25 देवताधिकरणम्

विश्वास-प्रस्तुतिः - 118
  1. शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या
    ब्रह्मोपासेत्यनार्षं श्रुतपरिहरणं कल्पनं चाश्रुतस्य।
    विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रै-
    निर्बाधैस्स्थापितः प्राक् स्वयमपि विभुना नैव शक्यापलापः॥
३४-तमाहोबिल-यतिः - 118
  1. शब्दात्मेत्यादि। इयं देवता — ब्रह्मोपासनाधिकारविचारविषयभूता देवता।शब्दात्मा – ‘इन्द्राय स्वाहा ’ इत्यादिवेदवाक्येषु यश्तुर्थ्यन्त इन्द्रादिशब्दस्तत्स्वरूपैव। अथ वा —- पक्षान्तरे। लौकिकार्थाकृतिः — लोकप्रसिद्धाग्न्यादिरूपार्थस्वरूपाऽस्तु। अतः — देवताया अचेतनशब्दादिरूपत्वेन चेतनकृत्यानर्हत्वात्। तस्याः — देवतायाः। ब्रह्मोपासा न — ब्रह्मोपासनं न सम्भवति। इत्यनार्षम् — इति कथनमवैदिकम्। वैदिकगोष्ठ्यनर्हमित्यर्थः। ‘एतं ह वाव तदृषिरभ्यनूवाचेन्द्रो दधीचो अस्थभिः ’ इत्यादौ ऋषिशब्दस्य वेदे प्रयोगोऽवगन्तव्यः। श्रुतपरिहरणमश्रुतस्य कल्पनञ्च — ‘वायव्यं श्वेतमालभेत भूतिकामोै वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति’ ‘स एनं प्रीतः प्रीणाति’ इत्यादिवाक्येषु फलसाधनतया श्रुतस्य देवताप्रीत्यात्मकस्यार्थस्य परिहरणं त्यागः, अश्रुतस्य श्रुतिवाक्यानवगतस्यैवापूर्वादेः कालान्तरभाविफलसाधनत्वेन कल्पनञ्च। समापततीति शेषः। श्रुतहानाश्रुतकल्पनयोरन्तजघन्यत्वादिति भावः। ननु विश्वस्रष्ट्रीं देवतामनुमिनुम इत्यस्मद्वचनं शास्त्रयोन्यधिकरणे न्यषेधि, अत्र सा कथं सेत्स्यतीत्यत्र प्रत्युच्यते –विश्वस्रष्टेत्यादिना। विश्वस्रष्टा अनुमितिविषयो मा भूच्च — जगन्निर्माता परदेवतात्मा परमात्मा भवद्बुद्धिसिद्धानुमितिगोचरो मा भूत्, न तावता कापि हानिरिति भावः। तर्हि परदेवतास्तिता केन प्रमीयेतेत्यत्राभिदधाति—–तत्परैरित्यादि।एष तु — परमात्मा तु। तत्परैर्निर्बाधैः शास्त्रैः प्राक् स्थापितः — परमात्मनि तात्पर्यशालिभिः प्रमाणान्तरबाधशून्यैश्च ‘सत्यं ज्ञानमनन्तं" ब्रह्म।यो वेद’ इत्यादिशास्त्रैरेव प्रमाणमूर्धाभिषिक्तैः शास्त्रयोन्यधिकरण एव प्रतिष्ठापितः। विभुना स्वयमपि शक्यापलापो नैव – स एष सर्वशक्तिः स्वयमप्यस्मत्समक्षं स्वात्मानं नास्तितयाऽपलपितुं न शक्नोत्येव। अतः परदेवताऽसिद्धिशङ्कया नावकाश इति भावः॥
कुमार-वरदः - 118
  1. पूर्वस्मिन्नधिकरणे ‘हृद्यपेक्षया तु मनुष्यादिकारत्वात्’ इति ब्रह्मोपासनस्य मनुष्याधिकारत्वमुक्ततम्। तर्हि देवादीनां ब्रह्मविद्यायामधिकारो न स्यादित्याशङ्कया संगतिः। तदर्थविचारस्तु किं ब्रह्मविद्यायां देवादीनामधिकारोऽस्ति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थावादानां" तत्परत्वं संभवति नेति। किं तेषां" विग्रहवत्त्वं संभवति नेति। किं तद्विग्रहप्रतिपादकानां मन्त्रार्थवादानां तत्परत्वं संभवति नेति। किं मन्त्रार्थवादानामनुष्ठेयार्थप्रकाशनस्तुतिपरत्वाभ्यां" प्रतीयमानविग्रहरपरत्वाविक्षा शक्याभिधाना नेति। किं" विग्रहवत्त्वमनुष्ठेयार्थप्रकाशनस्तुत्युपयोगि नेति। अत्र देवताधिकरणपूर्वपक्षमुक्त्वा प्रतिक्षिपति–शब्दात्मेति। चतुर्थ्यन्तःशब्द एव देवता अथवा लौकिकाग्न्यादिरर्थ एव यद्वा अर्थोपश्लिष्टशब्दो देवता अथस्तस्या ब्रह्मोपासनं न संभवतीति।