21 अक्षराधिकरणम्

विश्वास-प्रस्तुतिः - 108
  1. प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधानं
    तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात्।
    मैवन्द्रष्टृत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या
    किञ्च द्रष्ट्रन्तरस्य व्युदसनमिह तत्तुल्यतद्द्रष्ट्रपोहः॥
३४-तमाहोबिल-यतिः - 108
  1. प्रख्यातेत्यादि। अक्षराख्यम् –‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इति गार्ग्या पृष्टेन याज्ञवल्क्येनाकाशाधारतया ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति। अस्थूलमनणु’ इत्यादिवाक्येनोक्तमक्षराख्यं वस्तु। प्रख्याताकाशपूर्वस्वविकृतिवहनात् –प्रसिद्धाकाशप्रभृतिस्वकार्यवहनात्।प्रधानम् –मूलप्रकृतिः ।तस्यापि —प्रधानस्यापि। आकाशतौक्तौ —कारणाकाशरूपत्वेन -‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इति वाक्यघटकाकाशपदवाच्यत्वाभिधाने।तत्तु—अव्याकृताकाशस्याप्याधारभूतमक्षरं तु।धृतनिखिलजगत् क्षेत्रितत्त्वं स्यात्—- प्रकृतेर्जीवाधीनत्वात् धृतनिखिलाचेतनवर्गं समष्टिजीवतत्त्वं स्यात्।मैवम्–एवं माशङ्किष्ठाः। अनितरवनियतैः —चेतनाचेतनयोरसम्भावितैः। द्रष्टृत्वपूर्वैः" – भगवदसाधारणैर्द्रष्टृत्वादिभिः। शासनायत्तधृत्या —‘सा च प्रशासनात्’ इत्युक्तरीत्या स्वशासनायत्तधारणेन च। मैवमित्यन्वयः।किञ्च—— युक्त्यन्यतरञ्चास्तीत्यर्थः। इह –अस्मिन्प्रकरणे। द्रष्टृन्तरस्य व्युदसनं व्युदासः।दृश्यत इति शेषः। तत्तु परमात्मपक्ष एव सम्भवति नपुनर्जीवपक्षे द्रष्टुर्दजीवादन्यस्य सर्वद्रष्टुः परमात्मनो विद्यमानत्वात्। तेनतत् — द्रष्ट्रन्तरनिराकरणम्।तुल्यतद्द्रष्ट्रपोहः" –विश्वाधारतया नियन्तृभूतपरमात्म तुल्येश्वरान्तर निराकरणरूपमेवेत्यर्थः॥
कुमार-वरदः - 108

10.पूर्वाधिकरणे स्वमहिमप्रतिष्ठितत्वमुक्तम्। तत्तु परमपुरुषव्यतिरिक्तेऽपि श्रूयत इति पूर्वपक्षोत्थानेन संगतिः। अथवा ’ येनाक्षरं" पुरुषं वेद सत्यम्’ इति सत्याक्षरशब्दाभ्यां निर्दिश्य परस्य ब्रह्मणः सत्यशब्दवाच्यत्वं पूर्वत्र प्रतिष्ठापितम्, अत्राक्षरशब्दवाच्यत्वं" प्रतिष्ठाप्यत इति वा संगतिः। एवंवा— पूर्वं जीवनिरासः, इह तु जीवप्रधानयोर्द्वयोरपि निरास इति। तदर्थविचारस्तु ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ इति वाक्ये पुनरक्षरशब्दनिर्दिष्टं प्रधानं वा जीवो वा परमपुरुषो वेति। तदर्थं चिन्त्यते–‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इत्यत्र प्रतीयमानमाकाशाधारत्वं किं प्रधानस्य किं वा जीवस्य उत परमात्मन एवेति। किमत्राकाशशब्दनिर्दिष्टो भूताकाश उत अव्याकृताकाश इति। अत्र पूर्वपक्षसिद्धान्तावनुक्रमेणाचष्टे –प्रख्यातेति।‘कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ इत्यादौ प्रसिद्धाकाशपूर्वस्वकार्यवहनादक्षरशब्दवाच्यं" प्रधानमेवेत्येकः पक्षः। तस्यापि प्रधानस्य कारणाकाशत्वेन आकाशत इति व्युत्पत्त्या अवधारितस्याप्याधारत्वेनाभिधीयमानमक्षरं धृतनिखिलजगत् समष्टि जीवतत्त्वमेव स्यात् प्रकृतेर्जीवाधिष्ठानत्वात्। पक्षद्वयमपि व्युदस्यति–मैवमिति। तत्र हेतुमाह–द्रष्टृत्वेति।चेतनाचेतनयोरसंभावितैः" सर्वद्रष्टृत्वादिभिर्धर्मैर्भगवदसाधारणैः ‘सा च प्रसाशनात्’ इत्युक्त प्रकारेण स्वशासनायत्तधारणाच्च। किंच अस्मिन्प्रकरणे द्रष्ट्रन्तरस्य व्युदसनं दृश्यते। तत्तु परमात्मनपक्ष एव संभवति, न पुनर्जीवपक्षे द्रष्टुर्जीवादन्यस्य सर्वद्रष्टुः परमात्मनो विद्यमानत्वात्। तेन द्रष्ट्रन्यरनिराकरणमीश्वरान्तरनिराकरणमेव। तदिदमाह– द्रष्ट्कन्तरस्येति। विश्वाधारतया नियन्तृत्वेन विश्वद्रष्टुः परमपुरुषसादन्यस्य द्रष्टुर्व्युदसनं परमपुरुषाधिकतया परमपुरुषनियन्तृत्वेन- -अवस्थिततत्सदृशेश्वरान्तरनिरास इत्यर्थः॥

मूलम् - 108
  1. प्रख्याताकाशपूर्वस्वविकृतिवहनादक्षराख्यं प्रधानं
    तस्याप्याकाशतोक्तौ धृतनिखिलजगत् क्षेत्रितत्त्वन्तु तत्स्यात्।
    मैवन्द्रष्टृत्वपूर्वैरनितरनियतैश्शासनायत्तधृत्या
    किञ्च द्रष्ट्रन्तरस्य व्युदसनमिह तत्तुल्यतद्द्रष्ट्रपोहः॥