24 प्रमिताधिकरणम्

विश्वास-प्रस्तुतिः - 116
  1. प्राणेशोऽङ्गुष्ठमात्रः क्वचिदनुकथितस्सञ्चरन् कर्मभिः स्वै-
    रन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम्।
    तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं
    वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम्॥
३४-तमाहोबिल-यतिः - 116
  1. प्राणेश इत्यादि। स्वै कर्मभिः – स्वकीयैः पुण्यपापरूपैः कर्मभिः। सञ्चरन् – देवतिर्यगादिदेहेषु सञ़्चरन्। प्राणेशः — प्राणनियन्ता जीवात्मैव। क्वचित् –प्राणाधिपः सञ्चरति कर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः" इत्येवंरूपायां कस्या़ञ्चित् श्रुतौ। अङ्गुण्ठमात्रः – अङ्गुष्ठमात्रत्वेन। अनुकथितः प्रतिपादितः। अन्यत्र – भारतादौ। अङ्गब्ठमात्रं" पुरूषं निक्ष्चकर्पेत्यपि ध्ष्टम् – स्वशिक्षणीयं जीवात्मानं नरकनिपातनाय पुर्वशरीरादुह्दिधीर्षु, सर्वत्मपुण्यपापानुरुपफप्रदाता यमः अङ्गष्ठमात्रमेतत्प्रमितं पुरूषं जीवात्मानं निक्ष्चकर्ष पूर्वशरीरात्पृथगाचकर्षेत्यर्थः. एवं स्पष्टतया जीवात्मनि अङ्गुषठप्रमितत्वपरं" वचनमपि भारतादौ ह्धष्टम्। तदिदं वचनम् —– अथ सत्यवतः कायात् पाशबन्धवशं गतम्। अङ्गुष्ठमात्रं पुरूषं निक्ष्चकर्ष यमो बलात्॥ इति तस्मात् –जीवालिङ्गस्याङ्गुष्ठप्रमिकत्वस्यात्र दर्शनात्। एतत्प्रमाणप्रमितं जीवमुपनिषदाह – निरूक्ताङ्गुष्ठप्रमाणपरिमितं" जीवात्मनमेव कठवल्लयुपनिषत् प्रतिपादयतिष। इत्ययुक्तम् – इति शङ्कनमयुक्तम्। वाक्यस्थेशानतादेः – र्इशानो भुतभव्यस्य न ततो विजुगुण्सते, इति वाक्यप्रतिपन्न भुतभव्येशानत्ववात्सल्यातिशयाभ्यां पुरूषशब्देन च परमपुरुषासारणेनेत्यर्थः। तत् मानं हि — प्रतिपादितमङ्गुष्ठप्रमितत्वरूपं परिमाणं हि। नरहृदयपरिच्छित्तितः —उपासकमनुष्यहृदयपरिच्छेदापेक्षया नतु स्वतः अपरिच्छिन्नत्वादिति भावः॥
कुमार-वरदः - 116

18.पूर्व दहरविद्यायामल्पत्वेन श्रुतः परमरुष इति ‘अल्पश्रुतेरिति चेत्तदुक्तम्’ इति सूत्र प्रत्यपादि, तदल्पपिमाणयुक्तत्वं जीवस्यैवान्यत्र श्रूयत इति पूर्वपक्षोत्थानेन संगतिरिति भाष्य एवोक्तम्। तदर्थविचारस्तु ‘अङ्गुष्ठमात्र पुरुषः’ इत्यङ्गुष्ठप्रमितः प्रत्यगात्मा उत परमात्मेति। तदर्थविचारस्तु किमीशानत्वं देहेन्द्रियाद्यपेक्षम्, उत सर्वापेक्षमिति। तदर्थविचारस्तु–किमुपक्रमगतप्रमितत्वमीशानन्वलिङ्गस्वारस्यविरोधि