अनार्षम्–अवैदिकमित्यर्थः। देवताया अभावे सति देवतायाः फलप्रदत्वमेव न स्यात्। तथा च ‘स एवं प्रीतः प्रीणाति’ इति श्रुताया देवतायाः प्रीतेः परिहरणं परित्आगः" स्यात्। अश्रुतस्य अपूर्वस्य कल्प्यस्य वाच्यस्य वा मतभेदेन परिकल्पनं भवेत्। तच्चायुक्तमेव श्रुतहानाश्रुतकल्पनयोरत्यन्तजघन्यत्वात्। नन्वेवं सति शास्त्रयोन्यधिकरणे निरस्तमीश्वरानुमानं तत्कथमत्र देवताङ्गीकारः? ईश्वरस्यापि देवतान्तर्भावादित्याशङ्क्य परिहरति–विश्वस्रष्टेति। तत्रेश्वरस्यानुमानिकत्वं निरस्यतेऽस्माभिः न पुनरागमिकत्वम्, तेन प्राक् शास्त्रयोन्यधिकरणे निर्बाधैस्यात्पर्यशालिभिः शास्त्र स्थापितः परमपुरुषस्तेनापि सर्वशक्तिनाऽपलपितुमशक्यः । तेनागमिकेश्वरवादिनामस्माकं न कोऽपि दोष इति॥
मूलम् - 118
  1. शब्दात्मा लौकिकार्थाकृतिरियमथवा देवतातो न तस्या
    ब्रह्मोपासेत्यनार्षं श्रुतपरिहरणं कल्पनं चाश्रुतस्य।
    विश्वस्रष्टा च मा भूदनुमितिविषयस्तत्परैस्त्वेष शास्त्रै-
    निर्बाधैस्स्थापितः प्राक् स्वयमपि विभुना नैव शक्यापलापः॥
विश्वास-प्रस्तुतिः - 119
  1. सामर्थ्यं देवतानामुचिततनुभृतामर्थिता तापभाजां
    सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः।
    ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधाद्यभावे
    मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति ॥
३४-तमाहोबिल-यतिः - 119
  1. सामर्थ्यमित्यादि। उचिततनुभृतां देवतानां सामर्थ्यं सम्पद्येत — ‘उचिततनुभृतां वज्रहस्तः पुरन्दरः तेनेन्द्रो वज्रमुदयच्छत्’ इत्यादिप्रमाणानुसारेण पटुतरकरणकलेबरयुक्तान देवतानां जन्मसामर्थ्यं कर्मसामर्थ्यं बुद्धिसामर्थ्यमिति त्रिविधमपि सामर्थ्यं संपद्येत सिध्येदेव। तापभाजां देवतानामर्थिता सम्पद्येत — वेदापहारगुरुपातकदैत्यपीडामेघनादपराजयमूलकाध्यात्मिकाधि भौतिकादितापयुक्तानां" तासां सर्वदुःखसामान्यनिवृत्तिमन्मोक्षाख्यफलापेक्षारूपाऽर्थितापि सम्भाव्येत। इति – एवमधिकारविशेषसिद्धेः। तासामपि परोपास्तिवर्गाधिकारो भवति —– तासां देवतानामपि परमात्मोपासनवर्गे योग्यता भवत्येव। मन्त्रार्थवादप्रभृतिषु निखिलं ख्यातम् — ‘वज्रहस्तः’ इत्यादिरूपेषु मन्त्रेषु, अर्थवादेष्वन्येषु ब्राह्मणादिषु चापेक्षितं देवतानां विग्रहविरादानज्ञानशक्त्यादिकं सर्वमपि प्रसिद्धमेव। बाधादोषाद्यभावे – प्रमाणान्तरबाधकारणदोषव्याघातादीनामभावे। मिथ्येत्युद्धोषयन्तः — देवताविग्रहादीकं मिथ्येति निरर्थकशब्दकारिणो निरीश्वरमीमांसकाः। कथिताम् – मीमांसारम्भे स्वप्रतिपादिताम्। स्वतोमानताम् — वेदस्य स्वतःप्रामाण्यम्। इह – देवताविग्रहविचारसमये। विस्मरन्ति — न स्मरन्तीत्यर्थः। अन्यथा कथं श्रुतुप्रतिपन्नाबाधितार्थापलाप इति भावः॥
कुमार-वरदः - 119
