विश्वास-प्रस्तुतिः - 111
- दह्रं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ य-
च्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम्।
भूताद्यं तत् प्रसिद्धेर्महिमत इति न प्रत्यनीकैरनेकैः
श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवर्गैस्सनाथा॥
३४-तमाहोबिल-यतिः - 111
- दह्वमित्यादि। तैत्तिरीयश्रुतौ — तित्तिरिरूपर्षिप्रोक्ते यजुषि ‘अम्भस्यपारे’ इति प्रश्ने ‘अणोरणीयान्’ इत्यनुवाके ‘न कर्मणा न प्रजया धनेन’ इत्यादिदशकमध्ये। हृत्पुण्डरीके दह्नं यत् गगनमभिहितम्—‘दह्नं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम्। तत्रापि दह्नं गगनं विशोकः’ इत्यत्र वाक्ये तत्रेतिशब्दस्य पूर्ववाक्योपात्तपुरशब्दितशरीरमध्यवर्तिहृदयपुण्डरीकपरत्वात् तथओक्ते हृदयपुण्डरीकते दह्नं सूक्ष्मं यद् गगनं प्रतिपादितम्।धन्दोगैस्तत्र दहराकाश िति यदपि च गीतम् — सामवेदिभिश्छन्दोग्याख्यायामुपनिषद्यष्टमाध्याये ‘अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इत्यादिवाक्ये ‘अस्मिन्नन्तराकाशः’ इत्यत्रास्मिन्नितिशब्दिते हृदयपुण्डरीके ‘दहर आकाशः’ इति दहरपदविशेषिताकाशशब्देन यद्वस्त्वपि चाभिहितम्। एतदेकम् —एतद्द्वयमेकमेव। स्थानसाम्यपर्यायशब्दप्रयोगादिभिस्तयोरैक्यस्य सर्वसम्मतत्वादिति भावः। तत् – दह्नगगनदहराकाशशब्दितं वस्तु। प्रसिद्धेर्महिमतः –प्रसिद्ध्यतिशयात्। भूताद्यम् –‘आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी’ इत्युक्तेषु पञ्चसु भूतेषु आद्यं प्रथममाकाशशब्दितं शब्दगुणकं भूतं भवितुमर्हति। इति न — एवं न शङ्कनीयम्। अनेकैः प्रत्यनीकैः –‘एष आत्माऽपहतापाप्माविजरोविमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्ल्पः’ इत्युत्तरवाक्यप्रतिपन्नैर्निरुपाधिकात्मत्वापहतपाप्मत्वप्रभृतिभिः सत्यसङ्कल्पत्वपर्यन्तैरन्यैश्च परमात्मसाधारणैः पक्षआन्तरविरोधिलिङ्गादिरूपैर्हेतुभिः। इति नेति पूर्वेण सम्बन्धः। लिङ्गवर्गैस्सनाया –उदाहृतपरमात्मलिङ्गैस्सहिता। बलिनी –अत एव केवलभूताकाशप्रसिद्ध्यपेक्षया बलवती।श्रौती प्रसिद्धिश्च – ‘को ह्येवान्यात्कः प्राण्यात्। यदेष आकाशो आनन्दो नस्यात् ’ इत्यादिश्रुत्यन्तरसम्बन्धिनी आकाशशब्दप्रसिद्धश्च। भगवति स्यात् – भगवति सिद्धैव। अतः केवलप्रसिद्धिबलेन प्रत्यवस्थानं हेयमिति भावः॥
कुमार-वरदः - 111