न वेतिः। तदर्थ विचार्यते—किं तत्प्रमितत्वं जीवे सम़ञ्जसमुत उभयत्रासम़ञ्जसमिति। अत्र विषयवाक्यानि भाष्यदीपयोव्र्यक्तं द्रष्टव्यानि। तत्र पूर्वपक्षमुक्तवाप्रतिक्षिपति–प्राणशइति। ‘प्राणाधिपस्सञ्चरति स्वकर्मभिः। अङ्गुष्ठमात्रो रवितुल्यरूपः’ इति श्रुतिरत्राभिसन्धीयते। कर्मभिः स्वैरस़ञ्चरन् प्राणेन एव क्वचित् श्रुतावङच्गुष्ठमात्रः कथितः। अन्यत्र वाक्ये पुनः ‘अङ्गुष्ठमात्रं पुरुषं निश्चकर्म यमो बलात्’ इति द्दष्टम् तस्मादेतत्प्रमाणप्रमितमङागुष्ठमात्रं जावमुपनिषदाहेति पूर्वपक्षपरिकल्पनम्। तदयुक्तं स्ववाक्यस्थितेन ‘ईशानो भूतभव्यस्य’ इत्युक्तेनेशानत्वादिना लिङ्गेन निरस्तत्वात्। कथं तर्हीषशानस्याङ्गुष्ठप्रमितत्वमित्याशङ्क्याह—नरेति। उपासकहृदयपरिच्छ्दापेक्षया तदङ्गुष्ठप्रमितत्वमुच्यते नपुनः स्वाभाविकम्॥

मूलम् - 116
  1. प्राणेशोऽङ्गुष्ठमात्रः क्वचिदनुकथितस्सञ्चरन् कर्मभिः स्वै-
    रन्यत्राङ्गुष्ठमात्रं पुरुषमपि यमो निश्चकर्षेति दृष्टम्।
    तस्मादेतत्प्रमाणप्रमितमुपनिषज्जीवमाहेत्ययुक्तं
    वाक्यस्थेशानतादेर्नरहृदयपरिच्छित्तितस्तद्धि मानम्॥
विश्वास-प्रस्तुतिः - 117
  1. नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मिन्
    व्याप्ते तन्मानतोक्तिः क्वचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे ।
    सूत्रद्वन्द्वद्वयान्तस्त्रिभिरधिकरणैश्चिन्त्यते तद्विशेष-
    स्तार्तीयैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र ॥
३४-तमाहोबिल-यतिः - 117
  1. न ह्यङ्गुष्ठेत्यादि। अखिलजन्त्वाश्रयम् —- अखिलजन्तवः आश्रयो यस्य तत्, अखिलजन्तुवर्तीत्यर्थः। हृदयम् — शरीरान्तरङ्गविशेषः। अङ्गुष्ठप्रमाणं नहि – अङ्गुष्ठपरिमाणतुल्यपरिमाणं नहि। खरभुजगविहगादीनां मक्षिकामशकादीनां चाधइकन्यूनपरिमाणहृदयत्वादिति भावः। तत् — तस्मात् कारणात्।व्याप्ते — सर्वव्यापके। परस्मिन् – परमात्मनि। तन्मात्रतोक्तिः — अङ्गुष्ठमात्रत्वोक्तिः। क्वचित् — ब्रह्मविद्याधिकृतमनुष्यहृदयापेक्षया कुत्रचिदेव। इति – एवं रीत्या। मनुजाधिक्रियोक्तिप्रसङ्गे —मनुष्याधिकारप्रतिपादनलब्धोपस्थितिरूपे सन्दर्भे। तद्विशेषः — अधिकारविशेषः। देवादीनामप्धिकारोऽस्ति नेत्येचघोग्यायोग्यपुरूषरूपोऽधिकारानुबन्धिविशेषः। सूत्रद्वन्द्वद्वयान्तः" — द्वन्द्वयोर्द्वयं द्वन्द्वद्वयं, सूत्राणां द्वन्द्वद्वयं सूत्रद्वन्द्वद्वयं ‘शब्दादेव प्रमितः। हृद्यपेक्षया तु मनुष्याधिकारत्वात्। कम्पनात् ज्योतिर्दर्शनात्। ’ इतिसूत्रचतुष्टयात्मके प्रमिताधिकरणे पूर्वमेकं सूत्रद्वन्द्वमध्यसूत्रद्वन्द्वं तयोर्द्वन्द्वं" च सिद्धम्।