  1. अर्थित्वसामर्थ्योः सद्भावात् देवतानामुक्तमेवाधिकारं विशेषेण स्थापयति–सामर्थ्यमिति। अर्थी समर्था विद्वान् शास्त्रेणापर्युदस्त इति चातुर्विध्येनाधिकार उच्यते। अथवाऽर्थित्वं सामर्थ्यं चेति द्विधेवाधिकारः। सामर्थ्यं पुनस्रिधा जन्मसामर्थ्यं कर्मसामर्थ्यं" बुद्धिसामर्थ्यं चेति, तदेततसर्वमपि देवतानामस्तीत्युच्यते–उचिततनुभृतामिति। शरीरसंबन्धस्य प्रमाणप्रतिपन्नत्वात् बुद्धिसामर्थ्यं" कर्मसामर्थ्यं चास्त्येव। दृश्यते हि क्वतिज्जन्मान्तराविस्मरणाद् बुद्धिसामर्थ्यम्, क्वचिदुपदेशाच्च। श्रूयते हीन्द्रादीनां" ब्रह्मविद्योपदेशः। जन्मसामर्थ्यं सत्त्वोत्पत्तिशरीरपरिग्रहादेव। अर्थित्वं तु तापत्रयाभिहतत्वादेव सम्पद्यत इति तासामपि देवतानां भगवदुपासनवर्गाघिकारो भवत्येव। अत्र निरीश्वरमीमांसकाः प्रत्यवतिष्ठन्ते देहादीनामनुपलब्धं तदेव हि प्रख्याप्यते वेदेनेति तान्त्रिकमर्यादा। तथा च प्रमाणान्तराप्रतिपन्नार्थप्रत्यायकमन्त्रार्थवादप्रमितं सकलमपि देवताविग्रहादिकं कारणदोषबाधकप्रत्ययाभावे सति तथ्यमित्यङ्गीकरणीयम्, ये पुनस्तन्मिथ्येत्युद्घोषयन्ति निरीश्वरमीमांसकाः ते तु स्वोक्तमेव वेदस्य स्वतःप्रामाण्यं विस्मरन्ति। स्वत एव प्रामाण्यं, परतः पुनरप्रामाण्यमिति हि मीमांसकानां मर्यादा। परं पुनः कारणदोषादिकं तत्र नास्तीत्यर्थः॥
मूलम् - 119
  1. सामर्थ्यं देवतानामुचिततनुभृतामर्थिता तापभाजां
    सम्पद्येतेति तासामपि भवति परोपास्तिवर्गाधिकारः।
    ख्यातम्मन्त्रार्थवादप्रभृतिषु निखिलं दोषबाधाद्यभावे
    मिथ्येत्युद्धोषयन्तस्स्वत इह कथिताम्मानतां प्रस्मरन्ति ॥
विश्वास-प्रस्तुतिः - 120
  1. द्वेधा वृतिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदर्थ्या
    निर्धार्यः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः।
    रुच्यर्थायां च तस्यामनृतकथनतो रोचना न ह्यमुग्धे
    भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेर्निवृत्त्यै ॥
३४-तमाहोबिल-यतिः - 120
  1. द्वेधेत्यादि। स्तुतौ — सर्वत्र वेदे वा लोके वा गुणगुणिसम्बन्धाभिधानरूपे स्तुतिसामान्ये। वृत्तिः – प्रवृत्तिः। स्वपरगुणमुखी — स्वगुणद्वारिका परगुणद्वारिका चेति। द्वेधा स्यात् – प्रकारद्वयशालिनी स्यात्। तत्र प्राक्तनी — स्वगुणद्वारिका स्तुतिः। अर्थ्या तावत् — ‘यावत्तावच्च साकल्येऽबधौ मानेऽवधारणे’ इति कोशात् तावच्छब्दोऽवधारणार्थः। अर्थादनपेतैव सार्थिकैव खल्वित्यर्थः। ईदृशी स्तुतिस्तु ‘अपहतपाप्मा विजरः’ इत्यारभ्य ‘सत्यकामस्सत्यसङ्कल्पः’ इत्यादिरूपा। पश्चिमायामपि — परगुणद्वारिकायामपि स्तुतौ।निपुणधिया – सूक्ष्मार्थविवेचनसमर्थबुद्धिशालिनाः पुरुषेण। मुख्यधर्मैकदेशो निर्धार्यः" —– त्वमिन्द्रश्चन्दर इत्यादिरूपेषु स्तुतिवचनेषु स्तव्ये पुरुषे परमैश्वर्येसर्वजनाह्लादकत्वादिधर्मपौष्कल्याभावेऽपि इन्द्रचन्द्रादिरूपस्तुतिघटकपदमुख्यार्थभूत निरुक्ततत्तद्गुणैकदेश एव स्तुतिप्रवृत्तिनिमित्तमित्यवधार्थः। तथा च तादृशस्तुतिवचनान्यौपचारिकाणि न त्वेकान्ततो ऽर्थशून्यानि तथा सति सर्वत्र प्रवर्तितव्यत्वात्, तथा लोकेऽदर्शनादिति भावः। रूच्यर्थयां तस्यां च – ओषधादिविषये बालोपच्छन्दनार्थायां तस्यां" स्तुतौ। अनृतकथनतः – अमृतमिदमौषधं