- पूवाधिकरणे ‘परात्परं पुरिशयं पुरुषम्’ इत्युक्तस्य पुरिशयपुरुषस्य परमात्मत्वं साधितम्, अत्र पुरिशयस्याकाशशब्दवाच्यस्य परमात्मत्वं निरस्यत इति संगतिः। पूर्वं ब्रह्मलोकशब्दस्य परमात्मस्थानपरत्वमुक्तम्। तद्वदिहापि ब्रह्मलोकशब्दब्रह्मपुरशब्दयोः" स्थानपरत्वं स्यादिति शङ्कया संगतिः। यद्वा पूर्वत्रान्तरिक्षशब्दस्य प्रसिद्धान्तरिक्षपरत्वं व्यावर्तितम्, तद्वत् दहराकाशस्य प्रसिद्धाकाशधर्मिपरत्वं प्रतिपाद्यत इति संगतिः परस्मिन्नन्वेष्टव्यान्तरप्रतीत्यनुपपत्तेः पक्षद्वयेऽप्युपमानोपमेयाभावानुपपत्तेश्च संशयः। तदर्थविचारस्तु किं दहराकाशो भूताकाश उत जीवोऽथ परमात्मेति। तदर्थमन्वेष्टव्यान्तरनिर्देशः किं दहराकाशस्य परमात्मत्वविरोधी उत नेति। ‘तस्मिन्यदन्तः’इति निर्देशः किं गुणजातविषय उतार्थान्तरपरः। ‘एष आत्मा’ इति वाक्योक्तमपहतपाप्मत्वादिकं किं प्रजापतिवाक्योक्तजीवधर्मः" उत न। जीवधर्मत्वेऽपहतपाप्मत्वादिश्रुति –स्वारस्यमस्ति उत नेति। फलफलिभावस्तु यदा ‘तस्मिन्यदन्तः’इति निर्देशोऽर्थान्तरपरः, तदाऽन्वेष्टव्यशब्दस्य गुणविषयत्वाभावेन दहराकाशस्य भूताकाशत्वं स्यात्। यदा ‘एष आत्मा’ इति वाक्योक्तगुणाष्टकस्य प्रजापतिवाक्योक्तजीवधर्मत्वे स्वारस्यमस्ति, तदानीं" ‘एष आत्मा’ इति वाक्यस्य जीवविषयतया दहराकाशो जीवः स्यादिति पूर्वपक्षे फलफलिभावः। यदा तस्मिन्यदन्तः’ इति गुणजातविषयोक्तिस्तदाऽन्वेष्टव्यशब्दस्य गुणजातविषयत्वाद् दहराकाशो भूताकाशादतिरिक्तःस्यात् , यदा ‘एष आत्मा’ इति वाक्यस्य प्रजापतिवाक्योक्तधर्मविषयत्वे स्वारस्यं नास्ति तदा स्वरसो गुणाष्टकविशिष्टपरमात्मप्रतिपादकतया स दहराकाशः परमात्मा स्यादिति राद्धान्ते फलफलिभावः। विषयवाक्यशोधपूर्वकं पूर्वपक्षसिद्धान्तौ संगृह्णाति– दह्रं हृत्पुण्टरीक इति। अयमर्थः – ’ दहरोऽस्मिन्नन्तराकाशः’ इति तैत्तरीये च गगनाकाशशब्दोः पर्यायत्वेनाकाश एवोक्तः, स चाकाशो भूताकाश एव स्यात्, आकाशशब्दस्य ब्रह्मणि च प्रसिद्धिप्रकर्षादिति । तदाह— प्रसिद्धेर्महिमत इति। तदेतत्प्रतिक्षिपति—नेति। तत्र हेतुमाह— प्रत्यनीकैरिति। ‘एष आत्माऽपहपाप्मा’ इत्यादिवाक्यगतैर्निरुपाधिकात्मत्वापहतपाप्मतावसत्यसंकल्पत्वादिभिः" परमात्मासाधरणैर्धर्मैरत्राकाशशब्दनार्दिष्टस्य विशेष्यमाणत्वात् । किंच द्विविधा हि प्रसिद्धिर्वैदिकी लौकिकी चेति। तत्र वैदिकी प्रसिद्धिर्वेदविदां व्यवहारेषु बलवती तेनात्राकाशशब्दनिर्दिष्टः" परमात्मैव। किंच निरुपाधिकापहतपाप्मत्वादिलिङ्गसनाथायाः ‘यदेष आकाश आनन्दो न स्यात्’ इत्यादिश्रुत्यन्तरसिद्धाया आकाशशब्दप्रसिद्धेर्भगवति बलीयस्त्वाच्च। तदिदमाह—श्रौती चेति। नकेवलं श्रौतप्रसिद्धिः, लिङ्गान्यपि विद्यन्त इत्याह—लिङ्गवर्गैरिति॥
मूलम् - 111
- दह्रं हृत्पुण्डरीके गगनमभिहितन्तैत्तिरीयश्रुतौ य-
