
  1. पूर्वस्मिन्नधिकरणे देवतासामान्यस्य भगवदुपासनाधिकारश्चिन्तितः, इदानीं पुनर्देवताविशेषस्योपासनाविशेषाधिकारो निरूप्यत इति संगतिः। यद्वा पूर्वत्राधिकारसंभव उक्तः अधुना मध्वादिविद्यायामेतदसंभवेन पूर्वपक्षोत्थानमिति संगतिः। तदर्थविचारस्तु मध्वादिविद्यासु या देवतोपास्या तासु किं तस्या अधिकारोऽस्ति उत नेति। किं तस्यास्तद्विद्योपसंहारसामर्थ्यमस्ति उत नेति। किं मधुविद्यायां" वस्वादिदेवतामात्रमुपास्यमुत तदवस्थं ब्रह्मेति। किं वसुत्वमात्रं विद्या फलमुत ब्रह्मप्राप्तिपर्यन्तं वसुत्वमिति। अत्र संगत्यभिधानगतर्भं" पूर्वपक्षप्रकारमनूद्य तत्र पूर्वपक्षेण विरोधद्वयमाशङ्क्य परिहरति—स्यादेवमिति। मनुष्येष्विव देवतासामान्ये परमपुरुषपासनसामान्यमेवं भवत्येव तथापि मध्वादिषु केषुचिदुपासनेषु यासां देवतानामुपास्यत्वं न स्यात्। तथा च यासां" देवतानां प्राप्यतादिनिवेशस्तासामेव देवतानां प्राप्तृत्वं विरुद्धमेव। तथचोपास्योपासकयोः कर्मकर्तृविरोधेन मध्वादिषुदीनामधिकारो न स्यात्। शब्दार्थस्तु-वस्वादिभुज्यमानस्यादित्यस्याराध्यभावात् विशेषणतया निविष्टस्य वस्वादेराराधकभावो विरुद्ध एव। तथा च वसुप्राप्तिपूर्वकपरमात्मप्राप्तेः" फलत्वात् स्यादेव पूर्वमेव विद्यमानवस्वादीनां वसुपदस्याप्राप्यत्वात्तत्रापि विरोध एव। तेन तत्राधिकार एव नस्यादिति। उक्तमिमं" पूर्वपक्षं निराकरोति—मैनमिति। तत्रोपासनविरोधं तावत्परिहरति—सर्वान्तरात्मेति।न केवलं स्वात्मेपास्यः अपि तु स्वविशिष्टः" परमात्मा तेन परमात्मप्रधानस्यात्मनो नोपासनानधिकारः। नच फलप्राप्तावपि विरोध इत्याह—कामादिति। वसुत्वेन वर्तमानस्य वर्तमानमेव वसुपदं फलञ्चेत् तदा ह विरोधः स्यात्। अत्र हि कल्पान्तरे मन्वन्तरेऽपि वसुपदप्राप्तिःफलत्वेन प्राप्यते। तथा च को विरोध इति॥
मूलम् - 124

124.स्यादेवं देवमात्रे मनुज इव परोपास्तिमात्रे तथाऽपि
स्वस्यैवाराद्ध्यभावस्स्वपदमपि फलं यत्र नात्राधिकारः।
मैवं सर्वान्तरात्मा स्वतनुभृदिति चोपासते मुक्तिकामाः
कामादावर्तते तु स्वपदमपि फलं कल्पमन्वन्तरादौ॥