सूत्रद्वन्द्वद्वयस्य अन्तर्मध्ये सूत्रद्वन्द्वद्वयान्तः। पूर्वोत्तरसूत्रद्वन्द्वमध्य इत्यर्थः।त्रिभिरधिकरणैः ‘तदुपर्यपि बादरायणस्सम्भवात्। मध्वादिष्वसम्भवादनधिकारं जैमिनिः। शुगस्य तदनादरश्रवणात् ददाद्रवणात् सूच्यते हि’ इत्यादिभिस्रिरधिकरणैः। चिन्त्यते– विचार्यते। तार्तीयैः स्थापनीया – तृतीयेऽध्याये भवानि तार्तीयानि तैस्तृतीयाध्यायस्थैरधिकरणैः स्थापनीया। इतिकर्तव्यतया तु — अङ्गकलापरूपेतिकर्तव्यता तु।अत्र – प्रकरणे। नावजिगमिषिता —- नावगन्तुमिष्टा। अधिकारविशेषविचारमात्रमत्र प्रसङ्गात् क्रियते तद्भिन्नः सर्वोऽप्यधिकारविचारभागस्तत्तदाश्रमभेदभिन्नाङ्गकलापविचारसहितस्तृतीयाध्याय एव करिष्यते अतो नाध्यायार्थसाङ्कर्यप्रसङ्गइति भावः॥
कुमार-वरदः - 117
  1. अत्राधिकरणमध्ये मनुष्याधिकारत्वप्रसङ्गादधिकरणत्रयकथनं तेनात्र तृतीयाध्यायप्रसाध्याधिकार चिन्तनादध्यायसङ्करप्रसङ्ग इत्यत्राह–नहीत्यादिना। इत्थं किल कश्चिन्मन्यते– पूर्वत्राङ्गुष्ठप्रमितत्वं परमपुरुषस्योक्तं तच्च हृदयापेक्षयेत्युक्तं नहि सर्वेषां जन्तूनां हृदयाङ्गुष्ठप्रमितत्वम्; अङ्गुष्ठाभावात् तेनाखिलजन्त्वाश्रयंहृदयमङ्गुषष्ठप्रमितमिति वक्तुं न शक्यत इति। सत्यमेतत्, सर्वाश्रयं हृदयमङ्गुष्ठप्रमितमिति नोच्यते अपितूपासकहृदयम्। तेन सर्वव्याप्ते परस्मिन् ब्रह्मण्यङ्गुष्ठ -प्रमितत्वकथनं क्वचिन्मनुष्याधिकारापेक्षयेति मन्तव्यम्। तेनाधिकारप्रसङ्गेनास्मिन्नधिकरणे सूत्रचतुष्टयात्मके द्वयोर्द्वयोः सूत्रयोर्मध्ये त्रिभिरधिकरणैरधिकारविशेषश्चिन्त्यते।न पुनरत्र तृतीयाध्यायस्थैरधिकरणैः स्थापनीयाऽधिक्रिया अवगन्तुमिष्टा तेन नाध्यायसङ्गरप्रसङ्गः।तदिदमाह– तातीर्यैरिति।इतिकर्तव्यता नाम अङ्गकलापः॥
मूलम् - 117
  1. नह्यङ्गुष्ठप्रमाणं हृदयमखिलजन्त्वाश्रयन्तत् परस्मिन्
    व्याप्ते तन्मानतोक्तिः क्वचिदिति मनुजाधिक्रियोक्तिप्रसङ्गे ।
    सूत्रद्वन्द्वद्वयान्तस्त्रिभिरधिकरणैश्चिन्त्यते तद्विशेष-
    स्तार्तीयैस्स्थापनीया त्ववजिगमिषिता नेतिकर्तव्यताऽत्र ॥