च्छन्दोगैस्तत्र गीतं यदपि च दहराकाश इत्येतदेकम्।
भूताद्यं तत् प्रसिद्धेर्महिमत इति न प्रत्यनीकैरनेकैः
श्रौती च स्यात् प्रसिद्धिर्भगवति बलिनी लिङ्गवर्गैस्सनाथा॥
विश्वास-प्रस्तुतिः - 112
- बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमीशे
सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति।
कामाधारश्च योऽसौ समगणि दहराकाशवाचा़ऽत्र नित्य-
स्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः॥
३४-तमाहोबिल-यतिः - 112
14.बाह्याकाशश्चेत्यादि। बाह्याकाशश्च यावानयमपि तथा इत्येतदीशे हि अक्लिष्टम् — ‘यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः’ इति वाक्यप्रतिपन्नं बाह्याकाशो यावान् अन्तर्दहराकाशशब्दितोऽयमाकाशोऽपि तथा तावान्’ इत्येवमुपमानोपमेयभावकथनं परमात्मन्येव ह्यक्लिष्टम् –अगौणम्।भूताकाशो त्विदं नोपपद्यतेः उपनमानोपमेयभावस्य भेदगर्भस्यैकस्मिन्नसम्भवितत्वात्। हृदयावच्छेदनिबन्धनत्वे ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते’ इत्यादिप्रतिपन्नसर्वाश्रयत्वस्य हृदयावच्छिन्नाकाशेऽसम्भवादिति भावः। सत्यात्मब्रह्मशब्दा नभसि कथमप्यन्वयं न प्राप्नुवन्ति – ‘एतत्सत्यं ब्रह्मपुरमेष आत्मा’ इत्यादिनिर्दिष्टाः ,सर्वप्रकारविकारशून्यत्वनिरुपाधिकात्मत्ववनिरतिशयबृहत्वबृंहणत्वनिमित्तकाः" सत्यात्मब्रह्मशब्दा भूताकाशओ कथञ्चिदपि प्रतिपादकत्वेन सम्बन्धं न लभन्ते। यश्च कामाधारस्समगणि नित्योऽसावेवात्र दहराकाशवाचा समगणि – ‘अस्मिन् कामास्समाहिताः’ इत्युपरितनवाक्ये यः कामाधारत्वेनाभिहितः स्वरूपस्वभावविकारशून्यतया सदातनैकरूपसवरूपस्वभाववतया नित्यप्रकाशः इति नित्यो.़सौ परमात्मैवात्र दहरविद्योपक्रमे दहराकाशशब्देन प्रत्यपादि। ‘अस्मिन् कामाः समाहिताः ’ इति वाक्यस्य ‘तस्मिन् यदन्तः ’ इति वाक्यस्य च समानार्थकत्वस्वार्सयादिति भावः। किञ्च एष आत्मेति तस्यैव ह्यनुवदनम्– तदुपरिवाक्ये ‘एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपाससत्यकामस्सत्यसङ्कल्पः’ इत्यादिरूपे दहराकाशशब्दवाच्यमात्मशब्देन, अन्तश्शब्दवाच्यमपहतपाप्मेत्यादिभिश्च दर्शयति एतच्छब्दविशेषितात्मशब्देन दहराकाशस्यैव ह्यनुवादो युक्तः। अतः – एवमुपपादनात्। चिन्त्यकामा – ‘तद्य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामान्’ इत्यादिवाक्यैश्चिन्त्या उपास्यतया प्रतिपन्नाः कामाः काम्यमानत्वयोगिनः। तद्गुणाः – तस्य दहराकाशस्य सम्बन्धिनोऽपहतपाप्मत्वादिकल्याणगुणा एव॥
कुमार-वरदः - 112