पिबेत्यादिरूपानृतवचनेन । अमुग्धे —- मोहरहिते बालादौ। रोचना नहि —औषधे अमृतत्व बुद्धिपूर्विकारूचिर्नैव भवति इदं प्रसिद्धं खलु। तथा च स्तुतिकार्यरूच्यसम्पादनात् स्तुतित्वाभावोऽवगत एवेति भावः। मुग्धे तु परमार्थविषयत्वभ्रमादेव रुचिजननम्, रज्जौ सर्पत्वभ्रान्त्या भयजननेऽपि रज्जुः परमार्थसर्पो भवतीति भावः। भूताथ का स्तुतिः स्यादिति मुनिगदितं गौणतादेर्निवृत्त्यै —- ‘भूतार्थे कतमा स्तुतिः’ इत्यादिरूपं परमार्थविषयस्तुतेः स्तुतित्वाक्षएपकं मुनिवचनं तु औपचारिकस्तुतित्वनिवृत्त्यर्थं न तु सर्वथा पारमार्थ्यं निषिध्यत इत्यर्थः। ‘भूतार्थव्याहृतिस्सा हि ’ इति तु परमेष्ठिनः स्तुतिरौपचारिकी न भवति अपि तु पारमार्थिकीत्येवतदर्थकमिति भाव्यम्॥
कुमार-वरदः - 120
  1. अत्र कश्चिदाह–अर्थवादादेः स्तुतिपरत्वमुच्यते तान्त्रिकैः, अर्थपारामार्थ्ये स्तुतित्वं बाध्यत इति। इमामाशङ्कां परिहरति–द्वेधा वृत्तिरिति। गुणेन गुणिनः सम्बन्धाभिधानं हि स्तोत्रम्। तद् द्विविधं मुख्यमौपचारिकं चेति। मुख्यं तावद्यथार्थम्–‘अपहतपाप्मा विरजः’ इत्यादिकम्। औपचारिकं तु राजादिविषयं त्वमिन्द्रश्चन्द्र इत्यादिकम्। तत्रापि तत्तदिन्द्रचन्द्रादिगुणसम्बन्धकथनं परमार्थविषयमेव, तदेतत्सर्वमत्र पूर्वोर्धेनोक्तम्। तथाहि। स्तुतौ द्वेधावृत्तिः स्वगुणमुखी काचित् परगुणमुखीचान्या। तत्र प्राक्तनी तावदर्थ्या अर्थादनपेता। पश्चिमायामपि स्तुतौ मुख्यधर्मैकदेशो निपुणधीभिरनुमन्तव्यः। ननु बालोपच्छन्दनार्थमनृतमपि कथ्यते तच्चौषधादिस्तुतिरूपं, तन्मिथ्यैव अतः स्तुतिमिथ्यात्वं दृष्टमेवेत्याशङ्क्याह–रुच्यर्थायामिति। अयमर्थः– यत्र रुच्यर्थमप्यनृतमुच्यते तत्रापि श्रोता न मुग्धश्चेत् अनृतकथनतः प्ररोचना नैव सिध्यति। मुग्धश्चेत् परमार्थविषयत्वप्रतिपत्त्यैव तद्वाक्यं तस्मै रोचते। अतोऽर्थपारमार्थ्यं स्तुत्युपयुक्तमेव। ननु भूतार्थे का स्तुतिः स्यात् इति मुनिभिरुक्तम्, कविभिरपि ‘भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः’ इति, ततः स्तुतेः पारमार्थ्यं नास्तीत्युच्यते;तन्न औपचारिकनिवृत्त्यर्थत्वात्तद्वाक्यस्य। नपुनः सर्वथा पारमार्थ्यं निषिध्यते स्तुतीनाम्। परमेष्ठिनस्तुतित्वौपचारिकस्तुतिर्न भवति, अपि तु तात्त्विकीत्यर्थः॥
मूलम् - 120
  1. द्वेधा वृतिः स्तुतौ स्यात् स्वपरगुणमुखी प्राक्तनी तावदर्थ्या
    निर्धार्यः पश्चिमायामपि निपुणधियाम्मुख्यधर्मैकदेशः।
    रुच्यर्थायां च तस्यामनृतकथनतो रोचना न ह्यमुग्धे
    भूतार्थे का स्तुतिस्स्यादिति मुनिगदिता गौणतादेर्निवृत्त्यै ॥
विश्वास-प्रस्तुतिः - 121

121.नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनर्हा-
स्तत्तद्वृत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात्।
काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धे-
रीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान्॥

३४-तमाहोबिल-यतिः - 121
