विश्वास-प्रस्तुतिः - 109
- लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्च
क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ।
नो चेद्भौमादिभोगप्रकरणविहतिर्बोभवीतीत्ययुक्तं
तस्मिञ्शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात्॥
३४-तमाहोबिल-यतिः - 109
- लक्षीभूत इत्यादि।इह –आथर्वणिकैः पठ्यमाने सत्यकामप्रश्ने ‘यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परमपुरुषमभिध्यायीत’ इत्यारभ्य ‘एतस्माजीवघनात् परात्परं पुरिशयं पुरुषमीक्षते’ इत्यादिवाक्ये। ध्यायतेरीक्षतेश्च —प्रथमतो ध्यानवाचिध्यैधातोः पश्चादीक्षणवाचीक्षणधातोश्च। लक्षीभूतः —ध्यानफलभूतत्वादीक्षणस्य विषयभूतः। अयं पुरुषः एकः खलु –उभयत्र द्वितीयान्तपुरुषशब्दवाच्य एकः खलु। ध्यानफलभूतत्वादीक्षणस्य यथाक्रतुन्यायेन ध्यातस्यैवेक्षणीयत्वमिति सर्वैरप्यङ्गीकरणीयं किलेत्यर्थः। सोऽयम् –एवं ध्यानेक्षणकर्मभूतोऽयं" पुरुषः।अण्डाधिपः क्षेत्रज्ञः —चतुर्मुखात्मा जीव एव। ‘परात्परं पुरिशयं पुरुषम्’ इति परात्परत्वं कथमित्यत्राह –असौ –अण्डाधिपतिश्चतुर्मुखः। इतरपरात् – अचेतनापेक्षया परभूतात्।स्वान्यजीवात् –स्वभिन्नजीववर्गात्। परः – पर एव। अतोऽस्मिन् परात्परत्वमुपपन्नम्। नो चेत् –एवं नाङ्गीक्रियते चेत्। भौमादिभोगप्रकरणविहतिर्बोभवीति —- एकमात्रद्विमात्रप्रणवोपासनयोः क्रमेण मनुष्यकोलप्राप्तिमन्तरिक्षलोकप्राप्तिञ्चाभिधाय त्रिमात्रप्रणवोपासनफलतया ‘स सामभिपुन्नीयते ब्रह्मलोकम्’ इति ब्रह्मलोकप्राप्तिं प्रतिपादयतः प्रकरणस्य विरोधो भवति। इत्ययुक्तम् — इति शङ्कनमसाधु। तस्मिन् –ध्यानेक्षणविषये परपुरुषे। शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात् –‘तमोङ्कारणैवायनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयमपरं च’ इति वचनेन ‘यत्तत्’ इति प्रसिद्धिसूचकयत्तत्पदघटितेन प्रतिपन्नयोः शान्तत्वमृतत्वप्रभृतिपरमात्मासाधारणगुण प्रसिद्धितदनुवादयोरसम्भवात्। अयुक्तमिति पूर्वेणान्वयः॥
कुमार-वरदः - 109
- सूत्रे ‘सः’ इति पुल्लिङ्गनिर्देशः परमपुरुषविवक्षया। पूर्वत्र खलु ‘अदृष्टो द्रष्टा’ इति परमात्मनोऽन्यैरदृष्टत्वमुक्तम्, तर्हीक्षतिकर्मत्वेनाभिधीयमानः परमपुरुषो म स्यादेवेति पूर्वपक्षोत्थानेन संगतिः। अथवा पूर्वत्राकाशशब्दस्यार्थविरोधादर्थान्तरपरत्वं" प्रत्यपादि, तद्वदेवान्तरिक्षशब्दस्यापि मुखान्तरेण निर्वाहः संभवेदिति शङ्कया संगतिरिति चाहुः। यद्वा आकाशशब्दस्याम्बरान्तपरत्वात् ब्रह्मलोकशब्दस्याप्यन्यथानिर्वाहोऽस्तीति सङ्गतिः। तदर्थविचारस्तु ’ यः पुनरेतं त्रिमात्रेणोमित्येनेनैवाक्षरेण परमपुरुषमभिध्यायीत’ इति निर्दिष्टः चतुर्मुख उत परमात्मेति। किं ‘पुरुषमीक्षते’ इत्यत्रेक्षतिकर्मत्वं चतुर्मुखस्य उत परमात्मन इति। किं जीवधनशब्देन चतुर्मुखस्यापि ग्रहणमस्ति नेति। किमत्र ब्रह्मलोकशब्दश्चतुर्मुखस्थानवचन उत परमव्योमवचन इति। ईक्षतिकर्मविषयतयोगाहृते श्लोके ‘यत्तत्कवया वेदयन्ते’ इति वैष्णवं पदं" प्रत्भिज्ञायते नेति। अत्र पूर्वपक्षमुक्त्वा क्रमेण प्रत्याचष्टे – लक्षीभूत इति। अस्मिन् प्रकरणे यथोपासनं फलमिति न्यायेन य एव ध्यानविषयस्स एव प्राप्य इति द्वयोरपि वादिनोः सम्मतो ध्यायतेरीक्षतेश्च विषयीभूतः पुरुषः। स तु मुख्यो जीव एक एव क्षेत्रज्ञः। स एवाण्डाधिपतिः। ‘परात्परं पुरिशयं पुरुषमीक्षते’ इति सैव ईक्षतिकर्मत्वेन व्यपदेशः। अस्य परात्परत्वं प्रकृत्यादिभ्यः परस्माज्जीवात्परत्वेन। इत्थमनङ्गीकारेण दोषमाह–नोचेदिति। परिहरति–अयुक्तमिति। प्रणवोपास्ये तस्मिन् परस्मिन् वस्तुनि शान्तामृतत्वादिपरमात्मगुणोपवर्णनस्य तदनुवादस्य चायोगात्। तेन परमात्मासाधारण गुणान्वयादेतत्प्रकरणप्रतिपाद्यः परमपुरुष एवेत्यर्थः॥
मूलम् - 109
- लक्षीभूतोऽयमेकः खलु पुरुष इह ध्यायतेरीक्षतेश्च
क्षेत्रज्ञस्सोऽयमण्डाधिप इतरपरात्स्वान्यजीवात्परोऽसौ।
नो चेद्भौमादिभोगप्रकरणविहतिर्बोभवीतीत्ययुक्तं
तस्मिञ्शान्तामृतत्वप्रभृतिपरगुणख्यात्यनूक्त्योरयोगात्॥
विश्वास-प्रस्तुतिः - 110
- नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्ष-
प्रत्यासत्त्या निवासस्सरसिजवसतेर्ब्रह्मलोकोऽस्तु मैवम्।
पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्वं
सोढव्यो मद्ध्यलोकैव्यवधिरिति समस्तत्समाधानमार्गः॥
३४-तमाहोबिल-यतिः - 110
- नन्वित्यादि नन्विति प्रश्ने। अत्र —निरुक्तप्रकरणे।ओङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्षिप्रत्यासत्त्या —- ओङ्कारसम्बन्ध्येकमात्राद्विमात्रत्रिमात्रारूपविभागत्रफलानुकथनप्रसक्तयोर्भूम्योन्तरिक्षयोः" प्रत्यासत्त्या तदूर्ध्ववर्तित्वरूपसम्बन्धवशेन। ब्रह्मलोकः —त्रिमात्रप्रणवोपासनफलतया निर्दिश्यमानो ब्रह्मलोकः।सरसिजवसतेः" –भगवन्नाभिकमलनिवासिनश्चतुर्मुखस्य। निवासोऽस्तु — वासस्थलभूतः सत्यलोक एवास्तु।मैवम् – एवं मा शङ्किष्ठाः। हि – यतः कारणात्। अयम् –ब्रह्मलोकः।