14.पुनरपि भूताकाशत्वनिरासकान् विषयवाक्यान् हेतून् संह्णाति—बाह्याकाश इत्यादिपूर्वार्धेन। तस्यायमर्थः—‘यावान्वायमाकाशस्तावानेषोऽन्तर्हृदय आकाशः ’ इत्युपमानोपमेय भावस्तु दहराकाशस्य भूताकाशत्वे नोपपद्यते उपमानोपमेयभावस्य भेदगर्भत्वात् । हृदयावच्छेदनिबन्धन उपमानोपमेयभाव इति चेत् तथा सति हृदयावच्छिन्नस्य ‘उभे अस्मिन्द्यावापृथिवी’ इत्यादिप्रतिपादितसर्वाश्रयत्वानुपपत्तेः। किंच ‘एतत्सत्यं ब्रह्मपुरुमेष आत्मा’ इत्यादिनिर्दिष्टसत्यात्मब्रह्मशब्दवाच्यत्वं भूताकाशे न संभवतीति। तदिदमाह–सत्येति। ननु ‘तस्मिन्यदन्तस्तदन्वेष्टव्यम्’ इत्याकाशान्तर्वर्त्यन्वेष्टव्यान्तरनिर्देशाद् दहराकाशो न परमात्मेति चेत् तत्राह- कामाधारश्चेति। अत्र यः कामाधारः समगणि गणित उक्तः, नित्यः स एव दहराकाशवाचाप्युक्तः, अतस्तस्यैव एष आत्मेत्यनुवदनं तद्गुणाश्च चिन्त्यकामा इति योजना। अयं भावः-किं तदत्र विद्यते यदन्वेष्टव्यमिति प्रश्नपूर्वकं ‘तस्मिन्कामाः समाहिताः’ इति दहराकाशशब्दनिर्दिष्टस्य परमात्मनस्तदन्तर्वर्तिनो गुणाष्टकस्य च प्रथममुपासनं विधीयते। अत एव फलवाक्ये ‘अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान्’ इत्युभयोरप्युपास्यत्वं निर्दिश्यत इति दहराकाशः परमात्मा। तदन्तर्वत्यन्वेष्टव्यं चापहतपाप्मत्वादिगुणजातं कामशब्देनोच्यत इति। काम्यन्त इति कामाः कल्याणगुणाः॥
मूलम् - 112
- बाह्याकाशश्च यावानयमपि हि तथेत्येतदक्लिष्टमीशे
सत्यात्मप्राणशब्दा नभसि न कथमप्यन्वयं प्राप्नुवन्ति।
कामाधारश्च योऽसौ समगणि दहराकाशवाचा़ऽत्र नित्य-
स्तस्यैव ह्येष आत्मेत्यनुवदनमतस्तद्गुणाश्चिन्त्यकामाः॥
विश्वास-प्रस्तुतिः - 113
- सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं
छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः।
आपस्तम्बश्च वैभाजनपुरमवदद्ब्रह्म सर्वात्मभूतं
पूतस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात्॥
३४-तमाहोबिल-यतिः - 113
- सर्वेशाधारचोक्त्येत्यादि। वाज्यधीतम् – ‘य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते सर्वस्य वशी सर्वस्येशानः’ इति वाजिभिर्वाजसनेयशाखिभिरधीतं" पठितम्। तत् – आकाशशब्दवाच्यम्। सर्वेशाधारतोक्त्या —- सर्वेश्वरस्याधारतयाऽभिधानेन। हृदयव्योम भवतु च —-हृदयसुषिररूपं" हृदयव्योम भवतु च। छान्दोग्यस्थो ब्रह्मलोकादिशब्दः — ‘एतं ब्रह्मलोकं न विन्दन्ति, एतत्सत्यं ब्रह्मपुरम्’ इत्यादिच्छान्दोग्यदहरविद्यापठितो ब्रह्मलोकशब्दः, आदिशब्देन ब्रह्मपुरशब्दो विवक्षितः। निषादस्थपतिनयपदम् — ‘एतया निषादस्थपतिं याजयेत्’ इत्यत्र कर्मधारयसमासस्यैवाश्रयणात् तन्न्यायविषयभूतस्सन् ब्रह्मैव