  1. नानादेहेत्यादि।नानादेहाप्तिशक्ताः —- युगपदिच्छानुसारेणानेकदेहप्रवेशतदधिष्ठान शक्तियुक्ता देवताः। इह – लोके। कथं युगपत्कर्मसन्निध्यनर्हाः" — एककालक्रियमाणनानायज्ञकर्मस्वात्मानं संनिधापयितुं कथमनर्हाः स्युः। तत्तद्वृत्तान्तसत्त्वे —एकैकमन्वन्तरादिपरिमितकालवर्तिसशरीरेन्द्रादिव्यावपारवृत्तान्तसम्बन्धेऽपि।श्रुतिषु — वेदेषु। प्रवाहात् – पूर्वपूर्वेन्द्रादिसजातीयेन्द्रादिपरम्पराया यावदुत्तरकालानुवृत्तेः। अनित्ययोगो न भवति —तादृशप्रवाहस्य नित्यत्वेनानित्यार्थसंयोगप्रसङ्गो न भवति।वेदनित्यत्वसिद्धेः — कर्तृस्मरणाभावसहितेन ‘वाचा विरूपनित्यया’ इत्यादिप्रमाणबलेन वेदानां नित्यत्वस्य सिद्धत्वात्। काण्डादौ — काण्डेषु विषये।कर्तृवादः —-प्रजापतिसोमाग्निविश्वदेवानां कर्तृत्वप्रवादः। ‘मन्त्रकृतो वृणीते नम ऋषिभ्यो मन्त्रकृद्भ्यः अयं सो अग्निरिति विश्रामित्रस्य सूक्तं भवति’ इत्यादिषु मन्त्रकृत्त्वसूक्तकृत्त्वप्रवादः" सर्वोऽप्ययम्। प्रवचननियतः – काण्डादिप्रवचनतः प्राप्तः। न तु कर्तृत्वात्। वर्णसर्गेऽपि — निरीश्वरवादिन इव वेदान्तिनो वर्णनित्यत्वानङ्गीकारेण वर्णानामहङ्कारतत्त्वात् सृष््ट्यङ्गीकारेऽपि।ईशः – पुरुषोत्तमः। प्राचीनकल्पक्रमतः —-पूर्वपूर्वकल्पेषु यादृशानुपूर्वीविशिष्टो वेदाक्षरराशिः उत्तरोत्तरकल्पेष्वपि तादृशानुपूर्वीविशिष्टक्रमेणैव। वेदानुपदिशेत् – ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इत्युक्तरीत्या स्वपुत्राय चतुर्मुखाय स्वयमुपदिशेत्। ततः स च नवप्रजापत्यादिपरम्परया लोके वेदान् प्रवर्तयतीति भावः॥
कुमार-वरदः - 121
  1. अत्र ‘विग्रहो हविरादानम्’ इत्यादिना विग्रहादिपञ्चकनिरासेन देवतानामधिकारो ब्रह्मविद्यायां नास्तीति प्रलापं प्रत्याचष्टे—-नानेति। नानादेहपरिग्रहसमर्था देवादय इति श्रुतिपुराणादिषु प्रसिद्धमेव तेन तादृशशक्तियुक्तानां देवतानां युगपत्कर्मसन्निधिः कथमिव न संयोयुज्यते। ननु सविग्रहाणां देवतानां तद्व्यापाराणां च प्रतिपादने तासामनित्यत्वात् श्रुतीनां नित्यत्वात् नित्यानित्यसंयोगदोषः" प्रसज्येतेत्याशङ्क्य परिहरति–तत्तदिति।तत्र हेतुमाह–प्रवाहादिति। अनित्येष्वपि देवताविग्रहेषु तत्तद्वृत्तान्तेषु तादृग्विधेषु अनित्यसंयोगदोषो नास्ति श्रुतीनाम्, इन्द्रादिप्रवाहादिविषयत्वात्। तर्हि श्रुतीनां नित्यत्वमुच्यते भवद्भिः.तन्नोपपद्यते काठकं विश्वामित्रस्य सूक्तमित्यादिषु , सकर्तृकत्वं प्रतीयते। नेत्याह–काण्डादाविति। श्रुतिषु केषांचित् कर्तृत्ववादः प्रवचनादेव। नपुनः साक्षात्कर्तृत्वेन । तत्कथमितिचेत्तत्र हेतुमाह–वेदेति। वेदनित्यत्वस्य प्रमाणप्रतिपन्नत्वादित्यर्थः। अस्तु मध्ये वेदप्रवर्तकत्वमेव व्यासविश्वामित्रादीनाम्। आदिकल्पे भगवानेव वेदं विविधं करोतीति ‘तस्य ह वा एतस्य महतो भूतस्य निश्वसितमेतत् ’ इत्यादिभिः श्रतिभिः प्रतिपन्नमित्याशङ्क्य परिहरति–ईश इति।‘धाता यथापूर्वमकल्पयत्’ इति भगवतोऽपि पूर्वकल्पक्रमेण प्रवर्तकत्वमभिधीयते।यद्यपि वेदो भगवच्छासनम्,तथापि भगवतो नित्यमेकरूपेण वाक्येन प्रशासितृत्वान्नित्यत्वं नापभ्रश्यतीति भगवच्छासनमत्ववादः।अत्र वर्णसर्गेऽपीति वर्णेष्वनित्यमङ्गीक्रियते तेन वर्णनित्यात्ववादिभ्यो निरीश्वरमीमांसकेभ्यो भेदः सिद्ध्यति॥