पापोन्मुक्तेन सूर्यसम्पत्तिपूर्वं लभ्य इति कथितः – सर्वपापविनिर्मुक्तेन सूर्यसम्पत्तिपूर्वकं प्राप्य इति ‘स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं हैव स पाप्मना विनिर्मुक्तः सः" सामभिरुन्नीयते ब्रह्मलोकम्’ इति वाक्येन प्रतिपादितः। अतो मैवमिति सम्बन्धः। मध्यलोकैर्व्यवधिः सोढव्य इति त्तसमाधआनमार्गः समः" –अन्तरिक्षलोकब्रह्मलोकयोर्मध्यवर्तिभिः स्वर्गादिबहुलोकैर्व्यवधानं सोढव्यमिति प्रत्यासत्त्यनुबन्ध्याक्षेपसमाधानसरणिर्युषअमाकमस्माकं च तुल्यैव। ब्रह्मलोकशब्दस्यान्तरिक्षलोकप्रत्यासत्त्या चतुर्मुखलोकपरत्वं कथयतामपि व्यवधानरहितप्रत्यासत्तिर्न सिध्यति। मध्ये स्वर्गलोकादीनां बहूनां व्यवधायकत्वात्। तत्सहनरूपन्तु समाधानं युष्माकमस्माकं च तुल्यम्। ब्रह्मलोकशब्द्सय श्रीवैकुण्ठाख्यदिव्यलोकपरत्वे तु सर्वपापविनिर्मुक्तप्राप्यत्वं सूर्यसम्पत्तिसूचितार्चिरादिमार्गगम्यत्वं ‘कवयो वेदयन्ते’ इति प्रकरणवाक्यसिद्धसूरिजनदृश्यत्वञ्चेत्येवमादीनि बलीयस्तराणि सिङ्गानि। प्रथमश्लोके ‘नो चेद्भौमादिभोगप्रकरणविहति-’ इत्युक्तस्यैव प्रत्यासत्त्यनुबन्ध्याक्षेपस्य पक्षद्वयतुल्यतारूपं" साक्षात् समाधआनमस्मिन् श्लोके कृतमिति न पौनरुक्त्यशङ्कावकाशः॥
कुमार-वरदः - 110
12.अत्र चोदयति–नन्विति। पूर्वमेकद्विमात्रप्रणवोपासनफलतया निर्दिष्टभूम्यन्तरिक्षगणनानिर्दिष्टो ब्रह्मलोकः त्रिमात्रप्रणवोपासनफलतया निर्दिश्यमानः पूर्वोक्तप्रतयासत्त्या चतुर्मुखलोक एव स्यात्। न स्यादित्याह– मैवमिति।तत्र हेतुमाह–पापोन्मुक्तेनेति। अस्मिन्प्रकरणे सर्वपापविनिर्मुक्तस्य प्राप्यतया श्रूयमाणो ब्रह्मलोको न क्षयिष्णुचतुर्मुखस्थानं भवितुमर्हति। किं च ‘स तेजसि सूर्ये सम्पन्नः’ इति सूर्यसम्पत्तिपूर्वकं प्राप्यतया श्रूयमाणो ब्रह्मलोकः ‘संवत्सरादादित्यम्’ इत्यर्चिरादिमार्गप्रत्यभिज्ञानान्मुक्तप्राप्यो वैकुण्ठ एव स्यादिति। अस्मिन्नपि प्रकरणे ‘यत्तत्कवयो वेदयन्ते’ इति सूरिद्दस्यत्वमुच्यते। तदिदमाह—सूर्यसम्पत्तिपूर्वमिति। नन्वन्तरिक्षलोकप्रत्यासत्त्या चतुर्मुखलोक एव स्यादिति चेन्न ;मध्ये स्वर्गादीनां बहूनां लोकानां व्यवधानेन प्रत्यासत्तेरभावात्। तावद्व्वधानं सोढव्यमिति चेत् समः समाधिः। अत्र चतुर्मुखलोकव्यवधानामपि तदाह–सोढव्य इत्यादिना। किंचोपक्रमे ‘परमपुरुषमभिध्यायीत’ इतिध्यानविषयस्यैवेक्षतिकर्मत्वं वाच्यम्। अन्यथा तत्क्रतुन्यायविरोधः स्यादित्यादिदूषणमूह्यम् । तस्मादीक्षतिकर्मत्वेन व्यपदिश्यमानः परमात्मैवेति सिद्धम्॥
मूलम् - 110
- नन्वत्रोङ्कारमात्रात्रयफलगणनारूढभूम्यन्तरिक्ष-
प्रत्यासत्त्या निवासस्सरसिजवसतेर्ब्रह्मलोकोऽस्तु मैवम्।
पापोन्मुक्तेन लभ्यो ह्ययमिह कथितस्सूर्यसम्पत्तिपूर्वं
सोढव्यो मद्ध्यलोकैव्यवधिरिति समस्तत्समाधानमार्गः॥