लोको ब्रह्मलोक इति समानाधिकरणवृत्त्या ब्रह्मात्मलोकपरः। आपस्तम्बश्च —- कल्पसूत्रादि प्रणेता आपस्तम्बाख्यो महर्षिश्च। सर्वात्मभूतं ब्रह्म — सर्वेषामात्मतया आधारभूतं ब्रह्म। वैभाजनपुरमवदत् —- सर्वेषामपि पदार्थानां" प्रत्येकं विभजनेन स्थातुं योग्यं स्थानमित्यर्थविवक्षया ‘स वै वैभाजनं पुरम्’ इति वचनेन वैभाजनं पुरमित्यभ्यधत्त। उज्ज्वलायां" तु ’ स एव च वैभाजनं पुरं विविधैर्भागैसमृद्धं पुरं सर्वैर्थिभिः प्राप्यते एवमयमपि’ इति व्याख्यातम्। किञ्च ‘पूः प्राणिनः सर्व ए गुहाशयस्य’ इत्यप्याह। सर्वे प्राणिनो गुहाशयस्य परमात्मनः पुरमित्यर्थः। अतः प्राणिनः — सर्वेऽपि प्राणिनः। तस्य – परमात्मनः। पूः – पुरमावासस्थानम्। स्युः – भवेयुरेव। तदपि– तथापि। तदपि – ब्रह्मापि। सर्ववासात् पुरं स्यात् हि — सर्वाधारतया सर्वेषामपि तस्मिन् वासात् तेषां पुरं भवति हि। अतो ब्रह्मलोकपदब्रह्मपुरपदयोः कर्मधारवृत्त्या ब्रह्मात्मकलोकब्रह्मात्मकपुरपरत्वमेवोचितमिति भावः॥
कुमार-वरदः - 113
- छान्दोग्ये दहराकाशः परमात्मेत्यभिधीयते, वाजसनेयिनां तु शाखायां ‘य एषोऽन्त्हृदय आकाशस्तस्मिञ्थेते सर्वस्य वशी सर्वस्येशानः’ इत्याकाशे शयान एव परमात्मत्वेनाभिधीयते, प्रसिद्धाकास एव तद्वाचकेन शब्देनोच्यतचे, तत्कथमुभयोन्वयः। अत्र समाधिमाह–सर्वेशेति। वाजिनां तु शाखायां सर्वेश्वरस्याधारतया हृदयव्योमाभिधीयते तेन तत्र व्योमशब्दाभिधेयंलिङ्गविशेषात् प्रसिद्धाकाश एवेत्यङ्गीकुर्महे। छान्दोग्ये आकाशशब्दः सर्वकामाधारत्वकथनाल्लिङ्गात् परमपुरुषपरएव। ननु च्छान्दोग्ये ब्रह्मलोकशब्दः प्रयुज्यते नतु ब्रह्मैव लोको ब्रह्मलोक इति समासः, ब्रह्मणो लोको ब्रह्मलोक इति षष्ठीतत्पुरुषसमासाश्रयणस्य न्याय्यत्वादिति चेन्न ‘एतया निषादस्थपतिं याचयेत्’ इत्यत्र कर्मधारयसमासस्यैवाश्रयणात् तेन न्यायानुसारेण ब्रह्मैव लोको ब्रह्मलोक इत्यस्माभिर्व्याख्यातमिति न कश्चिद्दोषः। तदिदमाह–छान्दोग्येति। निर्णायकन्यायाभावे ह्यर्थान्तरमाशङ्क्यते। अस्य च ब्रह्मणः" सर्वाधारत्वेन लोकशब्दवाच्यत्वं च युज्यते।इममेवार्थमापस्तम्बोऽपि वदतीति दर्शयति–आपस्तम्ब इति। ‘स वै वैभाजनं पुरंस च भूतं" स भव्यम् ‘इति सर्वात्मभूतं ब्रह्मैव सर्वेषां पुरत्वेन प्रतिपादयति।स वैभाजनम्–सर्वेषां पदार्थांनां प्रत्येकविभजनेन स्थातुं" योग्यं स्थानम्। ‘पुः प्राणिनः सर्व एव गुहाशयस्य ’ इत्यप्याह।सर्वे प्राणिनो गुहाशयस्य परमात्मनः पुरमित्यर्थः।तेन प्राणिनः" परमात्मानः पुरमावासस्थानम्। तदपि—तथापि।तदपि—ब्रह्मापि।तेषां पुरंसर्वाधारत्वेन सर्वेषामस्मिन्वासात्।तेन ‘सर्वत्रासौ समस्तं" च वसत्यत्रेति वै यतः ’ इति वासुदेवशब्दार्थोऽनुस्मृतो भवति।