मूलम् - 121

121.नानादेहाप्तिशक्ताः कथमिह युगपत्कर्मसन्निद्ध्यनर्हा-
स्तत्तद्वृत्तान्तसत्त्वे श्रुतिषु भवति नानित्ययोगः प्रवाहात्।
काण्डादौ कर्तृवादः प्रवचननियतो वेदनित्यत्वसिद्धे-
रीशः प्राचीनकल्पक्रमत उपदिशेद्वर्णसर्गेऽपि वेदान्॥

विश्वास-प्रस्तुतिः - 122

122.वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा
मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात्।
इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे
पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतान्नः॥

३४-तमाहोबिल-यतिः - 122
  1. वेदानामित्यादि। कल्पभेदे —चतुर्मुखदिनभूते चतुर्युगसहस्तरकालात्मके एककल्पेऽतीते पुनस्तादृशे कल्पान्तरे प्राप्ते। ईशबुद्ध्या — ईश्वरबुद्धिवशेन। वेदानां क्रमनियमहतिरिष्टा यदि -‘अग्निमीले’ ‘इषे त्वा’ ‘अग्न आयाहि’ ‘शन्नो देवीः’ इत्येवमारभ्य क्रमविशेषविशिष्टतयैव नियमेन सावधानैरध्यापकैः पठ्यमानानामृग्यजुस्सामाथर्वनाम्नां वेदाख्याक्षरराशीनां आनुपूर्वीनियमान्यथाकरणमभिमतं यदि। ‘प्रतिमन्वन्तरं" चैषा श्रुतिरन्या विधीयते’ इत्युक्तवचनापातप्रतीतिरीत्या एकस्मिन् कल्पादावेकानुपूर्वी कल्पान्तरेचान्यादृशी नत्वेकैवानुपूर्वीति नियम इत्यङ्गीक्रियते यदि। मन्त्रांशानां तथा स्यात् – मन्त्रांशानामानुपूर्व्यन्यथआकरणम्। उचितं न खलु –युक्तं न किल। कुतः? व्रीहिसोमादिसाम्यात् – यागकारणीभूतानां व्रीहिसोमादीनामिव मन्त्राणामपि यागीयज्ञानकारणत्वेन कल्पभेदेऽप्यन्थाकरमानर्हत्वसाम्यात्। अयमाशयः – कारणत्वस्य नियमघटितत्वेन कल्पभेदेऽपि कपालतन्त्वादीनामेव घटपचादिकारणत्ववत् व्रीहिसोमलतादीनामेव व्रीहित्वादिवैशिष्ट्येन यागकारणत्वस्यास्मिन्कल्प इव सर्वेष्वपि कल्पेषु सिद्धतया मन्त्राणामपि व्रीहिसोमादिवत् यागीयप्रयोगसमवेतार्थज्ञानादृष्टादिकारणत्वात् कारणत्वस्य च तदानुपूर्वीविशेषावच्छिन्त्वेन कल्पान्तरे तदन्यथआकरणे तेषां ज्ञानादृष्टादिकारणत्वासम्भवापातात् मन्त्राणामानुपूर्व्यन्यथाकरणमयुक्तमिति। तथा च न्यायपरिशुद्धौ शब्दाध्याये द्वितीयाह्निके आचार्यसूक्तिः ‘मन्त्रादिषु क्रमभङ्गानुपपत्तिश्च कल्पान्तरेऽपि तच्थक्त्यनपायादेव, तथात्वेऽपि वा यथापूर्वोच्चाराणेऽपि तदनपायात्। अन्यथा कल्पनागौरवमिति। तथापि सर्गप्रलयसम्भवात् सम्प्रदायविच्छेदे सर्ववेदोचछेदात् पश्वादीश्वरस्तत्स्रष्टा स्यात्। न स्यात्, तथापि प्राचीनवेदसाक्षात्कारिणस्तस्य तत्प्रवर्तनमात्रौचित्यात् शक्तस्यापि तज्जातीयवेदान्तरकल्पने गौरवात्। शक्तावपि सिद्धोपजीवनस्यास्मदादिषु दृष्टेः। एषामेव च मन्त्राणां कल्पान्तरेऽपि मन्त्रत्वाविरोधात्’ इति। इत्थं विध्यर्थवादक्रम इति –‘एवंमन्त्रनित्यत्वे च तुल्यन्यायतया ब्राह्मणनित्यत्वस्यापि दुस्त्यजत्वात् तदृष्टान्तेन वा तन्नित्यत्वसाधनात्’ इत्युपरितनन्यायपरिशुद्ध्युक्तक्रमेण प्रतिपादितस्य मन्त्रनित्यत्वन्यायस्यानुपूर्वीविशेषावच्छिन्नतयैव यागादिकर्तव्यतादिज्ञानतदपेक्षितप्राशस्त्यादिज्ञानकारणभूतयोर्विधअयर्थवादयोरपि सामान्येन तयोरप्यानु