मूलम् - 113
- सर्वेशाधारतोक्त्या भवतु च हृदयव्योम तद्वाज्यधीतं
छान्दोग्यस्थो निषादस्थपतिनयपदं ब्रह्मलोकादिशब्दः।
आपस्तम्बश्च वैभाजनपुरमवदद्ब्रह्म सर्वात्मभूतं
पूतस्तस्य प्राणिनस्स्युस्तदपि तदपि हि स्यात् पुरं सर्ववासात्॥
विश्वास-प्रस्तुतिः - 114
- जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टे-
रल्पत्वाद्युक्तितश्चेत्यसदनुपधिकात्सत्यसङ््कल्पतादेः।
विश्वैकाधारतादेरपि स खलु परो दह्रतौपाधिकी स्यात्
प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते॥
३४-तमाहोबिल-यतिः - 114
- जीवस्तर्हीत्यादि। तर्हि —- अपहतपाप्मत्वादिगुणाधारत्वानुपपत्त्या प्रसिद्धाकाशस्य दहराकाशत्वेऽनुपपन्ने।एष आत्मा —- दहराकाशशब्दित एष आत्मा। गुणगणघटनात् —- अपहतपाप्मनत्वादिगुणगणोपपत्तेः। तत्परामर्शदृष्टेः —-‘एष आत्मा’ इति जीवस्यैव परामर्शदर्शनात्। अल्पत्वाद्युक्तितश्च – जीवात्मन्युपपन्नस्याल्पपरमाणत्वादेः ‘दहरोऽस्मिन्’ इत्यादिना अभिधानाच्च। जीवः —जीवात्मा भवतु। इत्यसत् – इति शङ्कनमसाधु। अनुपधिकात् सत्यसङ्कल्पतादेः — स्वाभाविकात् सत्यसङ्कल्पत्वादिगुणगणात्। आदिशब्देन सत्यकामत्वापगतपाप्मत्वादिग्रहणम्।जीवस्य स्वाभाविकसत्यसङ्कल्पत्वाद्यसम्भवात्। परमात्मप्रसादेन हि जीवस्य सत्यसङ्कल्पत्वादिकम्। अतो न तस्य तादृशसत्यसङ्कल्पतादिसम्भव इति भावः। विश्वैकाधारतादेरपि — ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते। अथ य आत्मा स सेतुर्विधृतिः’ इत्यादि वाक्यप्रतिपन्नात् विश्वैकाधारत्वादिधर्मादपि। स खलु — परमात्मैव खलु दहराकाशशब्दित आत्मेत्यभ्युपगन्तव्यम्। दह्वता परे औपाधिकी स्यात् – ‘दहरोऽस्मिन्’ इत्युक्ता सूक्ष्मता परमात्मनि हृदयावच्छेदरूपोपाधिप्रयुक्ता सती उपपन्नैव भवेत्। प्राजापत्ये वाक्ये —-‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामस्सत्यसङ्कल्पस्सोऽन्वेष्टव्यस्स विजिज्ञासितव्यस्स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच’ इत्युक्ते प्रजापतिवाक्ये ऽनन्तरपठिते। विमुक्ते — मुक्तात्मनि विषये।तद्गुणोक्तिस्तु – अपहतपाप्मत्वादिगुणप्रतिपादनं तु। परसमदशया — परमपुरुषप्रसादलभ्यया ‘निरञ्जनः परमं साम्यमुपैति’ इत्यादिश्रुत्युक्तया मुक्तिदशासम्बन्धिन्या परमात्मसाम्यदशया। तादृशदशाविवक्षयेति भावः। दहराकाशस्य तु स्वतस्सिद्धान्ते गुणाः उपाध्यकथनात् । प्रजापतिवाक्यप्रतिपाद्यस्य जीवात्मनस्तु तत्प्रकरणे बद्धदशाभिधानपूर्वकं ‘एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिसुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ इति परज्योतिः प्राप्यत्यन्तरमहतपाप्मनत्वादिस्वरूपाविर्भाववचनात् न स्वाभाविका इति भावः॥
कुमार-वरदः - 114
16.इत्थं दहराकशस्य प्रसिद्धकाशत्वमाशङ्क्य निराकृतम्।इदानीं जीवत्वमाशङ्क्य निराक्रियते–जीव इति।तर्हि गुणाधारत्वानुपपत्त्या प्रसिद्धकाशत्वे निवृत्तेऽप्यपहतपात्वादिगुणोपपत्तेः ‘एष आत्मा ’ इति जीवस्यैव परामर्शनात् ‘तत्रापि दह्रं गगनं विशोकः ’ इति अल्पप्रमाणत्वकथनाच्च जीव एव दहराकाशः स्यादित्याशङ्क्य प्रतिक्षिपति–असदिति।अत्र हेतुमाह–अनुपधिकादिति।स्वाभाविकादित्यर्थः।परमात्मनो हि स्वाभाविकं सत्यसंकल्पत्वादिकम्।जीवस्य तु तत्प्रसादलभ्यम्। ‘परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ’ इति वचनात्।किंच प्रपञ्चाधारत्वं परमपुरुषस्यात्र कथ्यतेतेनापि पर एव प्रतिपाद्यः। ननु दहरत्वमुक्तं" तस्य तत्कथमित्याशङ्क्य परिहरति—औपाधिकीति। नात्र परमात्मनः स्भाविकं दहरत्वमुच्यते अपितु हृदयावच्छेदनिबन्धनं तदुच्यत इत्यर्थः। ननु प्रजापतिवाक्ये जीवस्याप्यपहतपाप्मत्वादिगुणाष्टकमभिधीयते तेनापहतपाप्मत्वादीनां" भगवदसाधारण्यं कथं सिध्यतीत्याशङ्क्याह—प्राजापत्य इति। अयमर्थः—दहरवाक्यप्रकरणसमाम्नातं प्रजापतिवाक्यं दहरवाक्यशेषमेव तत्र प्रतिपाद्योऽपि जीवः परमपुरुषप्रसादलभ्यतत्साम्यदशयाऽपहतपाप्मत्वादिगतुणौधपरिकर्मितः स्यात्। तथा च न कश्चिद्दोषः॥
मूलम् - 114
- जीवस्तर्ह्येष आत्मा गुणगणघटनात्तत्परामर्शदृष्टे-
रल्पत्वाद्युक्तितश्चेत्यसदनुपधिकात्सत्यसङ््कल्पतादेः।
विश्वैकाधारतादेरपि स खलु परो दह्रतौपाधिकी स्यात्
प्राजापत्यात्तु वाक्यात्परसमदशया तद्गुणोक्तिर्विमुक्ते॥
विश्वास-प्रस्तुतिः - 115
- दह्राकाशोऽपवर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र
प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम्।
आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे
युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम्॥
३४-तमाहोबिल-यतिः - 115
- दह्वाकाश इत्यादि। अत्र – दहरविद्याप्रकरणे। सम्प्रसादोक्तिः —- ‘एष सम्प्रसादो अस्माच्छरीरात्’ इत्यादिनोपरितनप्रजापतिवाक्यप्रभृतिकप्रत्यगात्मविद्याप्रकरणस्थवाक्यतुल्येन वाक्येन सुषुप्तिस्थानवाचकसम्प्रसादशब्दलक्षितस्य जीवात्मनश्चरमशरीरत्यागपूर्वकपरज्योतिः प्राप्तिस्वरूपाविर्भावादिप्रतिपादनम्।