पूर्वीनित्यत्वरूपोऽयमेव क्रम इति हेतोः। नियमे – वेदत्वावच्छेदेन कल्पभेदेऽप्यानुपूर्वीनियमे। पाक्षिके तथात्वे वा — वेदपौरुषेयत्ववादिमतानुसारेणास्मिन्कल्पे इयमानुपूर्वीं कल्पान्तरे त्वन्यानुपूर्वीति व्रीहियवादिवद्वैकल्पिकतया एकैककल्पादिकल्पवसानपर्यन्तक्रमनियमे वा। विचार्य ग्राह्ये सतीति शेषः। अयं पक्षस्साधुर्वा अयं पक्षस्साधुर्वेति निचार्यान्तरपक्षे संग्राह्ये सति। असौ आक्षापादः पक्षः – प्रतिकल्पमीश्वरेण वेदोऽन्यथान्यथआ निर्मीयत इत्येवंरूपः कल्पभेदेन वेदानुपूर्वीभेदावलम्बिगौतमकल्पितः पक्षः। नः – पक्षद्वयेऽपि पक्षपातं विना युक्तत्वमयुक्तत्वं च विचार्यायं युक्त इति निश्चितवतां" वेदान्तिनामस्माकम्। परमतपरिषत्कोचिमाटीकताम्— बाह्यसिद्धान्तगोष्ठीनिविष्ठानां प्राप्नुताम्। तावता किं नच्छिन्नमिति भावः॥
कुमार-वरदः - 122

24.अत्र न्यायवादिनां पक्षमनूद्य निराकरोति– वेदानावमिति।‘प्रतिमन्वन्तरं चैषा श्रुतुरन्या विधीयते’ इत्युक्तत्वाद् वेदानावमीश्वरबुद्ध्या क्रमनियमहतिस्तेषु कल्पेष्वन्यथा भवतीति यदीष्टा यज्ञादिषु प्रयुज्मानानां मन्त्राणामपि तथैवान्यथाकरणं स्यात्। अस्त्वन्यथाकरणमित्याशङ्क्य प्रतिक्षिपति–नेति। तत्र हेतुमाह–व्रीहीति। अयमर्थः– लोके कार्यकारणभावो नियत एव दृश्यते यथा कपालेन घटस्तन्तुना पट इति। नहि कल्पभेदेन तन्तुभ्यो घटो जायते पटो वा कपालेभ्य इति परिकल्पेषु न्यायवादिभिः। एवं वैदिकेऽप्युदाहरणे ‘व्रीहिभिर्यजेत, सोमेन यजेत’ इत्यादौ सर्वेष्वपि कल्पेषु तत्तत्कार्यहेतुभूतानां मन्त्राणामन्यथाकरणं न संघटत एव। तथा च वेदनित्यत्वसिद्धिः। तर्ह्यस्तु मन्त्राणां" क्रमनियम आवश्यकत्वात्, मास्तु विध्यर्थवादयोरिति चेत् तत्रोत्तरमाह–इत्थमिति। अयमर्थः मन्त्राणामिव विध्यर्थवादयोऽपि तेषुतेषु ज्ञानेषु कारणत्वमस्त्येव तत्र यथात्वं नियममन्तरेण न कारणत्वम्। एवं क्रमनियममन्तरेण न कारणमिति भवतैव विचार्य सन्तोष्टव्यम्, तथाच कार्यकारणयोरन्यथाकरणशङ्काया नावकाशः। अत्र यथेश्वरशिक्षितक्रम इति प्रागल्भयाद् यदि वदसि अथापि क्रमनियमः कदाचिद् भवताऽङ्गीकृत एव। तथा च नित्यमेवायमङ्गीकार्यः क्रमनियम इति श्रेयानेवायं पक्ष इत्यभिप्रायेणाह–पाक्षिक" इति। तर्हि न्यायमार्गः किं भेदवादिना भवता परित्यज्यते? परित्यज्यत एवेत्याह–पक्ष इति। अयमाक्षपादः पक्षोऽस्माकं वेदान्तिनां" बाह्यासिद्धान्तकोटिं प्राप्नोतु का नो हानिरित्यर्थः॥

मूलम् - 122

122.वेदानामीशबुद्ध्या क्रमनियमहतिः कल्पभेदे यदीष्टा
मन्त्रांशानान्तथा स्यान्न खलु तदुचितं व्रीहिसोमादिसाम्यात्।
इत्थं विद्ध्यर्थवादक्रम इति नियमे पाक्षिके वा तथात्वे
पक्षोऽसावाक्षपादः परमतपरिषत्कोटिमाटीकतान्नः॥

विश्वास-प्रस्तुतिः - 123

123.सौक्ष्म्यात्तुल्याभिघारात् सहकृदपनयाच्छादकादान्यपर्या-
दत्यासत्त्याऽतिदूराद्बलवदभिभवानुद्भवाक्षोपघातैः।
नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः
प्रख्यातास्सिद्धिभेदा आपि जननतपोयोगमन्त्रौषधीभ्यः॥

३४-तमाहोबिल-यतिः - 123
  1. सौक्ष्म्यादित्यादि। सौक्ष्म्यात् – परमाण्वादीनामिवानुपलब्धिकारणात् सूक्ष्मपरिमाणात् । तुल्याभिधारात्–तैलसिक्ततैलबिन्द्वादीनामिवात्यन्तसजातीयविक्षरणात्। सहकृदपगमात् –अन्धकारवर्तनो घटादेरिव उपलम्भसहकारिकारणभूतालोकादिसमवधानाभावात्। छादकात्—पटावारितानामिवावारकवशात्।आन्यपर्यात्–व्यासक्तहृदयस्याग्रतः" स्थितानां वस्तूनामिव वस्त्वन्तरचिन्ताकृतमानसान्यपरत्वात्।अत्यासत्त्या–स्वनयनगततारकारक्तिरमादीनामिव नैरन्तर्यैण।अतिदूरात्—देशान्तरगतानामिव चाक्षुषरश्मिप्रसरविरोधिदेशव्यवधानात्।यद्वा चाक्षुषरश्मिगमनानर्हदूरदेशवर्तित्वात्।बलवदभिभवानुद्भवाक्षोपघातैः— प्रबलतरभास्करप्रभाभिभूतमध्यन्दिनोल्कादीनामिव उपलभ्यवस्त्वत्यन्तसजातीयवस्त्वन्तर बहुलीभूतगुणकृतग्राह्यग्राहकगुणवैकल्यं बलवदभिभवः चीक्षुषकिरणरूपादीनामिव बहिरिन्द्रियग्रहणायोग्यतापादकः स्वरूपसम्पूर्णनिष्पत्त्यभावोऽनुद्भवः नयनरोगादिरक्षोपघातः तैः।वर्तमानान्यपि नेक्ष्यन्ते हि—विद्यमाननान्यपि वस्तूनि नोपलभ्यन्ते खलु।नहि कारणान्तरप्रयुक्तानुपलब्धिमात्रेण वस्त्वभावो निश्चेय इति भावः। तद्वत् –तद्रीत्यैव। सुरगणाः — विद्यमाना एवाग्नीन्द्रादिदेवतागणाः। अन्तर्धिशक्तेः — अन्तर्धानशक्तिवशात्। नेक्ष्यन्ते – नोपलभ्यन्ते। अपि च शास्त्रेषु जननतपोयोगमन्त्रौषधिभ्यः — जातिमात्रात् पिशाचादीनाम्, तपसो महर्षीणाम्, योगप्रभावात् योगिनाम्, मन्त्रशक्तिवशात् जप्तृणाम्, ओषधिशक्तिविशेषेभ्यश्च दिव्यगुलिकमूलिकादिशालिनां" सिद्धानां च । सिद्धिभेदाः –अन्तर्धानशक्त्यादिविशेषाः ।प्रख्याताः –प्रसिद्धाः। अतो देवादीनामनुपलम्भ इति न तावता तेषामभाव इति भावः॥
कुमार-वरदः - 123
  1. यदि देवतानां विग्रहागिकमस्ति तर्हि किमर्थमस्माभिर्नोपलभ्यत इत्याशङ्क्यानुपलब्धिकारणानां बहुत्वमाचष्टे –सौक्ष्म्यादिति। ‘अतिदूरात् सामीप्यात्’ इति साङ्ख्यग्रन्थे हि विद्यमानामप्यनुपलब्धिकारणानि परिपठितानि। सौक्ष्म्यात्परमाण्वादीनामनुपलब्धिः। तुल्याभिघारात् तैलसिक्तस्य तैलबिन्दोः। सहकृदपगमात् सहकार्यभावादन्धकारवर्तिनो घटादेः। छादकात् पटावारितानां पदार्थानाम्। आन्यपर्यात् व्यासक्तहृदयस्याग्रतः स्थितानां पदार्थानाम्। अत्यासत्त्या स्वनयनगतस्य। अतिदूरात् देशान्तरगतस्य। बलवदभिभवात् मध्यन्दिनोल्काप्रकाशस्य. अनुद्भवात् चाक्षुषकिरणसंघातरूपादेः। अक्षोपघातात् रुग्णनयनस्य पुरोऽवस्थितस्य वस्तुनोऽनुपलब्धिरिति सर्वत्रान्वयः। एतेभ्यस्सर्वेभ्यो हेतुभ्यः पुरतो वर्तमानान्यपि नोपलभ्यते। तद्वदग्नीन्द्रादिदेवतागणोऽप्यन्तर्धआनशक्त्या नोपलभ्यते। किं च शास्त्रेषु जन्मना तपसा योगेन मन्त्रौषधीदिभिश्च माहात्म्यात् सिद्धिविशेषाः प्रख्याताः। जन्मतः पिशाचादीनाम्, तपसो महर्षीणाम्, योगतो योगिनामन्तर्धिशक्तिरस्त्येव। मन्त्रौषधिभ्यस्तच्च प्रसिद्धमेव। तेन देवादीनामन्तर्धिशक्तेरनुपलभ्य इति सुष्ठूक्तम्॥
मूलम् - 123

123.सौक्ष्म्यात्तुल्याभिघारात् सहकृदपनयाच्छादकादान्यपर्या-
दत्यासत्त्याऽतिदूराद्बलवदभिभवानुद्भवाक्षोपघातैः।
नेक्ष्यन्ते वर्तमानान्यपि हि सुरगणस्तद्वदन्तर्द्धिशक्तेः
प्रख्यातास्सिद्धिभेदा आपि जननतपोयोगमन्त्रौषधीभ्यः॥