दह्वाकाशोऽपवर्गप्रद इति गदितुम्— दह्वाकाशशब्दितस्य भगवतो मोक्षप्रदत्वरूपमहागुणं प्रतिपादयितुम्। प्राजापत्ये वाक्ये परपरिपठनं तु —-‘मधवन्मर्त्यं वा इदं शरीरम्’ इत्यादौ इन्द्रोद्देश्यकतया प्रवृत्ते प्रजापतिवाक्यसन्दर्भे ‘स उत्तमः पुरुषः’ इति वाक्ये उत्तमपुरुशपदेन परमात्मप्रतिपादनं तु। प्राप्यनिष्कर्षणार्थम्—— जीवात्मनः प्राप्यविशेषनिर्धारणार्थम्। जीवात्मनः प्राप्यः स्वभन्नः परमात्मैव स च पुरुषोत्तम एवेति विशेषप्रदर्शनार्थमिति भावः। तत् – तस्मात् कारणात्।एवम् — उक्तरीत्या। आकाङ्क्षाद्यैः —- परस्पराकाङ्क्षआसत्तियोग्यताभिः। वाक्ययुग्मे – दहरविधाप्रजापत्युपदिष्ट प्रत्यगात्मविघायवाक्यद्वयसन्दर्मे। परदितरयोरन्विते – परमात्मजीवात्मनोर्विषये समन्विते सति। अन्योन्यबाघप्रभृति – द्वयोर्वाक्ययोरन्योन्यस्मिन् अन्योन्यप्रसक्तयाभावरूपः, तन्मुलकं वाक्यभेदादिकं च। किमपि –प्रत्यगात्मविघायाः स्वतन्त्रविधात्मकत्वादिकं च। न युकयुग्म् – न युक्तिसहम्। सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यत इति न्यायादिति भावः। तत्सामरस्यं सौत्रं हि –तयोर्वाक्यसन्दर्भयोर्द्वयोरपि सामरस्यं साङ्गविघाकप्रधानैकविघानिष्ठत्वरूपमैकरस्यं सुत्रैरेव प्रतिपन्नं हि – उत्तराञ्चेदाविर्भुतस्वरूपस्तु। अन्यार्थश्च परामर्शः, इत्यादिसूत्रैस्तदेकवाक्यत्वप्रतीतिः सुलभैव इति भावः॥
कुमार-वरदः - 115
17.तर्हि प्रजापतिवाक्यं दहरवाक्यद्भिन्नमेव स्यात्, तत्प्रतिपाद्योऽपकि जीवः स्वतन्त्र एव स्यात् किमर्थं निराकाङ्क्षयोर्द्वयोरपि वाक्योः परस्परसंबन्धो भवद्भिरुपपाद्यत इत्याशङ्क्य परिहरति—दह्राकाश इति। नास्माभिरत्राकाङ्क्षा परिकल्प्यते अपितु वाक्यस्याभाव्यादेव। अत्र हि पूर्वस्मिन्वाक्ये प्रतिपन्नस्य भगवतो मोक्षप्रदत्वं प्रतिपादयितुं जीवकथनम्। संप्रसादो जीवः। भगवत्संबन्धज्ञानरसिकत्वेन प्रसन्नस्वभावत्वात्। उतरत्र प्रजापतिवाक्येऽपि प्रतिपाद्यस्य जीवस्य प्राप्यविशेषनिर्धारणार्थं तस्मिन्वाक्ये परमात्मपरिपठनम्। तद्वमाङक्षासत्तियोग्यत्वैरुभयोरपकि वाक्ययोरन्वितत्वे सति न वाक्यभेदः परिकल्प्यः। तथा च न पूर्वोत्तरवाक्ययोन्यबाधः शङ्क्यः" । नच नैरपेक्ष्यं परिकल्प्यम् ; संभवत्वेकवाक्यत्वे वाक्यभेदस्तु नेष्यत इति न्यायेनैकवाक्यत्वे संभवति वाक्यभेदाङ्गीकारस्यान्याय्यत्वात्। अतो द्वयोरपि वाक्ययोः सामरस्यमेव सूत्रकारः प्रोहेति दर्शयति—तदिति॥
मूलम् - 115
- दह्राकाशोऽपवर्गप्रद इति गदितुं सम्प्रसादोक्तिरत्र
प्राजापत्ये तु वाक्ये परपरिपठनं प्राप्यनिष्कर्षणार्थम्।
आकाङ्क्षाद्यैस्तदेवं परतदितरयोरन्विते वाक्ययुग्मे
युक्तन्नान्योन्यबाधप्रभृतिकमिह तत्सामरस्यं हि सौत्रम्॥